प्रमुखा विकल्पसूचिः उद्घाट्यताम्
मालिनीश्लोकवार्तिकम्
अभिनवगुप्तः



अभिनवगुप्त मालिनीश्लोकवार्त्तिक


प्रथमः काण्डः

विमलकलाश्रयाभिनवसृष्टिमहा जननी
भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः
तदुभययामलस्फुरितभावविसर्गमयं
हृदयमनुत्तरामृतकुलं मम संस्फुरतात् ॥ १.१ ॥

यदीयबोधकिरणैरुल्लसद्भिः समन्ततः
विकासिहृदयाम्भोजा वयं स जयताद्गुरुः ॥ १.२ ॥

साभिमर्शषडर्धार्थपञ्चस्रोतःसमुज्ज्वलान्
यः प्रादान्मह्यमर्थौघान् दौर्गत्यदलनव्रतान् ॥ १.३ ॥

श्रीमत्सुमतिसंशुद्धः सद्भक्तजनदक्षिणः
शम्भुनाथः प्रसन्नो मे भूयाद्वाक्पुष्पतोषितः ॥ १.४ ॥

गुरुभ्योऽपि गरीयांसं युक्तं श्रीचुखलाभिधम्
वन्दे यत्कृतसंस्कारः स्थितोऽस्मि गलितग्रहः ॥ १.५ ॥

ततो गुरुतरः श्रीमान् भूतिराजो महामतिः
जयताद्भक्तजनतासमुद्धरणसाहसः ॥ १.६ ॥

श्रीसोमानन्दसंबोधश्रीमदुत्पलनिःसृताः
जयन्ति संविदामोदसंदर्भा दिक्प्रसर्पिणः ॥ १.७ ॥

तद्दृष्टिसंसृतिच्छेदिप्रत्यभिज्ञोपदेशिनः
श्रीमल्लक्ष्मणगुप्तस्य गुरोर्विजयते वचः ॥ १.८ ॥

अप्यसंख्यनवास्वादचमत्कारैकदुर्मदा
येनानुत्तरसंभोगतृप्ता मे मतिषट्पदी ॥ १.९ ॥
तदेकमयतामाप्य स्वात्मन्येव तथा स्थिता
तदस्याः प्रोन्मिषन्त्येव विविधा नादसंपदः ॥ १.१० ॥

सच्छिष्यकर्णमन्द्राभ्यामर्थितोऽहं पुनः पुनः
वाक्यार्थं वर्तये श्रीमन्मालिन्यां यत्क्व चित्क्व चित् ॥ १.११ ॥

औचित्येनेतरत्यागाद्वाच्यवाचकयोर्मिथः
वर्तनावर्त एतस्मिन् साधु शास्त्रं च वार्त्तिकम् ॥ १.१२ ॥

येऽहर्निशं प्रकाशन्ते सर्वस्य च न गोचरे
नुमोऽभिनवगुप्तांस्ताञ्शिवचन्द्रांशुसंचयान् ॥ १.१३ ॥

जयन्ति जगदानन्दविपक्षक्षपणक्षमाः
परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः ॥ १.१४ ॥

अनियन्त्रितसद्भावाद्भावाभेदैकभागिनः
यत्प्राग्जातं महाज्ञानं तद्रश्मिभरवैभवम् ॥ १.१५ ॥

ततं तादृक्स्वमायीयहेयोपादेयवर्जितम्
विततीभावनाचित्ररश्मितामात्रभेदितम् ॥ १.१६ ॥

अभिमर्शस्वभावं तद्धृदयं परमेशितुः
तत्रापि शक्त्या सततं स्वात्ममय्या महेश्वरः ॥ १.१७ ॥

यदा संघट्टमासाद्य समापत्तिं परां व्रजेत्
तदास्य परमं वक्त्रं विसर्गप्रसरास्पदम् ॥ १.१८ ॥
अनुत्तरविकासोद्यज्जगदानन्दसुन्दरम्
भाविवक्त्राविभागेन बीजं सर्वस्य यत्स्थितम् ॥ १.१९ ॥

हृत्स्पन्ददृक्परासारनिर्नामोर्म्यादि तन्मतम्
एतत्परं त्रिकं पूर्वं सर्वशक्त्यविभागवत् ॥ १.२० ॥
अत्र भावसमुल्लासशङ्कासंकोचविच्युतेः
स्वानन्दलीनतामात्रमात्रिच्छाकर्मदृक्त्रयम् ॥ १.२१ ॥

तथा च गुरवः शैवदृष्टावित्थं न्यरूपयन्
स यदास्ते चिदाह्लादमात्रानुभवतल्लयः ॥ १.२२ ॥
तदिच्छा तावती ज्ञानं तावत्तावत्क्रिया हि सा
सुसूक्ष्मशक्तित्रितयसामरस्येन वर्तते ॥ १.२३ ॥
चिद्रूपाह्लादपरमस्तदाभिन्नो भवेदिति
ननु चेदृशि विश्वात्मभूते संकोचवर्जनात् ॥ १.२४ ॥
विकल्पकल्पनामूलाः कथं शास्त्रादिसंपदः
उच्यते सर्व एवायं बोधः संवित्प्रभामयः ॥ १.२५ ॥
प्रकाशरूपतायोगाच्चिदामर्शघनात्मकः
तत्रामर्शस्वभावोऽयं यः प्रकाशः प्रकाशते ॥ १.२६ ॥

स एव किं न शास्त्रौघः किमन्यैर्युक्तिडम्बरैः
परवाग्देवताविद्धस्तत्रासौ केवलं भवेत् ॥ १.२७ ॥

न तु लौकिकमायीयवर्णपुञ्जविचित्रितः
उक्तं श्रीप्रत्यभिज्ञायामात्मसंस्थस्य भासनम् ॥ १.२८ ॥
अस्त्येव न विना तस्मादिच्छामर्शः प्रवर्तते
स्वभावमवभासस्य विमर्शं विदुरन्यथा ॥ १.२९ ॥
प्रकाशोऽर्थोपरक्तोऽपि तुल्यो रत्नादिकैरिति
किंच यः कश्चनामर्शश्चिच्चमत्कारगोचरः ॥ १.३० ॥

ह्लादतापादिविषयस्तदासौ भवति स्फुटः
तद्विमर्शान्तरालम्बसमुच्छलनयोगतः ॥ १.३१ ॥

पश्चात्सुस्फुटतामेति तथा च गुरुरूचिवान्
यथा स्वसंविदा सिद्धं सुखादि व्यवतिष्ठते ॥ १.३२ ॥
न हि व्यवस्थासमये वेद्यते तत्स्वसंविदा
तथावश्योपगन्तव्यं स्वसंवित्साधनादिति ॥ १.३३ ॥

एवमत्रापि पश्चाद्यज्ज्ञानाद्युल्लासवर्त्मनि
सर्वाभेदमयी भूमिर्यावदामृश्यतां व्रजेत् ॥ १.३४ ॥
तावत्तदुचितोदारविमर्शांशस्फुटत्वतः
तादृक्स एव शास्त्रत्वं प्राग्विसर्गः प्रपद्यते ॥ १.३५ ॥

एतदेव तु युक्तं स्यात्तथा ह्यनुपधौ परे
शास्त्रार्थेऽपि समाचारलेशः कोऽपि विभाव्यते ॥ १.३६ ॥
स नूनं स्फुटताधामभाविज्ञानादिशक्तिमान्
उपरागात्ततस्तत्तद्वैचित्र्यपरिबृंहितः ॥ १.३७ ॥

यथा मुखस्य तद्व्यक्तिस्थानेऽप्सु मुकुरे मणौ
खड्गे चञ्चलसद्वृत्तसूक्ष्मदीर्घादिका स्थितिः ॥ १.३८ ॥
तदित्थं परमे रूपे प्रोद्भूता ज्ञानसंपदः
अनवच्छिन्नहृदयबीजात्मत्रयसुन्दराः ॥ १.३९ ॥

यदा तूच्छलदाकारस्वतरङ्गान्तरात्मकान्
विसिसृक्षति भावौघान् भैरवः शक्तिबृंहितः ॥ १.४० ॥

तदा ता एव विज्ञानसंपदस्तदुपाधिजाम्
ईषत्क्रियासमाचारयन्त्रणां संश्रिता इव ॥ १.४१ ॥

परितस्तत्तरङ्गौघसात्मतां समुपाश्रिते
तथापि जगदानन्दसुन्दरे बोधभैरवे ॥ १.४२ ॥
भावनिर्भरतामात्रसंतृप्ते शक्तिशालिनि
पूर्णया निजशक्त्यैव न्यक्कृते शक्तिमत्पदे ॥ १.४३ ॥
तादृगेव विमर्शात्मा ज्ञानधारा विजृम्भते
यस्यां भोगोपदेशेन कोऽपि ह्लादः प्रवर्तते ॥ १.४४ ॥

यदीयसंविदाचारचर्याविस्रम्भभावितः
भोगव्रातोऽपि धन्यानां निःश्रेयसपदायते ॥ १.४५ ॥

यत्रोच्यते स्वशक्त्यादिक्षोभसंरंभनिर्भरा
देवस्य यागप्रियता विशेषान्मातृमध्यतः ॥ १.४६ ॥
ऐश्वर्यशक्त्युद्रेकेण लब्धेश्वरपदाभिधः
देवो विज्ञानमहिमा प्रोद्भूतोऽयं प्रपञ्चितः ॥ १.४७ ॥

अत्राप्यनन्तभावांशसंयोजनवियोजने
प्राग्दशाभेदसंधानादसंख्यत्वमुपाश्रिते ॥ १.४८ ॥
तदुपाधिवशादेव संविज्ज्ञानपदोज्झिताः
तायन्ते विविधाः शास्त्रक्रियाज्ञानविभूतयः ॥ १.४९ ॥

मुख्यस्त्वेष प्रपञ्चोऽयं पञ्चात्मत्वेन चर्चितः
तथा च वक्ष्यते तत्त्वमभिन्नमपि पञ्चधा ॥ १.५० ॥
सव्यापाराधिपत्वेन तद्धीनप्रेरकत्वतः
इच्छानिवृत्तेः स्वस्थत्वादित्याद्यैर्वाक्यसंचयैः ॥ १.५१ ॥

नन्वेतावति सन्दर्भे देशकालकलाकृताः
भेदा न संभवन्त्येव बाढमोमिति वच्महे ॥ १.५२ ॥
न ह्यत्र कालतत्त्वस्य नाममात्रं विभाव्यते
वैभव्यपि महाकाली शक्तिर्नात्र विजृम्भते ॥ १.५३ ॥

तर्ह्यभिन्ने स्वसंपूर्णे तदा पश्चात्पुनर्यदा
परतश्चेति को न्वेष वाचोयुक्तिपरिग्रहः ॥ १.५४ ॥

अत्र ब्रूमः सत्यमेव वस्तुतस्तु स्फुटात्मनि
जृम्भिते तत्त्वसर्गेऽपि कालेऽप्युन्मिषितात्मनि ॥ १.५५ ॥
बोधस्य नैव सन्त्येताः पूर्वापरविकल्पनाः
कालो विशेषणत्वेन यस्माद्भवति भेदकः ॥ १.५६ ॥
विशेषणं च तत्प्रोक्तं समशीर्षिकयैव यत्
भेदेन वेद्यतामेति यथा नीलं सरोरुहं ॥ १.५७ ॥

न च बोधस्य वेद्यत्वं कदाचिदुपपद्यते
वेद्यत्वं भासमानत्वं तत्प्रकाशप्रसादतः ॥ १.५८ ॥
प्रकाशः स स बोधश्च न चेद्बोधान्तरस्थितेः
प्रकाशनियमान्नूनमनवस्था प्रवर्तते ॥ १.५९ ॥

अत एव विमूढा ये बोधमप्रथमानकम्
अर्थप्रथात्मकं ब्रूयुः स्ववचोवञ्चितास्तु ते ॥ १.६० ॥
तस्मात्कालो न बोधस्य भेदकत्वाय कल्पते
नापि वेद्यस्य कालोऽसौ भेदकीभवितुं क्षमः ॥ १.६१ ॥
विश्वं हि बोधाभिन्नं तदतथात्वे न भासते
प्रकाशेन समाविष्टश्चित्रं भावः प्रकाशते ॥ १.६२ ॥
विश्वप्रकाश एवं स्यात्सर्वस्यैव सदातनः
सति प्रकाशे बोधाख्ये स प्रकाशत्वमश्नुते ॥ १.६३ ॥

अप्रकाशोऽपि भावश्चेत्प्रकाशात्मा स वेद्यते
अप्रकाशस्त्वसौ भाव इत्यत्र शरणं तमः ॥ १.६४ ॥

यश्चाप्रकाशो भावात्मा प्रकाशात्मा स चेत्कृतः
नूनं स भावो नष्टः स्यात्स्वाप्रकाशत्वविच्युतेः ॥ १.६५ ॥
नातद्रूपं प्रकाशं च कर्तुं विधिरपि क्षमः

नन्वेतावदिदंभावः प्रकाशे सति भासते ॥ १.६६ ॥
अस्त्वेतदेव किंत्वित्थमप्रकाशः प्रकाशताम्
भावस्य चाप्रकाशत्वे प्रकाशीभाविते सति ॥ १.६७ ॥
नैवं प्रकाशितो भाव इति वस्तुस्थितिर्भवेत्

तदलं व्यतिरिक्तेन प्रकाशेन शिवस्तथा ॥ १.६८ ॥
तस्मात्प्रकाश एवासौ गीतो यः परमः शिवः
स एवाचिन्त्यमहिमा स्वातन्त्र्योद्दामघूर्णितः ॥ १.६९ ॥
प्रकाशते तथा तैस्तैः स्वभावैरच्युतस्थितिः

नात्र सर्वत्र सर्वज्ञभावः कश्चन शङ्क्यते ॥ १.७० ॥
अहं चैत्रो घटं वेद्मि न पटं, वेद तं त्वयं.
नायं वेत्ति पटः, सोऽहं जाने घटपटाविति ॥ १.७१ ॥
वेदिष्यामि न वा, पूर्वमजानां नैव वा क्व चित्,
क्रमेण वेद्मि युगपद्द्वाभ्यामुभयवर्जितम्. ॥ १.७२ ॥
सर्वं वेद्मि, न किं चिच्च जाने. नैवास्मि कश्चन
भावात्मा, ननु नैवाहम्. अहं सर्वं च सर्वदा. ॥ १.७३ ॥
सर्वमस्म्यहमेवैकः किं सर्वमितरद्भवेत्
इत्यादिरेक एवायं प्रकाशः प्रविजृम्भते ॥ १.७४ ॥

नन्वेको यद्यसः कश्चित्, प्रकाशो न तदा परः
कथं भवेद्. अहो मूढः कथं व्युत्पाद्यतामयम् ॥ १.७५ ॥
एकः प्रकाशः स्वातन्त्र्याच्चित्ररूपः प्रकाशते.
वस्तुतश्च न चित्रोऽसौ, नाचित्रो भेददूषणात् ॥ १.७६ ॥

घटप्रकाशे वस्त्रस्य प्रकाशो यदि संभवेत्
नासौ घटप्रकाशः स्याद्द्विप्रकाशो ह्यसौ भवेत् ॥ १.७७ ॥
सोऽपि चास्त्वेव, नो नास्ति तदिदं त्वत्प्रचोदितम्
घटात्मना प्रकाशोऽस्य मा भूदित्यवतिष्ठते ॥ १.७८ ॥

तच्चायुक्तं प्रकाशस्य बोधत्वात्स्वात्मजृम्भणम्
लक्षणं यदि तत्कोऽयं वृथा वाग्जालडम्बरः ॥ १.७९ ॥

परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम्
जडाद्विलक्षणो बोधो यतो न परिमीयते ॥ १.८० ॥

तस्मादर्कस्य सद्भावे सिद्धे कः खलु बालिशः
ब्रूयात्कथमयं स्वांशुशुभ्रिताशेषभूरिति ॥ १.८१ ॥

तस्मात्सिद्धे प्रकाशेऽस्मिन् याः प्रकाशविकल्पनाः
सर्वास्ताः सर्वसंभुक्तयोषिच्चारित्रपालनाः ॥ १.८२ ॥

असिद्धौ च प्रकाशस्य कोऽहं किं त्वं तमोऽपि किम्
न किं चिदपि वा किं स्यात्तूष्णीं स्यादपि वा कथम् ॥ १.८३ ॥

तस्मात्प्रकाशतादात्म्यलब्धभैरवभागिनाम्
भावानामपि कालोऽयं न किं चित्कर्तुमर्हति ॥ १.८४ ॥

हन्त तर्हि कथंकारं तदेत्यादिवचःक्रमः
श्रूयतामुक्तमप्येतत्पुनर्निर्भज्य भण्यते ॥ १.८५ ॥

यः प्रकाशः स एवायं प्रतिभाति तथा तथा
नैव चान्यस्य कस्यापि स तु भात्येव केवलम् ॥ १.८६ ॥

स एव परमोदारः सर्वस्यैवावभासकः
स्वतन्त्र इति तस्येच्छाशक्तिः स्वातन्त्र्यसंज्ञिता ॥ १.८७ ॥

स च स्वात्मनि विश्रान्तस्तदन्याभावयोगतः
स्वात्मविश्रान्तिरेवैषा देवस्यानन्द उच्यते ॥ १.८८ ॥


स्वातन्त्र्यमहिमैवास्य स्वरूपादपृथक्स्थितिः
स्वप्रकाशे निजे धाम्नि भासयेद्भावविभ्रमान् ॥ १.८९ ॥

भासना च क्रियाशक्तिरिति शास्त्रेषु कथ्यते
यया विचित्रतत्त्वादिकलना प्रविभज्यते ॥ १.९० ॥

भासनानवभाते च कथं नाम प्रकल्पते
तदस्यान्तःस्थितं भानं ज्ञानशक्तिरहं स्मृता ॥ १.९१ ॥

एतावदस्य देवस्य यद्रूपं स्वात्ममात्रतः
स उन्मेष इति प्रोक्तः पञ्चशक्तिस्ततो विभुः ॥ १.९२ ॥

त्रिशक्तिरेकशक्तिर्वा देवो वा केवलः स्थितः
शक्तिरेवाथ देवी सा सारशास्त्रे निरूप्यते ॥ १.९३ ॥

वक्ष्यते च जगद्धातुः कथितेत्यादितः परम्
सैवैका सत्यनेकत्वं गच्छतीति महेशिना ॥ १.९४ ॥

स चायं निर्भरानन्दविश्रान्तिस्वात्मसुस्थितः
सोदर्यैः शब्दसंदर्भैर्भाष्यते भैरवादिभिः ॥ १.९५ ॥

सविधं दूरगं वापि यद्यप्यस्य न वस्तुतः
शब्दजातं भवेत्किं चिदन्यदप्यथ वा प्रभोः ॥ १.९६ ॥
तथा च भासयत्येव देव एष तथा तथा
ततस्तदनुसारेण सर्वोऽयं कल्पनाक्रमः ॥ १.९७ ॥

न च तत्कल्पनामात्रं तथात्वेऽप्यथ का क्षितिः
तथा संकल्पतां देवो यद्वा कल्पयतां तथा ॥ १.९८ ॥

एवं चैष प्रकाशात्मा सप्तत्रिंशात्मकात्परः
वैचित्र्यभासनां कुर्वन् कालं भासयति प्रभुः ॥ १.९९ ॥

वैचित्र्यभासनैवेयं कालशक्तिरुदाहृता
ततोऽवभासमानैतत्कालशक्त्यनुरोधतः ॥ १.१०० ॥
आस्माकीनात्तदेत्यादिरुपरागः प्रवर्तते

न चासौ तत्र नास्त्येव तत्र यन्नास्ति तत्कुतः ॥ १.१०१ ॥
अन्यत्र तन्यतां नाम तत्प्रकाशवशं स्थितम्

नन्वेवमपरे तत्त्वजाले शुद्धेतरस्थितौ ॥ १.१०२ ॥
शुद्धाशुद्धपदे वापि विद्यादौ तत्त्वमण्डले
शुद्धभैरवसद्भावादविशेषो भविष्यति ॥ १.१०३ ॥

नरीनृत्यामहे हन्त यत्नाद्व्याख्येयमेव नः
आयुष्मतो यद्धृदये स्वयं विपरिवर्तते ॥ १.१०४ ॥

शुद्धाशुद्धविभेदो हि परमार्थकथासु नो
स तु तत्कृत एवास्ते मूढानां धियि निश्चलः ॥ १.१०५ ॥

ननु शुद्धेतरत्वाख्यो यदि भेदो न वास्तवः
व्याचिकीर्षितमेवैतच्छास्त्रं विवदते ततः ॥ १.१०६ ॥

अशुद्धत्वं हि तत्त्वानां दीक्षया शोधनं ततः
इत्यादि बहुधा भेदप्रधानात्र यतः स्थितिः ॥ १.१०७ ॥

उच्यते नाद्वयेऽमुष्मिन् द्वैतं नास्त्येव सर्वथा
उक्तं हि भेदवन्ध्येऽपि विभौ भेदावभासनम् ॥ १.१०८ ॥

तदेव खलु संसारे मायाविद्यादिभिः पदैः
बन्ध इत्युच्यते तत्र रूढाः संसारिणो मताः ॥ १.१०९ ॥
तच्चिन्तानुसृतेरेषां शुद्धाशुद्धादिनिश्चयः
किं च शास्त्रमिदं सम्यग्भगवद्योगदेशकम् ॥ १.११० ॥
भगवद्योगमद्वैतं निर्द्वन्द्वं च प्रचक्षते
तस्योपदेश इत्थं स्याद्यदि यावद्विभेदवत् ॥ १.१११ ॥
संभाव्यते तन्निर्भज्य निर्भज्यैव निरूप्यते

अद्वैते भैरवविभौ यत्प्रवेशोपवेशयोः ॥ १.११२ ॥
आभ्यासिकी स्थितिर्नास्ति तौ हि भेदैकजीवितौ

अतः संभाव्यनिखिलद्वैतशङ्काव्यपोहने ॥ १.११३ ॥
गुरूणां च शिशूनां च यत्नः सर्वो विजृम्भते
अतो द्वैतमिहाशङ्क्याशङ्क्य सर्वं प्रतन्यते ॥ १.११४ ॥

तद्यावद्गति संभाव्य न तु कुत्राप्युदास्यते
तथा हि यदि नामृष्टं द्वैतं तर्ह्येकमेव सत् ॥ १.११५ ॥
चिद्ब्रह्म तदलं तत्त्वसंख्याकल्पननिर्णयैः
पञ्चत्रिंशतिता कस्मात्तत्त्वानां तन्निरूप्यते ॥ १.११६ ॥

तस्माद्द्वैतस्य भेदात्मस्थितेर्यावद्गति ग्रहम्
कृत्वा यस्तत्प्रतिक्षेपस्तेन निःशङ्कता भवेत् ॥ १.११७ ॥

एतदेव च विज्ञाने निर्भिद्यैवोपदेशनम्
यथासंभवि यद्वज्रपक्षाणां तद्विदारणम् ॥ १.११८ ॥

तथा हि श्रीमता स्तोत्रे भट्टनारायणेन तत्

नमस्ते भवसंभ्रान्तभ्रान्तिमुद्भाव्य भिन्दते ॥ १.११९ ॥
ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते
निर्द्वन्द्वमिति निर्द्वैतं प्रकटीक्रियते पदम् ॥ १.१२० ॥

उद्भाव्यन्ते भ्रमाश्चेति चकारोऽत्राद्भुतावहः

इह चाद्वैतमेवेति पुरतः प्रतनिष्यते ॥ १.१२१ ॥
अध्वशुद्ध्यादिकं द्वैतेऽनुपपत्तीति वक्ष्यते

अभेदेन विना नैतन्ननु भेदं विनापि किम् ॥ १.१२२ ॥

सत्यं किंत्वद्वये तत्त्वे भेदोऽपि न न युज्यते
इदं हि तत्पराद्वैतं भेदत्यागग्रहौ न यत् ॥ १.१२३ ॥

भेदे तु विश्वभावानां स्वस्वभावव्यवस्थितेः
अभेद इति शब्दोऽयं मन्ये भेदयते रसात् ॥ १.१२४ ॥

तदलं प्रकृतं निरूप्यते
परमेशः किल भेदकल्पनाम्
प्रकटीकुरुते यथा तथा
ननु कालोऽपि विजृम्भते तथा ॥ १.१२५ ॥
न तथापि च याति भिन्नतां
परमार्थेन कदाचिदेव सः
युगपत्स हि संविदात्मकः

नन्वित्थमेकघनभावविमर्शसारे
संवेदने यदहमेष करोमि चित्रः
जानामि वा तदपरेऽपि न मैत्रचैत्र-
प्राया विदध्युरथवापि कथं न विद्युः ॥ १.१२७ ॥

अहो मायाग्रन्थिर्निबिडतम एषोऽत्र भवताम्
इदं हि प्रब्रूमः स्वपरमिह नास्त्येकमभिदम्
अहं वेद्मीत्येषा घटतनुविशेषप्रकटता
प्रथाश्चित्राकाराः परमहसि भान्तीति कथितम् ॥ १.१२८ ॥

तस्माद्घटं वेद्म्यहमित्यमुत्र
भेदो न कश्चिन्ननु मे घटोऽयम्
भातीति भेदप्रतिभानमस्ति
नैतन्न तस्यैष शिवस्तथायम् ॥ १.१२९ ॥

अत एव द्वैपायनमुख्यास्तेषु स्वशास्त्रदेशेषु
ममकारमेव मृत्युं खण्डनदायित्वतः प्राहुः ॥ १.१३० ॥

तदेवं कालकलनोपाधिजातोपरागजाः
तदेत्यादि प्रतायन्ते परतत्त्वेऽपि संविदः ॥ १.१३१ ॥

तत्र पूर्णैकरूपत्वात्सर्वं सर्वत्र चापि तत्
अन्यथा खण्डनायोगान्न पूर्णा पूर्णता भवेत् ॥ १.१३२ ॥

ततः पूर्णतया सर्वंसहभैरवधामनि
पञ्चात्मकोऽयं शास्त्रार्थः शाम्भवः. शक्त्यणुस्थितिम् ॥ १.१३३ ॥

न्यक्कृत्यैष परां देवीं स्वात्मन्युद्रेच्य वर्तते

इत्थं स विसिसृक्षुः सन् भावान् विस्रष्टृतापदात् ॥ १.१३४ ॥
पूर्वमुच्छलितानन्दघनामभजत स्थितिम्

विस्रष्टृतापदे त्वेष विसर्गावेशभागपि ॥ १.१३५ ॥
रिक्तीभविष्यन्नानन्दघनया पूर्णया चिता
तावदानन्दशक्त्यंशविसर्गावेशनिर्भरः ॥ १.१३६ ॥
वर्तमानः स्वशक्त्योघपूर्णश्चाभूद्भविष्यति
रिक्तशक्तिरिति त्र्यात्मचित्रसंवेदनात्मकः ॥ १.१३७ ॥
तदासौ देवदेवः स्याद्विस्रष्टरि पदे स्फुटम्

