← अध्यायः २१ भार्गवतन्त्रम्
अध्यायः २२
[[लेखकः :|]]
अध्यायः २३ →
भार्गवतन्त्रस्य अध्यायाः

।। द्वाविंशोऽध्यायः ।।
[विविधप्रायश्चित्तनिरूपणाध्यायः]
[पूजावैकल्यादौ निष्कृतिविषयकः सामान्यः प्रश्नः]

अगस्त्यः
नित्यनैमित्तिकाद्यानां पूजानां भगवन् प्रभो।
वैकल्ये वाथवा लोपे निष्कृतिस्तत्र का भवेत् ।। 22.1 ।।

[अशुद्धदेहेन संपादिते अर्चने प्रायश्चित्तम्]

श्रीरामः
शृणुष्व मैत्रावरुणे सर्वं वक्ष्ये यथाक्रमम्।
कर्माणि येन पूर्यन्ते येन तुष्टो भवेद्धरिः ।। 22.2 ।।
अस्नातोऽनुपनीतो वा तिलकेन विवर्जितः।
वसानो मलिनं वस्त्रं क्लिष्टवासोऽपवित्रकः ।। 22.3 ।।
प्रलयादिक्रमाद्देहमसंशोध्य समाधिना।
मन्त्रन्यासमकृत्वा च पूजिते च जगत्प्रभौ ।। 22.4 ।।
जपेदष्टाक्षरं मन्त्रम् अष्टोत्तरशतं बुधः।

[अशुद्धपादादिसमर्चने प्रायश्चित्तम्]

पादौ हस्तावसंशोध्य अनाचम्य समर्चने ।। 22.5 ।।
 (a: M. जपेत्वo for जपेदo;)
  (b: M. बुधैः for बुधः;)
जपः पञ्चोपनिषदां नग्नो मुक्तशिरोरुहः।

[श्वसनादिपूर्वकसम्पादिते अर्चने प्रायश्चित्तम्]

श्वसन् हसन् वा कुप्यन् वा स्विन्नाङ्गः प्रलपन्नपि ।। 22.6 ।।
अर्चयेद्देवदेवेशं शतमस्त्रमनुं जपेत्।

[लोमादिस्पर्शनादिपूर्वकभगवदर्चने प्रायश्चित्तम्]

लोमलोष्ठास्थिकेशादिस्पर्शनेनैव निष्क्रिया।। 22.7 ।।
अनाप्लुत्य स्त्रियं गत्वा पूजयेत्पुरषोत्तमम्।
स्नापयेत्पञ्चगव्येन पञ्चोपनिषदं जपेत् ।। 22.8 ।।

[रजस्वलावस्त्राद्यस्पर्शानन्तरं सम्पादिते अर्चने प्रायश्चित्तम्]

एवं रजस्वलावस्त्रं स्पृष्ट्वा देवसमर्चने।
वेदविक्रयचण्डालयूपश्वानरजस्वलाः ।। 22.9 ।।
 (d: M.T. धूप for यूप;)
काकपाषण्डपतितप्रतिलोमखरादिकान्।
चैत्यवृक्षं चितिं स्पर्शायोग्यं स्पृष्ट्वा समर्चने ।। 22.10 ।।
 (c: A. चितिस्पर्शम् for चितिं स्पर्शा;)
  (d: A. योग्यम् for अयोग्यम्;)
पञ्चवारुणिकैर्मन्त्रैः स्नपनं कुशवारिणा।
क्षीरेण स्नापयेद्देवं सकेशकुसुमार्चने ।। 22.11 ।।

[मलमूत्रादिरूषिते बिम्बे भगवदर्चने निष्कृतिः]

रूषितैर्मलमूत्राद्यैः पूजिते परमेश्वरे।
स्त्रीभिर्वानुनीतैर्वा बिम्बे स्पृष्टेऽपि वाचरेत् ।। 22.12 ।।
कुशोदकेन स्नपनं मन्त्रेण परमेष्ठिना।

