महाभारतम्-03-आरण्यकपर्व-014
← आरण्यकपर्व-013 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-014 वेदव्यासः |
आरण्यकपर्व-015 → |
कृष्णेन युधिष्ठिरंप्रति साल्वेन युद्धस् स्वस्यानागमनहेतुत्वकथनम् ।। 1 ।।
युधिष्ठिर उवाच।।
असांनिध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन ।
क्व चासीद्विप्रवासस्ते किं वाकार्षीः प्रवासकः ।।१।।
कृष्ण उवाच।।
शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ ।
विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम् ।।२।।
महातेजा महाबाहुर्यः स राजा महायशाः ।
दमघोषात्मजो वीरः शिशुपालो मया हतः ।।३।।
यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति ।
स रोषवशसम्प्राप्तो नामृष्यत दुरात्मवान् ।।४।।
श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः ।
उपायाद्द्वारकां शून्यामिहस्थे मयि भारत ।।५।।
स तत्र योधितो राजन्बालकैर्वृष्णिपुङ्गवैः ।
आगतः कामगं सौभमारुह्यैव नृशंसकृत् ।।६।।
ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा ।
पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः ।।७।।
उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः ।
वासुदेवः सुमन्दात्मा वसुदेवसुतो गतः ।।८।।
तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्यहम् ।
आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः ।।९।।
तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् ।
अहत्वा न निवर्तिष्ये सत्येनायुधमालभे ।।१०।।
क्वासौ क्वासाविति पुनस्तत्र तत्र विधावति ।
मया किल रणे युद्धं काङ्क्षमाणः स सौभराट् ।।११।।
अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम् ।
शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम् ।।१२।।
मम पापस्वभावेन भ्राता येन निपातितः ।
शिशुपालो महीपालस्तं वधिष्ये महीतले ।।१३।।
भ्राता बालश्च राजा च न च सङ्ग्राममूर्धनि ।
प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम् ।।१४।।
एवमादि महाराज विलप्य दिवमास्थितः ।
कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन ।।१५।।
तमश्रौषमहं गत्वा यथा वृत्तः सुदुर्मतिः ।
मयि कौरव्य दुष्टात्मा मार्त्तिकावतको नृपः ।।१६।।
ततोऽहमपि कौरव्य रोषव्याकुललोचनः ।
निश्चित्य मनसा राजन्वधायास्य मनो दधे ।।१७।।
आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव ।
प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः ।।१८।।
ततः सौभवधायाहं प्रतस्थे पृथिवीपते ।
स मया सागरावर्ते दृष्ट आसीत्परीप्सता ।।१९।।
ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप ।
आहूय शाल्वं समरे युद्धाय समवस्थितः ।।२०।।
सुमुहूर्तमभूद्युद्धं तत्र मे दानवैः सह ।
वशीभूताश्च मे सर्वे भूतले च निपातिताः ।।२१।।
एतत्कार्यं महाबाहो येनाहं नागमं तदा ।
श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम् ।।२२।। 3.14.22
युधिष्ठिर उवाच। | 3-14-1x |
असान्निध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन। क्व चासीद्विप्रवासस्ते किंचाकार्षीः प्रवासतः ।। | 3-14-1a 3-14-1b |
कृष्ण उवाच। | 3-14-2x |
साल्वस्य नगरं सौभं गतोऽहं भरतर्षभ। निहन्तुं कौरवश्रेष्ठ तत्र मे शृणु कारणम् ।। | 3-14-2a 3-14-2b |