ननु किं वर्तमानांशे संस्तो भूतभविष्यती ॥ १.१३८ ॥
किं नाम भवता ज्ञातं ते स्वतन्त्रेऽपि के चन
वर्तमानावधेर्भूतं भविष्यच्च विभज्यते ॥ १.१३९ ॥

यच्च यत्र न विश्रान्तं तद्विभज्येत वै कुतः
कथं चावधिभावः स्याद्वर्तमानस्य ते प्रति ॥ १.१४० ॥
तयोरवधिमत्त्वं वा तत्प्रत्यपि कथं भवेत्
विश्वस्य विश्वमवधिस्तद्वद्वा जायते न किम् ॥ १.१४१ ॥

तस्माद्भूतं भविष्यच्च वर्तमानाख्यसंविदि
रूढमेवेति तत्रैव यदि विश्रान्तिमावहेत् ॥ १.१४२ ॥

यदि चात्रैव निखिलकल्पनारश्मिमण्डलम्
अविस्फार्य क्षणं तिष्ठेत्संनिरुद्धनिजस्थितिः ॥ १.१४३ ॥
तन्निजामृतविस्फारचमत्कारैकचर्वणाम्
लभते परमानन्दसुधासन्दोहवाहिनीम् ॥ १.१४४ ॥

तथा हि सूर्यरश्म्योघपूर्णः स्याच्चन्द्रमा यदा
तदा सूर्यकरान् भूयो यावन्न विसिसृक्षति ॥ १.१४५ ॥
तावत्स्वमण्डलाभोगे क्षणं विश्रान्तिसुस्थितः
अन्तःस्थविश्वदेवांशतर्पणापात्रमुच्यते ॥ १.१४६ ॥

एवं भावप्रकाशार्कमरीचिनिचयाञ्चिते
स्वबोधचन्द्रमहसि वर्तमाने हृदन्तरे ॥ १.१४७ ॥
विश्रान्तोऽन्तःस्थितोदारचित्सुधासारसुन्दरे
अन्तःस्थस्वामृतापूरो वम्यते न बहिर्यतः ॥ १.१४८ ॥

तत एवान्तरेवासौ घूर्णमानः समुच्छलन्
स्वान्तःस्थदेवताचक्रतर्पणाहंविदात्मकः ॥ १.१४९ ॥
जायते यावदुद्दाम्येत्तावत्स्वकरणक्रमः

निरुद्धे रश्मिपटले विभवाभावयोगतः ॥ १.१५० ॥
न भूतं न भविष्यच्च वर्तमानाद्विभज्यते

अविभागस्तयोर्यावत्तावत्का वर्तमानता ॥ १.१५१ ॥
भूतभाविस्वभावाभ्यां सा हि याति विभागिताम्

तदस्मिन् संविदवधौ विश्रम्य तुटिमात्रकम् ॥ १.१५२ ॥
कालग्रासपरो योगी जायते खेचरः क्षणात्

उक्तं हि भावाभासो यः कालः स कलनात्मकः ॥ १.१५३ ॥
स्वसंविद्रश्मिसंस्फारो भावाभावः स नापरः

तस्मात्स्वरश्मिसंरोधद्वाररुद्धाध्वमण्डलः ॥ १.१५४ ॥
कालग्रासैकरसिको जायते खेचरः स्वयम्

तदुक्तं परमेशेन तन्त्रे श्रीडामराभिधे ॥ १.१५५ ॥
निरुद्ध्य रश्मिचक्रं स्वं पीत्वामृतमनुत्तमम्
कालोभयापरिच्छिन्ने वर्तमाने सुखी भवेत् ॥ १.१५६ ॥

रोधोऽपि नाम नैतस्मिन् संकोचपरिवर्जिते
तदभावान्न विस्फारो ग्रासतृप्ती तथात्र के ॥ १.१५७ ॥

किं तूक्तनीत्या संरोधस्फारग्रासादि भासते
न तथाभासनाच्चान्यद्वस्तु विश्वत्र किं चन ॥ १.१५८ ॥

इत्यलं खेचरीचक्रगोष्ठ्यालापेन भूयसा
को वाभिनवगुप्तेऽस्मिन् योगः संवेदनक्रमे ॥ १.१५९ ॥

प्रकृतं ब्रूमहे देवीविसृष्टाश्चित्रसंविदः
यावत्तावद्तदूर्ध्वोर्ध्वं स्रोतो यद्भेदवर्जितम् ॥ १.१६० ॥
सौरभर्गशिखादीनि ततः शास्त्राणि तेनिरे

उक्तं भर्गशिखायां च देवेन परमेष्ठिना ॥ १.१६१ ॥
ऊर्ध्वस्रोतोद्भवं ज्ञानमिदं तत्परमं प्रिये

परमध्वनिनोर्ध्वोर्ध्वसंविद्रूपाभिधायिना ॥ १.१६२ ॥
ईशानवक्त्रनिर्यातात्सिद्धान्ताद्भेदमादिशत्

अत्रापि पूर्वभेदांशव्यामिश्रीभावचित्रिताः ॥ १.१६३ ॥
विज्ञानसंपदस्तांस्तांस्तन्वते शास्त्रविभ्रमान्

इह यावत्तु मुख्येयं षडात्मा शास्त्रसंततिः ॥ १.१६४ ॥
एतत्पूर्वार्धभागीनि त्रिकशास्त्राणि यानि तु
षडर्धसंज्ञया तानि गुरुभिर्भाषितान्यलम् ॥ १.१६५ ॥
न तु गूढरहस्यत्वादेवैष वचनक्रमः

एवं हि द्वादशार्धार्धमित्याद्यपि न किं भवेत् ॥ १.१६६ ॥

अत्र शक्तित्रयं मुख्यं संपूर्णस्थिति कल्पते
अनन्योन्योपरोधेन पूर्णं पूर्णचिदात्मकम् ॥ १.१६७ ॥

ततः परं तु त्रितयं कस्यांचिद्गुणिताजुषि
अन्यस्यां गुणताभाजि यामलं परिभाष्यते ॥ १.१६८ ॥

पश्चाद्विसृष्टेऽर्थौघे तद्वैचित्र्योपाधियोगतः
पृथग्भाववियोगासु स्वात्मशक्तिषु पञ्चसु ॥ १.१६९ ॥
चित्स्पन्देच्छाविदाकर्मरूपासु स्वौचितीवशात्
पञ्चब्रह्माङ्गसुभगात्स्फुरद्भावांशबोधजम् ॥ १.१७० ॥
रूपं शास्त्रात्मतां प्राप्तं पञ्चधैव विजृम्भते

तथा हि प्रागनन्तान्तःस्थितभावौघजृम्भणम् ॥ १.१७१ ॥
यावत्करोति भगवांस्तावदीशमुखस्थितिः

अन्तःस्थाया अभिन्नायाः क्रियाशक्तेर्विजृम्भणे ॥ १.१७२ ॥
क्रमादुन्मिषिते तावानेष स्फारः प्रतायते

क्रियाशक्तेः स्फुटः स्फारो मायात्वं प्रतिपत्स्यते ॥ १.१७३ ॥
मायातत्त्वस्वरूपे हि शिवेशानीति वक्ष्यते

शुद्धशुद्धेतराशुद्धविश्वनिर्माणकारिणः ॥ १.१७४ ॥
पञ्चमन्त्रतनोः शम्भोर्निर्मेयाशुद्धसंगतिः
अस्त्येव पूर्वकोट्यां हि सर्वमेव व्यवस्थितम् ॥ १.१७५ ॥

तथा हि स्वगृहात्क्वापि यियासोः प्रथमक्षणे
यावत्किं चन गन्तव्यं यच्च तन्मध्यवृत्ति तु ॥ १.१७६ ॥

तुटिपातेऽपि सर्वज्ञसर्वकर्तृत्वलब्धृता
तत एव विशेषांशनिष्कम्पकुशलात्मनाम् ॥ १.१७७ ॥

तथा हि जात्यखड्गाग्रधारासंस्पर्शसंमिता
स्फुरत्त्वसमकालं धीर्विशेषांशान् प्रकर्षति ॥ १.१७८ ॥

रत्नतत्त्वस्फुटप्रज्ञो विद्युत्तत्कालदर्शितान्
तांस्तान् विशेषांश्चिनुते रत्नानां भूयसामपि ॥ १.१७९ ॥

अनेकस्वरसंभारस्पर्शलाघवयोजिते
वीणायामेकविस्तारे वैचित्र्यं वेत्ति तन्मयः ॥ १.१८० ॥

निबिडाभ्यासधाराग्रविश्रान्तश्रवणेन्द्रियः
वेत्त्येव तत्स्वरांशान्तःश्रुत्यूनाधिकतामपि ॥ १.१८१ ॥

आस्तामभेदवादेऽस्मिन्नयत्नेनैव सिद्ध्यति
एतद्यत्र विभाते ऽपि भेदे वास्तवमद्वयम् ॥ १.१८२ ॥

भेदैकजीविते शास्त्रे यावदेतद्स्थितं स्फुटम्
तथा हि पातञ्जलिना पादे वैभूतनामनि ॥ १.१८३ ॥

न्यरूप्यत ’प्रातिभाद्वा सर्वम्ऽ अत्र मयापि च
प्रातिभे प्रथमोन्मेषे संविद्रूपिण्यखण्डिते ॥ १.१८४ ॥

स्थितः सर्वस्फुरत्तात्मा सर्वसिद्धिफलोदयः
एवं जगति निर्मेये निर्मित्सास्वीकृतं बलात् ॥ १.१८५ ॥
अशुद्धमपि तद्रूपनानावैचित्र्ययोग्यपि
सामान्याकाररूपेण दलं भेदात्मसुन्दरम् ॥ १.१८६ ॥
आस्ते प्रोन्मिषितं सैषा भेदाभेदात्मिका स्थितिः
अत एव हि सादाख्ये ज्ञानशक्तिस्वरूपिणि ॥ १.१८७ ॥

अशुद्धिलेशकालुष्यात्परापरतया स्थितिः
तेनेशभुक्तादेतस्मादप्यूर्ध्वपदभागिनः ॥ १.१८८ ॥
मायाप्रकटनौत्सुक्यात्तत्संस्कारजुषस्तथा
बहुक्रियासमारम्भमयं विविधमन्त्रणम् ॥ १.१८९ ॥
प्रादुर्भूतं महाज्ञानसन्ततेश्च शिवप्रदम्

स हि तत्रापरो भावः परभावनिमीलितः ॥ १.१९० ॥
न तु रूढिमुपागच्छेदशुद्धोर्ध्वविधाविव

तेन वैष्णवबौद्धादिशासनान्तरनिष्ठिताः ॥ १.१९१ ॥
यथा सम्यङ्न मुच्यन्ते न तथा शैवसंस्कृताः
अतिमार्गक्रमकुलत्रिकस्रोतोन्तरादिषु ॥ १.१९२ ॥

परमेशानशास्त्रे तु ये सम्यग्दीक्षिता नराः
तेषां नैवापवर्गस्य लाभे भेदोऽस्ति कश्चन ॥ १.१९३ ॥
न चैतदतिरिक्तोऽपि मोक्षोपायोऽस्ति कश्चन

केवलं क्वाप्यनायासाज्जीवन्मुक्तिक्रमेण च ॥ १.१९४ ॥
शीघ्रमेव परा सिद्धिर्यथास्मद्दर्शनेष्विति

क्वापि तत्त्वावलीयोगपरिपाटीक्रमाच्चिरात् ॥ १.१९५ ॥
तैस्तैः क्रियाकलापैश्च लभ्यते परमं फलम्

अत एवास्ति संहारदृशां कौलिक्यपीह दृक् ॥ १.१९६ ॥
यथोक्तं कालपादादौ दीक्षयेच्छ्वपचानिति

चिदुन्मेषादिकाः पञ्च याः पूर्वं प्रागभेदतः ॥ १.१९७ ॥
प्रोक्ताः परस्मिंश्चिन्नाथे भैरवे समवायतः
ता एव भावोपाध्यंशलब्धभेदविभाविताः ॥ १.१९८ ॥
भेदांशमेव पुष्णन्ति प्रागभेदजुषोऽप्यलम्

तथा ह्योदनसंभोगो यो देहस्योपचायकः ॥ १.१९९ ॥
कफसंचयपातेन स देहस्यापचायकः

ननु देवस्य विश्वात्माभेदेऽपि स्वापरिच्युतेः ॥ १.२०० ॥
विकारिष्वेव योग्यानामुपाधीनां गतिः कुतः

तदुपाधिवशाद्भेदो भैरवे भावसंभवात् ॥ १.२०१ ॥
इति नास्मन्मनोभूमावुपारोढुमिवार्हति

तूष्णीं विकारिणो भावाः सन्तीति ह्यतिसाहसम् ॥ १.२०२ ॥

देवः स एव विश्वात्मा तथारूपेण भासते
अनुपाधेरभिन्नस्य भिन्नमौपाधिभासनम् ॥ १.२०३ ॥

नन्वित्थं तदसत्यं स्यात्कथं सत्यं तदेव हि
तथावभासनादन्यत्क्व किं सत्यं निरूप्यताम् ॥ १.२०४ ॥


नन्वेवं स्वप्नसंसारः किं सत्यं किंत्वसौ किल
अभीष्टार्थक्रियावन्ध्योऽसत्यो व्यवहृतः परम् ॥ १.२०५ ॥
एतच्चाग्रे प्रपञ्चेन युक्तियुक्तं निरूप्यते

तस्मादुन्मेषशक्तिर्या पूर्वमासीदभेदिनी ॥ १.२०६ ॥
भावोन्मेषस्वरूपासौ याता तत्पुरुषस्थितिम्

यदभिन्नं तदग्राह्यं यच्च ग्राहकमीश्वरम् ॥ १.२०७ ॥
अधुना तत्स्थितं ग्राह्यं भेदात्तद्ग्राहकं भिदः
पुरुषाख्यं ततः प्रोक्तं सृष्टेः प्रारम्भयोगतः ॥ १.२०८ ॥
सुस्फुटप्रत्यभिज्ञानान्मुख्यं वक्त्रं च भण्यते

अत एवात्र विसरभावस्थितिविघातकम् ॥ १.२०९ ॥
नानारुग्ग्रहसंघातविषादि परिचर्च्यते

अनेकयुक्तिदलितव्याधिसंशान्तसुस्थिताः ॥ १.२१० ॥
अत्र सुस्फुटतां यान्ति भावा भेदैकवृत्तयः

भावत्वमेव यत्सर्वं तत्त्विदं पूर्वजं मुखम् ॥ १.२११ ॥

सर्वतश्च गुणोत्कर्षादीशानस्योर्ध्ववक्त्रता
दिक्कालकलनाशून्ये न तु दिग्भेदकल्पनाः ॥ १.२१२ ॥
यो हि यस्माद्गुणोत्कृष्ट इति चोर्ध्वो भविष्यति

ततो भावान् यदा सम्यगिच्छतीच्छाविभूतितः ॥ १.२१३ ॥
तदेच्छायां समारूढाः सा चेच्छा चैव निर्मला

येन तन्मयतायोगात्संविदैक्यं स्पृशन्त्यमी ॥ १.२१४ ॥

किंतूपाध्युपरक्तेच्छासंछादनतिरोहिताः
ते तदानीं स्थिता भावा देवस्तु स्वैषणास्थितः ॥ १.२१५ ॥

पराचीनितसंवित्तिवक्त्रो न च परां स्थितिम्
पूर्णामध्युषितस्तेन सुषुप्त इव भासते ॥ १.२१६ ॥

असुप्तश्च प्रबुद्धत्वात्तस्य स्वापो निमीलनम्
न ह्यस्ति परमार्थेन भैरवानन्दसंविदः ॥ १.२१७ ॥

तस्मिन् परप्रकाशे हि निमीलत्त्वमुपागते
प्रलयात्तन्निमीलत्त्वमितिर्वा कुत्र भासताम् ॥ १.२१८ ॥

अनाभातं च नो वस्तु व्योमसद्मगवाक्षवत्
सोऽपि वा कल्पिताकारश्चित्प्रकाशे प्रकाशते ॥ १.२१९ ॥


तदमीलित एवायं निमीलन्निव तिष्ठति
प्रभूणामविकल्प्या हि शक्तिर्दुर्घटकारिणाम् ॥ १.२२० ॥

इदं सुखेन घटते दुःखेन घटते त्विदं
इत्याभासनवैचित्र्ये स्वतन्त्रो हि स एव नः ॥ १.२२१ ॥

तदेव तस्य स्वातन्त्र्यं शक्तिर्नियतिनामिका
यया रुद्धः पशुर्जातु स्वातन्त्र्यं नैव विन्दति ॥ १.२२२ ॥

तदपेक्षाबलात्प्रोक्ता पत्यौ दुर्घटकारिता
न हि विश्वात्मनः किं चित्सुघटं वाथ दुर्घटम् ॥ १.२२३ ॥

किं मुहुर्मुहुरेतेनासकृन्ननु निरूपितम्

हन्ताविस्मृतिशीलं त्वां प्रत्येतत्स्यादपार्थकम् ॥ १.२२४ ॥
एकमुद्दिश्य किंत्वेतत्संरम्भो न विराजते
किं ह्येकाङ्कुरसंपत्त्यै प्रावृषेण्याः पयोमुचः ॥ १.२२५ ॥

मर्मस्थानमिदं चात्र व्युत्पाद्यो हि जनः स च
व्याप्तो हृद्भुवि कर्मौघकृष्टायां सौकुमार्यतः ॥ १.२२६ ॥

मायाबीजोत्थितानन्तविकल्पाङ्कुरकन्दलैः
भेदाभिमानजनितवाचनौचित्यसेवितैः ॥ १.२२७ ॥

यावद्विद्यामहादावज्वालयैषा पुनः पुनः
नालब्धा तावदस्यैतद्द्वैतं रोहेत्पुनः पुनः ॥ १.२२८ ॥

तीक्ष्णयुक्तिकुठारौघैः सद्विद्यावह्निदीपितैः
निर्भिन्नो भेदविटपी पुनर्नैव प्ररोहति ॥ १.२२९ ॥

एवं देवे सुषुप्तांशमध्यासीने स्थिता अपि
असद्देशीयतां यान्ति भावाः श्वभ्रकपित्थवत् ॥ १.२३० ॥

अत्र तादृशमेव स्वं ज्ञानं वैराग्यनिर्भरम्
निरुपाख्यं निरालम्बं व्यजृम्भत विभागतः ॥ १.२३१ ॥

कपालमालाभरणाः श्मशानपदवासिनः
अस्मात्पराङ्मुखीभूता भूतसंघातगोचराः ॥ १.२३२ ॥

भोग्यं जुगुप्सावधि सर्वमेव
भोक्ता ह्यहं कः किल देह एषः
चर्मास्थिमात्रं न च सारमत्र
लेशांशभागेऽपि कदाचिदस्ति ॥ १.२३३ ॥


इत्थमभ्यस्यमानास्ते परां वैराग्यसम्पदम्
प्रतिक्षणमुपारुह्य निमीलन्ति तदाहताः ॥ १.२३४ ॥

किमेतदिति धावन्ति दुःखेऽपीन्द्रियवृत्तयः
एतदेवमिति प्रायो विरज्यन्ते सुखादपि ॥ १.२३५ ॥

दृष्टानुश्रविकार्थौघवैतृष्ण्ये वशताधियः
तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यमित्यपि ॥ १.२३६ ॥

नन्वकाण्डेऽपि पृच्छामः किं चिद्यदि न कुप्यते

  • किमकाण्डे भेदकाण्डभेदकाण्डघटावधौ ॥ १.२३७ ॥


तर्हि संविदियं शुद्धा स्वभावादेव चेत्कथम्
अशुचिभ्योऽपि भोगेभ्यो रसात्स्पृहयतेतराम् ॥ १.२३८ ॥

नन्वविस्मृतिशीलत्वाभिमानः क्वाधुना गतः
अलं वा बुद्ध्युपालब्धैरुक्तमप्येतदुच्यते ॥ १.२३९ ॥

स्वभावादेव संवित्तिः प्रकाशपरमार्थिका
विश्वावभासयोगेन भातीति हि विपञ्चितम् ॥ १.२४० ॥

अतश्च संविदो देव्या विश्वस्मिन् भावमण्डले
स्वात्मन्येवोच्छलत्त्वं किं खण्डनादायि जायते ॥ १.२४१ ॥

यदापि परमेशानशक्त्या भेदोऽवभास्यते
तदापि संविद्भावेषु धावतीति विविच्यते ॥ १.२४२ ॥

यथा लोष्टह्रदज्वालाश्वासकुम्भवियत्स्थितिः
धराम्बुधिमहातेजःसमीरानन्तखात्मताम् ॥ १.२४३ ॥

यात्येव मितिरूपेयं संवित्स्वोच्छलिता क्रमात्
संविद्रूपसजातीयान् भावानेवानुधावति ॥ १.२४४ ॥

न्यरूप्यत तथा चैतत्केनापि परमेशिना
निम्नं तडागपानीयं कः प्रवर्तयितुं क्षमः ॥ १.२४५ ॥
परिपूर्णे पुनस्तस्मिन् प्रवाहाः सर्वतोमुखाः

ननु किं कांश्चिदेवेत्थं सैषा स्वनियतेर्बलात् ॥ १.२४६ ॥
इत्थं धावति तच्चास्या रागतत्त्वात्मकं वपुः

तत्रापि च तथा रागाभास एव स धार्यताम् ॥ १.२४७ ॥
चिदात्मनि तु रागोऽस्तु कोऽप्यन्यारूषणात्मकः

नन्वित्थं चेत्कथं नाम सा कुत्रापि विरज्यते ॥ १.२४८ ॥
हन्त प्रकृत एवायं वादः संगतिमागतः
यदा हि चितिरेवैषा सर्वतः संकुचत्स्थितिः ॥ १.२४९ ॥

क्रमेण भोगोपायेभ्यो भोग्येभ्यो देहतो भुजः
भोगाद्भोक्तुस्तथा शून्या महाप्रलयभागिव ॥ १.२५० ॥

जायते रुद्ररूपैषा दशा सांहारिकी यतः
सद्योजातश्च यद्रुद्रः पुरुषश्चेश्वरात्मकः ॥ १.२५१ ॥
श्रीमान् सदाशिवो देव ईशानश्चेति गीयते
विष्णुर्वामः कज्यघोर इति चैतद्भविष्यति ॥ १.२५२ ॥

अन्तःस्थसर्वशक्तित्वेनैकैकस्यापि बृंहणात्
ब्रह्माण्येतानि कथ्यन्ते बृहत्त्वाद्विश्वबृंहणात् ॥ १.२५३ ॥

तदन्यशक्त्युद्रेकांशे ह्यत एव विवक्षिते
प्रत्येकमस्ति ब्रह्मादिहेतुपञ्चकयोगिता ॥ १.२५४ ॥

सैव शास्त्रेषु भेदेन तेषु तेषु प्रतन्यते
अतश्च सद्योजातेऽस्मिन्मुख्या रौद्रदशा स्थिता ॥ १.२५५ ॥
सा च संकोचरूपापि चिद्विकासे भविष्यति
यल्लीनौ ब्रह्मविष्ण्वंशौ तेनाधःकुरुते बलात् ॥ १.२५६ ॥

वस्त्वभावमयीत्यादिदशा रुद्राधिदेवता
भिन्नप्रमेयेति श्रीमदुत्पलेन न्यरूप्यत ॥ १.२५७ ॥


जातोऽपि भेदतन्मात्रे संकोचं यदुपागतः
ततो व्यतिनिमीलेते भोक्तृभोग्याविह स्फुटम् ॥ १.२५८ ॥

अजातमिव तद्विश्वमत्र सद्योऽवभासते
सद्योजातपदं तेन शून्यसंवेदनात्मकम् ॥ १.२५९ ॥

ततः शून्यपदस्यान्तर्यावत्स च विविक्षति
देवस्तावत्स्वयं बोधे विश्वं प्रोच्छलति स्थितम् ॥ १.२६० ॥

जानाति सेयं नाथस्य ज्ञानशक्तिर्विकासिनी

तयोर्विकासिचिद्धाम्नि लीनत्वमुपपादितम् ॥ १.।२६१। ॥
संविदः शून्यरूपाया विकासो विश्वमेव तत् ॥

तथा हि घनसौषुप्तविश्रान्तिवशनिर्भरः ॥ १.२६२ ॥
तांस्तान् गृहापणाद्यंशान् वेत्ति स्वप्नपदाभिधान्

अत एव न सा सृष्टिः स्थितिरेव तु सा तथा ॥ १.२६३ ॥
पूर्वसृष्टेषु भावेषु तद्धि विज्ञानमात्रकम्

तथा च जाग्रतो रूपात्स्वप्नो भेदेन जायते ॥ १.२६४ ॥

किंतु जाग्रत्पदादीनां प्रत्येकं बहुभेदता
निर्णेष्यते ततो युक्तं सृष्टिरूपेण भासनम् ॥ १.२६५ ॥

अतो निजविबोधेन तान् भावान् व्याप्नुवन् विभुः
एतैस्त्याजयते तां स्वामौदासीन्यदशां विभुः ॥ १.२६६ ॥

ज्ञानशक्तेरियं जृम्भा तज्ज्ञानस्थितिभाविनः
भावाः प्रयान्ति पूर्णत्वं विकासिनिजतेजसः ॥ १.२६७ ॥

परमः खलु संकोचः सद्योजातपदे भवेत्
यदेषां स्वस्वरूपस्य निष्ठा नैव स्म जायते ॥ १.२६८ ॥

विना संविदुपारोहं सत्तासत्ता जडोऽजडः
अनीलं नीलमित्यादिव्यवस्था कल्पतां कथम् ॥ १.२६९ ॥

यदुवाचोत्पलगुरुर्यथा सदसतां तथा
जडाजडानां न स्वात्मविशेष इति निश्चितम् ॥ १.२७० ॥

तस्माद्बोधभरोल्लासविसृष्टस्वपरस्थितिम्
चिदनुप्राणनां विष्वग्वमन्नानन्दसुन्दराम् ॥ १.२७१ ॥

चिदेकवपुषा विश्वं स्वीचिकीर्षंश्चिदात्मनि
स्वबोधशक्तिवमनात्स देवो वाम उच्यते ॥ १.२७२ ॥

स्वबोधशक्त्युद्रेकेण यद्यप्येष प्रयच्छति
भावानां स्ववपुस्तादृक्तथापि परमार्थतः ॥ १.२७३ ॥
स्वीकर्तुमिच्छन् संहारमेषां कल्पयते भिदः
अतो भेदव्यवस्थायां वामोऽसौ परमेश्वरः ॥ १.२७४ ॥

अत्र सौभाग्यनिःष्यन्दि तादृग्ज्ञानं प्रतायते
सौभाग्यं सोच्यते तेषां भिन्नानां स्वीक्रियैव या ॥ १.२७५ ॥
भावानां च विचित्राणां भोगाङ्गानां स्वशक्तितः
स्वकौतुककलालोकादुच्छलन्त्येव या चितिः ॥ १.२७६ ॥
सैव स्वभावरागेण विश्वं रञ्जयते यतः
व्यक्तो हि रञ्जयेद्विश्वं व्यक्तिश्चास्य स्वरूपतः ॥ १.२७७ ॥

यैव प्रोच्छलितावस्था स्वीकारेच्छाभरोदयः
तद्रश्मिसारसर्वस्वे क्षणं तिष्ठत्यनन्यधीः ॥ १.२७८ ॥