[दुष्टान्ननिवेदिते प्रायश्चित्तम्]

म्लेच्छपुल्कसचण्डालप्रतिलोमानुलोमजैः ।। 22.13 ।।
अस्पृश्यैरपि शूद्राद्यैराचाररहितै द्विजैः।
श्वभिः सृगालैश्च खरैः स्पृष्टमन्नं निवेदितम् ।। 22.14 ।।
अयाज्ञियैः कोद्रवाद्यैः हविः कृत्वा निवेदितम्।
प्रमादेन घृतस्नानं स्नानमुष्णाम्बुभिस्ततः ।। 22.15 ।।

[अत्युष्णादिहविर्निवेदने प्रायश्चित्तम्]

अत्युष्णमतिशीतं वा विना शाकादिभिस्तु वा।
हविर्निवेदने कुर्यात् `पञ्चोपनिषदां' शतम् ।। 22.16 ।।

[शवादिदूषितो ग्रामे प्रायश्चित्तम्]

शवादिदूषिते ग्रामे पक्वान्नं विनिवेदयेत्।
पयसा स्नपनं कृत्वा `पञ्चोपनिषदां' जपः ।। 22.17 ।।

[पूजारंभानन्तरं मरणाशौचे विधिः]

आरब्धायां तु पूजायामन्तरा म्रियते यदि।
तन्त्रेण सकलं कृत्वा देवदेवे समापयेत् ।। 22.18 ।।
न स्नानादिक्रिया तत्र न होमो न बलिर्महः।
नैवेद्यमेकं कुर्वीत तत्तन्त्रमिति कथ्यते ।। 22.19 ।।

[निवेदितस्य अन्यस्मै निवेदने प्रायश्चित्तम्]

भूयो निवेदयेत्पूर्वम् अन्यस्मै वा निवेदितम्।
कुशोदकैः स्नापयित्वा `मूलमन्त्रा'युतं जपः ।। 22.20 ।।
 (c: A. कुशोदके for कुशोदकै;)

[अन्यदेवार्चनप्रयुक्तसाधनोपयोगे प्रायश्चित्तम्]

अन्यदेवार्चितं पुष्पम् अन्यदीयं रथादिकम्।
पूजादिषूपयुक्तं चेत् गन्धवस्त्रादिकं तथा ।। 22.21 ।।
 (c: M. उपयुक्तः T. उपयुक्ताः for उपयुक्तम्;)
कल्याणस्नपनं कृत्वा `मूलमन्त्रं' शतं जपेत्।

[कृम्यादिदूषितपुष्पाद्युपयोगे प्रायश्चित्तम्]

कृमिकीटादिभिर्दुष्टमन्यदेवाय निर्मितम् ।। 22.22 ।।
 (b: M. मन्त्रo for मन्त्रम्;)
पूजादिषूपयुक्तं चेत् दध्ना स्नानं समाचरेत्।

[समर्पितावशेषोपयोग प्रायश्चित्तम्]

भुक्तशेषेण वा विष्णोर्दत्तशेषेण वा पुनः ।। 22.23 ।।
`मूलमन्त्र'सहस्र तु जपेदष्टोत्तरं बुधः।

[पूजायां पर्युषितोदकोपयोगे प्रायश्चित्तम्]

पूजायां स्नपने वापि यदि पर्युषितोदकम् ।। 22.24।।
 (a: T. सहस्रान्तम् for सहस्रे तु;)
योजयेच्छान्तये तस्य कुशोदकघटाप्लवः।

[मलादिदुष्टवस्तुप्रयोगे प्रायश्चित्तम्]

मलमूत्रादिदुष्टेन वस्तुना पूजिते यदि ।। 22.25 ।।
स्नापयेद्वैष्णवैः कुम्भैः पुनः पूजादि कारयेत्।

[कूपदोषे प्रायश्चित्तम्]