महातेजा महांवाहुर्यः स राजा महायशाः। दमघोषात्मजो वीरः शिशुपालो मया हतः ।। | 3-14-3a 3-14-3b |
यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति। स रोषवशमापन्नो नामृष्यत दुरात्मवान् ।। | 3-14-4a 3-14-4b |
श्रुत्वा तं निहतं साल्वस्तीव्ररोषसमन्वितः। उपायाद्द्वारकां शून्यामिहस्थे मयि भारत ।। | 3-14-5a 3-14-5b |
स तत्र युद्धमकरोद्बालकैर्वृष्णिपुङ्गवैः। निवृत्तः कामगं सौभमारुह्यैव नृशंसवत् ।। | 3-14-6a 3-14-6b |
`चिरजीवी नृपः सोऽपि प्रसादात्पद्मजन्मनः।' ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा। पुरोद्यानानि सर्वाणि भेदयामास दुर्भतिः ।। | 3-14-7a 3-14-7b 3-14-7c |
उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः। वासुदेवः स मन्दात्मा वसुदेवसुतो गतः ।। | 3-14-8a 3-14-8b |
तस्य युद्धार्थिनो दर्पं युद्धेनाशयिताऽस्म्यहम्। आनर्ताः सत्यमाख्यात तत्र गन्ताऽस्मि यत्र सः ।। | 3-14-9a 3-14-9b |
तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम्। अहत्वा न निवर्तिष्ये सत्येनायुधमालभे । | 3-14-10a 3-14-10b |
क्वासौ क्वासाविति पुनस्तत्रतत्र प्रधावति। मया सह रणे योद्धुं काङ्क्षमाणः स सौभराट् ।। | 3-14-11a 3-14-11b |
अद्यतं पापकर्माणं क्षुद्रं विश्वासघातिनम्। शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम् ।। | 3-14-12a 3-14-12b |
मम पापस्वभावेन भ्राता येन निपातितः। शिशुपालो महीपालस्तं वधिष्ये महीतले ।। | 3-14-13a 3-14-13b |
भ्राता बालश्च राजा च न च संग्रामकोविदः। प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम्। | 3-14-14a 3-14-14b |
एकमादि महाराज विलप्यदिवमास्थितः। कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन ।। | 3-14-15a 3-14-15b |
तमश्रौषमहं गत्वा यथा वृत्तः स दुर्मतिः। मयि कौरव्य दुष्टात्मा मार्तिकावतको नृपः ।। | 3-14-16a 3-14-16b |
ततोऽहमपि कौरव्य रोषव्याकुललोचनः। निश्चित्य मनसा राजन्वधायास्य मनो दधे ।। | 3-14-17a 3-14-17b |
आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव। प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः ।। | 3-14-18a 3-14-18b |
ततः सौभवधायाहं प्रतस्थे पृथिवीपते। स मया सागरावर्ते दृष्ट आसीत्परीप्सता ।। | 3-14-19a 3-14-19b |
ततः प्रध्माप्य जलजं पाञ्चजन्यमहे नृप। आहूय साल्वं समरे युद्धाय समवस्थितः ।। | 3-14-20a 3-14-20b |
तन्मुहूर्तमभूद्युद्धं तत्र मे दानवैः सह। शवीभूताश्च मे सर्वे भूतले च निपातिताः ।। | 3-14-21a 3-14-21b |
एतत्कार्यं महाबाहो येनाहं नागमं तदा। श्रुत्वैव हास्तिनपुरे द्यूतं चाविनयोत्थितम्। द्रुतमागतवान्युष्मान्द्रष्टुकामः सुदुःखितान् ।। | 3-14-22a 3-14-22b 3-14-22c |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि चतुर्दशोऽष्यायः ।। 14 ।। |
टिप्पणी
सम्पाद्यताम्3-14-6 सौभं सुष्ठु भान्ति ते सुभाः काञ्चनादयो धातवस्तज्जम ।। 3-14-9 आख्यात कथयत ।। 3-14-16 मार्तिकावतकः एतन्नामकदेशवासी ।। 3-14-18 अवलेपं गर्वं ज्ञात्वेति शेषः ।। 3-14-19 सागरस्य आसमन्ताद्वर्तो वर्तनं यस्मिन्सागरद्वीपे इत्यर्थः ।। 3-14-20 जलजं शङ्खम् ।।
आरण्यकपर्व-013 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-015 |