किं नाकर्षति किं नैष च भावयति योगवित्
तत एवोच्यते शास्त्रे नारक्तो रञ्जयेदिति ॥ १.२७९ ॥

कामस्थं काममध्यस्थं कामाङ्कुशपुटीकृतम्
कामेन साधयेत्कामान् कामं कामेषु योजयेत् ॥ १.२८० ॥

कामः स्वीकर्तुमिच्छैव तदाच्छादनयोगतः
विश्वं साधयते कामी कामतत्त्वमिदं यतः ॥ १.२८१ ॥

तथा हि परमे स्वात्मन्यध्यास्य स्थैर्यमञ्जसा
तदुच्छलितसंबोधकलासंछादनक्रमात् ॥ १.२८२ ॥
विश्वं कामाङ्कुशाधीनं किंकरत्वेन भासते

अध्यात्मसिद्धया युक्त्या त्वनयैव निजोदये ॥ १.२८३ ॥
प्राणः पुर्यष्टकं देहं व्याप्य विश्वं प्रकर्षति
तत्त्वस्य कामतत्त्वस्य प्रकटीक्रियया यतः ॥ १.२८४ ॥
सिद्धचक्रेष्विदं गोप्यं किं वा न प्रकटीकृतम्

शून्यानन्दात्प्रसृत्यैव देवः प्रोच्छलितात्मकः ॥ १.२८५ ॥
वर्तमानो निजाः शक्तीर्विकास्यैव प्रवर्तते

यत्रास्य प्रविविक्षास्ति यतश्च प्रावृतद्विभुः ॥ १.२८६ ॥
सर्वाः शक्तीरसौ भावः स्वात्मन्युद्रेच्य वर्तते
ततश्चिदात्मको देवो न्यग्भूत इव भासते ॥ १.२८७ ॥

उद्भूतास्तु विभान्त्येताः प्रोन्मेषेच्छाविदिक्रियाः

अतश्चतुष्कयुक्तोऽसौ यद्यपि प्रतिभासते ॥ १.२८८ ॥
तथापि शक्तिगणना वस्तुतोऽस्य भवेत्कुतः

अत्रैव भावभेदांशनिर्मूलनकला यतः ॥ १.२८९ ॥
स्थितस्ततः समाचारो लोकातिक्रान्तगोचरः
अनन्तशक्तिवैचित्र्यादत्राप्युच्चाटनादयः ॥ १.२९० ॥
संहारलीलाभूयिष्ठा अपि तास्ताः क्रियाः स्थिताः

तदित्थं ज्ञानशक्त्यन्ते भावानां वपुषि स्थिते ॥ १.२९१ ॥
क्रियाशक्तिरथान्त्यैव तान् संहरति सादरम्

यथा सूक्ष्मतमा शक्तिरुन्मेषाख्या परावधौ ॥ १.२९२ ॥
स्रष्टव्यभावस्थौल्येन स्थूलाकारेव भासते
तथैवैषा क्रियाशक्तिर्यस्यां भावा निमेषिताः ॥ १.२९३ ॥
स्वस्वरूपस्थिता कापि पूर्णेव प्रविजृम्भते

नन्वस्त्येव क्रिया यस्यां भेदः प्रत्यवभासते ॥ १.२९४ ॥
मैवं सर्वा क्रिया भेदं प्रत्युत प्राग्व्यपोहति

तथा हि भेदभूमौ ये काष्ठज्वलनतण्डुलाः ॥ १.२९५ ॥
त एव पाकाविष्टत्वे भेदं प्रोज्झन्ति सादरम्

यदि भिन्नस्वरूपास्ते पाकैक्यं तत्कथं भवेत् ॥ १.२९६ ॥
भिन्नं स्वरूपमङ्गानां न हि युक्त्योपपद्यते

ननु पाको न कश्चित्स यत्तन्नानास्वरूपकम् ॥ १.२९७ ॥
ज्वलनक्लेददाहादि तत्पाक इति शब्द्यते

भिन्ना एव क्रियाः सर्वाः फलमेकं प्रति स्थिताः ॥ १.२९८ ॥
पाक इत्युच्यते नान्या क्रिया नामास्ति काचन

एतदेव कथं बह्व्य एकं फलमभीप्सितम् ॥ १.२९९ ॥
कथं संपादयेयुस्ताः. पूर्वोक्तादेव हेतुतः

ननु लोचनदीपार्थमनस्कारैरपि स्फुटम् ॥ १.३०० ॥
जन्यते ज्ञानमेकं तत्तथैवात्र भविष्यति

सोऽयं कर्दमसंमर्दमलिनीभूतविग्रहः ॥ १.३०१ ॥
मरौ मरीचिकाम्भोभिः स्नानेच्छुरभिधावति

भिन्नस्वरूपाद्यद्येकमस्ति वस्त्विति संभवः ॥ १.३०२ ॥
तर्हि कारणभेदेन न भेदः पारमार्थिकः

अथ भिन्नस्वरूपं तदेकं चेत्युपगम्यते ॥ १.३०३ ॥
स्वभावभेदो भेदायेत्येतत्त्यक्तं व्रतं भवेत्

नन्वित्थं सा क्रिया मा भूदेका काष्ठादि कारकम् ॥ १.३०४ ॥
फलं जनयतामेवमप्यस्तु न हि नः क्षतिः

क्रिया हि नाम नास्माकमन्या शक्तिस्त्वसौ यतः ॥ १.३०५ ॥
शक्तिश्च फलभित्कॢप्त्या भावात्मैवाविभेदतः
सा च शक्तिर्विभोरेव स च विश्वात्मविग्रहः ॥ १.३०६ ॥

फलकारकभेदेन न भिन्ना परमार्थतः
स्वात्मन्यभिन्नेऽपि विभोरेवं भेदावभासनात् ॥ १.३०७ ॥
क्रियाशक्तिरिति प्रोक्ता यया कर्ता महेश्वरः

ननु यत्पशवः कुर्युः कथं तदुपपद्यताम् ॥ १.३०८ ॥
ते हि भेदैकजीवत्वात्कुर्युर्भेदवतीं क्रियाम्

अलमेतेन पशवः कथं कुर्युरिति स्फुटम् ॥ १.३०९ ॥
स एव स्ववचश्छिन्नो वादो वन्ध्यासुतादिवत्

न हि कुम्भकृतः क्वापि कदाचित्कर्तृता भवेत् ॥ १.३१० ॥
यदि नासौ महेशाख्यात्कर्तुरव्यतिरेकभाक्

ननु किं स्वित्कुलालेन कुम्भोऽपि क्रियते ततः ॥ १.३११ ॥
ईशस्य विश्वकर्तृत्वे किं पटेऽपि न कर्तृता
यद्येवं तत्कुलालेन पटोऽपि क्रियते न किम् ॥ १.३१२ ॥

नन्वेवं सति नो कर्ता कोऽप्यन्य इति कर्मणाम्
शुभाशुभानां स्वफलं कर्तुं कं प्रति हेतुता ॥ १.३१३ ॥

एवमेवैतदायुष्मंस्तथाह्येवं विजानताम्
न किं चन फलं क्वापि शुभाशुभसमुद्भवम् ॥ १.३१४ ॥

इत्थं ये तु न जानन्ति भुञ्जते तेऽविपश्चितः
तदेव कर्मसंज्ञं तु मलमज्ञानमूलकम् ॥ १.३१५ ॥

एतदेवानुमन्यैव केचित्संवित्तिमात्रकम्
संमन्यन्ते ह्यकर्तारं कर्तृत्वानुपपत्तितः ॥ १.३१६ ॥
चित्स्वरूपाधिकं ह्यस्य यत्तत्कर्तृत्वमुच्यते

तज्जाड्यमर्पयेदस्मै चिदाधिक्यप्रसङ्गतः ॥ १.३१७ ॥
प्रकृतेः कर्तृता पुंसि ननु नामोपचर्यते

एतन्न्यायपथापेतैर्वृथा जेगीयते गृहे ॥ १.३१८ ॥
उपचारो हि नो वस्तुतथात्वं प्रतिपद्यते
व्यपदेशः परं तादृग्वस्तुशून्योऽस्तु तावता ॥ १.३१९ ॥
नोपचारिकवह्नित्वव्यपदेशेऽपि मानवः
हिमानीशीकरासारिवातोत्थशिशिरापहः ॥ १.३२० ॥

द्रष्टुः पुंसश्च न द्रष्ट्री प्रकृतिः परिगीयते
न चान्योऽस्ति वराकोऽतः कर्तृभावोपचारकः ॥ १.३२१ ॥

किं च प्रयोजनं तस्य कर्तृत्वव्यवहारजम्
व्यपदेशस्तु नावस्तु परिवर्तयितुं क्षमः ॥ १.३२२ ॥

येऽप्यात्मानं नयविदः कर्तारं समुपागमन्
तेऽपि प्रश्नमिमं तावदस्माकं प्रतिभार्पितम् ॥ १.३२३ ॥

किं यादृग्लोकसंसिद्धकर्तृत्वं कर्मयोगतः
स्पन्दात्म तद्विभौ स्पन्दहीने समुपपद्यते ॥ १.३२४ ॥
ननु ज्ञानं चिकीर्षा च यत्नश्चेति गुणत्रयम्
समवैति यदत्रास्य तत्कर्तृत्वमुदाहृतम् ॥ १.३२५ ॥

इत्थं बालमतीनां धीर्विप्रलभ्येत वञ्चकैः
दारका अपि वा विद्युर्न संवेदनवर्जिताः ॥ १.३२६ ॥

तत्र ज्ञानं न कर्तृत्वं सर्वत्रास्त्येव तद्यतः
इच्छायत्नावपि प्रायः संस्तः सर्वस्य सर्वतः ॥ १.३२७ ॥

कुम्भकारो गृहाभावपरितापितचेतनः
जानन्निच्छन् सयत्नोऽपि किं कुर्यान्नात्मनो गृहम् ॥ १.३२८ ॥

ननु कर्तुं न जानाति ततः कर्तुं न चेच्छति
तस्मात्कर्तुं न यतते तद्गृहं कुरुतां कथं ॥ १.३२९ ॥

कर्तुमित्येव यद्रूपं ज्ञानादीनां विशेषणम्
करोतेस्तत्र कोऽर्थः स्याद्यदि सस्पन्दता किल ॥ १.३३० ॥
तदासौ स्पन्दितुं वेत्ति प्रेप्सतीति भवेद्वचः
तच्च स्वात्मगतं नास्य स्पन्दितं वैभवोद्भवात् ॥ १.३३१ ॥
अन्यदस्पन्दितं ज्ञानं शर्वस्यापि न संभवेत्
ज्ञानेच्छायत्नवत्त्वं च करणं तस्य भाषितम् ॥ १.३३२ ॥
आत्मनः कर्तुमित्यस्य ततोऽर्थप्रविवेचने
जानातीच्छन् प्रयतते ज्ञातुं यतितुमेषितुम् ॥ १.३३३ ॥
प्रत्येकमिति योऽर्थः स कर्तुं वेत्तीति शब्दितः
चिकीर्षितृत्वं चैतत्स्यान्न कर्तृत्वं पुनर्भवेत् ॥ १.३३४ ॥

तथात्वे मानसैः साम्यं भवेद्वाक्कायकर्मणाम्
वाक्कायकर्मभिर्वास्य कथं कर्तृत्वमापतेत् ॥ १.३३५ ॥

मानसान्यपि कर्माणि कथं तस्येति गीयताम्
तद्गुणत्रयसद्भावे मनोवाक्कायसम्भुवाम् ॥ १.३३६ ॥
कर्मणां संचितेरेष कर्मभागीति चेन्ननु
उपचारोऽयमेवं स्यात्स चावस्त्विति वर्णितम् ॥ १.३३७ ॥

किं चात्मगमहत्त्वादिद्रव्यान्तगुणसंनिधौ
तानि सन्तीति किं सोऽपि कर्तृत्वायतनो भवेत् ॥ १.३३८ ॥

न चास्त्वित्युपगन्तव्यं मुक्तावपि हि तद्भवेत्
अन्यात्मगुणसांनिध्ये समश्चैष विधिर्यतः ॥ १.३३९ ॥
आत्मस्वतः प्रवर्तेरन् कृतनाशाकृतागमाः

किं चेश्वरेण सर्वत्र बुद्धिमत्ताव्यपेक्षिणि ॥ १.३४० ॥
संनिवेशाधिके कार्ये निमित्तत्वं कृतं यदि
स्वैः स्वैश्च समवायान्यकारणांशैः प्रपूरिते ॥ १.३४१।
कमंशं कुम्भकारादेः प्रातुं भवतु हेतुता

न हि सोऽस्त्यंशलेशोऽपि सर्वकर्तरि यं प्रति ॥ १.३४२ ॥
न ज्ञानेच्छायत्नमस्ति कर्तृत्वं नान्यदित्यपि

तस्मान्नान्यस्य कर्तृत्वं कदाचिदपि संभवेत् ॥ १.३४३ ॥
ईश्वरादीश्वरस्यापि स्वातन्त्र्यं कर्तृतां विदुः

तदित्थं परमेशानां भेदे भेदेऽपि वात्मनाम् ॥ १.३४४ ॥
प्रभवन्ति न कर्माणि बन्धनाय स्वभावतः

तस्मादिदममुष्मात्स्यात्कर्मणो वा शुभाशुभम् ॥ १.३४५ ॥
तदैश्वर्यममुष्यैव विहितं परमेशितुः

निर्णीतमेतदन्यत्र मयैव विततं यतः ॥ १.३४६ ॥
तदलं प्रकृतं ब्रूमः क्रियाशक्तिरियं परा
अघोरत्वेन देवस्य तत एव प्रकीर्तिता ॥ १.३४७ ॥

दाक्षिण्यमत एवास्या भावानां शिवसंश्रये
यतोऽञ्जसैव मार्गोऽयं या क्रिया च न सात्मिका ॥ १.३४८ ॥

ननु नात्र स्थिताः केचिद्भावा ये शिवताश्रिताः
कर्तारः सत्यमित्थं तु बोध्यमानोऽवधारयेत् ॥ १.३४९ ॥

देशकालक्रियाकारकल्पनापथवर्जितः
देवदेवस्तथैवास्य शक्तिः सा विश्वरूपिणी ॥ १.३५० ॥

तद्विश्वमपि कालादिकलङ्काङ्ककलोज्झितम्
ह्स्पचे{३ म्} भैरवाभेदवर्तिनम् ॥ १.३५१ ॥

तत्स्वातन्त्र्यात्स्वतन्त्रं तत्स्वात्मनि प्रोच्छलत्स्थितम्
यतो भाति ततोऽप्यस्तशिवावेशबहिष्कृतम् ॥ १.३५२ ॥

अत एव परा सेयं दक्षिणाघोररूपिणी
यद्वक्ष्यते जन्तुचक्रे शिवधामफलप्रदाः ॥ १.३५३ ॥
पराः प्रकथितास्तज्ज्ञैरघोराः शिवशक्तयः

अन्यत्रापि क्रियाशक्तिः शिवस्य पशुवर्तिनी ॥ १.३५४ ॥
बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिनी

अकारादिहकारान्तः प्रसरो यः प्रगीयते ॥ १.३५५ ॥
स एव बिन्दुनिलयादस्वरत्वमुपाश्रितः
क्रियाशक्तिविजृम्भेयं समस्तवर्णमालिका ॥ १.३५६ ॥
क्रोडीकृतावहमिति परामर्शस्वरूपिणी

तिष्ठत्येव. ततः पूर्णपराहंकारसस्फुरः ॥ १.३५७ ॥

अनन्तादिविरिञ्चान्तपशुसंघातघस्मरः
निजोदरदरीनीतचराचरजगद्व्रजः ॥ १.३५८ ॥
स्वचैतन्यविमर्शान्तर्ग्रस्तपुद्गलसंचयः
यावदुल्लसितस्, तावत्क्रियाशक्तिस्वरूपतः ॥ १.३५९ ॥
असंविज्ञाननिःसंख्यवैचित्र्यचर्चितस्थितेः
अनन्तकार्यशान्त्यादिसौम्यरौद्रभिदात्मनः ॥ १.३६० ॥
अपि स्वग्रासमाहात्म्यप्रकटीकृतसुस्थितेः
औचित्याद्विविधाकारा अपि भैरवतेजसः ॥ १.३६१ ॥

रिक्तपूर्णोभयभवपुनरावृत्तिचित्रिताः
शाक्तस्वरूपविश्वाख्यस्वांशग्रासैकलम्पटाः ॥ १.३६२ ॥

लोककालचिरारूढभावोन्मूलनभाविताः
शक्तयो निजविस्फाराद्रश्मिपुञ्जं निजं निजं ॥ १.३६३ ॥

प्रसारयन्त्यः संकल्पसत्यभावसमाश्रयात्
स्वोचितान्येव लोकोत्थवामाचारबहिष्कृतेः ॥ १.३६४ ॥
घटयन्त्येव शास्त्राणि यातानि परिपूर्णताम्


यादृक्प्रथमसंभूतो लोकातिक्रान्तिगोचरे ॥ १.३६५ ॥
समाचारः स एवात्र ग्रस्तभेददशो भवेत्

पूर्णेयं परमेशस्य महासृष्टिरिह स्थिता ॥ १.३६६ ॥
यस्यां संहारसृष्ट्यंशा विश्वे ते मध्यवर्तिनः

सा चाद्या सृष्टिरित्येव नैव वक्तुं भवेत्क्षमम् ॥ १.३६७ ॥
अदेशकाले तत्त्वे हि कथमाद्यादिसंभवः

जाग्रद्दशेयं सा मुख्या प्रोन्मेषपदभागिनी ॥ १.३६८ ॥
ब्रह्मैष निजशक्त्यंशसंबोधकमलासनः

ता एताः सौशिवाद्रूपात्प्रभृति ब्राह्ममन्ततः ॥ १.३६९ ॥
रूपं कृत्वा विजृम्भन्ते संविन्नाथस्य शक्तयः

एतावानेव देवोऽयमिति यद्यपि शक्यते ॥ १.३७० ॥
न वक्तुमप्रमेयत्वाच्चिद्रूपस्य महेशितुः
प्रबोधपञ्चदशिकामध्ये तादृङ्मया स्फुटम् ॥ १.३७१ ॥

उक्तं मितप्रकाशत्वं जडस्य किल लक्षणम्
जडाद्विलक्षणो बोधो यतो न परिमीयते ॥ १.३७२ ॥
तथापि स्वयमेतादृग्देवो मानविवर्जितः
निजस्वातन्त्र्ययोगेन कृत्वात्मानं चराचरम् ॥ १.३७३ ॥

ईशतत्पुरुषाजातैरुद्भूतैरुद्बुभूषुभिः
एककैः षड्भिर्, एकेन त्रिकेण, द्व्यात्मकैस्त्रिभिः ॥ १.३७४ ॥
जायते शिवभेदानां दशानां विविधा स्थितिः

अत एव विचित्राभ्यः संविद्भ्यो मिश्रतावशात् ॥ १.३७५ ॥
चित्राण्यत्र शिवाख्येऽपि भेदज्ञानानि तेनिरे

यदा त्रयाणां वक्त्राणां वामदक्षिणसंगतिः ॥ १.३७६ ॥

तदा प्रत्येकशक्तित्वं भविष्यद्भवदुद्भवैः
षण्णां त्रित्वे रुद्रभेदस्तेनाष्टादशधा स्थितः ॥ १.३७७ ॥

एकैकं पञ्चवक्त्रं च वक्त्रं यस्मात्प्रगीयते
दशाष्टादशभिन्नस्य ततो भेदैरसंख्यता ॥ १.३७८ ॥

पूर्वोदितयथास्वस्वज्ञानकर्मविचित्रिताः
निर्णीयन्ते यतस्तेषु तेन नो पुनरुक्तता ॥ १.३७९ ॥

अन्यान्य एव बोधो हि समाचारः क्रियाक्रमः
तत्र तत्र तथा प्रोक्तः सर्वस्तु शिवधामगः ॥ १.३८० ॥

यथा जलकणाह्सर्वे विश्राम्यन्ति महाम्बुधौ
तथा ज्ञानक्रियाः सर्वाः संवित्सिन्धौ महेश्वरे ॥ १.३८१ ॥

मितमपि जलं भूमौ सूर्यांशुभिः किल पीयते
तदपि च पुनर्वृष्टिद्वारैः प्रयाति महार्णवम्
जगति निखिलं ज्ञानं कर्म स्फुटं किमपि स्वयं
किमपि च परैः पारम्पर्याच्छिवार्णसि मज्जति ॥ १.३८२ ॥

यच्चान्ते दक्षिणे हार्दं लिङ्गं हृत्परमं मतम्
तदप्यन्तःकृताशेषसृष्टभावसुनिर्भरम् ॥ १.३८३ ॥

भेदभावकमायीयतेजोंशग्रसनाच्च तत्
सर्वसंहारकत्वेन कृष्णं तिमिररूपधृत् ॥ १.३८४ ॥

विज्ञानशास्त्रे कथितमत एव महेशिना
लीनं मूर्ध्नि वियत्सर्वमित्यादि तिमिरं विभोः ॥ १.३८५ ॥

एवमेव दुर्निशायां कृष्णपक्षागमे चिरम्
भावयेद्भैरवं रूपं भावयद्भिर्दुराभिदम् ॥ १.३८६ ॥

उक्तं च यत्र स्वर्दुःखं तमो वाद्वयसंवृते
नाविद्याकर्मसंबन्धः पारतन्त्र्यादिदर्शनात् ॥ १.३८७ ॥

तदत्र तिमिराकारे भैरवीये वपुष्यलम्
अन्तर्लीनतया भाति यावद्वक्त्रचतुष्टयम् ॥ १.३८८ ॥

उद्बुभूषु तथोद्भूतं तिरोधित्सु तिरोहितम्
ततो युगपदेवैतद्भिदा षोडशकात्मकम् ॥ १.३८९ ॥

दक्षे वैसर्गिके हार्दे स्वतन्त्रे च शिवे विशत्
अष्टाष्टकात्मकं शास्त्रं युगपद्भैरवाभिधम् ॥ १.३९० ॥

इत्थं तन्त्रं रुद्रशिवभैरवाख्यं स्थितं त्रिधा
वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते ॥ १.३९१ ॥

भेदेन भेदाभेदेन पूर्णेनाभेदसन्धिना
तथा च मुख्याः शाम्भव्यस्तिस्र इच्छादिशक्तयः ॥ १.३९२ ॥

तत्रैव तु प्रपञ्चेन पञ्चशक्त्यादियोजनम्
इत्थं मध्ये विभिन्नं तत्त्रिकमेव परं तथा ॥ १.३९३ ॥
शास्त्रमस्मद्गुरुगृहे संप्रदायक्रमात्स्थितम्

अत एव हि नैकट्याद्वामदक्षिणशास्त्रयोः ॥ १.३९४ ॥
धारा प्रान्तधराप्रान्ते कौलिकी प्रविजृम्भते

ततोऽपि संहृताशेषभावोपाधिसुनिर्भरः ॥ १.३९५ ॥
भैरवः परमार्थोद्यद्रवबृम्हितवृत्तिकः
ईशानवामदक्षासु तासु शक्तित्रयं क्रमात्
अपरादिपराप्रान्तं क्रोडीकृत्यावतिष्ठते ॥ १.३९६ ॥

तद्विभावयति भेदविभागं
तत्स्फुटत्वकृदथो तमनन्तम्
संग्रसिष्णु परमेश्वररूपं
वस्तुतस्त्रिशिर एव निराहुः ॥ १.३९७ ॥

ऊर्ध्ववामतदन्यानि तन्त्राणि च कुलानि च
रूढान्यमुष्यां धारायां भेदसंकोचहानये ॥ १.३९८ ॥

परप्रकाशविषयस्त्रिकार्थस्त्रैधमास्थितः
स एष परमेशेन ज्ञानचन्द्राख्ययोदितः ॥ १.३९९ ॥

स एव सर्वः शास्त्रार्थः परवाग्वृत्तिसंश्रितः
अनुल्लसिततद्वाच्यवाचकादिविभक्तिकः ॥ १.४०० ॥

पश्चात्तु ज्ञानशक्त्यंशप्राधान्यस्फुरितात्मनि
क्रियाशक्तौ सुसूक्ष्मायां सादाख्यैश्वर्यसंपदि ॥ १.४०१ ॥
पश्यन्तीमध्यमाधाम्नि सञ्जल्पोल्लेखयोगतः
पदवाक्यस्वरूपेण वर्तते वर्णरूपिणा ॥ १.४०२ ॥

स्वच्छन्दशास्त्रे तेनोक्तं स्वयं देवः सदाशिवः
पूर्वोत्तरपदैर्वाक्यैस्तन्त्रं योजितवानिति ॥ १.४०३ ॥

तथा च तत्रैवोक्तं तत्सुशिवावरणेऽध्वनि
सुशिवावरणं पूर्वं तत्र ज्ञेयः सदाशिवः ॥ १.४०४ ॥

शिवदशकसंयुक्तो रुद्राष्टादशकान्वितः
अधिकारो हीशतत्त्वे तज्जिघृक्षा तु सौशिवे ॥ १.४०५ ॥

वरणे बिन्दुतो भोगधाम्नि विभवतो विभोः
भैरवाख्यस्य बोधस्य शक्तितत्त्वे परं त्रयम् ॥ १.४०६ ॥

स्थितिस्तस्मादीश्वरोर्ध्वे सदाशिवपदादधः
सुशिवावरणेनोक्ता श्रीमत्स्वच्छन्दशासने ॥ १.४०७ ॥

तदनन्तरमेतासु शिवरुद्रभिदास्वलम्
मायीयाध्वनि कॢप्तासु शिवैरुक्तः शिवाभिधः ॥ १.४०८ ॥
भेदो रुद्रैश्च रुद्राख्य इति प्राप्तो विचित्रताम्
ततः प्रोद्यत्क्रियासारप्रोल्लासात्क्रमशः स्फुटम् ॥ १.४०९ ॥
सर्वगोचरमायीयश्रुतवैखर्युपाश्रिताः
वर्णवाक्यपदात्मानः शास्त्रार्था लोकगोचराः ॥ १.४१० ॥
समाश्रित्य प्रवर्तन्ते तांस्तांस्तन्त्रावतारकान्

तेन प्रथमतो यावन्मायीयां वैखरीं दरीम् ॥ १.४११ ॥
मायीयवर्णसंदृब्धः शास्त्रार्थो नायमागतः

अन्तः सारविबोधैकपरवाङ्मयवर्णकः ॥ १.४१२ ॥
अकृत्रिमपरावेशमूलसंस्कारसंस्कृतः
शास्त्रार्थो लौकिकान्तोऽस्ति सप्तत्रिंशे परे विभौ ॥ १.४१३ ॥

तत्रासतां हि भावानां क्वापि नास्त्येव सत्यता
स्वामिन्यविनयाक्रान्तप्रकृतौ विनयः कुतः ॥ १.४१४ ॥

तस्मात्समस्तशास्त्रार्थः परतत्त्वात्मना स्थितः
अतो वेदादयोऽप्येते मायीयाः शासनांशवः ॥ १.४१५ ॥
स्फुरन्ति भैरवादित्यप्रभावादेव नान्यतः

