महाभारतम्-05-उद्योगपर्व-169

← उद्योगपर्व-168 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-169
वेदव्यासः
उद्योगपर्व-170 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

भीष्मेण पाण्डवसेनायां रथातिरथसंख्यानम् ।। 1 ।।


भीष्म उवाच।

5-169-1x

एते रथास्तवाख्यातास्तथैवातिरथा नृप।
ये चाप्यर्धरथा राजन्पाण्डवानामतः श्रृणु ।।

5-169-1a
5-169-1b

यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप ।
रथसंख्यां शृणुष्व त्वं सहैभिर्वसुधाधिपैः ।।

5-169-2a
5-169-2b

स्वयं राजा रथोदारः पाण्डवः कुन्तनन्दनः ।
अग्निवत्समरे तात चरिष्यति न संशयः ।।

5-169-3a
5-169-3b

भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितः ।
न तस्यास्ति समो युद्धे गदया सायकैरपि ।।

5-169-4a
5-169-4b

नागायुतबलो मानी तेजसा न स मानुषः ।
माद्रीपुत्रो च रथिनौ द्वावेव पुरुषर्षभौ ।।

5-169-5a
5-169-5b

अश्विनाविव रूपेण तेजसा च समन्वितौ।
एते चमूमुखगताः स्मरन्तः क्लेशमुत्तमम् ।।

5-169-6a
5-169-6b

रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः ।
सर्व एव महात्मानः सालस्तम्भा इवोद्गताः ।।

5-169-7a
5-169-7b

प्रादेशेनाधिकाः पुंभिरन्यैस्ते च प्रमाणतः।
सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः ।।

5-169-8a
5-169-8b

चरितब्रह्मचर्याश्च सर्वे तात तपस्विनः।
ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः ।।

5-169-9a
5-169-9b

जवे प्रहारे संमर्दे सर्व एवातिमानुषाः ।
सर्वैर्जिता महीपाला दिग्जये भरतर्षभ ।।

5-169-10a
5-169-10b

न चैषां पुरुषाः केचिदायुधानि गदाः शरान्।
विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव ।।

5-169-11a
5-169-11b

उद्यन्तुं वा गदा गुर्वीः शरान्वा क्षेप्तुमाहवे ।
जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे ।।

5-169-12a
5-169-12b

बालैरपि भवन्तस्तैः सर्व एव विशेषिताः।
एतत्सैन्यं समासाद्य सर्व एव बलोत्कटाः ।।

5-169-13a
5-169-13b

विध्वंसयिष्यन्ति रणे मा स्म तैः सह संगमः ।
एकैकशस्त संमर्दे हन्युः सर्वान्महीक्षितः ।।

5-169-14a
5-169-14b

प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत् ।
द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः ।।

5-169-15a
5-169-15b

ते स्मरन्तश्च सङ्ग्रामे चरिष्यन्ति च रुद्रवत् ।
लोहिताक्षो गुडाकेशो नारायणसहायवान् ।।

5-169-16a
5-169-16b

उभोयोः सेनयोर्वीरो रथो नास्तीति तादृशः ।
न हि देवेषु वा पूर्वं मनुष्येषूरगेषु च ।।

5-169-17a
5-169-17b

राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु ।
भूतोथ वा भविष्यो वा रथः कश्चिन्मया श्रुतः ।।

5-169-18a
5-169-18b

समायुक्तो महाराज रथः पार्थस्य धीमतः।
वासुदेवश्च संयन्ता योद्धा चैव धनञ्जयः ।।

5-169-19a
5-169-19b

गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः ।
अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी ।।

5-169-20a
5-169-20b

अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एवच ।
याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः ।।

5-169-21a
5-169-21b

वज्रादीनि च मुख्यानि नानाप्रहरणानि च ।
दानवानां सहस्राणि हिरण्यपुरवासिनाम् ।।

5-169-22a
5-169-22b

हतान्येकरथेनाजौ कस्तस्य सदृशो रथः।
एष हन्याद्धि संरम्भी बलवान्सत्यविक्रमः ।।

5-169-23a
5-169-23b

तव सेनां महाबाहुः स्वां चैव परिपालयन्।
अहं चैनं प्रत्युदियामाचार्यो वा धनञ्जयम् ।।

5-169-24a
5-169-24b

न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि ।
य एनं शरवर्षाणि वर्षन्तमुदियाद्रथी ।।

5-169-25a
5-169-25b

जीमूत इव घर्मान्ते महावातसमीरितः ।
समायुक्तस्तु कौन्तेयो वासुदेवसहायवान् ।
तरुणश्च कृती चैव जीर्णावावामुभावपि ।।

5-169-26a
5-169-26b
5-169-26c

वैशंपायन उवाच।

5-169-27x

एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा।
काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः ।।

5-169-27a
5-169-27b

मनोभिः सह संवेगैः संस्मृत्य च पुरातनम् ।
सामर्थ्यं पाण्डवेयानां यथा प्रत्यक्षदर्शनात् ।।

5-169-28a
5-169-28b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि रथातिरथसंख्यानपर्वणि
एकोनसप्तत्यधिकशततमोऽध्यायः ।।

सम्पाद्यताम्

5-169-12 भोज्ये कौटिल्ये मर्मपीडने इतियावत्। भुज कौटिल्येऽस्य रूपम्। पांसुविकर्षणे पांसुषु विकर्षणे भूमौ मुष्टियुद्धे इत्यर्थः ।। 5-169-24 प्रत्युदियां युद्धे संमुखः स्याम् ।।

उद्योगपर्व-168 पुटाग्रे अल्लिखितम्। उद्योगपर्व-170