शवादिदूषितात् कूपात् जलं सर्वं समुद्धरेत् ।। 22.26 ।।
 (c: T. कुंभात् for कूपात्;)
पुण्याहं वाचयित्वान्ते प्रोक्षयेज्जलशुद्धये।

[विहितोपचारभङ्गे प्रायश्चित्तम्]

क्लृप्तोपचारभङ्गे तु द्विगुणं कारयेत्ततः ।। 22.27 ।।
शान्तयेऽष्टोत्तरशतं `मूलमन्त्रं'जपेत्सुधीः।

[पूजावैकल्यादौ प्रायश्चित्तम्]

वैकल्ये देवदेवस्य पूजायाः द्विगुणार्चनम् ।। 22.28 ।।
 (d: M.T. पूजया for पूजाया;)
पूजावैकल्यकालानां द्विगुणैर्वस्तुभिः पुनः।
प्रायश्चित्तावसाने तु पूजयेत्परमेश्वरम् ।। 22.29 ।।
 (d: T. पूरयेत् for पूजयेत्;)

[पूजाकालवैकल्ये प्रायश्चित्तविधिः]

एकाहपूजावैकल्ये स्नपनं शान्तिवारिणा।
दिनमेकमतिक्रम्य वैकल्यञ्चेद्दिनत्रये ।। 22.30 ।।
 (d: A. वैकल्यः for वैकल्यम्;)
  (M. त्रयम् for त्रये;)
मङ्गलोदककुंभेन स्नपनं कारयेत्सुधीः।
अत ऊर्ध्वं द्वादशाहं पूजावैकल्यसंभवे ।। 22.31 ।।
स्नापयेत्सर्वगन्धेन पक्षान्तं विकले सति।
मूलौषधीभिः स्नपनं मासं पूजाविपर्यये ।। 22.32 ।।
ब्राह्मेण कारयेत्स्नानं वत्सरान्तं यदा भवेत्।
स्नापयेत्पारमेष्ठेन वत्सरद्वयलङ्घने ।। 22.33 ।।
 (b: A. यथा for यदा;)
वासुदेवं भवेत्स्नानं ततः संवत्सरावधि।
संप्रोक्षणं प्रकुर्वीत प्रतिष्ठावत्सरत्रयात् ।। 22.34 ।।
प्रायश्चित्तेषु सर्वेषु कुर्याद्‌ब्राह्मणभोजनम्।

[अशास्त्रीयपूजादौ प्रायश्चित्तम्]

अशास्त्रीयेण पूजां वा बलिं वा होमकर्म वा ।। 22.35 ।।
कुरुतेऽक्षततोयेन स्नपनं तस्य निष्कृतिः।
एवं बहुदिने जाते विधिवर्जितपूजने ।। 22.36 ।।
 (c: T. oविधे for oदिने;)
स्नापयेद्वासुदेवेन तेन शान्तिर्भविष्यति।

[अग्निदोषे प्रायश्चित्तम्]

अस्पृश्यस्पर्शने वह्नेः कृमिकेशादिदूषणे ।। 22.37 ।।
अष्टोत्तरशतं होमो व्याहृत्या तेन शाम्यति।
चण्डालसूतकोदक्यांशवपुल्कसदूषिते ।। 22.38 ।।
अयुतं होम उदितो व्याहृत्या हव्यवाहने।

[परिवारार्चननाशादौ प्रायश्चित्तम्]

परिवारार्चने नष्टे भङ्गे वा बलिकर्मणः ।। 22.39 ।।
 (a: A. व्यावृत्या for व्याहृत्या;)
तत्तन्मन्त्रेर्यथाकालं द्विगुणीकृत्य पावके।
जुहुयाच्छान्तये तेषां समिधा वा घृतेन वा ।। 22.40 ।।
 (d: M.T. समिदा for समिधा;)

[बलिद्रव्यबलिबिम्बपतने प्रायश्चित्तम्]