न हि संविद्विमर्शात्स्यादन्यत्क्वाप्येव कारणम् ॥ १.४१६ ॥
संविन्नाथस्य संवित्स्यात्संविदेव तथा यतः
कार्यं च कारणं चेति तथात्व उपचार्यते ॥ १.४१७ ॥

परिणामे हि भावस्य क्रमाद्विततधर्मणः
आद्यन्तयोः संविदेव रूपत्वेनावभासते ॥ १.४१८ ॥

संविच्च कालकलनां सहेत यदि तत्स्फुटम्
भुञ्जीमहि निशातासिच्छिन्ना व्योमांशशर्कराः ॥ १.४१९ ॥

अतः समग्रशास्त्राणि संविद्रूपापरिच्युतेः
संविदः स्वप्रकाशत्वात्स्वप्रकाशानि वस्तुतः ॥ १.४२० ॥

न च वाच्यं पृथग्जातु वाचकाद्व्यवतिष्ठते
स्वातन्त्र्यादभिधातैव भाविवाच्यतया यतः ॥ १.४२१ ॥

कदाचिद्वाचकांशस्तु स्वरूपग्रस्तवाच्यकः
निर्भासते कदाचित्तु सामान्योल्लासवाचकः ॥ १.४२२ ॥

जातुचिन्निकटानन्तविशेषणविशेषितः
स्फुटस्वरूपवाच्यांशसमुद्रेकेण भासते ॥ १.४२३ ॥

तेनार्थपरता जातु स्वरूपपरता तथा
बुभूत्सितार्था क्वापि क्वचिद्रसमयी दशा ॥ १.४२४ ॥

शब्दानां लक्ष्यते चित्रा संविद्रूपानपायतः
संविद्विचित्रकचनैः कचतीति किमद्भुतम् ॥ १.४२५ ॥

इत्थं शिवात्मकविमर्शपदादभिन्नः
शब्दः स्फुटत्वत इह स्वपरप्रकाशः
मानं तदेव चितिसारविमर्शमात्रम्
अन्यत्पुनस्तदुपचारवशात्तथा हि ॥ १.४२६ ॥

स्वप्रकाशात्मिका येयं संवित्तिः पारमार्थिकी
तत्स्वसंवेदनं प्रोक्तं यतो विश्वव्यवस्थितिः ॥ १.४२७ ॥

सा चैषा न विमर्शात्मस्वरूपमतिवर्तते
विमर्शोऽस्याः परो भोगः पूर्णः पश्यन्त्युदाहृता ॥ १.४२८ ॥

परापरा सैव देवी मानमित्यवधार्यताम्
यत्रापरांशगं मेयं तादात्म्याद्व्यवतिष्ठते ॥ १.४२९ ॥

न हि भिन्नेन मानेन मेयस्य स्याद्व्यवस्तितिः
न हि हंसस्य शुक्लत्वे काकः श्वेतत्वमर्हति ॥ १.४३० ॥

एतदेव तथा चाह गुरुः शङ्करनन्दनः
न मानत्वात्ततोऽन्यत्वान्न बाधादस्थितेः स्थितिः ॥ १.४३१ ॥

प्रकाशेनाविनाभूतैः सत्तायां नियतात्मभिः
धर्मैर्भावो बहिर्भावान्न भावः सिद्धिमृच्छति ॥ १.४३२ ॥

तेन संवित्तिकात्मैव मातृमानप्रमेयता
गृह्णती स्वप्रकाशत्वं स्वभावादेव भासते ॥ १.४३३ ॥

सा चान्तःस्थितमन्त्रात्मशब्दनामर्शसुन्दरा
अनपेक्षान्यविरहात्प्रमाणं स्वत एव हि ॥ १.४३४ ॥

तस्या एव विचित्राणि नामानि बहुभङ्गिभिः
तत्प्रसादोत्थितान्येव वादिनः पर्यचीकॢपन् ॥ १.४३५ ॥

तथा च चक्षुराद्यक्षमण्डलीटङ्कनिष्ठितम्
प्रत्यक्षमिति यद्गीतं तत्तावत्प्रविविच्यते ॥ १.४३६ ॥

संवित्तिव्यतिरेकेण यद्यक्षाणां व्यवस्थितिः
न स्यादर्थप्रमाणैक्यं तर्हि बाह्यघटादिवत् ॥ १.४३७ ॥

नन्वात्मनश्चक्षुरादि करणं न घटादिकम्
तस्मात्तेनैव भावानां मानं न तु घटादिभिः ॥ १.४३८ ॥

व्यापकाभिमतस्यास्य संयोगे चाविशेषिणः
भौतिकत्वाविशेषेण घटाद्यैश्चक्षुरादिना ॥ १.४३९ ॥
आत्मनः करणाकाङ्क्षापूरणं नियतं कुतः

विशिष्ट एव संयोगः करणत्वे निबन्धनम् ॥ १.४४० ॥

विशेषः कर्मभिस्तैस्तैर्धर्माधर्मगिरोदितैः
तदेतद्युक्तिसद्भावप्रतिभाविकलात्मकः ॥ १.४४१ ॥

ब्रुवन् वञ्चयते मुग्धान् पलायनपरायणः
यच्चाशेषाक्षसंयोगिव्यापकात्मवशोत्थिताम् ॥ १.४४२ ॥

युगपज्ज्ञप्तिमाच्छेत्तुं मनो नाम निगद्यते
तत्रापि ब्रुमहे पूर्वं मनसात्मैव युज्यते ॥ १.४४३ ॥

तत्राप्यात्ममनोयोगं कः कुर्यादिति चर्च्यताम्
व्यापकत्वादसौ स्याच्चेत्सर्वैरेव मनो व्रजेत् ॥ १.४४४ ॥

एकस्य जाते संयोगे सर्वः सर्वज्ञतामियात्
यदि स्वान्तमधिष्ठातृ चक्षुराद्यमपेक्षते ॥ १.४४५ ॥

तेनाधिष्ठानमर्थानां तावतोऽक्षांशवर्त्मनः
अक्षाधिष्ठितसूक्ष्मांशभागसंपर्कभासितः ॥ १.४४६ ॥

बाह्यस्यार्थस्य कुण्डादेरणुरेकोऽवभासताम्
अथापि मानसाधिष्ठा जाता चेदक्षगोचरे ॥ १.४४७ ॥

तदेतस्य स्वविषये शक्ततैवोपजायते
तर्हि सूक्ष्मतमच्छिद्रनिस्सृता नेत्ररश्मयः ॥ १.४४८ ॥
विश्ववर्तिनि भावौघे न प्रमां कुर्वते कुतः
योग्यदेशस्थितान् भावान् गृह्णतेऽक्षाणि नन्वलम् ॥ १.४४९ ॥

योग्यतैव हि देशस्य कीदृशीति विचार्यताम्
यत्रस्थस्य भवेद्वित्तिः स देशो योग्य उच्यते ॥ १.४५० ॥

कुत्रस्थस्य भवेद्वित्तिरिति किं वा न दर्श्यते
तदमी तार्किकम्मन्या युक्त्युपन्यासवर्जिताः ॥ १.४५१ ॥

पूर्वमेव कथं तूष्णीं नातिष्ठन् किं विकत्थनैः
आत्मनश्चाभिसंधानवन्ध्यस्यैव बलादयम् ॥ १.४५२ ॥

मनोक्षजालसंयोगो भवेत्किं नासमञ्जसः
अभिसन्धिरथैतस्य विषयं प्रति जायते ॥ १.४५३ ॥

अज्ञाते कोऽभिसन्धिः स्याज्ज्ञाते कोऽर्थोऽक्षसंयुजा
प्रज्ञाते स्मर्यमाणे चेदभिसन्धातृभावितः ॥ १.४५४ ॥

अन्यदेवाभिसन्धातुः प्रयत्नोऽन्यत्र जायते
म्मनोयुक्तात्मसंबद्धचक्षुराद्यक्षसंश्रिताः ॥ १.४५५ ॥

विषयाः सविधीभूतनेत्राद्युल्लङ्घनक्रमात्
आत्मन्येव कथंकारं प्रमातृत्वं प्रतन्वताम् ॥ १.४५६ ॥

ननु ज्ञानकृतो मातृभावो विज्ञानमात्मनि
समवैति ततोऽन्यस्य कथं मातृत्वशङ्कनम् ॥ १.४५७ ॥

एतदेव वयं ब्रूमो ज्ञानं तत्रैव वै कुतः
भयात्स्वपक्षपातान्धस्तदेवोत्तरमभ्यधात् ॥ १.४५८ ॥

यथेन्द्रियात्मसंयोगे मनः कारणमुच्यते
तथैवात्ममनोयोगे कारणान्तरमुच्यताम् ॥ १.४५९ ॥
तथात्वे चानवस्थैव मूलक्षतिकरी च सा

अथ स्वान्तात्मसंयोगो ध्रुव एवाभ्युपेयते ॥ १.४६० ॥
ज्ञातारः स्युः सदा सुप्तमत्तमूर्छितदुर्भगाः
न चैतद्भवतां ज्ञानमभीष्टं शाक्यशिष्यवत् ॥ १.४६१ ॥

तस्मात्प्रत्यक्षता नाम कथमिन्द्रियगोचरात्
अथ प्रत्येकमेतेषां परीक्षेयं प्रतन्यते ॥ १.४६२ ॥

तत्राणु नित्यं सर्वार्थं वेगवल्लघ्वभौतिकम्
मनस्तच्चापि नैवेह युक्तिसिद्धत्वमश्नुते ॥ १.४६३ ॥

अणु चेच्छीग्रसंचारि मनो यद्विषयान्मुहुः
स्पृशेत्तदैव देहस्य भवेच्छवशरीरता ॥ १.४६४ ॥

देहस्थेऽपि मनोयोगे तत्रैव ज्ञानयोगतः
एकाणुमात्रं जीवः स्याच्छिष्टं स्याद्घटकुड्यवत् ॥ १.४६५ ॥

अथ स्वान्तेन योगश्चेज्जातः क्वाप्यात्मगोचरे
तद्विभोरात्मनो ज्ञानं समवायीति मातृता ॥ १.४६६ ॥
जातेति सर्वदेहस्थं जीवनं किं न सिद्ध्यति

एनयैव न किं युक्त्या घटादेर्जीवनं भवेत् ॥ १.४६७ ॥
विभावात्मनि जातं हि ज्ञानं तत्रैकदेशतः
देहमात्रे पुनः स्वान्ते भवेत्सावयवा स्थितिः ॥ १.४६८ ॥

विभुत्वे मानसस्य स्याद्युगपत्सर्ववेदनम्
नित्ये च मनसि ज्ञानं सर्वदैव भवेत्ततः ॥ १.४६९ ॥
मोक्षावस्थापि विज्ञानयोगिन्येवोपजायते

मुक्तौ चात्ममनोयोगो नास्तीत्येतन्महाद्भुतम् ॥ १.४७० ॥
किं हि व्यापकता मोक्षे स्वात्मनो विनिरुध्यते

अभौतिकं चेत्सर्वार्थं कथंकारं मनो भवेत् ॥ १.४७१ ॥
विशिष्टविषयव्यक्तिकौशलादेव चक्षुषः
तैजसत्वमभीष्टं हि तन्मनो भौतिकं न किम् ॥ १.४७२ ॥

सर्वर्थत्वे च मनसः किमन्यैरक्षडम्बरैः

ननु बाह्येऽस्य विषये प्रागस्त्यक्षोपयोगिता ॥ १.४७३ ॥
तथा हीन्द्रियसंदृष्टे पाश्चात्या मनसः स्थितिः

अत्रोच्यते यथैव प्रागिन्द्रियेण न गृह्यते ॥ १.४७४ ॥
तच्चेत्स्वलक्षणं पश्चादनुयन्त्रिति का कथा

अथ सामान्यमात्रं तद्गृहीतं प्राक्तदिन्द्रियैः ॥ १.४७५ ॥
व्यक्तिनिष्ठं तदानीं च मनसा व्यक्तिनिश्चयः
नास्तीति मनसा कस्मात्सामान्यग्रहणं भवेत् ॥ १.४७६ ॥
विना व्यक्तिग्रहेणैव सामान्यग्रहणं य[कु]तः
सामान्यग्रहणे चास्य सर्वार्थत्वं निरुध्यते ॥ १.४७७ ॥

विशेषग्रहवन्ध्यस्य सर्वशब्दविलोपतः
आशुगामित्वमेतस्य यच्चोक्तं तत्र वस्तुनि ॥ १.४७८ ॥
पुरःस्थिते स्वहस्तादौ किंचिद्दूरगते घटे
अतिदूरे च मेर्वादौ कथं तुल्यैव गन्तृता ॥ १.४७९ ॥
आशुसंचारिणां यस्मात्क्वापि पूर्वकतेजसाम् (?)
सविधासविधत्वेन विशेषः प्रविभाव्यते ॥ १.४८० ॥

कथं चाभौतिकं सूक्ष्मं गृह्णीयात्पर्वतादिकम्
अभिव्यक्तिः समानस्य समानेन विधीयते ॥ १.४८१ ॥

नन्वस्तु प्राकृती बुद्धिस्ततोऽहंकृत्ततो मनः
इत्थमप्यणुता नैव मनसः संप्रसिद्ध्यति ॥ १.४८२ ॥
व्यापकत्वेन पूर्वोक्तदूषणानि स्थितान्यलम्

इत्थं मनो न युक्त्यंशैर्मानसावर्जनाय नः ॥ १.४८३ ॥
यादृग्वाद्यन्तरैरिष्टं द्वैतव्यामूढदृष्टिभिः

चिदात्मनः प्रकाशस्य तथाभासनभागिनी ॥ १.४८४ ॥
या शक्तिस्तन्मनस्त्वस्तु स्वस्वातन्त्र्योपकल्पितम्

यत्र श्रोत्रं नभस्तत्र सर्वशब्दश्रुतिर्भवेत् ॥ १.४८५ ॥
चक्षुराद्यैश्च सर्वत्र निर्विबन्धं यतो नभः
धर्माधर्मैर्विबन्धश्च युक्त्युपन्यासवैकली ॥ १.४८६ ॥

बाधिर्यादि कथं च स्यात्कथं वा तच्चिकित्सनम्
बन्धाश्रयविघातेन तदनुग्रहस्तथा ॥ १.४८७ ॥
अक्षं स्वावयवेष्वेव x x x समवायिनः
विशेषेण नभो नैव क्वाप्याश्रितमिति स्थितिः ॥ १.४८८ ॥

संयोगिता तु ल्दोत्स्साकं भावेन वर्तते
तदनुग्रहघाताभ्यामपि विक्रियतां ततः ॥ १.४८९ ॥

यदनुग्रहस्तदनुग्रहः स तदाश्रयः
इतीयं स्ववचःकॢप्तिर्निःसारैव विभाति नः ॥ १.४९० ॥

आश्रयद्वारकोऽक्षाणामनुग्रह इति स्फुटम्
अभिधत्स्व क एतेषामाश्रयोऽस्त्विति चोदिते ॥ १.४९१ ॥
यदनुग्रहयोगोऽस्य स एवाश्रय इत्ययम्
न्यायोऽन्योन्यसमालम्बी चक्रकं नातिवर्तते ॥ १.४९२ ॥

वायुप्रकृति यच्चोक्तं स्पर्शनं तद्विविच्यते
वायोर्वेगवती तावदनिरुद्धा स्थितिः स्थिता ॥ १.४९३ ॥
देहदेशे ततः स्पर्शः न कुड्य इति कः क्रमः

चक्षुश्च तैजसं तेजः प्रसृतं बाह्यगोचरे ॥ १.४९४ ॥
अर्थान् रूपप्रधानांश्च वेत्तीत्येतन्निरूप्यते

अदृश्यं यदि तत्तेजः प्रेर्यते मनसा कथम् ॥ १.४९५ ॥
प्रेरणं न ह्यविज्ञानं कदाचिदुपपद्यते

इन्द्रियेण न च ज्ञातं कदाचिच्चाक्षुषं महः ॥ १.४९६ ॥
न चापीन्द्रियविज्ञाते स्वतन्त्रं भवतां मनः

अप्रेरितं च तत्पश्येत्सर्वतः सर्वथा सदा ॥ १.४९७ ॥
आसमञ्जस्यमेव स्यात्प्रवृत्तौ वा निवर्तने

किं च गोलकसंस्थानं तावच्च यदि तन्महः ॥ १.४९८ ॥
तावतस्तद्गतस्यैव ग्रहः स्यान्नान्यतः क्वचित्

तथैतद्विपरीतं तु गोलकेऽपि निमीलिते ॥ १.४९९ ॥
उन्मीलिते वा सर्वत्र वस्तुनि ग्रहणं भवेत्

उन्मीलिते चक्षुषि च प्रसृते रश्मिमण्डले ॥ १.५०० ॥
तस्यास्ति न पटस्येव संवृतिर्नेत्रमीलने
ततो निमीलिताक्षस्य वस्तुदृष्टिर्न किं भवेत् ॥ १.५०१ ॥

घने चातपमध्येऽस्ति विनिमीलितचक्षुषः
चित्रतेजोवभानं तत्पीडिताक्षयुगस्य च ॥ १.५०२ ॥
योगिनां बिन्दुदृग्ध्वान्ते कथं तद्वा भविष्यति

भवेदुन्मीलितेऽप्यक्ष्णि न वस्तुग्रहणं क्वचित् ॥ १.५०३ ॥
मनोधिष्ठानयोगेन परमाण्वधिकप्रथा
दीपापेक्षा च यामुष्य सापि किं न विबाध्यते ॥ १.५०४ ॥

दीपप्रकाशः स्वान्तात्मनेत्रार्थेषूपकारकः
न प्रत्येकं मनोवृत्तेः संस्कारस्तेन चेद्भवेत् ॥ १.५०५ ॥
दीपे संकल्प्यमने स्याद्रात्रौ रूपपरिग्रहः

आत्मनः संस्क्रिया चेत्स्यात्तस्य सर्वगतत्वतः ॥ १.५०६ ॥
सर्वदा रूपसंवित्स्यात्संयोगः संस्क्रिया यतः
अमूर्तस्य्पि नित्यस्य कोऽन्यः संस्कार उच्यते ॥ १.५०७ ॥

नेत्रोपकारश्चेत्तर्हि नेत्रदेशस्थितेऽर्चिषि
तेजोमध्यगतं रूपं न भासेत कदाचन ॥ १.५०८ ॥

ननु तद्वेद्यदेशेऽसौ नायनः किरणव्रजः
हन्त तत्रैव विज्ञानमात्मदेशे न किं भवेत् ॥ १.५०९ ॥

तत्रैवात्मा विभुत्वेन तत्रैव करणं यतः
तस्माद्भोगाश्रयो देहो जीवन्निति वृथोक्तयः ॥ १.५१० ॥

नायनानां मयूखानां गन्तृत्वेऽवसिते सति
अनावृतेऽरण्यमार्गे स्वहस्तात्प्रभृति स्फुटम् ॥ १.५११ ॥
अर्कचन्द्रादिसंदृष्टिः कथं नामोपजायताम्

शीघ्रत्वेऽपि यतः प्रोक्तभेदो दूराविदूरगः ॥ १.५१२ ॥
दीपनेत्रावभासाभ्यां छन्ने तस्मिन् कथं मतिः

शुद्ध एव भवेद्भावे ताभ्यां व्यामलताजुषि ॥ १.५१३ ॥
अन्धत्वं तच्चिकित्सा च न युक्ताश्रयदूषणा

रसना च जलात्मा चेत्तज्जलं स्रुतिमद्यतः ॥ १.५१४ ॥
ततः स्थैर्यं कथं तस्य का च नानारसप्रथा

तस्यैकरसतायोगे तस्या नैकरसस्थितेः ॥ १.५१५ ॥
न स्यादेकरसज्ञप्तिर्यथा पित्तभरे सति
तिक्ता रसनवृत्तिर्नो माधुर्यं विदितं क्षमा ॥ १.५१६ ॥

ननु पित्तगतं तैक्त्यं न त्वेवं रसनागतम्
तर्हि पित्तगूडौ तुल्यं रसनापथगामिनौ ॥ १.५१७ ॥

इति स्याद्युगपज्ज्ञप्तिस्तिक्तमाधुर्यगोचरा
नीरसा रसना चेत्सा रसाभिव्यञ्जिका कुतः ॥ १.५१८ ॥

स्वभावादिति चेदस्याः कोऽयमाम्भसताग्रहः
घ्राणं च पार्थिवं तस्य काठिन्यं किं न दृश्यते ॥ १.५१९ ॥

ननु गन्धगुणोद्रेकि किं स गन्धो न भासते

नास्ति तत्रेन्द्रियव्यक्तगन्धवत्त्वे तथा प्रमा ॥ १.५२० ॥
निर्गन्धमपृथिव्यात्मा मनो गन्धग्रहक्षमम्
अस्त्येव भवतां तेन नानुमा तादृशा क्षमा ॥ १.५२१ ॥

तस्मादिन्द्रियसंघातो भौतिको नोपपद्यते
आहंकारिकतायां तु व्याप्तृत्वमविभिन्नता ॥ १.५२२ ॥
देहाश्रयविरोधश्च करणत्वेन चास्थितिः

वागादि यच्च कर्माक्षपञ्चकं तद्विविच्यताम् ॥ १.५२३ ॥
आनाभेर्मूर्धपर्यन्तं यः समीराभिघातजः
विशेषः कोऽपि वागात्मा स तादृगिह कथ्यते ॥ १.५२४ ॥

तस्य कार्यं भवेच्छब्दः कर्ता कोऽत्र विचार्यताम्

आत्मनो नैव कर्तृत्वं तथात्वेऽपि विभुत्वतः ॥ १.५२५ ॥
मया प्रोच्चारिते शब्दे त्वं वक्ता किं न जायसे

प्रकृतावपि दोषोऽयं कर्त्र्यां कर्तृत्ववर्जिता ॥ १.५२६ ॥
करणस्य स्थितिर्नास्ति तुल्ये वागिन्द्रिये सति

कथं चास्फुटसुस्पष्टभावः शब्देषु जायते ॥ १.५२७ ॥
कथं चोपांशुसंजल्पस्मृत्यादौ शब्दगा भिदा

प्रयत्नाच्चेत्प्रयत्नोऽपि यद्युत्पत्तिस्ततः कथम् ॥ १.५२८ ॥
विशेषो जायते ह्यन्यो न ह्यन्यगुणसंभवः
प्रयत्नमान्द्यामान्द्याभ्यां येन प्रतिविधीयते ॥ १.५२९ ॥

पाणीन्द्रियं चाददानं मुखाद्यैर्ग्रहणं कुतः
ग्रहणं च किमुच्येत स्वीकारो यदि संमतः ॥ १.५३० ॥

अस्वस्य स्वस्य करणं स्वीकार इति भण्यते
स्वशब्दश्चात्मवाची चेत्तत्रात्मा प्रकृतिर्यदि ॥ १.५३१ ॥
तन्नास्त्यप्राकृतं किंचिदित्यस्वतत्वं कथं किल

अहङ्कारोऽप्यथात्मा स्यान्नाहंकारी कृतिर्घटे ॥ १.५३२ ॥
आत्मीयोऽयमनेनैतद्दूषणेनैव दूषितम्

अहंकारस्य संबन्धि सर्वमेव हि तत्स्वकम् ॥ १.५३३ ॥
आत्मनो व्यापकस्यास्ति न स्वं नास्वं च किंचन

एवं पादेन्द्रियस्यापि समोऽयं युक्तिविक्रमः ॥ १.५३४ ॥
देशाद्देशान्तरप्राप्त्या गमनं च यदुच्यते
तत्त्यागरूपं स्वीकाराभावेनैव प्रसिद्ध्यति ॥ १.५३५ ॥

स्वीकारो दूषितश्चैष स्वीकारांशोऽपि यो गतौ
तस्य पाणीन्द्रियं युक्तं करणं नाङ्घ्रिनामकम् ॥ १.५३६ ॥

इन्द्रियाणां हि सांकार्यमेवं कार्येषु जायते
अत एव महान्यायवेदिभिश्चरमे नये ॥ १.५३७ ॥
प्रोक्तो गतिनिषेधाय भूयान् सद्वाक्यडम्बरः
गतं न गम्यते तावदगतं नैव गम्यते ॥ १.५३८ ॥
गतागतविनिर्मुक्तं नास्तीत्यादि स्वके नये
पाय्विन्द्रियं च न च्छिद्रमात्रं कोष्ठ्यमरुत्क्रमात् ॥ १.५३९ ॥
उत्सर्गः किल सांकार्यं तेन स्यादियती स्थितिः
उपस्थमिन्द्रियं यच्च तस्य कार्यं निगद्यते ॥ १.५४० ॥

.............................

शाम्यतीति न युक्तेत्थमनुमानप्रमाणता
तद्भेदवादिनां तावद्द्वे माने नैव संगते ॥ १.६०४ ॥

शब्दादेस्त्वनुमानेन सुधीभिः परिनिश्चितम्
तस्मात्स्वसंविदेवैषा स्वप्रकाशतया स्थिता ॥ १.६०५ ॥
मातृमानप्रमेयादिप्रपञ्चैः सावभासते

समुल्लासः सिन्धोर्बहललहरीविभ्रममयः
प्रकाशः शाशाङ्कः कुमुददलनिर्भेदसचिवः
परस्याः संवित्तेर्मितिविषयमातृव्यतिकरैर्
विकासो यः सेयं जगति विविधा कल्पनकला ॥ १.६०६ ॥

तस्मात्प्रकाश एवायं चित्रशक्तिसुनिर्भरः
स्वयं विचित्ररूपेण भाति विश्वत्र विश्वतः ॥ १.६०७ ॥

तदयं प्रस्फुटाभासो लोकरूपादिवर्त्मना
स्वशक्त्यंशाद्विकल्पाख्यात्प्रत्यक्षव्यपदेशभाक् ॥ १.६०८ ॥

तथा हि देवदेवांशस्तत्समुन्मीलनं दृशः
प्राणस्पन्दस्तदैकाग्र्यं भावस्तद्धर्मसंचयः ॥ १.६०९ ॥
इत्यादि सर्वं यद्भाति तत्प्रत्यक्षमिति स्फुटम्
न त्वत्र कर्तृकर्मांशकरणत्वादिना गतिः ॥ १.६१० ॥

नन्वसावस्ति पाश्चात्ये वैकल्पिकपथे ततः
यतो देहघटाभासो स्फुटः पश्चात्तु सोऽस्फुटः ॥ १.६११ ॥
स एव च्छन्नरूपस्तु शुद्धांशस्वात्मसंविदम्
ततो देहघटाभासस्तत्राप्येषैव वर्तनी ॥ १.६१२ ॥

यावत्सहस्रदेहौघभावकोट्यवभासनम्
तत्रापि च पुरा पश्चान्न तु तादृक्प्रथा यदि ॥ १.६१३ ॥
आमर्शपदवीं याति तत्स्पुटास्फुटचित्रितः
तावानसावेक एव स्वरूपप्रस्फुटात्मकः ॥ १.६१४ ॥
शिवप्रकाश आयाति.

