महाभारतम्-03-आरण्यकपर्व-040
← आरण्यकपर्व-039 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-040 वेदव्यासः |
आरण्यकपर्व-041 → |
महादेवेन पार्थाय स्वग्रस्तगाण्डीवादिप्रत्यर्पणपूर्वकं पाशुपतास्त्रप्रदानम् ।। 1 ।।
भगवानुवाच।।
नरस्त्वं पूर्वदेहे वै नारायणसहायवान् ।
बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् ।।१।।
त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे ।
युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् ।।२।।
शक्राभिषेके सुमहद्धनुर्जलदनिस्वनम् ।
प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ।।३।।
एतत्तदेव गाण्डीवं तव पार्थ करोचितम् ।
मायामास्थाय यद्ग्रस्तं मया पुरुषसत्तम ।।४।।
तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ ।।४।।
प्रीतिमानस्मि वै पार्थ तव सत्यपराक्रम ।
गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ ।।५।।
न त्वया सदृशः कश्चित्पुमान्मर्त्येषु मानद ।
दिवि वा विद्यते क्षत्रं त्वत्प्रधानमरिंदम ।।६।।
अर्जुन उवाच।।
भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज ।
कामये दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो ।।७।।
यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम् ।
युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् ।।८।।
दहेयं येन सङ्ग्रामे दानवान्राक्षसांस्तथा ।
भूतानि च पिशाचांश्च गन्धर्वानथ पन्नगान् ।।९।।
यतः शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः ।
शराश्चाशीविषाकाराः सम्भवन्त्यनुमन्त्रिताः ।।१०।।
युध्येयं येन भीष्मेण द्रोणेन च कृपेण च ।
सूतपुत्रेण च रणे नित्यं कटुकभाषिणा ।।११।।
एष मे प्रथमः कामो भगवन्भगनेत्रहन् ।
त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा ।।१२।।
भगवानुवाच।।
ददानि तेऽस्त्रं दयितमहं पाशुपतं महत् ।
समर्थो धारणे मोक्षे संहारे चापि पाण्डव ।।१३।।
नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट् ।
वरुणो वाथ वा वायुः कुतो वेत्स्यन्ति मानवाः ।।१४।।
न त्वेतत्सहसा पार्थ मोक्तव्यं पुरुषे क्वचित् ।
जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् ।।१५।।
अवध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे ।
मनसा चक्षुषा वाचा धनुषा च निपात्यते ।।१६।।
वैशम्पायन उवाच।।
तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः ।
उपसङ्गृह्य विश्वेशमधीष्वेति च सोऽब्रवीत् ।।१७।।
ततस्त्वध्यापयामास सरहस्य निवर्तनम् ।
तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् ।।१८।।
उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम् ।
प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा ।।१९।।
ततश्चचाल पृथिवी सपर्वतवनद्रुमा ।
ससागरवनोद्देशा सग्रामनगराकरा ।।२०।।
शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः ।
तस्मिन्मुहूर्ते सम्प्राप्ते निर्घातश्च महानभूत् ।।२१।।
अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः ।
मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः ।।२२।।
स्पृष्टस्य च त्र्यम्बकेन फल्गुनस्यामितौजसः ।
यत्किञ्चिदशुभं देहे तत्सर्वं नाशमेयिवत् ।।२३।।
स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेन तदार्जुनः ।
प्रणम्य शिरसा पार्थः प्राञ्जलिर्देवमैक्षत ।।२४।।
ततः प्रभुस्त्रिदिवनिवासिनां वशी; महामतिर्गिरिश उमापतिः शिवः ।
धनुर्महद्दितिजपिशाचसूदनं; ददौ भवः पुरुषवराय गाण्डिवम् ।।२५।।
ततः शुभं गिरिवरमीश्वरस्तदा; सहोमया सिततटसानुकन्दरम् ।
विहाय तं पतगमहर्षिसेवितं; जगाम खं पुरुषवरस्य पश्यतः ।।२६।। 3.40.28
देवदेव उवाच। | 3-40-1x |
नरस्त्वं पूर्वदेहे वै नारायणसहायवान्। बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् ।। | 3-40-1a 3-40-1b |
त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे। युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् ।। | 3-40-2a 3-40-2b |
शक्राभिषेके सुमहद्धनुर्जलदनिःस्वनम्। प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ।। | 3-40-3a 3-40-3b |