पतिते तु बलिद्रव्ये पुनरन्येन कारयेत्।
शान्तये स्नपनं कुर्यात् नारिकेलाम्भसा हरेः ।। 22.41 ।।
बलिबिम्बे निपतिते यानादेः स्थापयेत्पुनः।
बलिशेषं समाप्याथ वैष्णवं स्नपनं चरेत् ।। 22.42 ।।

[अज्ञातजातिचौरैः स्पृष्टे बिम्बे प्रायश्चित्तम्]

अज्ञातजातिभिश्चोरैः स्पृष्टे बिम्बे जगत्पतेः।
प्राजापत्यं प्रकुर्वीत स्नपनं तस्य शान्तये ।। 22.43 ।।

[मृण्मयादिबिम्बदोषे प्रायश्त्तिम्]

मृण्मयं चित्रलिखितं कौतुकं च त्रिवस्तुकम्।
चण्डालाद्यैर्दुषितं चेत् त्यक्त्वा सर्वं पुनः सृजेत् ।। 22.44 ।।

[अस्पृश्यैः स्पृष्टे बिम्बे प्रायश्चित्तम्]

बिम्बे पातकिभिः सपृष्टे ब्राह्मं स्नपनमाचरेत्।
शूद्रेण कौतुके स्पृष्टे पुण्येन स्नापयेद्धरिम् ।। 22.45 ।।
सामान्यैर्ब्राह्मणैः स्पृष्टे कौतुके परमेष्ठिनः।
स्नापनं कुशतोयेन तस्य निष्कृतये भवेत् ।। 22.46 ।।
दुष्टस्त्रीभिस्तथाऽस्पृश्यैः कुण्डेर्वा गोलकैस्तु वा।
स्पृष्टे तच्छान्तये कुर्यात् पुण्येन स्नपनं हरेः ।। 22.47 ।।

[वैश्यादिभिः गर्भगेहप्रवेशे प्रायश्चित्तम्]

वैश्यशूद्रानुलोमाद्यैर्गर्भगेहप्रवेशने।
स्त्रीभिर्वा पञ्चगव्येन प्रोक्षणं तत्र कल्पयेत् ।। 22.48 ।।
गर्भगेहप्रवेशश्चेत् चण्डालैः पुल्कसादिभिः।
मृदादिकौतुकं त्याज्यं क्षालयेत् गोमयाम्बुभिः ।। 22.49 ।।
 (a: M.T. प्रवेशं for प्रवेशः;)
  (c: M. मृगादि for मृदादिo;)
प्रोक्षयेत्पञ्चगव्येन पुण्याहं वाचयेत्ततः।
पुनः सृष्ट्वा यथापूर्वं सर्वमन्यद्यथा पुरम् ।। 22.50 ।।
शैलादीनां तु बिम्बानां स्पर्शे ब्राह्मं समाचरेत्।
अशौचवत्प्रवेशेऽपि स्नानं चण्डालवत् स्मृतम् ।। 22.51 ।।
 (c: A. आशौच for अशौचo)

[शूद्रादिभिः सम्पादिते कर्मणि प्रायश्चित्तम्]

शूद्रपुल्कसचण्डालयवनाशौचिपापिनः।
कर्मस्वधिकृता ज्ञानादज्ञानात्कामतोऽपि वा ।। 22.52 ।।
कुर्वीरन् यदि कर्माणि शोधयेन्मन्दिरं ततः।
पुण्याहं वाचयेत् पश्चात् वेदान् विप्रैश्च घोषयेत् ।। 22.53 ।।
 (a: A. कार्याणि for कर्माणि;)
स्नापयेद्वासुदेवेन कुर्याद्‌ब्राह्मणभोजनम्।

[मन्दिरे चाण्डालादिप्रवेशे प्रायश्चित्तम्]