विचित्रोऽयं न वस्तुतः
तत्रातद्रूपसंवेशाद्वैचित्य्रं परिचर्च्यते ॥ १.६१५ ॥
शिवप्रकाशेऽतद्रूपप्रवेशस्तु न संगतः

यदि वा कथितन्यायबलात्क्वापि न चित्रता ॥ १.६१६ ॥
किंतु चित्रतयाभासश्चित्रभावं प्रसूयते

एवं चैत्रोऽयमस्माकं चित्रवद्भवन्नीदृशः ॥ १.६१७ ॥
मैत्रेण तन्मतेनालं दृष्टो मां भावदर्शिनम्

पश्यन् पश्यति यः सोऽयं समाधौ परिनिष्ठितः ॥ १.६१८ ॥
प्राक्त्वेष जन्मकोटीषु तत्तत्तापाद्यभुङ्क्त वै
मोक्ष्यते ध्यानचर्याद्यैर्योऽप्येतेन पथागतः ॥ १.६१९ ॥
सोऽप्यन्यो मोक्षभागीत्थमपर्यवसितोदयः

प्रकाश एक एवायं यश्चिरान्न विभिद्यते ॥ १.६२० ॥
अत एव हि भेदोऽस्ति न कश्चिद्यो महेश्वरम्
अद्वयं संप्रबिन्धीत प्रकाशानन्दसुन्दरम् ॥ १.६२१ ॥

देशकालाकृतिज्ञानधर्मोपाध्यन्तरादयः
संमता भेदकत्वेन भान्ति चेत्सा विभा तथा ॥ १.६२२ ॥
न चेद्विभैव सा तादृक्तदद्वैतमिदं स्फुटम्

भेद इत्येष शब्दस्तु केवलं प्रतिभोज्झितः ॥ १.६२३ ॥
अस्तु वा भेदकलना प्रतिभासंप्ररोहिणी
उक्तनीत्या तु तत्रैव सप्रतिष्ठा भविष्यति ॥ १.६२४ ॥

अयं घटः पटश्चायं तावन्योन्यविभेदिनौ
प्रमात्रन्तरभिन्नौ च तौ मत्तोऽपि विभेदिनौ ॥ १.६२५ ॥
इति प्रकाश एकोऽयं तथामर्शस्वरूपकः

नन्वेवं पक्षपातोऽयमद्वैतं भवतां कथम् ॥ १.६२६ ॥
भेदोऽप्यस्तु स आहत्य किं नाम न विषह्यते

सेयं बधिरगोष्ठीषु गीतवाद्यप्ररोचना ॥ १.६२७ ॥

न ह्यद्वयं द्वयावेशबाधेनास्माभिरुच्यते
त्वत्पक्षोपगमो ह्येष स्याद्द्वयं तद्धि सुस्फुटम् ॥ १.६२८ ॥

इदं द्वैतमिदं नेति तदिदं च द्वयाद्वयम्
इति यत्र समं भाति तदद्वयमुदाहृतम् ॥ १.६२९ ॥

नन्वित्थमस्तु भेदोऽपि न वयं शब्दकामुकाः
अस्त्वसौ न हि नो हेयमादेयं वा यथात्र वः ॥ १.६३० ॥
सर्वानुग्राहकं पक्षमालिलम्बिषसे यदि
परमाद्वयदृष्टिं तत्संश्रयेः शरणं महत् ॥ १.६३१ ॥
एतदष्टादशे तत्त्वमधिकारे भविष्यति

यत्तदन्ते परप्राप्यं तदस्तु परमार्थतः ॥ १.६३२ ॥
अत्र ये न हि विश्रान्तास्ते मितां संविदं श्रिताः
सर्वथैवापबाध्यन्ते जन्ममृत्यूत्थविभ्रमैः ॥ १.६३३ ॥

तस्मात्स एक एवासौ प्रकाशः परमेश्वरः
प्रत्यक्षमिति तेनैव प्रकाशेनैव भासते ॥ १.६३४ ॥

तत्र ता दृष्टयः सर्वा महानद्य इवार्णवे
विशन्त्यवश्यं नाविष्टाः प्रयान्ति कृतकृत्यताम् ॥ १.६३५ ॥

तथा हि मानसामग्री रूपालोकमनोक्षजा
साकं मातृप्रमेयाभ्यां तद्वर्जं वाप्यनेकशः ॥ १.६३६ ॥
ज्ञातं च गमयेन्मानं न चापि उज्झति मानताम्
प्रत्यक्षपादोत्प्रेक्षेयमिदानीमुपपद्यते ॥ १.६३७ ॥

किं चानधिगतग्राहि मानं नवनवं यतः
भैरवेच्छावशादेतद्विश्वं भाति तथा तथा ॥ १.६३८ ॥

वस्तु प्रदर्शयन्मानं प्रवृत्तिं विदधत्स्फुटम्
प्रापयत्येव तद्वस्तु तथाभासनयोगतः ॥ १.६३९ ॥

सदप्येकान्ततो नेदं नासच्चेत्यादिसंविदः
भान्त्येव परमार्थेन तदनेकान्तदृक्स्फुटा ॥ १.६४० ॥

एको भावः सर्वभावस्वभावः
सर्वे भावा एकभावस्वभावाः
अर्हद्वादः सोऽयमस्मद्सुदृष्टौ
युक्तश्च श्रीसारशास्त्रेऽपि चोक्तः ॥ १.६४१ ॥

इदं मानं मेयं तदिदमिति संख्यां कलयितुं
स्वरूपं वा शक्तः क इव जगतीत्येतदपि सत्
मतं वाचां पत्युर्भगवति चिदानन्दसुभगे
यतस्तूष्णींभावादपर इह कः किं प्रकुरुताम् ॥ १.६४२ ॥

अहेतोर्भाने स्याद्यदि न तनुदिक्कालनियमस्
ततो हेतोरीदृङ्नियम इति कस्यैष महिमा
स्वभावोऽयं हेतोरथ विवृतकण्ठं कथमसौ
न भावस्यैवोक्तो यमयति परे केन हि परः ॥ १.६४३ ॥

स्वभावाच्चात्मासौ परमशिव इत्यागमकथा
निरुक्तो विश्वात्मा जगति निखिले जृम्भत इति
धरादेश्चानन्यो भवतु तदियं भूतचितिता
स वन्ध्यो दिक्कालैर्जननमरणापायरहितः ॥ १.६४४ ॥

तदस्यायं लोकस्तदनु परलोकोऽप्ययमिति
ग्रहः कस्माद्धेतोः स्पृशति न हि तं कालकलना
ततः स्वातन्त्र्योद्यत्सुखरसपरानन्दमहिमा-
भवद्भस्मीभूताखिलकलुषपाशौघसुभगः ॥ १.६४५ ॥

सांख्यदृक्पुनरिहैव भूयसा
चर्च्यते निखिलतत्त्वगोचरा
दृश्यते धरणीप्रभृत्यलं
तच्च सूक्ष्मतमकारणोत्थितम् ॥ १.६४६ ॥

तद्गृहीतिकरणोद्यतं पुनर्
बाह्यतः करणकं दशात्मकम्
आन्तरं त्रिविधमस्य कारणं
सौख्यदुःखपरिमोहदर्पणः ॥ १.६४७ ॥

तादृशं त्रिगुणमेव यद्भवेत्
तत्पुनर्जडतयाथ भेदतः
मूलकारणमपेक्षते परं
सा निशेयमिह भोग्यमुच्यते
तच्च भोक्तृ परतन्त्रतामयम्
नो परस्परमुपैति भोक्तृताम् ॥ १.६४८ ॥

भोग्यभोक्तृवपुरेकमेव नो
जाघटीति हि विरुद्धधर्मतः
तेन भोक्तृ चितिशक्तिमात्रकम्
तच्चिदात्ममयतावशान्मनः ॥ १.६४९ ॥

व्याप्तृ सर्वगतमीश्वरं कथं
भोक्तृतां व्रजतु भेदसंगताम्
तेन तन्निजवशित्वनिर्मितां
संकुचत्स्थितिजुषं दशां श्रयेत् ॥ १.६५० ॥

अन्यकारणकलाद्यभावतः
सोऽयमस्य सहजो मलः स्मृतः
स त्रिधा समवभाति तद्वशाद्
एष एव स पुमानुदाहृतः ॥ १.६५१ ॥

भोक्तृभावपरतन्त्रतावशान्
नान्तरीयकतयास्य कञ्चुकम्
भाति नैवमिति कालवित्कला-
रागसन्नियतिनामधेयकम् ॥ १.६५२ ॥

यद्यात्मैष पुनर्निरर्गलनिजस्वातन्त्र्यसंछादितं
स्वं रूपं विवृणोत्यलं निजबलात्तच्छुद्धवित्संभवः
कर्तृत्वं किल कार्यवर्गमखिलं बोधे निधाय स्वके
पश्यन्नीश्वरतां व्रजेदहमिदं सर्वं सदेत्युद्धुरः ॥ १.६५३ ॥

ज्ञातृत्वं हृदयान्तरस्फुरितदृग्दृष्ट्वा स्फुटाभासिनि
ज्ञेये भेदतिरोधितां निजचितौ यस्मात्स संपश्यति
तेनास्येदमहंविदोः सरभसं भेदैक्यमाजग्मुषी
सामानाधिकरण्यधीः प्रकटयेत्सादाशिवीं संस्थितिम् ॥ १.६५४ ॥

ज्ञेयं कार्यं सर्वमन्तर्विबोधे
यावल्लीनं तावदुद्रिक्तवृत्तेः
बोधज्वालासंचयस्यान्तराले
तत्प्रस्त्यानं स्वं वपुः प्रोज्झतीव ॥ १.६५५ ॥

इदंभावः सोऽयं विगलितुमना नो विगलितो
भवेत्प्राक्कक्ष्यायामपि स समकान्तिस्तदधुना
अहंभागोद्रेके विधिरनवधिर्भावविसरे
तदेषा शाक्ती भूरिषिरिति स्वसिद्धात्मनि परा ॥ १.६५६ ॥

ईहते गलितुमन्वतो गलेत्तत्र पूर्वपररूपसंगतेः
शाक्तभूमिरखिलेयमुच्यते चित्रचिन्निचयचर्चिता सती ॥ १.६५७ ॥

तत्त्वे तत्त्वे स्वेच्छया देवदेवः
सर्वां सर्वां भूमिमालम्बमानः
पूर्णैकात्मा पूर्णसंवित्स्वरूपः
श्रीमाञ्शास्त्रे भैरवो निरुक्तः ॥ १.६५८ ॥

शक्तिपातदृगियं निरुच्यते
मन्दमध्यपरतीव्रभेदतः
तत्परस्परभिदाभिरप्यलं
या स्वरूपपरिदृष्टिरात्मनः ॥ १.६५९ ॥

ननु किं कदाचिदयमीश्वरो निजरूपं प्रकाशयति पूर्णचितिः
किं वा कदाचिदथ संवृणुते निर्हेतुको हि नियमः किल कः ॥ १.६६० ॥

उक्तमत्र किल पूर्वमनन्तं
नान्यदस्ति नियमेषु निमित्तम्
लौकिकेष्वपि स एव महेशश्
चित्रचित्रपरिभासनशीलः ॥ १.६६१ ॥

तत्स्वातन्त्र्यादधिकमधुना नोत्तरं बम्भणीमः
संवित्सिन्धोः प्रथितलहरीहर्म्यधाराधिरूढिः
शान्तिस्तस्यास्तदनु तदयं बन्धनाम्नापदिष्टस्
तेनैवेत्थं परिगतरसो मोक्ष इत्युक्तरूपः ॥ १.६६२ ॥

सदा कदाचिदधुना तदेत्यादि च संविदः
तत्स्वातन्त्र्यावभासीयकालकेलिविकल्पनाः ॥ १.६६३ ॥

न च कालकलाभिः स स्पृश्यते परमेश्वरः
न हि तासां स्वतन्त्रास्ति स्थितिस्तत्कल्पनां विना ॥ १.६६४ ॥

तेन स्वसृष्टे भावांशे स्वरूपात्मन्यपि स्फुटम्
पारतन्त्र्यावभासोऽयं देवेनैवावभास्यते ॥ १.६६५ ॥

पारतन्त्र्यं कलयति स्वतन्त्रः परमेश्वरः
स्वातन्त्र्ये पारतन्त्र्ये च नान्यल्लक्षणमुच्यते ॥ १.६६६ ॥

परिच्छिन्नप्रकाशो हि जडस्तेनात्र यः स्थितः
परिच्छेदक एषोऽपि परिच्छेद्यो यदि स्फुटम् ॥ १.६६७ ॥
तदस्य रूपग्रहणे न प्रकाशः प्रकाशते
तथा हि बाह्यो भावांशः स्वयं नैष प्रकाशते ॥ १.६६८ ॥

ज्ञानमर्थप्रकाशात्म तच्चानाभातमेव हि
तस्यापि समवाय्यात्मा नैव भाति स्वरूपतः ॥ १.६६९ ॥

तदीयकरणं नेत्रप्रभृत्यपि न भासते
आलोकादेश्च विज्ञानादृते नैवावाभासनम् ॥ १.६७० ॥

ननु जातं यदि ज्ञानमर्थस्यासौ प्रकाशता
शक्तिर्धर्मो यदि प्राप्तं सार्वज्ञ्यं विश्वमण्डले ॥ १.६७१ ॥
अन्यदेवाथ तत्किंचित्प्रकाशत्वाभिशब्दितम्
तन्मेयमातृमानेषु नैव कुत्रापि संगतम् ॥ १.६७२ ॥

ततश्चाप्रकटं विश्वं सर्वदैव भवेदिदम्
अप्रकाशस्य भावस्य यदि च स्याद्प्रकाशनम् ॥ १.६७३ ॥
तावतैवास्य हीयेत स्वरूपं परिहानितः
ज्ञानोत्पत्तिश्च भावस्य स्वरूपस्थस्य चेत्प्रथा ॥ १.६७४ ॥
अविशिष्टे स्वरूपस्थभावे विश्वस्य सा न किम्

तस्मात्प्रकाशो विश्वस्य परिच्छेदकनिष्ठितः ॥ १.६७५ ॥
तत्स्वातन्त्र्यावभासोत्थचित्राकारविभेदितः

परिच्छेदक इत्थं चेत्परिच्छेद्यो भवेत्ततः ॥ १.६७६ ॥
मूलक्षतिकरी सेयमनवस्था पतिष्यति

अतश्च सोऽपरिच्छिन्नः परिच्छेदक उच्यते ॥ १.६७७ ॥
अकाल्प्यस्तेन शास्त्रेषु तन्न कालस्य गोचरः
तेनास्य वेद्यधर्मत्वं कालस्य परिभाषितम् ॥ १.६७८ ॥

यदि कालश्च मातारं परिच्छिन्द्यात्ततो ध्रुवम्
मातृलग्नैव कालस्य स्थितिर्निर्वाहमिच्छति ॥ १.६७९ ॥

न च मात्रन्तरं किंचित्संभवेदनवस्थितेः
तां हन्तुं वोपगम्योऽसौ माता कालकलोज्झितः ॥ १.६८० ॥

य एव तु परिच्छेद्यो माता तल्लग्न एव चेत्
स कालो मातृमेयत्वे तर्ह्येकस्य कथं तव ॥ १.६८१ ॥

भेदवादे हि भवतां निष्ठिता मतिरीदृशी
अभेदवादिनां नस्तु नैव काप्यस्तु खण्डना ॥ १.६८२ ॥
विश्वं मातृमयं येषां माता विश्वमयस्तथा

तन्न कालकलाजालजम्बालैः परमेश्वरः ॥ १.६८३ ॥
चितिशक्तिप्रकाशो हि मालिन्यमवलम्बते

अतस्तदा संवृतोऽसौ पश्चात्प्रकटरूपकः ॥ १.६८४ ॥
इति तस्यैव जृम्भेयं तथात्वव्यपदेशिनी
कलनैवास्य सा काचित्स्वरूपामर्शनात्मिका ॥ १.६८५ ॥

शिवयोगार्हमात्मानं यस्यामात्माभिमन्यते
यतो वैचित्र्ययोगेन तथात्मानं स मन्यते ॥ १.६८६ ॥

शक्तिपातस्य तेनोक्ता नवधात्र व्यवस्थितिः
अन्यथा नेश्वरस्यास्ति रागो द्वेषोऽथ वा क्वचित् ॥ १.६८७ ॥
येन क्वाप्येष नियतां स्वां शक्तिं पातयेद्विभुः

अनिमित्तस्तथा चायं शक्तिपातो महेशितुः ॥ १.६८८ ॥
तेन रागक्षयात्कर्मसाम्यात्सुकृतगौरवात्
मलपाकात्सुहृद्योगाद्भक्तेर्भावाच्च सेवनात् ॥ १.६८९ ॥
अभ्यासाद्वासनोद्भेदात्संस्कारपरिपाकतः
मिथ्यज्ञानक्षयात्कर्मसंन्यासात्काम्यविच्युतेः ॥ १.६९० ॥
साम्याच्चित्तस्य सा शक्तिः पततीति यदुच्यते
तदसन्

ननु तत्रापि निमित्तान्तरमार्गणात् ॥ १.६९१ ॥
अनवस्थातिप्रसङ्गसंभवाभावयोगतः
अन्योन्याश्रयनिःश्रेणिचक्रकाद्युपपाततः ॥ १.६९२ ॥
अस्मिंस्तु पक्षे सर्वेषां प्रवादानामपि स्थितिः
युक्ता सर्वंसहे पक्षे न किंचित्किल दुष्यति ॥ १.६९३ ॥

युक्तिः सुधीभिः स्वयमेव तत्र
शक्येत संयोजयितुं ततो न
पृथक्तया योजनमुक्तमत्र
यद्ग्रन्थतो विस्तर एष मिथ्या ॥ १.६९४ ॥

उपजग्मुरतोऽनपेक्षिणीं
शिवशक्तिं न च तां विना भवेत्
अपवर्गपदं यतो मुधा
परशास्त्रेषु विमोक्षसंकथाः ॥ १.६९५ ॥

शक्तिपातसमये विचारणं
प्राप्तमीश न करोषि कर्हिचित्
श्रीमदुत्पलगुरुर्न्यरूपयत्
तत्र तत्र निजशास्त्र ईदृशम् ॥ १.६९६ ॥

तस्यैव हि प्रसादेन भक्तिरुत्पाद्यते नृणाम्
यया यान्ति परां सिद्धिं तद्भावगतमानसः ॥ १.६९७ ॥

इत्थं पुराणशास्त्रादौ शक्तिः सा पारमेश्वरी
निरपेक्षैव कथिता सापेक्षत्वे ह्यनीशता ॥ १.६९८ ॥

केवलं भेदवादान्ध्यस्थगितालसदृष्टिभिः
दुःसमर्थत्वमेतस्या नियमेन क्वचित्स्थितेः ॥ १.६९९ ॥
पर्यालोच्यानिशं कर्ममलसाम्यप्रपाकतः
इत्यादिहेतुजालेषु वृथात्मा परिखेद्यते ॥ १.७०० ॥

तत्तेषां नोपकाराय कुशकाशावलम्बनम्
तस्मात्स एव तादृक्षस्वस्वातन्त्र्योपबृंहितः ॥ १.७०१ ॥
तदा तथा तथेत्यादिवैचित्र्येणावभासते

तदित्थं सर्वदृष्टीणामत्रैव परमेश्वरे ॥ १.७०२ ॥
अनुप्रवेश इत्यन्यैरलं वा युक्तिडम्बरैः

तदित्थं देवदेवेन स्वस्वरूपमिहोदितम् ॥ १.७०३ ॥
प्रत्यक्षं तत्र तन्मानं सर्वमानधुरोद्धुरम्

एकमेवेदृशं मानमिति केचित्प्रपेदिरे ॥ १.७०४ ॥
धूमादग्निरिति प्रायस्तस्यैवैतद्विजृंभितम्

यथा घटस्य पूर्वांशदृष्टैकपरिनिष्ठितः ॥ १.७०५ ॥
माता स्फुटास्फुटाकारतावदर्थावलेहिनीम्
स्फुटामेव मतिं मत्वा प्रत्यक्षत्वं प्रपद्यते ॥ १.७०६ ॥

न चानुमानमन्त्यांशे संविदेकैव सा यतः
धूमाध्यक्षप्रतीत्यन्तर्निविष्टाग्निप्रथा तथा ॥ १.७०७ ॥

एकैव तावदर्थांशलेहिनी जायते मतिः
तावत्यांशे स्फुटाकारा प्रत्यक्षमिति भाष्यताम् ॥ १.७०८ ॥

यथा रत्नादिवैचित्य्रं तथा संस्कारसंस्थितेः
नेत्रात्ममानसालोकविषयादिषु संविदि ॥ १.७०९ ॥
प्रत्यक्षमेव संवित्तौ स्फुटत्वेनावभासते

तथा तथाविधव्याप्तिधामसंकारसंस्थितेः ॥ १.७१० ॥
अन्ते तथैव सा वित्तिर्धूमाग्न्याकाररूपिणी

यथा च दृढसंस्काराः सोल्लेखाः सपदि स्वयम् ॥ १.७११ ॥
रत्नादितत्त्वं पश्यन्ति विघ्नान्तरतिरोधितः
तथा बुभुक्षितात्मानः शीघ्रमेवातिनिश्चितम् ॥ १.७१२ ॥
अन्नादि गृह्णते भोक्तुं व्याप्त्याद्यव्यवधानतः

तेन प्रत्युक्तमेव स्याद्यदाहुः परिकल्पनम् ॥ १.७१३ ॥
अभ्यस्तेष्वविनाभावस्वभावव्याप्तिसंविदः
किं हि तत्कल्पनाव्याप्तिवित्तेरिति न मन्महे ॥ १.७१४ ॥

आशूत्पत्तिवशादस्या न खल्वस्त्युपलक्षणम्
अनुमीयत एवं सा तदेव परिकल्पनम् ॥ १.७१५ ॥

अहो स्वपक्षपातान्धाः स्वमप्युपगतं मुहुः
अमी विस्मर्तुमारब्धास्तार्किकम्मन्यबुद्धयः ॥ १.७१६ ॥

क्षणापवर्गिणी बुद्धिः सर्वैव हि भवन्मता
उत्पत्तिमात्रयोगेन विषयस्यावभासिका ॥ १.७१७ ॥

न क्षणाच्चापरं किंचिदाशुभावित्वमुच्यते
तत्सर्वमाशुभाव्येव विज्ञानमिति तत्त्वतः ॥ १.७१८ ॥
सर्वत्र भावजातेषु भवेदनुपलक्षणम्

अथाविच्छिन्नदृष्टीनां द्राघीयःकालगोचरम् ॥ १.७१९ ॥
ज्ञातं तेनापि तर्ह्यर्थो जन्ममात्रेण भास्यते

यच्चोत्पत्तिवशादेव विषयस्फुटतात्मकम् ॥ १.७२० ॥
तस्य शीघ्रतरस्थास्नुभावो भेदावहः कथम्

यत्तत्किल ग्रहापेक्षं स्वप्रकाशमथापि सत् ॥ १.७२१ ॥
अन्यत्रोपायतां याति विद्युद्दीपादिवत्तथा
तत्रैव चिरशीघ्रस्थभावो भेदाय भासते ॥ १.७२२ ॥

न च क्वाप्यनुमानेषु व्याप्त्यादेर्ग्रहणं भवेत्
पुनः पुनः स्फुटीभावं याति येनोपलक्ष्यते ॥ १.७२३ ॥

किं च क्रमिकधूमादिज्ञानमालात्मनि स्फुटम्
उदितापि कथं कुर्यादेकभावावभासनम् ॥ १.७२४ ॥

अथान्त्यमनुसन्धानज्ञानमेवं करिष्यति
तदपि प्राक्स्थसंवित्तिसमं भिन्नं कथं तथा ॥ १.७२५ ॥
तेन प्राक्तनविज्ञानमालामन्वस्यते यदि
तदसन्न हि संधानं नष्टायामुपपद्यते ॥ १.७२६ ॥

अथ स्मरणमेवेह संधानं संविदां भवेत्
तदप्यनुभवाभावे कथं नाम भविष्यति ॥ १.७२७ ॥

न च ज्ञानेष्वनुभवो युज्यते संविदः क्वचित्
युगपज्ज्ञानयुगलं नास्तीति हि भवन्मतम् ॥ १.७२८ ॥

ज्ञानज्ञेयात्मता दृष्टा युगपत्स्थितताजुषोः
न तु पूर्वापराकारसमुत्पन्नविरोधिनोः ॥ १.७२९ ॥

तस्माद्व्याप्त्यनुसारावभासपूर्वापि या मतिः
तत्राप्यक्रममेवेदं प्रत्यक्षमानवेदनम् ॥ १.७३० ॥

यथा झटिति सौषुप्तप्रबुद्धः प्रोन्मिषद्दृषिः
प्रत्यक्षमिति भावांशध्यामलत्वनिवृतये ॥ १.७३१ ॥
नेत्रसंमार्जनादीनि विदधन्नाभिमन्यते

भावाननुमिनोमीति तथैवात्रापि बुद्ध्यताम् ॥ १.७३२ ॥
यथा च घनसौषुप्तमोहाव्युत्थितदर्शनः
स्वात्मानमथ तत्स्थानं विस्मरत्येव तत्क्षणं ॥ १.७३३ ॥

अथ प्रयत्नसंभारप्रबुद्धविमलस्वदृक्
सोऽहमस्मीति मन्वानः संवित्तेः परमार्थतः ॥ १.७३४ ॥
तत्र सर्वत्र नाथोऽयं भैरवश्चित्स्वरूपकः
स्वातन्त्र्यात्स्वं वपुर्यावद्गूहते विवृणोति च ॥ १.७३५ ॥
तावदज्ञानमेतस्य विज्ञानं चोपजायते
तच्च स्फुटतया सर्वप्रत्यक्षमिति मन्यताम् ॥ १.७३६ ॥

घटशब्दे श्रुते या च पृथुबुध्नोदरादिधीः
तत्रापि खलु सम्केतस्मरणादि तथाविधम् ॥ १.७३७ ॥

यथा रत्नपरीक्षायां स्वां संवित्तिं स्फुटात्मिकाम्
सम्विदन्तरसंघातैस्तिष्ठति प्रतिबोधयन् ॥ १.७३८ ॥
ततः प्रबुद्धचरमस्फुटसंवित्तियोगतः
रत्नतत्त्वं विभात्यत्र नोपयोगेऽन्यसंविदाम् ॥ १.७३९ ॥
ताः परं तत्प्रबोधाय कारणत्वं वितेनिरे
तस्यैवावभासयोगे हि न तासामुपयोगिता ॥ १.७४० ॥

बालवैकटिकज्ञानदृष्टान्तादीदृशात्स्वयम्
शाब्देऽपि खलु विज्ञाने स्फुटैवैका प्रकाशधीः ॥ १.७४१ ॥
अतस्तथाविधे शब्दे श्रुते यत्समनन्तरम्
अर्थावभासने सेयमियती मतिरीदृशी ॥ १.७४२ ॥
अर्थः स तावांस्तत्रास्ते घटपूर्वापरांशवत्

नन्वसौ घट एकः स्यादवयव्यात्मकस्तथा ॥ १.७४३ ॥
न तु शब्दार्थयोरैक्यं तत्कथं साम्यमीदृशम्