तदेतदेव गाण्डीवं तव पार्थ करोचितम्। भायामास्थाय तद्ग्रस्तं मया पुरुषसत्तम ।। | 3-40-4a 3-40-4b |
तूणौ चाप्यक्षयौ भूयस्तव पार्थ करोचितौ। भविष्यति शरीरं च नीरुजं कुरुनन्दन ।। | 3-40-5a 3-40-5b |
प्रीतिमानस्मि वै पार्थ भवान्सत्यपराक्रमः। गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ ।। | 3-40-6a 3-40-6b |
न त्वया सदृशः कश्चित्पुमान्मर्त्येषु भारत। दिवि वा वर्तते त्रं त्वत्प्रधानमरिंदम ।। | 3-40-7a 3-40-7b |
अर्जुन उवाच। | 3-40-8x |
वरं ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज। कामये दिव्यामस्त्रं तद्धोरं पाशुपतं प्रभो ।। | 3-40-8a 3-40-8b |
यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम्। युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् ।। | 3-40-9a 3-40-9b |
[कर्णभीष्मकृपद्रोणैर्भविता तु महाहवः। त्वत्प्रसादान्महादेव जयेयं तान्यथा युधि ।।] | 3-40-10a 3-40-10b |
जयेयं येन संग्रामे दानवान्राक्षसांस्तथा। राज्ञश्चैव पिशाचांश्च गन्धर्वानथपन्नगान् ।। | 3-40-11a 3-40-11b |
यस्मिञ्शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः। शराश्चाशीविषाकाराः संभवन्त्यनुमन्त्रिताः ।। | 3-40-12a 3-40-12b |
युध्येयं येन भीष्मेण द्रोणेन च कृपेण च। सूतपुत्रेण च रणे नित्यं कटुकभाषिणा ।। | 3-40-13a 3-40-13b |
एष मे प्रथमः कामो भगवन्भगनेत्रहन्। त्वत्प्रसादाद्विनिर्बृत्तः समर्थः स्यामहं यथा ।। x भव उवाच। | 3-40-14a 3-40-14b 30-11-15 |
ददामि तेऽस्त्रं दयितमहं पाशुपतं विभो। समर्थो धारणे मोक्षे संहारेऽपि च पाण्डव ।। | 3-40-15a 3-40-15b |
न तद्वेद महेन्द्रोपि न यमो न च यक्षराट्। वरुणोप्यथवा वायुः कुतो वेत्स्यन्ति मानवाः ।। | 3-40-16a 3-40-16b |
न त्वया सहसा पार्थ मोक्तव्यं पुरुषे क्वचित्। जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् ।। | 3-40-17a 3-40-17b |
अबध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे। मनसा चक्षुषा वाचा धनुषा च निपात्यते ।। | 3-40-18a 3-40-18b |
वैशंपायन उवाच। | 3-40-19x |
तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः। उपसंगृह्य विश्वेशमधीष्वेत्यथ सोऽब्रवीत् ।। | 3-40-19a 3-40-19b |
ततस्त्वध्यापयामास सरहस्यनिवर्तनम्। तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् ।। | 3-40-20a 3-40-20b |
उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम्। प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा ।। | 3-40-21a 3-40-21b |
ततश्चचाल पृथिवी सपर्वतवनद्रुमा। ससागरवनोद्देशा सग्रामनगराकरा ।। | 3-40-22a 3-40-22b |
शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः। तस्मिनमुहूर्ते संप्राप्ते निर्घातश्च महानभूत् ।। | 3-40-23a 3-40-23b |
अथास्त्रं जाज्वलद्धोरं पाण्डवस्यामितौजसः। मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः ।। | 3-40-24a 3-40-24b |
स्पृष्टस्य त्र्यम्बकेणाथ फल्गुनस्यामितौजसः। यत्किं गच्छेत्यनुज्ञातस्त्र्यम्बकेण तदाऽर्जुनः ।। | 3-40-25a 3-40-25b |
स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेण तदाऽर्जुनः। प्रणम्य शिरसा राजन्प्राञ्जलिर्भवमैक्षत । | 3-40-26a 3-40-26b |
ततः प्रभुस्त्रिदिवनिवासिनां वसी महामतिर्गिरिश उमापतिः शिवः। धनुर्महद्दितिजपिशाचसूदनं ददौ भवः पुरुषवराय गाण्डिवम् ।। | 3-40-27a 3-40-27b 3-40-27c 3-40-27d |
ततः शुभं गिरिवरमीश्वरस्तदा सहोमयाऽसिततटसानुकन्दरम्। विहाय तं पतगमहर्षिसेवितं जगाम स्वं पुरुषवरस्य पश्यतः ।। | 3-40-28a 3-40-28b 3-40-28c 3-40-28d |
।। इति श्रीमन्महाभारते अरण्यपर्वणि कैरातपर्वणि चत्वारिंशोऽध्यायः ।। 40 ।। |
टिप्पणी
सम्पाद्यताम्3-40-3 शस्ताः मारिताः ।। 3-40-7 त्वत्प्रधानं त्वमेव श्रेष्ठो रयस्मिन् क्षत्रे ।। 3-40-14 विनिर्वृत्तः विशेषेण कृतकृत्यः ।। 3-40-15 संहारे निवर्तने ।। 3-40-18 मनसा संकल्पमात्रेण निपात्यते शत्रुः धनुषेति बाणप्रयोगेण ।। 3-40-19 अधीष्व अध्यापय ।। 3-40-23 निर्घात उत्पातः ।। 3-40-27 वशी वश इच्छा तद्वान्। तज्जयीत्यर्थः ।।
आरण्यकपर्व-039 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-041 |