चण्डालपुल्कसस्वानसृगालाशौचिगर्दभैः ।। 22.54 ।।
धामावरणभूभागे प्रविष्टे निष्कृतिं शृणु।
प्रोक्षणं पञ्चगव्येन पुण्याहं वाचयेत्ततः ।। 22.55 ।।
स्पर्शे तत्रत्य बिम्बानां परिवारगणस्य वा।
पीठानां वा यथापूर्वं कृत्वा कुर्याच्च निष्कृतिम् ।। 22.56 ।।

[खद्योतस्पर्शादौ प्रायश्चित्तम्]

खद्योतवर्षसंस्पर्शे यात्रायामथवाग्निना।
कुर्वीत पुण्यस्नपनं दग्धश्चेत् सर्वथा ततः ।। 22.57 ।।
 (d: M. दग्ध्यं T. दग्धं for दग्धः;)
पुनर्निर्माय विधिवत् यथापूर्वं समाचरेत्।
स्नापयेद्वासुदेवेन प्रतिष्ठान्ते जगत्पतिम् ।। 22.58 ।।
स्थापिते यागशालायां कलशेऽग्नौ प्रतिष्ठिते।
चण्डालप्रतिलोमाद्यैरस्पृश्यैरितरैरपि ।। 22.59 ।।
 (a: M. निर्मीय for निर्माय;)
स्पष्टे त्यक्त्वापरं स्थाप्य मूलेनाष्टौ शताहुतीः।
तत्तद्देवतमन्त्राणि जपेदष्टोत्तरं शतम् ।। 22.60 ।।
 (c: A. मन्त्रेण for मन्त्राणि;)
स्नपने वापि यात्रायां पतिते कौतुके भुवि।
पुनः संस्थाप्य तद्विम्बं पुण्यस्नपनमाचरेत् ।। 22.61 ।।
मण्डूकमूषिकाद्यैस्तु सर्वैर्मार्जारकादिभिः।

[चाण्डालादिभिःकलशादिस्पर्शे प्रायश्चित्तम्]
स्थापिते कलशे स्पृष्टे नष्टे वा तं परित्यजेत् ।। 22.62 ।।
कुंभान्तरं तु संस्थाप्य तत्तदावाहनं चरेत्।
तद्दैवत्यान् जपेन्मन्त्रान् ध्वजपूर्वे महोत्सवे ।। 22.63 ।।
 (c: M.T. देवतान् for दैवत्यान्;)
स्खालित्यं यदि जायेत पुष्पयागेन शाम्यति।
हीननित्योत्सवे धाम्नि कार्यं न ध्वजपूर्वकम् ।। 22.64 ।।
 (d: M.T. काम्यं for कार्यम्;)
उत्सवं कारयेद्धीमान् कृते तन्निष्कृतये पुनः।
स्नानेन पारमेष्ठ्येन प्रीणयेत्परमेश्वरम् ।। 22.65 ।।
 (b: M> निष्क्रिये for निष्कृतये;)

[स्नपनादौ बिम्बपतने प्रायश्चित्तम्]

महोत्सवे वर्तमाने ध्वजे केनापि हेतुना।
नष्टे ध्वजान्तरं कृत्वा भोजयेद्‌ब्राह्मणान् बहून् ।। 22.66 ।।
ध्वजे तु पतिते भूमौ हेतुना येन केन वा।
पुनरारोप्य तं पश्चात् विप्रेभ्यो भूरिभोजनम् ।। 22.67 ।।
भङ्गच्छिद्रादिविषये वर्णलोपादिसंभवे।
संधाय च यथायोगं संप्रोक्ष्य विधिपूर्वकम् ।। 22.68 ।।
 (a: T. वर्ण for भङ्गo;)
पुनरारोप्य तच्छान्त्यै ब्राह्मणेभ्योऽन्नतर्पणम्।
चण्डालादिप्रवेशेन यथाकुंभान्तरं भवेत् ।। 22.69 ।।

[चाण्डालादिभिः पालिकादिस्पर्शे प्रायश्चित्तम्]

तथैव पालिकादीनां मृण्मयानां भवेद्‌ध्रुवम्।
अङ्कुराण्यर्पयेद्भूयः तच्छान्त्यै विप्रभोजनम् ।। 22.70 ।।