अहो भेदग्रहाभ्यासतिमिराविललोचनः ॥ १.७४४ ॥
सद्युक्त्यञ्जनयोगेऽपि न दृष्टिं विमलां गतः

अभिन्नो भगवानेष भैरवो भोग्यभोक्तृताम् ॥ १.७४५ ॥
आत्मन्येवानुसन्धाय सर्वदा पूर्णविग्रहः
इति प्रसाधिते पूर्वं कः प्रश्नस्यास्य संभवः ॥ १.७४६ ॥

तदेवमुपमानादावपि मानान्तरे स्फुटम्
संवित्प्रत्यक्षरूपैव सर्वत्र प्रतिभासते ॥ १.७४७ ॥

अन्धोऽपि स्पर्शशब्दाद्यैस्तत्तद्रूपं विलोकयन्
स्फुटतामेव तां तावत्संवेत्ति स तथाविधाम् ॥ १.७४८ ॥

एवं जातिजडा रूपस्पर्शाद्यैरभिमन्वते
स्फुटमेव हि भावांशं तेषां नाज्ञातधीः क्वचित् ॥ १.७४९ ॥

इयं लावण्यसरसी तारुण्योद्यानकण्डली
इति तुष्यति जात्यन्धस्तदङ्गपरिमर्शनात् ॥ १.७५० ॥

अहो नु सदलंकारं गायतीति जडो जनः
गातुर्मुखं विलोक्यैव तावता परितुष्यति ॥ १.७५१ ॥

इति प्रत्यक्षमेवैकं निःसपत्नं विजृम्भते
तदस्य फलचिन्तादि कर्तुं प्रस्तूयते मनाक् ॥ १.७५२ ॥

तदेव खलु विज्ञानं परिमर्शरसात्मकम्
तस्माद्भेदकथा नैव फलं प्रति सुसंगता ॥ १.७५३ ॥

हानादिधीः फलं वास्तु तस्या अप्यथ भासनात्
यदि वा स्वप्रकाशैव संवित्तिः पारमार्थिकी ॥ १.७५४ ॥
तदेव पर्यन्थफलं सर्वत्रैव सुनिश्चितम्

ह्लादादिकं फलं मुख्यं यत्सर्वत्रेह गीयते ॥ १.७५५ ॥
तत्स्वसंविदि विश्रान्तिमभ्येति भरितात्मनि

तदेवमिदमध्यक्षं सर्वतः प्रविजृम्भते ॥ १.७५६ ॥
एतदभ्यासनिष्ट्ःस्य केव सिद्धिर्न जायते

ब्रह्मादिभाषितश्रौतप्रौन्मुख्येन कलादिकात् ॥ १.७५७ ॥
दूराच्छ्रवणविज्ञानमचिरात्संप्रवर्तते

मनोदृष्टेऽपि भावांशे स्फुटवृत्त्युदयो ह्यलम् ॥ १.७५८ ॥
स्वविमर्शबलाक्रान्ते किं चित्रं यदि जायते
स्पन्दशास्त्रे तथा चोक्तं सावधानेऽपि चेतसि ॥ १.७५९ ॥
भूयः स्फुटतरो भातीत्यलं बहुलविस्तरैः

इत्थं प्रत्यक्षमेवेदं विश्वं यत्परमेशितुः ॥ १.७६० ॥
तत्ततोऽप्यविभिन्नस्य मातृवर्गस्य तत्तथा

न च प्रतीतिसांकार्यं तथा भासनयोगतः ॥ १.७६१ ॥
प्रत्यक्षेऽपि समे साम्यं नो घटाघटसम्विदोः
इत्थं प्रत्यक्षमेवेदं निःसपत्नं विजृम्भते ॥ १.७६२ ॥

ततो न भिद्यते चार्थः प्रत्यक्षाद्वैतमीदृशम्
इदं सन्धानकलिकापरिनिष्ठितबुद्धिना ॥ १.७६३ ॥
आचार्यनरसिंहेन प्रत्यक्षाद्वैतमुच्यते

अनुमानप्रमाणत्वं विश्वस्मिन् कैश्चिदुच्यते ॥ १.७६४ ॥
तथा हि देवः सर्वज्ञो निर्विकल्पस्वभावकः
स चाध्यक्षस्वभावोऽपि नायाति व्यवहार्यताम् ॥ १.७६५ ॥
अविकल्पे विकल्पात्मा व्यवहारः कथं किल
विकल्पेन च सर्वोऽयं व्यवहारोऽवतन्यते ॥ १.७६६ ॥

स एव चानुमानं स्यात्तस्यैताः परिकल्पनाः
पक्षतद्धर्मतद्व्याप्तितत्प्रतीत्यादयोऽखिलाः ॥ १.७६७ ॥
वस्तुतस्त्वेक एवासौ प्रत्ययः पारमार्थिकः

नन्वध्यक्षवियोगे स्यादनुमानं कथं यतः ॥ १.७६८ ॥
तत्प्रत्यक्षपरिच्छिन्नप्रतिबन्धनिबन्धनम्

सत्यं किंतु य एकोऽसौ देवः सर्वज्ञतास्पदम् ॥ १.७६९ ॥
तदावेशवशादेषा व्याप्तिर्बोधेऽवकल्पते

अन्यथा वह्निधूमादि तदभावादिवेदनम् ॥ १.७७० ॥
अन्वयव्यतिरेकात्मा न स्याद्युगशतैरपि

अत एव हि मुख्यस्य मानस्य सदृशत्वतः ॥ १.७७१ ॥
अनुमानमिति प्रोक्तं व्यवहारप्रवर्तनम्

तदेवमेते मातारः सर्वत्रेश्वरसंविदम् ॥ १.७७२ ॥
उपजीवितुमायान्ति मातृभावं न चान्यथा

अज्ञो हि जन्तुवर्गोऽयं कथं तदनिवेशतः ॥ १.७७३ ॥
ज्ञस्वरूपत्वमाप्नोति तद्विना मातृता कुतः

तस्माद्संविदि योगोऽस्य स च नानेन दुर्लभः ॥ १.७७४ ॥
वस्तुतो हि न कश्चित्स सविन्नाथो ह्यसौ तथा

तदेवं पक्षमीशानप्रत्यक्षाक्षिप्तवृत्तिकम् ॥ १.७७५ ॥
सापेक्षं परतन्त्रे च पाशवं मानमुच्यते

अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥ १.७७६ ॥
ईश्वरप्रेरितो यातीत्यत एव मुनिर्जगौ
एवमीश्वरसापेक्षानुमानैकप्रमाणता ॥ १.७७७ ॥
निर्णीता लोलटाख्येन गुरुणा लोकसंमता

अन्यस्तद्गृह्य एवाह सत्यं वाध्यक्षसंविदः ॥ १.७७८ ॥
व्यवहारेऽस्ति मानत्वमनुमा तु कथं प्रमा
सुलभव्यभिचारायामनुमायां विनिश्चितः ॥ १.७७९ ॥
विशंश्रमीतु को नाम परीक्षकतया स्थितः

अन्वयो व्यतिरेकश्च यः सपक्षेतरस्थितिः ॥ १.७८० ॥
आदिदृष्टस्तदात्वे नो विनिश्चयविधायिनौ

यैस्तु तस्मादपास्येत पक्षधर्मादिदूषणात्[णम्] ॥ १.७८१ ॥
वर्चस्ककूटे शुद्धिं ते कुर्युः पांसुकणोच्चयैः

तस्मात्संशय एवायं प्रवृत्त्यङ्गतया स्थितः ॥ १.७८२ ॥
स एव भेदाभासित्वान्मायेति परिभाष्यते

मायेव च पशूनां स्यान्मानं मायाचिदातकम् ॥ १.७८३ ॥
तर्को वाप्येकपक्षांशस्थितिसंभावनात्मकः
अर्थानर्थबलीयस्त्वात्प्रवृत्तौ [त्त्यै] वा निवृत्तये ॥ १.७८४ ॥
प्रभविष्णुः स एवेति किमन्यैर्मानडम्बरैः

प्रमाता शिव एवैको यस्येदं स्वाङ्गमीद्र्शम् ॥ १.७८५ ॥
मेयत्वेन समाभाति सर्वतो निश्चयात्मकम्

अन्यः पुनः पशुः सर्वः संशयध्वान्तमध्यगः ॥ १.७८६ ॥
सौदामनीद्युतिप्रायसंवित्समनुरञ्जितः
पक्षद्वितयसत्यान्यभावान्यतमनिश्चयम् ॥ १.७८७ ॥
विन्दान एव लभते नात्र रूढिं कथं चन

तदेवं तर्कतः सर्वो व्यवहार इति स्थितम् ॥ १.७८८ ॥
अशुद्ध सैव विद्येयमिति मानं विधीयताम्

अशुद्धिरियती तस्या यद्वस्त्वननुसारिता ॥ १.७८९ ॥
अन्ये त्वनर्थिनो नास्ति प्रवृत्तिरिति निश्चिताः

अर्थित्वमेव सचिवमित्येवं पर्यचूचुदन् ॥ १.७९० ॥
रागस्य मानतामित्थं प्राहुरन्यात्मवेदिनः

अन्ये त्वाहुः संशयोऽपि न नामानिश्चिते गजे ॥ १.७९१ ॥
शक्तत्वे सति जायेत रागो वापि प्रवृत्तये
ततः स्वां कर्तृतामीषदालोच्य जनताः सदा ॥ १.७९२ ॥
प्रवर्तन्त इतीत्थं स्यात्कलाया एव जृम्भितम्

तेनार्थः स तथा वास्तु मा वाभूत्स्वात्मनस्तया ॥ १.७९३ ॥
मन्वानः कर्तृतामेष सर्वत्रैव प्रवर्तते

अन्ये त्वाहुरनादिर्यो व्यवहारः क्रियात्मकः ॥ १.७९४ ॥
नियतिः सैव विश्वस्य प्रवर्तकतया स्थिता

स एव चागमो नाम वृद्धव्यवहृतिक्रमः ॥ १.७९५ ॥
ततः समग्र एवायं धर्मादिपरिनिश्चयः

न प्रत्यक्षान्नानुमानाद्भूयसा विप्रलम्भकम् ॥ १.७९६ ॥
मतिरभ्येति विश्वासं परीक्षापक्षशालिनाम्

अन्नं क्षुधं शमयते तृषं वारीति बालकाः ॥ १.७९७ ॥
अन्यतः परिनिश्चित्य तथात्वानतिशङ्किनः
अन्यदाक्षादिकेऽप्यर्थे तत एवाद्यमानतः ॥ १.७९८ ॥
लभन्ते निश्चयं सम्यगागमाख्यात्परीक्षकाः

तथा च मुनिराहेदं पुण्यं पापमिति द्वये ॥ १.७९९ ॥
शास्त्रप्रयोजनं स्वल्पं नागमस्य प्रयोजनम्
आगमो हि न नामैष पुस्तकग्रन्थसंचयः ॥ १.८०० ॥
केवलं प्रथिताभिख्योऽनादिर्वेदादिकः किल

किं तु प्रसिद्धिरेवासौ सा च शब्दस्वरूपिणी ॥ १.८०१ ॥
या सर्वदर्शनेष्वेव न जात्वायात्यपोह्यताम्

छागैश्चैत्यो जटा भस्म भिक्षा दण्डः कमण्डलुः ॥ १.८०२ ॥
जालं तप्तशिला श्मश्रुकेशलोमविलुञ्चनम्
अग्निरेधा इष्टकौघचयनं गृहमेधिता ॥ १.८०३ ॥
इत्यादिसर्वशब्दानां प्रसिद्धिप्रक्रमादृते
कोऽभ्युपायोऽर्थतः कॢप्ततदन्यार्थावबोधयोः ॥ १.८०४ ॥

इत्थमागम एवायं प्रमाणमिति धीधनैः
उक्तं सत्यैव वागैशी प्रसिद्धिरविगानतः ॥ १.८०५ ॥

प्रसिद्ध आगमो लोके युक्तिमानथवेतरः
विद्यायामप्यविद्यायां प्रमाणमिति तत्स्थितम् ॥ १.८०६ ॥

प्रामाण्यं नियतेः श्रीमद्भूतजान्तनिवासिनाम्
अन्ये त्वाहुर्विशेषोऽयं कालो नामाभिवर्तते ॥ १.८०७ ॥

स्फुटभावस्वभावोऽसौ वर्तमानोऽभिवर्तते
वृत्तस्फुटस्वभावांशस्तदा त्वस्फुटतामयः ॥ १.८०८ ॥
भूतः कारणकॢप्त्या तु भाव्यसौ परिकल्प्यते
स चायं न स्वतन्त्रोऽस्ति कश्चिदन्योन्यसंश्रयात् ॥ १.८०९ ॥
अनवस्थानतो रूपपरावृत्त्यवलोकनात्
इयत्तारूढ्यभावाच्च मातृमेयोभयाश्रयात् ॥ १.८१० ॥
निरुपाधिकतद्रूपप्रतिभानवियोगतः
एकानेकध्रुवानित्यस्वरूपानुपपत्तितः ॥ १.८११ ॥
एकस्यैकोपधेरैक्यात्तिरोधेर्(?) उपधेरपि
क्रियायाः स्वगते भेदे कालस्यानुपयोगतः ॥ १.८१२ ॥
तत्कृतेऽन्योन्यसंश्रित्यान्यकृतेऽप्यनवस्थितेः
औपाधिकभिदावृत्तेरसत्यत्वादवास्तवात् ॥ १.८१३ ॥
कार्यस्यानुपपत्तित्वादेकस्यानुपयोगतः
चितश्च स्फुटतादत्तवर्तमानसदात्वतः ॥ १.८१४ ॥
भूतभाविलयात्तस्माद्वर्तमानलयादपि

चिन्नाथ एव देवोऽसौ कालमाभासयत्यलम् ॥ १.८१५ ॥
तदस्य कालाभासाख्या चित्स्वरूपस्य संसृतिः

स्वभाव[स्वाभास]गर्भा भावेषु भावाभावमयी स्वके ॥ १.८१६ ॥
रूपे स्थितिः प्रमातृत्वसमुल्लासोऽभिधीयते

इदं न यदहं चाहं यन्नेदमिदमप्यदः ॥ १.८१७ ॥
यन्नेदमिति चित्रेयमभाव[आभास]स्यैव मानता

परा प्रमातृता यासौ शुद्धा तस्यां पृथक्स्थिति ॥ १.८१८ ॥
न मानमस्तीत्यत्रांशे किं तया प्रविविक्तया

यस्तु सांसारिको मातृभावः सर्वोऽयमीदृशः ॥ १.८१९ ॥
तत्राभाव[स]स्य मानत्वं स च कालप्रसादतः

तथा हि परिपूर्णोऽसौ सर्वसर्वात्मरूपधृत् ॥ १.८२० ॥
क्व माता क्व च वा मानं क्व च मेयोऽवतिष्ठताम्

मात्रादीनां हि सत्यत्वे न स्यादापेक्षिकी स्थितिः ॥ १.८२१ ॥
मेयादेव च मात्रादेर्भावो जातु प्रकल्पते

अन्योन्यरूपस्यालाभे लाभे वा तदयोगतः ॥ १.८२२ ॥
सर्वत्रातिप्रसङ्गाच्च सर्वज्ञत्वादियोगतः
युगपच्चाप्यनुल्लासात्तत्त्वस्यानुपकारिणाम् ॥ १.८२३ ॥
अन्यमेयादिजनिते मातृत्वादौ तदन्यतः
तद्भावस्याप्यनुत्पन्नसमत्वेनैव संस्थितेः ॥ १.८२४ ॥
तस्माद्पूर्णश्चिदात्मासौ शिवः स्वांशं विखण्डयन्
नाहमित्यादिभेदांश इदमप्यवकल्पयेत् ॥ १.८२५ ॥

तदन्यसर्वपूर्णत्वमहमात्मनि तावति
ततोऽन्यतोऽपि संहर्ता जायते नाहमित्यपि ॥ १.८२६ ॥

उभौ तौ इदमंशौ चाप्यपोहति परस्परम्
बुद्धिस्थमिदमंशं स्वं स्वाहमंशे तिरोदधत् ॥ १.८२७ ॥
आस्ते न द्रावयत्येनं वस्त्रावृतघटादिवत्
तदेव बुद्धिसंस्थात्तु समयाग्रथितादथो ॥ १.८२८ ॥
इदमन्तरसंघातादहमंशव्यपोहिनः
अहमंशादिदन्तौघव्यपोहादहमन्तरात् ॥ १.८२९ ॥
व्यपोहात्स्वाहमोऽन्यान्याहंव्यपोहस्य भासनम्
षड्देवताः शून्यरूपा यदाश्रित्य प्रवर्तते ॥ १.८३० ॥

तदेवेदमिति ज्ञानं विकल्प इति गीयते
स कालः कल्यते येन विश्वं निजकलोदयात् ॥ १.८३१ ॥

तदत्रांशे य एषोऽस्ति भासांशः स्वप्रकाशकः
भावरूपतया सोऽयं सर्वानुप्राणनात्मकः ॥ १.८३२ ॥

न मातासौ न वा मानं न च मेयं निरुच्यते
यस्त्वसौ शून्यतायोगादभावो रुद्रदैवतः ॥ १.८३३ ॥
स एव मानतामेति यद्योगान्मातृताभावि[व]तः
मानाच्च पृथङ्मेयमित्येवमुपपादितम् ॥ १.८३४ ॥

इत्थं कालस्य मानत्वं प्रतिपेदेऽत्र कैश्चन
ये श्रीमद्भवतीत्याख्यगुरुपादोपसेविनः ॥ १.८३५ ॥

तदित्थं पुंसि चिद्धर्मविभवामोदशालिनि
मातृत्वदायि यत्प्रोक्तं षट्कं कञ्चुकसंज्ञितम् ॥ १.८३६ ॥

तदेकैकस्य मानत्वं के चन प्रतिपेदिरे
अन्ये त्वेकस्य सर्वान्यसचिवस्येति मन्वते ॥ १.८३७ ॥

अन्ये कदापि कस्यापि कथंचित्क्व चनेत्यादि
अन्ये द्वयोर्द्वयोरन्ये त्रिकद्वयनियोगतः ॥ १.८३८ ॥
अन्योन्यानुग्रहादन्ये बोधेनान्योन्यतोऽपरे

अन्ये तु गुणसाम्यात्मप्रकृतिमेव मानताम् ॥ १.८३९ ॥
मुख्यत्वेन विदुः सुप्तमत्तमूर्च्छादिदर्शनात्

स यत्रैव प्रमातायं यतः सुप्त इव स्थितः ॥ १.८४० ॥
सैवास्य मातृता मानमेययोरप्रवेदनात्

अन्योन्यमविकार्यत्वात्प्रसुप्तेऽपि तथाविधे ॥ १.८४१ ॥
केवलं प्रकृतिः सेयं जानामीत्यभिमन्यते

तत्र मुख्यं तु यन्मानं यत्पुंसैवानुदर्शनम् ॥ १.८४२ ॥
तच्च शुद्धं निर्विकारं सदसद्रूपतोज्झितम्

इत्थं केऽप्यभिमन्यन्ते सांख्यकञ्चुकसंश्रयात् ॥ १.८४३ ॥
वय्याभिधानस्य गुरोर्गृहे ज्ञानोपजीविनः
अन्ये धीभूमिमेवाहुर्द्रष्टृदृश्योपरागिणीम् ॥ १.८४४ ॥

प्रमाणं पारमर्षेयाः केचित्तद्वृत्तिसंचयम्
धर्मादिकाष्टसंख्यातं धर्मजातं परे विदुः ॥ १.८४५ ॥

अन्येऽहंकारमेवाहुः केचिद्धियमथो मनः
केचिद्त्रितयमेवेदं समं सर्वत्र मन्वते ॥ १.८४६ ॥

अन्ये दशानामेकैकमिन्द्रियाणां प्रपेदिरे
केचित्समस्तान्येतानि सर्वत्राकूटवृत्तितः ॥ १.८४७ ॥

अन्धस्यापि हि तत्किंचिद्रूपायतनमस्ति यत्
विकारमेकश्रोत्रस्पृगक्षान्तरसमस्थिति ॥ १.८४८ ॥
प्रभातं प्रविलीनाभ्रनभोमण्डलमण्डितम्
इत्याकर्ण्य परां तूष्टिं यात्यन्धो हैमने दिने ॥ १.८४९ ॥

यद्यप्यनुमिमीतेऽसौ शीतवारणजं सुखम्
तथाप्यस्य स्वसंवित्तिर्न रूपानवभासिनी ॥ १.८५० ॥

अन्ये तन्मात्ररूपाणां मानत्वं प्रतिपेदिरे
चक्षूरश्मिस्त्वसंस्पर्श इत्यादिविधियोगतः ॥ १.८५१ ॥
अदृश्यत्वं चक्षुरादेरत एवोपपद्यते
योगिनः प्रत्यदृश्यत्वं जातुचिन्नोपपद्यते ॥ १.८५२ ॥

अन्ये तु स्थूलभूतानां ज्योतिषां मानतां जगुः
मेयस्यापि प्रमाणत्वमपरे प्रतिपेदिरे ॥ १.८५३ ॥

यतो भवति मातृत्वं तत्प्रमाणमिति स्थितिः
तद्घटाद्यैश्च यत्तस्मात्तेऽपि मानमिति स्मृताः ॥ १.८५४ ॥

लौकिको व्यपदेशश्च नैव वस्त्वनुसारतः
स हीच्छामात्रकॢप्तत्वात्प्रायेणैवोपचारिकः ॥ १.८५५ ॥

कथं जानासि भोः सोऽहं जानामीति च चोदितः
घटेनानेन दृष्टेन जानामीत्यभिभाषते ॥ १.८५६ ॥

तस्मान्मेयेऽपि मानत्वं न हि नाम न लौकिकम्
अभेदवादे मूलस्थे विरोधोऽपि न दूषणम् ॥ १.८५७ ॥

ये तु प्रमाणमाहुस्तत्सामग्रीं तैरपि स्फुटम्
अर्थादेर्मानताभीष्टा सा सङ्घेऽप्यन्यथा कुतः ॥ १.८५८ ॥

अन्ये तु सर्वस्यैवेयत्तात्तभेदस्य मानताम्
क्रमोदितां हि सर्वत्र क्वचिच्चाप्यक्रमोदिताम् ॥ १.८५९ ॥
क्वचित्क्रमाक्रमग्रासपरिपूर्णत्वबन्धुराम्
मन्वते तन्मतं तावद्दिङ्मात्रेणोपदर्श्यते ॥ १.८६० ॥

प्रथमं मेययोगेन झटिति प्रतिभासिना
अन्यार्थदृश्यभिप्रायप्रच्छनेनैव सर्वतः ॥ १.८६१ ॥
मातृत्वं चरमं तत्र चक्षुषः प्रविजृंभणम्

ततो मनोऽहंधीवर्गविजृंभान्तःसमुज्ज्वलम् ॥ १.८६२ ॥
ततः पौंस्नाभिसंशुद्धसंविदुल्लासशालिता

ततः कालकलारागयत्यविद्यानिशाः क्रमात् ॥ १.८६३ ॥
अन्यथा वा समं वापि द्वन्द्वयोगेन वा त्रिशः
सर्वशो वा चतुष्पञ्चयोगेनाप्याणवे पदे ॥ १.८६४ ॥
अभावकर्तृतासङ्गसिद्धितर्काख्यसंशयाः
तत्रापि ननु जायन्ते तत्तत्क्रमविचित्रिताः ॥ १.८६५ ॥

तत्पृष्टे चाविकल्पासौ शुद्धैश्वर्यावभासिका
विद्या प्रमाणतामेति पर्यन्तप्रमितिस्थितौ ॥ १.८६६ ॥

ततः सदाशिवोदारज्ञानेच्छाशक्तिसंश्रये
स माता पूर्णतामेति शक्त्यन्ताध्वसुनिर्वृतः ॥ १.८६७ ॥

इत्थं पूर्णं प्रमातृत्वं यतः समवभासते
तदन्यतमभागांशतिरोधानवियोगजाः ॥ १.८६८ ॥
संविदः स्फुटतान्यत्वभेदान्निःसंख्यतां गताः

अत एव ह्यजानानैः शिवशास्त्रोदितां स्थितिम् ॥ १.८६९ ॥
स्फुटास्फुटादिसंवित्सु स्मृत्यस्मृत्यादिगोचरे
सौषुप्तादिषु शीघ्रत्वे युक्त्यामर्शाद्यसंभवात् ॥ १.८७० ॥
मनोवधानं संस्कारो धर्माद्यदृष्टकल्पनम्
इत्येते हि स्फुटं शब्दा नात्र कोऽर्थस्तत्रि ... मा ॥ १.८७१ ॥

ऊर्ध्वोर्ध्वतत्त्वव्रातस्य मानत्वे च निरूपिते
अधराधरतत्त्वांशो मेयतामवलम्बते ॥ १.८७२ ॥

न चात्रास्ति क्रमः कश्चिद्व्यवधाने हि संभवात्
न हि विद्या न बौद्धी तामालोचयति संविदम् ॥ १.८७३ ॥

विद्या विवेक्त्री प्रोक्ता हि बुद्धिपृष्टसमाश्रिता
प्रकाशात्मवपुर्बाह्यमक्षमालोचनात्मकम् ॥ १.८७४ ॥

संकल्पार्थं मनः प्राहुरभिमन्त्रीमहङ्कृतिम्
निश्चेत्रीं च धियं तत्र विद्यां चापि विवेचिकाम् ॥ १.८७५ ॥
तत्रैव रञ्जकं रागं कलां शक्तत्वदर्शिनीम्
कालं व्यवच्छित्कर्तारं नियतिं च नियामिकां ॥ १.८७६ ॥
आमृशन्तीमन्यमातृसाधारण्यावभासिकाम्
ग्राह्यमण्डलतद्ग्राहिनानारूपावमर्शिनीम् ॥ १.८७७ ॥
मायां पूर्णत्वसंभोगप्रच्युतिक्षोभकारिणीम्
सद्विद्यां पूर्णविश्रान्तिदायिनीं सुशिवात्मिकाम् ॥ १.८७८ ॥
ज्ञाननिर्भरभावांशस्वरूपपरिमर्शिकाम्
इच्छाशक्तिं प्रमात्रंशपूर्णभावावभासिकाम् ॥ १.८७९ ॥
आश्रित्य परिपूर्णोऽयं मातृभावो विजृम्भते ॠ

प्रकाशालोचने पूर्वं संकल्पाभिमते ततः ॥ १.८८० ॥
निश्चयानुदृशौ पश्चाद्विवेकासङ्गिताद्वयम्
कर्तृतास्थाव्यवच्छेदः साधारण्यावभासनम् ॥ १.८८१ ॥
नानाविमर्शाप्रक्षोभपूर्णमेयप्रवेदनम्
पूर्णमातृत्वसंवित्तिर्भैरवीभाव एव च ॥ १.८८२ ॥

इत्थं षोडशधा मेयमयं यावत्प्रकाशयेत्
तावद्विज्ञानचन्द्रोऽसौ प्रोक्तो द्व्यष्टकलास्थितिः ॥ १.८८३ ॥

अनुत्तरा स्थितिः पूर्वमानन्देच्छेशनान्यतः
उदयश्चोनतावेश इति षट्कं व्यवस्थितम् ॥ १.८८४ ॥

अनुत्तरात्समारभ्य ज्ञानशक्त्यन्तमीदृशम्
इच्छैव तु क्रियाशक्तिमीशनेन समास्थिता ॥ १.८८५ ॥
प्रकाशस्थितिलेशांशं गृह्णती षण्ठतां गता ॠ

इच्छादि यच्च तत्पूर्वानुत्तरानन्दसंगतेः ॥ १.८८६ ॥
तदादिश्लेषयोगेन संध्यक्षरचतुष्टयम् ॠ

ततः स्वरूपसंवित्तिलाभाद्बिन्द्वादिका स्थितिः ॥ १.८८७ ॥
ततः समग्रसंदर्भभरिताकाररूपिणि
विसर्गः किल शाक्तोऽसौ विक्षेप इति यः स्मृतः ॥ १.८८८ ॥

विसर्गस्यैव विश्लेष इति सप्तदशी कला
क्वचिदष्टादशी सैव पुनः प्रक्षोभयोगतः ॥ १.८८९ ॥

अनुत्तरस्याकारस्य परभैरवरूपिणः
अकुलस्य परा येयं कौलिकी शाक्तिरुत्तमा ॥ १.८९० ॥
स एवायं विसर्गस्तु तस्माज्जातमिदं जगतॄ

तस्य प्रक्षोभयोग्यत्वं प्रक्षोभकलनोदयः ॥ १.८९१ ॥
प्रक्षोभपूर्णताभावात्तदकुलक्रमोनता
इति षट्कस्वरूपात्मविमर्शान्दोलनोदितम् ॥ १.८९२ ॥
अनुत्तरस्वभावत्वादाद्यस्यैव विजृम्भितम् ॠ

स एव भगवानन्तर्नित्यं प्रस्फुरदात्मकः ॥ १.८९३ ॥
अन्तःस्थसर्वभावौघपूर्णमध्यमशक्तिकः
स्वेच्छाक्षोभस्वभावोद्यज्जगदानन्दसुन्दरः ॥ १.८९४ ॥
नित्यं स्फुरति संपूर्णविसर्गरससुन्दरः ॠ

शिवशक्त्योः स संघट्टः स्नेह इत्यभिधीयते ॥ १.८९५ ॥
अत्रैव पूर्णवैसर्गपदे लब्धुं प्रवेशनम्
लेहनामन्थनेत्यादिसंप्रदायमुपासते ॥ १.८९६ ॥

तथा हि मध्यमां नाडीमधिष्ठायाखिलं वपुः
प्राणयत्परमं तेजः प्रक्षुब्धामृतमध्यतः ॥ १.८९७ ॥
विसृष्टिरूपतां गच्छेद्यात्यानन्दचमत्क्रियाम्

अपूर्णा केवलं सा तु पूर्णा तु भगवन्मयी ॥ १.८९८ ॥
तेन वैसर्गिकी शक्तिरेकैवेयं प्रजृम्भते

विसर्ग एव प्रक्षुब्धः प्रयत्नद्विगुणत्वतः ॥ १.८९९ ॥
हकारो नाम विश्वेषां व्यञ्जनानां प्रसूतिकृतॄ

स एव च पुनर्बिन्दुयोगात्स्वामेव भूमिकाम् ॥ १.९०० ॥
अनुत्तरामाश्रयते सोऽहंभाव इहेष्यते ॠ

अत्रैवावर्णजः काख्यस्तदन्यश्च इवर्णजः ॥ १.९०१ ॥
तत एव हि रेफांशच्छायोपाधेरृवर्णतः
टवर्गस्तत एवाथ धराच्छायोपधिक्रमात् ॥ १.९०२ ॥
तवर्गस्तत्परः पश्चादुवर्णाद्यरलाश्च वः
इवर्णवर्गाच्चोवर्णात्क्रमेणेत्यत एव हि ॥ १.९०३ ॥
अन्तःस्था इत्यशीताश्च इवर्णाद्द्विप्रभेदशः
शषसानां समुद्भूतिः शुद्धोपाधिकलायुजः ॥ १.९०४ ॥
इच्छाया एव विश्वो हि प्रसवो बहुधा स्थितः ॠ

अत एव हि सस्थानभावो युक्तत्वमर्हति ॥ १.९०५ ॥
जीवस्यैवेयमाश्यानस्थितिर्योन्यत्मिका यतः
सैवानुत्तरदेवस्य शक्तिरत्र निरुच्यते ॥ १.९०६ ॥

तत्रैवन्तःस्थतत्त्वानि परावाग्भूमिकाक्रमात्
अवर्गे शिवतत्त्वं तु कादौ हान्ते शिवान्तकम् ॥ १.९०७ ॥
इति संपुटयोगोऽयं त्रिंशकार्थो निरूपितः ॠ

एवं पूर्णानवच्छिन्ना चिद्देवी स्याद्यदि स्फुटम् ॥ १.९०८ ॥
सर्वमस्यां भवेदेषा सर्वत्र च तथा भवेतॄ

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ॥ १.९०९ ॥
तस्याहं न प्रणश्यामि स ममेत्यपि तन्मुनिः
अभाषतार्जुनाचार्यवचसा तत्र तत्र च ॥ १.९१० ॥

संविदात्मा हि विच्छिन्नो यदि स्यात्सर्वभावतः
भाव एव भवेदेष स्वलक्षणघटादिवत् ॥ १.९११ ॥

अतश्च संवित्संवित्त्वहानेरेषा प्रणश्यति
पलायते हि चित्सा चेद्व्यवचिच्छेदयिष्यते ॥ १.९१२ ॥
निजोत्तमाङ्ग्च्छायेव स्वपदाक्रमणक्रमे

यच्च सर्वं मयि प्रोक्तं न पश्यति महाजनः ॥ १.९१३ ॥
स सर्वमध्यवर्तित्वान्मयि तावत्प्रतिष्ठितः
एवं प्रकाशानिष्ठत्वादस्यासत्समताजुषः ॥ १.९१४ ॥
प्रणाश एवेति मुनिः प्रोवाचोभयवर्त्मना
एष वस्तुक्रमस्तावद्योऽयं संपुट उच्यते ॥ १.९१५ ॥

तत एव समस्ताध्वकलितासनसद्मनि
संविदाधेयतां प्राप्ता पुनराधारतां गता ॥ १.९१६ ॥
उक्तं चानुत्तरे यागे पुनरेवासनं

ह्स्पचे{३ म्} ततः
अत्र तु प्रविविक्षूणां ज्ञप्तिक्रमवशान्मुनिः ॥ १.९१७ ॥
ऊचिवान् भगवानेव विश्वं तन्नान्यथेति यत्
अभिन्नसंवित्स्वातन्त्र्यं भासते भेदवर्त्मनि ॥ १.९१८ ॥
उपदेश्योपदेष्टृत्वव्यवस्थेयं प्रतायते

स्वात्मैव हि गुरुर्देवः पर इत्यभिमन्यते ॥ १.९१९ ॥
स्वोदीरितानि वाक्यानि परोक्तानीति मन्यते

प्रतिपाद्यं च यद्वस्तु येन च प्रतिपाद्यते ॥ १.९२० ॥
तत्सर्वमात्मरूपं हि भेदेनैवाभिमन्यते

यथा स्वप्नपदावस्थामुपदेशपरम्पराम् ॥ १.९२१ ॥
आकर्णयज्जडो जन्तुरन्योक्तमभिमन्यते
तथैव जाग्रद्गर्भोऽयं व्यवहारः समस्तकः ॥ १.९२२ ॥

को भेदः स्वप्नजाग्रत्सु तर्हि स्यादिति चेत्पुनः
भणिष्यतेऽथ वा नाथे स्वतन्त्रे किन्न भाषितम् ॥ १.९२३ ॥

एवं ज्ञप्तिक्रमेणैव भेदो विध्यनुवादयोः
सर्वं देवोऽथ वा देवः सर्वमित्येकमेव हि ॥ १.९२४ ॥

वस्तुतः कुम्भघटवद्विश्वं पर्यायमात्रकम्
वाच्य एषां त्वमेवेति तच्छ्रीनारायणोऽभ्यधात् ॥ १.९२५ ॥

नन्वभेदे कथंकारं कॢप्तिर्विध्यनुवादयोः
यो दन्तुरः स चैत्रोऽयमिति दन्तुरमादितः ॥ १.९२६ ॥
अनूद्य चैत्र इत्यंशो यदि नाम विधीयते
तद्दन्तुरोऽन्यश्चैत्राच्चैत्रश्चान्यस्ततः कथम् ॥ १.९२७ ॥

घटश्चैत्र इतीदृक्षा न स्याद्विध्यनुवादता
तस्माद्य एव चैत्रोऽसौ स दन्तुर इति स्थितिः ॥ १.९२८ ॥
वास्तवी ज्ञप्तिमात्रोत्थो विधिर्विध्यनुवादयोः

अज्ञातपर्यायपदस्थितीन् प्रति
प्रयुज्यते पादप एष भूरुहः
कुम्भो घटश्चेति तथैव भण्यते
महेश्वरः सर्वमिदं जगत्त्विति ॥ १.९२९ ॥

इत्थं संपुटयोगेन परिपूर्णा हि या स्थितिः
यस्यां संहारसृष्ट्यंशशतान्यन्तःस्थितान्यपि ॥ १.९३० ॥

तामेव भागशः के चिदुपासितुमनस्तया
एकादिद्विगुणत्वोत्थचतुःषड्द्वादशादिभिः ॥ १.९३१ ॥
संविच्चक्रमयैर्भेदैर्भिन्दते विविधैः क्रमैः

एका संविद्द्विधा सैव दृक्क्रियात्मा त्रिधाथ सा ॥ १.९३२ ॥
प्रोन्मेषशक्तिसाचिव्याच्चतुर्धाप्यथ गीयते

चिच्छक्त्यानन्दरूढ्या तु पञ्चधासौ प्रभाष्यते ॥ १.९३३ ॥
षोढा तु स्वरषट्कोक्तसंविच्चर्चाविचारणात्
यावद्द्वादशधा संवित्सृष्ट्यादौ तुल्यगोचरे ॥ १.९३४ ॥
एकैकशस्त्र्यात्मकत्वात्त्रये वा चातुरात्म्यतः

सृष्टिं कलयते संवित्तत्राभ्येति च रक्तताम् ॥ १.९३५ ॥
स्थितिनाशं कलयते क्वापि शङ्कां प्रकल्पयेत्

तां संहृत्य च भावांशं संहारात्स्वात्मनः पुनः ॥ १.९३६ ॥
संहर्त्रीत्वं चर्चयते तदन्तः पुण्यपापयोः
न द्रुतं न निरोधं वा स्वस्वातन्त्र्येण वाञ्छति ॥ १.९३७ ॥

एवं बोधांशकरणमरीचीचक्रमात्मनि
ग्रसमाना संहरते प्रमाणांशस्थितान् रवीन् ॥ १.९३८ ॥

ततः कल्पितमात्रंशं संहृत्याकल्पिते हृदि
तत्सर्वातीतमप्यन्तरनवच्छिन्नधामनि ॥ १.९३९ ॥
नयेत्तन्नयनद्वाराद्विश्वं यावत्तथा नयेत्
ततः सृष्टिं च कलयेदित्यादिक्रमयोगतः ॥ १.९४० ॥
द्वादशारमिदं चक्रं सर्वदा परिवर्तते
यस्यैताः स्थूलमात्रत्वं मासराश्यादिसंपदः ॥ १.९४१ ॥

अक्रमक्रमवशाद्द्विशस्त्रिशो
भूरिशोऽथ विविधैः क्रमाक्रमैः
चक्रमेतदुदितं विजृम्भते
मेयमानमितिमातृभक्षकम् ॥ १.९४२ ॥

एतच्चक्रगतानन्तकिरणारासमाश्रयात्
चक्रभेदो न संख्यातुं कदाचिदपि शक्यते ॥ १.९४३ ॥

यथा हि वर्हिणः पत्रे सितपीतारुणादिकम्
प्रोन्मिषन्निमिषच्चात्र भासतेऽप्यतथात्मकम् ॥ १.९४४ ॥
तथानुन्मिषितालीनसूक्ष्मसंवित्सुनिर्भरः
चक्रेशो भाति निमिषत्प्रोन्मिषद्वृत्तिचित्रितः ॥ १.९४५ ॥

तत्कस्यापि निमेषेण कस्याप्युन्मेषयोगतः
एकारचक्रात्प्रभृति सहस्रारं विवर्तते ॥ १.९४६ ॥

तदसंख्यानमथ वाप्यन्योन्याश्रितगर्भकम्
न वा तच्चक्रमथ किं व्योमैवैकं विजृम्भते ॥ १.९४७ ॥
तदप्यनन्तसच्चक्रगर्भं वापि विभासते
अनन्तव्योमगर्भं वा महाव्योमैकमुच्यते ॥ १.९४८ ॥

यथा व्योमैवैकं कचति सितनीलारुणतया
यथा चैते मेघाः पुनरथ तथा भान्ति बहुधा
तथा संवित्तत्त्वं कलनपरिसंख्याविरहितैः
स्वतन्त्रं स्वाकारैः स्फुरति न च ते के चन ततः ॥ १.९४९ ॥

इति तत्त्वमिदं न्यरूपयन्
मम नाथो हृदयस्थितः स्वयम्
प्रतिपद्य विचित्ररूपकम्
गुरुसंतानपरम्परायितम् ॥ १.९५० ॥

तदमुत्र नये न ये प्ररूढिं
प्रतिपत्तुं क्षमतामुपाश्रयन्ते
ननु तत्प्रतिबोधनाय देवो
विविधां मण्डलकल्पनामवोचत् ॥ १.९५१ ॥

बालो यद्वत्रेखया वर्णजाते
स्वैः संकेतैर्योज्यते तत्क्रमेण
तद्वन्मुद्रामण्डलैर्मन्त्रतन्त्रैः
पूर्णे स्वस्मिन् योज्यते धाम्न्यनर्घे ॥ १.९५२ ॥

अत्रापि किञ्चन विभाति तदिच्छयैव
दूरं तथा सविधमाश्रिततारतम्यम्
असंस्पृगप्यथ निरंशपदप्रतिष्ठम्
इत्थं क्रियापटलगो बहुधैव भेदः ॥ १.९५३ ॥

इत्थं प्रमाणताभागि यत्तत्त्वं हि न्यरूप्यत
परापरा भगवती सेयं भाति तथा तथा ॥ १.९५४ ॥

तदत्रैव परांशो यः स मात्रंशोऽपरः पुनः
मेयांश इति तत्पूर्वमेवास्माभिः प्रकाशितम् ॥ १.९५५ ॥

मात्रंशोऽपि परे भागे बहुधा यत्स्थितस्ततः
परापरतयोद्रिक्तः परो मन्त्रेशरूपकः ॥ १.९५६ ॥
उद्रिक्तापरभावस्तु मन्त्र इत्यभिधीयते

परापरस्तु यो माता समुद्रिक्तपरापरः ॥ १.९५७ ॥
स विज्ञानाकलः प्रोक्तः प्रबुद्धपरभावकः
अपरोद्रेकयोगेन स एव प्रलयाकलः ॥ १.९५८ ॥
अपरः किल यो माता सकलः स तु भाष्यते

परापरादिभेदेन तस्यापि बहुधा स्थितिः ॥ १.९५९ ॥
विचार्यमाणा निःसंख्यान्मातृभेदांस्तनोत्यलम्
मुख्यत्वेन तु सप्तैव मातृभेदाः प्रकीर्तिताः ॥ १.९६० ॥

प्रमाणांशे पतन्त्येव तेषामेव स्वशक्तयः
व्यापारयोगितैवैषा शक्तित्वमिति मन्महे ॥ १.९६१ ॥

यच्च व्याप्रियमाणत्वं करणत्वं तदेव हि
एवं च शक्तिमच्छक्क्तिभेदान्मातृप्रमाणजाः ॥ १.९६२ ॥

चतुर्दशस्वरूपं च प्रमेयमिति भाष्यते
माता मानं च मेयं च यत एकं प्रकीर्तितम् ॥ १.९६३ ॥

ततः पञ्चदशात्मैकमेकं प्रकृतिपञ्चितम्
तत्राप्येकैकशो भेदे निजतत्त्वस्वरूपिणि ॥ १.९६४ ॥
संक्षेपविस्तरकृतं भेदानन्त्यं प्रतायते

पुनर्जलादिमूलान्तभेदसंकलनक्रमात् ॥ १.९६५ ॥
भूयान् भेदप्रभेदोत्थो वैचित्र्यविसरोदयः

एवं धरातः प्रभृति प्रधान-
तत्त्वान्तमुक्तं दशपञ्चधैव
पुंसः कलान्तं सकलः स्वरूप-
भूतो न माता न च मानरूपः ॥ १.९६६ ॥

त्रयोदशात्मत्वमतोऽत्र निष्ठितं
निशि स्वरूपं तु भवेल्लयाकलः
मध्ये तु विज्ञानकलस्वरूपता
विद्यापदे मन्त्रगतस्वरूपता ॥ १.९६७ ॥

ऐशे मन्त्रेशवर्गस्थितिरथ सुशिवे धाम्नि तन्नाथनिष्ठा
पूर्वं पूर्वं च तत्र प्रकटयति निजां मातृमानव्यवस्थाम्
तेनानन्यप्रमातृ स्फुरति शिवपदं स्वप्रकाशं सदैकं
मन्त्रेशेशानतस्तु त्रिशरमुनिनवत्र्यक्षसंख्याविभेदाः ॥ १.९६८ ॥

शक्तिश्च नो शक्तिमतो विभिन्ना
तेनैति नो भेदमियं पृथक्त्वम्
अमातृतायां न च शक्तिरस्ति
तेन स्वरूपं न हि शक्तियुक्तम् ॥ १.९६९ ॥

धरातत्त्वाविभेदेन यः प्रकाशः प्रकाशते
स एव शिवनाथोऽत्र पृथिवी ब्रह्म तत्परम् ॥ १.९७० ॥

धरातत्त्वगताः सिद्धीर्वितरीतुं समुद्यतान्
प्रेरयन्ति शिवेच्छातो ये ते मन्त्रमहेश्वराः ॥ १.९७१ ॥
प्रेर्यमाणास्तु मन्त्रेशा मन्त्रास्तद्वाचकाः स्फुटम्

धरातत्त्वगतं योगमभ्यस्य शिवविद्यया ॥ १.९७२ ॥
न तु पाशवसांख्यीयवैष्णवादिद्वितादृशा
अप्राप्तध्रुवधामानो विज्ञानकलताजुषः ॥ १.९७३ ॥

तावत्तत्त्वोपभोगेन ये कल्पान्ते लयं गताः
सौषुप्तावस्थितौ यद्वत्तेऽत्र प्रलयकेवलाः ॥ १.९७४ ॥

सौषुप्ते तत्त्वलीनत्वं स्फुटमेव हि लक्ष्यते
अन्यथा नियतस्वप्नसंसृष्टिरियती कुतः ॥ १.९७५ ॥

सौषुप्तमपि चित्रं च स्वच्छास्वच्छादि भासते
अस्वाप्सं सुखमित्यादिस्मृतिवैचित्र्यदर्शनात् ॥ १.९७६ ॥

मायाकर्मसमुल्लाससंमिश्रितमलाबिलाः
धराधिरोहिणो ज्ञेयाः सकला इह पुद्गलाः ॥ १.९७७ ॥

अस्यैव सप्तकस्य स्वस्वव्यापारप्रकल्पने
प्रक्षोभो यस्तदेवोक्तं शक्तीनां सप्तकं ततः ॥ १.९७८ ॥

शिवोऽविच्युतचिद्रूपस्तिस्रस्तच्छक्तयस्तु याः
ताः स्वातन्त्र्यवशोपात्तग्रहीतृग्राह्यरूपिकाः ॥ १.९७९ ॥

ग्रहीतृभागोद्रेकेण ग्राह्यभागोच्छलत्वतः
सप्त सप्तेति यत्त्वेकं जडमात्रं नरात्मकम् ॥ १.९८० ॥
तत्स्वरूपं ततस्त्रैधं प्रतितत्त्वं व्यवस्थितम्

किं चार्थे खलु निर्ग्राह्ये तुटयः षोडश क्षणाः ॥ १.९८१ ॥
सपादद्व्यङ्गुलावेशात्प्रत्येकं परिकल्पिताः

तत्राद्यः परमाद्वैतनिर्विभागरसात्मकः ॥ १.९८२ ॥
अन्त्यस्तु ग्राह्यतादात्म्यान्न पृथक्प्रविभाव्यते
उपान्त्यस्तत्स्वरूपस्य ग्राहकः परिभाव्व्यते ॥ १.९८३ ॥

आद्यं च सप्तकं तत्र निर्विकल्पकतां गतम्
क्रमोन्मिषद्विकल्पांशच्छायाच्छादनकोविदम् ॥ १.९८४ ॥
तदेव शिवरूपं हि परशक्त्यात्मकं विदुः

द्वितीयं सप्तकं तत्र परापरपदात्मकम् ॥ १.९८५ ॥
विकल्प इति संगीतमिति भेदोऽवभास्यते

तदस्यां सूक्ष्मसंवित्तौ कलनाय समुद्यताः ॥ १.९८६ ॥
संवेदयन्ते यद्रूपं तत्र किं वा विकत्थनैः

क्रमात्तु भेदन्यूनत्वे तुटीनामपि यो मतः ॥ १.९८७ ॥
विकल्पस्य च निर्ह्रासो निर्विकल्पोपलक्षणम्

यथा हि चिरदुःखार्तः पश्चादात्तसुखस्थितिः ॥ १.९८८ ॥
विस्मरत्येव तद्दुःखं सुखविश्रान्तिवर्त्मना
तथा गतविकल्पेऽपि रूढाः संवेदने जनाः ॥ १.९८९ ॥
विकल्पविश्रान्तिबलात्तां वृत्तिं नाभिमन्वते

विकल्पनिर्ह्रासवशेन याति
विकल्पवन्ध्या परमार्थसत्या
संवित्स्वरूपप्रकटत्वमित्थं
तत्रावधाने यततां सुबुद्धिः ॥ १.९९० ॥

ग्राह्यग्राहकसंवित्तौ संबन्धे सावधानता
इयं सा भण्यते तत्र यथेष्टफलयोगतः ॥ १.९९१ ॥

अत एव हि तद्भेदबाहुल्याद्भुवनान्यपि
विचित्रत्वं प्रयान्तीति न चातिक्रम इष्यते ॥ १.९९२ ॥

सक्रमाक्रममेवेदं कालस्य प्राक्प्रदूसणात्
दिशश्च परमार्थत्वं नैव युक्त्योपपद्यते ॥ १.९९३ ॥

पूर्वापरप्रतीतिं हि नैका सा कुरुते तथा
उपाधिभेदो नो वस्तु तत्कथं सा प्रकल्प्यताम् ॥ १.९९४ ॥

यो हि यस्माद्गुणोत्कृष्ट इत्यतः परमेश्वरः
अभाषत निजानन्दकॢप्तदिक्कालमण्डलः ॥ १.९९५ ॥

तदेवं तत्त्वरूपेऽस्मिन् विचित्रे प्रविविक्षताम्
उपायभेदात्त्रैविध्यं समावेशेषु वर्णितम् ॥ १.९९६ ॥

अनुपायः शांभवोऽसौ चिदुपायस्ततः परम्
जडोपायस्त्वाणवः स्यात्स चापि बहुधा मतः ॥ १.९९७ ॥

अजडेऽपि जडाभासः पारमेश्वर्ययोगतः
नाडीकरणबाह्यादेस्तेन संविदुपायता ॥ १.९९८ ॥

तत्राक्षवृत्तिमाश्रित्य बाह्याकारग्रहो हि यः
तज्जाग्रत्स्फुटमासीनमनुबन्धि पुनः पुनः ॥ १.९९९ ॥

आत्मसंकल्पनिर्माणं स्वप्नो जाग्रद्विपर्ययः
लयाकलस्य यो भोगः लयकर्मवशान्न तु ॥ १.१००० ॥
स्थिरो भवेन्निशाभावात्सुप्तं सौख्याद्यवेदने
ज्ञानाकलस्य मलतः केवलाद्भोगमात्रतः ॥ १.१००१ ॥
भेदवन्तः स्वतो भिन्नाश्चिकीर्ष्यन्ते जडाजडाः

तुर्ये तत्र स्थिता मन्त्रतन्नाथाधीश्वरास्त्रयः ॥ १.१००२ ॥
यावद्भैरवबोधांशप्रवेशनसहिष्णवः

भावा विगलदात्मीयसाराः स्वयमभेदिनः ॥ १.१००३ ॥
तुर्यातीतपदे संस्युरिति पञ्चदशात्मके

यस्य यद्यद्स्फुटं रूपं तज्जाग्रदिति मन्यताम् ॥ १.१००४ ॥
तदेवास्थिरमाभाति स्वरूपं स्वप्न ईदृशः

अस्फुटं तु यदाभाति सुप्तं तत्तत्पुरोऽपि यत् ॥ १.१००५ ॥
त्रितयस्यानुसंधिस्तु यद्वशादुपजायते
स्रक्सूत्रतुल्यं तत्तुर्यं सर्वभेदेषु गृह्यताम् ॥ १.१००६ ॥

यत्त्वद्वैतभरोल्लासि द्राविताशेषभेदकम्
तुर्यातीतं तु तत्प्राहुरित्थं सर्वत्र योजयेत् ॥ १.१००७ ॥

लयाकले हि स्वं रूपं जाग्रत्तत्पूर्ववृत्ति तु
स्वप्नादीति क्रमं सर्वं सर्वत्रानुसरेद्बुधः ॥ १.१००८ ॥
एकत्रापि प्रभौ पूर्णे चित्तुर्यातीतमुच्यते
आनन्दस्तुर्यमिच्छैव बीजभूमिः सुषुप्तता ॥ १.१००९ ॥
ज्ञानं तु स्वप्नवृत्तित्वं क्रिया जाग्रदिति स्मृता
अत्रैव योगभूम्युत्थाः संज्ञाः पिण्डस्थतादयः ॥ १.१०१० ॥
सर्वतोभद्रताद्यास्तु प्रसंख्याज्ञानिनिर्मिताः
एकैकत्र चतूरूपसद्भावाद्वितते ततः ॥ १.१०११ ॥
चतूरूपत्वमेकत्र त्रित्वं पश्चादथैकता

एकस्तु भैरवो नाथः प्रोल्लसद्विश्वरूपकः ॥ १.१०१२ ॥
एकः शिवादिसकलपर्यन्तस्थितिसंगतः
सोऽयं समस्त एवाध्वा भैरवाभेदवृत्तिमान् ॥ १.१०१३ ॥
तत्स्वातन्त्र्यात्स्वतन्त्रत्वमश्नुवानोऽवभासते