[अङ्कुरे अप्राशस्त्यादौ प्रायश्चित्तम्]

अङ्कुरेष्वप्रशस्तेषु मूषिका पशुवाजिभिः।
भक्षितेष्वपि तच्छात्यै वल्मीकादिसमुद्भवे ।। 22.71 ।।
शान्तिहोमो व्याहृतिभिः ब्राह्मणानां च भोजनम्।

[ग्रामादिरहिते मन्दिरे परिक्रमणविधिः]

ग्रामादिरहिते धाम्नि धामन्येन परिक्रमः ।। 22.72 ।।
 (d: M. धाम्नि for धामनि;)

[महोत्सवे वर्षादिभिः शैथिल्ये प्रायश्चित्तम्]

महोत्सवे वर्तमाने वर्षवातानलादिभिः।
ग्रामादौ शिथिले पश्चात् प्रायश्चित्तं पुनर्महः ।। 22.73 ।।
 (b: T. पात for वात;)
प्राजापत्यविधानेन स्नपनं निष्कृतिर्भवेत्।

[उत्सवे विघ्ने संजाते सति प्रायश्चित्तम्]

उत्सवे दैवयोगेन विघ्निते मानुषेण वा ।। 22.74 ।।
बलिमेव क्षिपेद्धाम्नि ग्रामे वीथ्यां चतुर्दिशम्।
नष्टकर्माण्यशेषाणि पुनः कृत्वा यथापुरम् ।। 22.75 ।।
कर्तव्यमखिलं पश्चात् कुर्याद्विध्युक्तवर्त्मना।
बलिप्रदानेऽप्यकृते अतिक्रान्तं पुराचरेत् ।। 22.76 ।।
 (b: A. वा for विध्युo;)
  (c: M. प्रकृते for प्यकृते;)
अन्यद्यथावत कर्तव्यं महावाताद्युपद्रवे।
चण्डप्रचण्डयोरेव भूतेभ्यश्च तदन्तरे ।। 22.77 ।।

[तीर्थयात्राहीने उत्सवे प्रायश्चित्तम्]

हीनायां तीर्थयात्रायां स्नपनं वासुदेवजम्।

[उत्सवबिम्बचौर्यादौ विधिः प्रायश्चित्तञ्च]

नष्टे चोरादिभिर्बिम्बे कुर्यात्कर्मार्चया महः ।। 22.78 ।।
 (c: A. नले for नष्टे;)
बिम्बे तु पतिते वीथ्यां यानमारोप्य तत्पुनः।
वीथीपरिक्रमं कृत्वा प्राजापत्यमथाचरेत् ।। 22.79 ।।
पतनेनाङ्गहीनं चेत् कुर्यात् कर्मार्चया महः।
सन्धाय विधिवत् सर्वमन्यत् कार्यं विचक्षणैः ।। 22.80 ।।
 (a: A. हाने for हीनं;)
  (c: M. कार्यम् for सर्वम्;)
  (d: T. सर्वम् for कार्यम्;)
यानभङ्गे नयेद्देवं यानेनान्येन केनचित्।

[कर्माधिकृतजने विघ्निते विधिः]

कर्मण्यधिकृता ये च प्रतिष्ठायाः सवस्य वा ।। 22.81 ।।
दैवाद्वा मानुषाद्यद्वा विघ्निता यदि कारणात्।
तां क्रियां पूरयेदन्यैः सदृशैरधिकारिभिः ।। 22.82 ।।

[पवित्रादिन्यूनाधिक्ये पायश्चित्तम्]

पवित्रभूषणानां वा कुण्डानां मण्डलस्य वा।
न्यूनातिरेकशान्त्यर्थमस्त्रमन्त्रं शतं जपेत् ।। 22.83 ।।
 (d: T. अस्त्रमस्त्रम् for अस्त्रमन्त्रम्;)

[जलाधिवासहीनप्रतिष्ठायां प्रायश्चित्तम्]

जलाधिवासरहितं प्रतिष्ठा कारिता यदि।
स्नपनं पारमेष्ठ्येन `मूलमन्त्रं' शतं जपेत् ।। 22.84 ।।
 (a: b: c: om. T;)

[क्लेशवासावध्यतिक्रान्ते प्रायश्चित्तम्]

मासादूर्ध्वं द्वादशाब्दादर्वाक्क्लेशं सहेद्धरिः।
अत ऊर्ध्वं क्लेशवासं वासुदेवो न मन्यते ।। 22.85 ।।
क्लेशावधावतिक्रान्ते कुर्यात् बालालयान्तरम्।
प्रायश्चित्तं वासुदेवं स्नपनं परिकल्पयेत् ।। 22.86 ।।
 (a: M.T. oवीतिकृते for oवतिक्रान्ते;)

[सिद्धान्तानां परस्परसांकर्ये प्रायश्चित्तम्]

सिद्धान्तानां तु सर्वेषां संकरो जायते यदि।
परस्परं वा तन्त्राणां पारमेष्ठ्यं तु निष्कृतिः ।। 22.87 ।।

[मन्त्रसिद्धान्तस्वरूपम्]

परिवारयुता वापि विना वा तैः समर्च्यते।
मन्त्रसिद्धान्तमित्युक्तं मूर्तिरेकैव नान्यथा ।। 22.88 ।।

[आगमसिद्धान्तस्वरूपम्]

वासुदेवादयो व्यूहाः परिवारविवर्जिताः।
चत्वारो यत्र पूज्यन्ते सिद्धान्तं स्यात्तदागमम् ।। 22.89 ।।

[तन्त्रसिद्धान्तस्वरूपम्]

वासुदेवादिभिः सार्धं नारायणहयाननौ।
विष्णुश्च नरसिंहश्च मूर्तयो नव सूकरः ।। 22.90 ।।
 (d: M.T. यत्रतत् for सूकरः;)
पूज्यन्ते परिवारैश्च सिद्धान्तं तन्त्रसंज्ञितम्।

[तन्त्रान्तरसिद्धान्तस्वरूपम्]

नृसिंहकपिलक्रोडहंसवागीश्वरादयः ।। 22.91 ।।
 (b: M. संज्ञिकम् for संज्ञितम्;)
वक्तृभेदेन पूज्यन्ते द्वित्र्यादिवदनास्तथा।
एकैव मूर्तिस्तत्रापि परिवारैर्विनापि वा ।। 22.92 ।।
 (a: M. वक्त्र for वक्तु;)
तत्तन्त्रान्तरमुद्दिष्टं तन्त्रमेतच्चतुर्विधम्।

[सिद्धान्तादीनां परस्परसांकर्यनिषेधः]

सिद्धान्तानां च तन्त्राणां साङ्कर्यं व्यसनाय तत् ।। 22.93 ।।
 (b: T. चतुष्टयम् for चतुर्विधम्;)
  (c: T. वा, M. वापि for च;)

तस्मादसंकरेणैव पूजयेत्परमेश्वरम्।

[तन्त्रचतुष्टयं सांकर्यदोषः एकत्रैकस्यैव ग्राह्यत्वञ्च]

वैखानसं पाञ्चरात्रं भार्गवं शैवमित्यपि ।। 22.94 ।।
तन्त्राण्यमूनि चत्वारि प्रशस्तान्यर्चनाविधौ।
असंकरेण देवेशमर्चयेत्पुरुषोत्तमम् ।। 22.95 ।।
साङ्कर्यं यदि जायेत प्रतिष्ठोत्सवकर्मसु।
पूजायां स्नपनादौ वा राजराष्ट्रक्षयो महान् ।। 22.96 ।।
तस्मादसंकरेणैव तथैवान्याधिकारिणाम्।
अस्पर्शनेन कुर्वीत कर्मजालं यथाविधि।। 22.97 ।।
कर्षणादिप्रतिष्ठान्ता क्रिया येन पुरातनी।
तेनैव पुनरुद्धारे नान्यथा परिकल्पयेत् ।। 22.98 ।।
 (a: T. अर्पण for कर्षण;)
सा मूर्तिस्तच्च तन्त्रं च स एव स्थापकः पुनः।
पुनः प्रकल्पनेनैव क्रियाजालविपर्ययः ।। 22.99 ।।

[अज्ञाताधिकारिजीर्णमन्दिरादौ विधिः]

लुप्ते पुरातने धाम्नि प्रतिमा वा पुरातनी।
न ज्ञायते चाधिकारी पुनः सृष्टिर्यथेच्छया ।। 22.100 ।।
 (a: A.M. सर्वात्मना for पुरातने;)
  (c: A. ऽधिकारीच for चाधिकारी;)

[ज्ञाताधिकारिमन्दिरादौ पूजालोपादौ विधिः]

अधिकारी परिज्ञातः अजीर्णं ध्रुवकौतुकम्।
मन्दिरं च मनोहारि पूजालोपश्चिरादभूत् ।। 22.101 ।।
पूर्वतन्त्रानुरोधेन भूयस्तेनाधिकारिणा।
कुर्वीत सकलं कर्म राष्ट्रक्षोभो विपर्यये ।। 22.102 ।।
 (d: M.T. क्रोध for क्षोभ;)

[तन्त्रान्तरानुसारं भगवतः आराधनावसरः]

क्लेशवासं गते देवे ग्रामे वा पत्तनेऽपि वा।
आमूलकर्मनिर्वृत्तिर्न कुर्यात्तत्र मङ्गलम् ।। 22.103 ।।
 (c: A. धाम for कर्म)
किं पूनर्देवदेवस्य पूजावैकल्यसंभवे।
तस्मात् सर्वात्मना तीव्रं संप्रोक्ष्याथ समर्चयेत् ।। 22.104 ।।
हेतुना येन केनापि पूजालोपे तु शार्ङ्गिणः।
तन्त्राधिकार्यलाभश्चेत् यजमानेच्छयार्चनम् ।। 22.105 ।।
 (b: M.T. पूजालुप्तस्य for पूजालोपै तु;)

[भगवदाराधनादौ सिद्धान्तादीनां व्यतिक्रमनिषेधः]

वैकल्यशान्तिं कृत्वाथ संप्रोक्ष्य विधिवत्प्रभुः।
तन्त्रान्तरेण यजनं ततः प्रीतो भवेद्धरिः ।। 22.106 ।।
सिद्धान्ते वाऽथवा तन्त्रे शास्त्रे वा न व्यतिक्रमः।
कार्योऽनापदि शास्त्रज्ञैः भूतिकामैर्विशेषतः ।। 22.107 ।।

[गृहार्चाक्रमे पूजालोपे प्रायश्चित्तम्]

पूजालोपे गृहार्चायाः पञ्चगव्याभिषेचनम्।
मासादुपरि षण्मासं पुण्यस्नपनमाचरेत् ।। 22.108 ।।
षण्मासाद्वत्सरादर्वाक् संप्रोक्षणविधिर्भवेत्।
अत ऊर्ध्वं प्रतिष्ठा स्याद्‌गृहार्चाराधनक्षये ।। 22.109 ।।
त्रिदशादिप्रतिष्ठायां पूजावैकल्यसंभवे।
केवलं पौरुषैः सूक्तैः स्नपनं नान्यदिष्यते ।। 22.110 ।।

[सालग्रामशिलापूजावैकल्यादौ प्रायश्चित्तम्]

सालग्रामशिलादीनां पूजावैकल्यसंभवे।
अस्पृश्य स्पर्शने वापि क्षालयित्वार्च्चयेज्जलैः ।। 22.111 ।।

।। इति भार्गवतन्त्रे द्वाविंशोऽध्यायः ।।