सोऽयं मातृस्वरूपस्थो मन्त्राध्वेति विभाव्यते ॥ १.१०१४ ॥
प्रमारूपतया सोऽयं वर्णाध्वेति निरुच्यते
प्रमाणरूपतामेत्य प्रयात्येष पदाध्वताम् ॥ १.१०१५ ॥
प्रमाणरूपतावेशमपरित्यज्य मेयताम्
गच्छन् संकल्पनयोगात्कलाध्वा मातृसंगतः ॥ १.१०१६ ॥
शुद्धे प्रमेयतायोगे स तत्त्वाध्वेति गृह्यताम्
तत्स्थौल्याधारतायोगाद्भुवनाध्वेति वर्णितः ॥ १.१०१७ ॥

तथा हि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा
शिवज्ञानक्रियायत्तमननत्राणतत्परा ॥ १.१०१८ ॥
अशेषशक्तिपटलीलीलालाम्पट्यपाटवात्
मन्त्राध्वा रभसेन द्राक्प्रागुद्भूतः शिवात्मकः ॥ १.१०१९ ॥

उच्छलत्संविदामात्रविश्रान्त्यास्वादयोगिनः
सर्वाभिधानसामर्थ्यादनियन्त्रितशक्तयः ॥ १.१०२० ॥
सृष्टाः स्वात्मसहोत्थार्थधरापर्यन्तवृत्तयः
स्वात्मीये चिद्विलसिते तावतोऽर्थान्निजात्मनि ॥ १.१०२१ ॥
आमृशन्तः प्रमारूपां सत्यां बिभ्रति संविदम्
बालास्तिर्यक्प्रमातारो येऽप्यसंकेतभागिनः ॥ १.१०२२ ॥
तेऽप्यकृत्रिमसंस्कारसारामेनां स्वसंविदम्
भिन्नभिन्नामुपाश्रित्य यान्ति चित्रां प्रमातृताम् ॥ १.१०२३ ॥

अस्यामकृत्रिमानन्तवर्णसंविदि रूढताम्
संकेता यान्ति चेत्तेऽपि यान्त्यसंकेतवृत्तिताम् ॥ १.१०२४ ॥

अनया तु विना सर्वे संकेता बहुशः कृताः
नैव चेतसि विश्रान्तिं संकेतान्तरयोगतः ॥ १.१०२५ ॥
व्रजेयुरनवस्थानान्मूलक्षतिकरत्वतः

तत्रापि खलु संकेते बालो व्युत्पाद्यतां कुतः ॥ १.१०२६ ॥
तेनानन्तस्त्वमायीयो यो वर्णग्राम ईदृशः
स चिद्विमर्शसचिवः सदैव प्रविजृम्भते ॥ १.१०२७ ॥
तत एव च मायीया वर्णाः सूतिं वितेनिरे

तेषां ते खल्वमायीया वीर्यमित्यवधार्यते ॥ १.१०२८ ॥
तथा हि परवाक्येषु श्रुतेष्वावृणुते निजा
प्रमा यस्य जडो नासौ तत्रार्थे याति मातृताम् ॥ १.१०२९ ॥

यस्य तु स्वप्रमा बोधे प्रविशेद्भेदगर्भगा
मायीयवर्णपुञ्जे स्वे स प्रमातृत्वमृच्छति ॥ १.१०३० ॥

यथा यथा चाकृतकं तद्रूपमतिरिच्यते
तथा तथा चमत्कारतारतम्यं प्रकल्प्यते ॥ १.१०३१ ॥

तदुद्रेकमहत्त्वे तु प्रतिभात्मनि निष्ठिताः
ध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः ॥ १.१०३२ ॥
अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता
तेषामेव ततस्तेन गुप्ता गुप्तेन भाषिताः ॥ १.१०३३ ॥
ततो यावद्विभोः शश्वद्विश्रान्तिर्युगपद्बहून्
वर्णानुदृङ्क्य भोगांशपरिपूरणसुस्थितान् ॥ १.१०३४ ॥
तावदेव पदाध्वासौ मेयभूमिमुपाश्रितः
संसारमृतसंकेतसंघाते प्रथमाङ्कुरः ॥ १.१०३५ ॥
एवं प्रमेयता मातृभावो मानत्वमप्यथ
षट्त्रिंशदात्मनस्तत्त्वकलापस्येति निश्चितम् ॥ १.१०३६ ॥

तत्र सर्वं विभात्येतत्परमेशितरि ध्रुवे
प्रतिबिम्बस्वरूपेण न तु बाह्यतया यतः ॥ १.१०३७ ॥
चिद्व्योम्न्येव शिवे तत्तद्देहादिमतिरीदृशी
भिन्ना संसारिणां भाति रज्जौ सर्पादिका यथा ॥ १.१०३८ ॥

यतः प्राग्देहमरणसिद्धान्तः स्वप्नगोचरः
देहान्तरादिर्मरणात्कीदृग्वा देहसंभवः ॥ १.१०३९ ॥

स्वप्ने तु प्रतिभामात्रसामान्यप्रथनाद्बलात्
विशेषाः प्रतिभासन्ते न भाव्यन्तेऽपि ते तथा ॥ १.१०४० ॥

सालिग्रामोपलाः केचिच्चित्राकृतिहृदो यथा
तथा मायादिभूम्यन्तलेखाश्चित्रहृदयश्चितः ॥ १.१०४१ ॥
नगरार्णवशैलाद्यास्तदिच्छानुविधायिनः
न स्वयं सदसद्रूपकारणाकरणात्मकाः ॥ १.१०४२ ॥

चिरप्ररूढे नियमे समुच्छेदात्प्रवर्तनात्
अरूढेऽपि स्वतन्त्रोऽयं स्थितश्चिद्व्योमभैरवः ॥ १.१०४३ ॥

एकचिन्मात्रसंपूर्णभैरवाभेदभागिनि
एवमस्मीत्यनामर्शो भेदको भावमण्डले ॥ १.१०४४ ॥
सर्वप्रमाणैर्नो सिद्धं स्वप्ने कर्त्रन्तरं यथा
स्वसंविदः स्वतन्त्रायास्तथा सर्गोऽपि बुध्यताम् ॥ १.१०४५ ॥

चित्तचित्रपुरोद्याने क्रीडन्नेवं हि वेत्ति यः
अहमेव स्थितो भावैर्भूतैश्चिन्मात्रकैरिति ॥ १.१०४६ ॥
एवं जातो मृतोऽस्मीति जन्ममृत्युविचित्रताः
अजन्मन्यमृतौ भान्ति चित्तभित्तौ स्वकल्पिनाः ॥ १.१०४७ ॥

परेहसंविदामात्रं परलोकेहलोकता
किंत्वकालकलासंविद्देशभेदेऽप्यभेदिनी ॥ १.१०४८ ॥
अभविष्यदयं सर्गो मूर्तश्चेन्न तु चिन्मयः
तदवेक्ष्यत तन्मध्यात्केनैकोऽपि धराधरः ॥ १.१०४९ ॥
भूततन्मात्रवर्गादेराधाराधेयचर्चने
अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी ॥ १.१०५० ॥
तस्मात्प्रतीतिरेवेत्थं कर्त्री सा प्रतिभा शिवः
अत्र स्वात्मनि ते तेन शक्तिः साधारसंज्ञिता ॥ १.१०५१ ॥
सांकल्पिकं निराधारमपि नैव पतत्यधः
स्वाधारशक्तौ विश्रान्तेर्विश्वमित्थं विमृश्यताम् ॥ १.१०५२ ॥
अस्या घनाहमित्यादिरूढेरेव धरादिता
यावदन्ते चिदस्मीति निर्वृत्ता भैरवात्मता ॥ १.१०५३ ॥
मणाविन्द्रायुधे भास इव नीलादयः शिवे
परमार्थत एषां तु नोदयव्यययोगिता ॥ १.१०५४ ॥
देशे कालेऽत्र वा सृष्टिरित्येतदसमञ्जसम्
चिदात्मनो हि देवस्य सृष्टिर्दिक्कालयोरपि ॥ १.१०५५ ॥
जागराभिमते सार्धहस्तत्रितयगोचरे
प्रहरे च पृथक्स्वप्नाश्चित्रदिक्कालमानिनः ॥ १.१०५६ ॥
अत एव क्षणं नाम न किंचिदपि मन्महे
क्रियाक्षणेऽपि ह्येकस्मिन् बह्व्यः सन्ति द्रुताः क्रियाः ॥ १.१०५७ ॥
तेन ये भावसंकोचं क्षणान्तं प्रतिपेदिरे
ते नूनमनया नाल्या शून्यदृष्ट्यवलम्बिनः ॥ १.१०५८ ॥
तद्य एव सतो भावाञ्शून्यीकतुं तह्तासतः
स्फुटीकर्तुं स्वतन्त्रत्वादीशः स परमेश्वरः ॥ १.१०५९ ॥
तदित्थं परमेशानो विश्वरूपः प्रगीयते
न तु भिन्नस्य कस्यापि धरादेरुपपन्नता ॥ १.१०६० ॥
उक्तं चैतत्पुरैवेति न भूयः प्रविविच्यते
बहुभिश्चापि बाह्यार्थदूषणा प्रव्यरच्यत ॥ १.१०६१ ॥
नन्वित्थं जन्ममरणे कर्मणः फलयोगिता
कथं स्यात्किन्नु पूर्वोक्तं चित्स्वातन्त्र्यं सुविसृम्तम् ॥ १.१०६२ ॥
तथा हि चित्स्वतन्त्रेयं यथा भासयते तथा
सत्यं भात्यखिलाकारगर्भा सा चेति निश्चितम् ॥ १.१०६३ ॥
इक्षौ प्रत्यणु माधुर्यं यथा सर्वात्मना तथा
प्रत्येकपरमाणौ हि सर्वसृष्टिमयी स्थितिः ॥ १.१०६४ ॥
अज्ञाततत्त्वमूलास्तु विवदन्तेऽत्र ये बुधाः
नूनं निजमनोराज्यरक्षायै ते समुद्यताः ॥ १.१०६५ ॥
प्राणे खे चिति बाह्ये वा कुत्रापीदमिति भ्रमः
अज्ञत्वात्तन्नियत्युत्थस्वातन्त्र्याभावजृम्भितः ॥ १.१०६६ ॥
अतः स्वसंविदामर्शो जन्मत्वेनेह भासते
पुरस्तात्तु न संवित्तिः स्वातन्त्र्योचितरूपिणी ॥ १.१०६७ ॥
प्राक्तनी संविदेवेह पूर्वकर्मेति भाष्यते
तत्संविद्बाधिका संवित्कर्मक्षयकरी ततः ॥ १.१०६८ ॥
अकृतं च यथा स्वप्ने मया कृतमिति स्फुरेत्
फलदा दृश्यते सैव वार्ता जाग्रति कर्मणः ॥ १.१०६९ ॥
तथा च प्राच्यकर्मौघफलसंप्लोषणात्मिका
यस्यैकाप्युत्तरोदेति संवित्स फलभाङ्न हि ॥ १.१०७० ॥
किं चान्यद्बहुसंवित्सुस्फुरत्त्वादयशो यशः
भूयःफलवदाकाशनद्यम्भःसिक्तबीजवत् ॥ १.१०७१ ॥
एवमल्पफलं कर्म स्वल्पसंवेदने स्फुरत्
अस्फुरन्निष्फलं त्वेव न्यायः सोऽयं स्वसंविदम् ॥ १.१०७२ ॥
तत्राप्यल्पत्वभूयस्त्वे संविदां ये प्रकल्पिते
ते कर्मकर्तुः संवित्तिरूढ्या तद्रूपभागिनी ॥ १.१०७३ ॥
या च (यस्य) संवित्स्वयं तादृक्फलगर्भा न जायते
नाप्यन्यफलनिर्ग्राहिमातृसंगतितस्तथा ॥ १.१०७४ ॥
फलवेदितुरन्यस्य प्रमातुरपि संविदि
अन्यप्रमातृसंकल्पाद्यावदन्ते स कोऽप्यलम् ॥ १.१०७५ ॥
प्रबुद्धः सृष्टिरक्षायै स्थितिशक्तिविजृम्भकः
विदाः स्म संकोचयति फलालम्बनकल्पनाः ॥ १.१०७६ ॥
मत्स्यादमत्स्यदृष्ट्येयं सृष्टिरित्याशयेन ते
परोपकारं कर्तव्यमुपादिक्षन् पुरातनाः ॥ १.१०७७ ॥
एवं नामोपकारोऽयं मृतस्यापि प्रतन्यते
पिण्डदानादिना भूयो दीयते देहसंगमः ॥ १.१०७८ ॥
वरं स्वात्मनि संक्लेशाः परं मा पीडयन् त्विति
इति कल्पितमेतस्य कृच्छ्रादेस्तपसः फलम् ॥ १.१०७९ ॥
लशुनादावभक्ष्यत्वमुक्तमाज्ञेय ईदृशी
अकारणकमेवेति गृह्णन्तु किल जन्तवः ॥ १.१०८० ॥
तदेवं हंसपक्ष्यादिभक्ष्याभक्ष्यत्वनिर्णये
युज्येत भिन्नबुद्धित्वमन्यथा न्न कथं चन ॥ १.१०८१ ॥
एवं दृष्टेऽप्यदृष्टेऽथ कल्पितांशांशिकाक्रमात्
फलयोगः स एवाद्य रूढः संविद्भुवि स्थितः ॥ १.१०८२ ॥
देहः पिण्डात्परे लोके नान्यथेति स्थितिः कृता
अन्योन्याननुषक्तत्वं जन्तूनां देहभृदिति ? ॥ १.१०८३ ॥
तत्सर्वशास्त्रपूगैश्च शङ्काशङ्कुः प्ररोपिताः
अज्ञचित्तधरारूढः फलपर्यन्ततां गतः ॥ १.१०८४ ॥
अस्ति मे पिण्डदोऽद्याहं पिण्डदानक्क्रमात्तथा
प्रप्नोभ् ।म्(?)यवयवाभोगं पूर्णदेहोऽस्मि सुस्थितः ॥ १.१०८५ ॥
अदृष्टक्रियया पुत्रशिष्यस्वात्मादिकॢप्तया
स्वर्गभागहमत्यन्तमात्तसंभोगसुस्थितः ॥ १.१०८६ ॥
नास्ति मे पिण्डदः कश्चित्स्वयं चास्म्यतिदुष्कृती
न मे त्रातास्ति कुत्रापि पतामि नरकार्णवे ॥ १.१०८७ ॥
भविष्यति मम त्राता क्वापि काले कथं चन
इत्यादिः संविदां स्फारस्तथैव फलति स्वयम् ॥ १.१०८८ ॥
तस्यास्तु पिण्डकर्त्रादिर्माभूदथ यथा स्फुरेत्
स तावत्तत्फलं भुङ्क्ते स्वसंकल्पेन कल्पितम् ॥ १.१०८९ ॥
शङ्कावज्रप्रलेपान्तर्दृढबद्धां त्विमां मतिम्
भैरवानल एवैकः समूलं प्लुष्यति क्षणात् ॥ १.१०९० ॥
अशेषचित्रचिद्गर्भसंसारस्वप्नसद्मनः
प्लोषकः शिव एवाहमित्युल्लासी हुताशनः ॥ १.१०९१ ॥
तन्मूढः कर्मसंवित्तिचित्रीभूतचितिस्तथा
संकल्पमेव संसारं विचित्रमभिमन्यते ॥ १.१०९२ ॥
अत एव मृतो बालो वासनान्तरवर्जितः
शिशुरेव भवेत्सुप्तदृढसंसारवासनः ॥ १.१०९३ ॥
तान्यौ तथा (?)
यावद्यौवनमभ्येति पुनस्तद्वासनक्रमात् ॥ १.१०९४ ॥
संस्कारसंविदा तास्ताः संसृतीरभिमन्यते
कश्चिज्जडत्वसंस्काराज्जडीभूतोऽपि खानिलैः ॥ १.१०९५ ॥
सह भूजलयोगेन याति पुष्पफलात्मताम्
भक्षितो वीर्यरूपेण पुनरायाति गर्भताम् ॥ १.१०९६ ॥
यावद्पुनः पुनश्चित्रान् संसारानभिमन्यते
एकत्रैव स्वसंस्कारवासनावासितः शिवः ॥ १.१०९७ ॥
भुङ्क्ते स्वर्नरकाद्यांस्तु भोगान् स्वातन्त्र्यकल्पितान्
क्वचिद्भूमिमयी क्वापि जलात्मा क्वापि मिश्रिता ॥ १.१०९८ ॥
एवं भुवनमय्येषा संविद्भाति स्वरूपतः
ध्रियते यत्र तत्रैव स्वसंस्कारात्सुखादिकम् ॥ १.१०९९ ॥
वेत्त्यन्येन न दृश्यस्तु स त्वन्यान् वेद चान्यथा
न देशः परमार्थेन न च कालोऽस्ति कश्चन ॥ १.११०० ॥
भेदवादे हि गगनदेशात्सर्वैकदेशता
उपाधेरेव देशाद्भिद्देशस्याप्युपाधेर्भिदा ॥ १.११०१ ॥
इत्यन्योन्यसमाश्रित्या देशभेदो न कश्चन
स्वरूपभेद एवातो भेदकत्वे सुसंगतः ॥ १.११०२ ॥
स च नास्ति प्रकाशैकस्वरूपेष्विति साधितम्
एनयैव परामर्शदृशा ये परिवर्जिताः ॥ १.११०३ ॥
ते शङ्काकारिशास्त्रौघशङ्कितास्तन्मयीकृताः
स्वस्वप्ननिर्मितानन्तजडजन्तुविकल्पितैः ॥ १.११०४ ॥
शास्त्राभासैर्वृथा शङ्कां ग्राह्यन्ते बोधवर्जिताः
यथा प्रबुद्ध्यन्ते संविन्निभृतापि चिरं स्थिता ॥ १.११०५ ॥
तथापि फलतीत्येवं प्रायश्चित्तादिकल्पितैः
एवमाभासनानात्वस्वातन्त्र्यैश्वर्यशालिना ॥ १.११०६ ॥
कॢप्तं यदेव तत्तस्य याति तन्वादिरूपताम्
विपर्ययाभासयोगे शीताद्याभासदूषिते ॥ १.११०७ ॥
नाड्यादावथ संकोचस्फोटघातादिपीडिते
देहभस्त्रामहायन्त्रवातचक्रेऽन्यथागते ॥ १.११०८ ॥
प्राणो विघटते तेन जडाभासं कलेवरम्
यस्मिन् यात्यधिकारे वा जाते प्राग्वासनाक्रमात् ॥ १.११०९ ॥
तत्रैव कल्पयेद्भोगं परलोकाभिधानकम्
पाषाणतां वा वेत्त्येष पुनर्वा प्रतिबुध्यते ॥ १.१११० ॥
परोऽयं लोक इति च रूढ्यास्य परलोकिता
स्वर्गमोक्षादि यस्येह यथारूढं च चेतसि ॥ १.११११ ॥
तथैवास्य बहिर्भाति ततस्तत्रापि चित्रता
बन्धो मोक्षः सुखं स्वर्गो दुःखं जडमयी स्थितिः ॥ १.१११२ ॥
संविदेव स्वतन्त्रेत्थं शिवरूपता विराजते
भूयोऽवयवयुक्तस्य यथा तावत्यहंस्थितिः ॥ १.१११३ ॥
तथा विश्वात्मके रूपे भैरवस्याप्यहंस्थितिः
शिशुः शून्येऽपि वेतालं वेत्ति सत्यार्थकारिणम् ॥ १.१११४ ॥
ध्येयपूज्यादिवैचित्र्यमित्थमर्थक्रियाकरम्
मूर्तो भिन्नः समाहूतो हित्वा भोगान्निजान् क्षणात् ॥ १.१११५ ॥
देव एतीति वार्तैषा वचनेष्वेव शोभते
अमूर्तादिस्वरूपत्वं सर्वमेतत्तु युज्यते ॥ १.१११६ ॥
आत्मैव हि तथाभूतस्तथा भात्येव भेदतः
एवं स्वभाव एवैष संविदो यः स एव तु ॥ १.१११७ ॥
भेदग्रस्ततया कार्मो मलः शास्त्रे निरूप्यते
दीक्षादिकर्मयोगे तु न मलत्वं प्रतायते ॥ १.१११८ ॥
स हि भेदमयाशेषसंसारदहनव्रतः
दीक्षा च वस्तुतस्तादृक्सत्यसंवित्स्वरूपिणी ॥ १.१११९ ॥
एवं यो वेद तत्त्वेनेत्युक्तं चानुत्तरे नये
एवं विज्ञानयोगे हि शमिते भेदगोचरे ॥ १.११२० ॥
आत्मैव शिव एवैकः को बन्धः का च मुक्तता
एतद्दीक्षामहासंविद्प्रवेशाय तु भण्यते ॥ १.११२१ ॥
क्रियास्वभावदीक्षासौ कर्मादिमलहानये
स्वभावकॢप्तनियतिबलाक्षिप्तेषु कर्मसु ॥ १.११२२ ॥
भोगोऽस्य युगपद्यस्मात्क्रियते मन्त्रशक्तितः
तथा हि प्राणगा देशकलाकालाध्वनिश्चयाः ॥ १.११२३ ॥
जातयोऽस्य प्रतायन्ते धरण्यादिशिवान्ततः
तत्रैव जन्मसंभोगाधिकारलयभाजनम् ॥ १.११२४ ॥
विधायोत्कृष्यते तस्मादन्यत्र च विधीयते

इत्थं गुरोर्निश्चितसंविदात्म-
रूढेश्च शिष्यस्य परस्परेण
निष्कर्मचेतोरचितैव दीक्षा
प्राक्कर्मशक्तीरखिला रुणद्धि ॥ १.११२५ ॥

तत्रापि तण्डुलतिलाज्यचरुप्रबन्ध
इत्यादि शैवनियतिप्रतिभारकॢप्तम्
तावत्यपि स्फुटपदे न निशाप्रपञ्चो
निर्मूलतामुपगतोऽपि विभेदवृत्तेः ॥ १.११२६ ॥

भेदेऽपि किंत्वेष पुनर्भविष्य-
संसारकारिसुकृतादिविघातहेतुः
शुद्धस्ततस्तदत एव हि तत्त्वजालं
शुद्धेतरस्थितितया निखिलं द्विधैव ॥ १.११२७ ॥

शुद्धं त्रिशक्तिखचितं ननु यामलं च
भात्येव तेन बहुधैष कृतः क्रियायाः
व्यापारकल्पनावशान्नियतिप्रपञ्चः
स्वल्पेतरत्वकृततादृशभोगयोगः ॥ १.११२८ ॥

मुद्रामण्डलसंघातः समन्त्रतन्त्रचर्चितः
यत्र योगादिकं सर्वं फलदानाय कल्पते ॥ १.११२९ ॥
निर्वृतिफलसंप्राप्तिकाङ्क्षासंकोचसुस्थिताः
अनवच्छिन्नतामेव फलत्वेनात्र मन्वते ॥ १.११३० ॥
न ह्यनन्तानव् ।यच्छेदे कापि यागादिकल्पना
अनवच्छिन्नवाञ्छा ॥ १.११३१ ॥
तत्सर्वोत्तीर्णदृष्टयः
तथापि विदिते ह्यर्थे परमाद्वयसुन्दरे ॥ १.११३२ ॥
संवित्स्वभावस्वातन्त्र्यात्केषांचित्फलकामता
तान्येवोद्दिश्य तत्सर्वं पूरणाय धरादितः ॥ १.११३३ ॥
शिवान्तं बहुधा भेदैर्धारणाग्रन्थ उच्यते

इह हि नान्यनयेष्विव किञ्चन
स्फुरितमस्ति न यत्किल सत्यतः
तदिह सत्यपदे स्थितिभागिनां
किमिव हेयपदे निपतिष्यति ॥ १.११३४ ॥

इत्थं सप्तदशाधिकारचरमं तत्त्वं यदाभासते
तन्निर्णीतमनुत्तरं शिवपदं संप्राप्तिकामान् प्रति
एतत्सर्वमिहोदितं च जगदानन्दे विपक्षात्मकं
भेदप्राणतया यतोऽत्र निखिलोऽप्येष प्रपञ्चः स्थितः ॥ १.११३५ ॥











द्वितीयः काण्डः

एवं महेश्वरो देवो विश्वात्मत्वेन संस्थितः
क्रमिकज्ञानयोगाभ्यां धारणाभिरुपास्यते ॥ २.१ ॥

तत्त्वक्रमं गतद्वैतमलमायादिजालकम्
अष्टादशे तत्पटले तत्त्वं सम्यग्विभाव्यते ॥ २.२ ॥

प्राणायामादिकं यत्र हेयमित्येव वर्ण्यते
न हि तस्य परां वित्तिं प्रति काचिदुपायता ॥ २.३ ॥

अन्तः संविदि यन्निरूढमभितस्तत्प्राणधीविग्रहे
संचार्येत कथं तथेति घटतामभ्यासयोगक्रमः
ये त्वभ्यासपथेन संविदमिमां संस्कर्तुमभ्युद्यतास्
ते किं कुत्र कुतः कथं विदधतामित्यत्र संदिह्महे ॥ २.४ ॥

अभ्यासो हि पुनः पुनरर्थः सोऽपि च दिक्कालप्रतिभेदात्
आभासेतरयोगसमुत्थो देहमनःप्राणाक्षपथे स्यात् ॥ २.५ ॥

प्रकाशैकघने रूपे भैरवीये विविक्षवः
सकृद्विभातविज्ञानविश्रान्त्यैव सुसंस्थिताः ॥ २.६ ॥

अत्रैवातः परं प्रोक्तमङ्गं सर्वोपकारि यत्
धारणा अपि तद्द्वारनिश्चिताः स्युस्तथात्मिकाः ॥ २.७ ॥

नन्वप्रतिष्ठे कस्तर्के समाश्वासः प्रकल्प्यताम्
किं वा न भवतां तादृगप्रतिष्ठाहतं वचः ॥ २.८ ॥

तथा ह्यागम एवैकं प्रमाणमिति निश्चितैः
तद्विरुद्धागमव्राते सति निश्चीयतां कथम् ॥ २.९ ॥

महाजनप्रसिद्धिस्तु तत्र प्रामाण्यकारणम्
अप्रतिष्ठा तद्विरुद्धमहाजनसुसंभवात् ॥ २.१० ॥

प्रत्यक्षमपि रुच्यादौ दृष्टबाधकसंविदम्
उत्तरोत्तरविज्ञानानवस्थाभाजनं ननु ॥ २.११ ॥

स्वसंविदपि तत्रैव बाधितेति कथं किल
व्यवहारमयं कुर्याद्भेदसंधानपण्डितः ॥ २.१२ ॥

अस्माकं त्वप्रतिष्ठानं न कदाचित्क्वचिद्भवेत्
येषां सर्वत्र संपूर्णः परो भैरवसागरः ॥ २.१३ ॥

विशेषतस्तु तर्कस्य तान् प्रत्येवाप्रतिष्ठता
ये तर्कार्णवतारात्तपरमामृतसंविदः ॥ २.१४ ॥

तथा हि सर्वे तर्कांशा अनामृष्टस्वसंविदः
सर्वत्र पर्यन्तफलं न शिवं प्रतिपेदिरे ॥ २.१५ ॥

अभेदसारः सर्वो हि शास्त्रार्थस्तत्प्रपत्तये
यस्तत्रोद्भावितो भेदस्तत्र मूढधियो रताः ॥ २.१६ ॥

तर्कश्च भेदवादांशयुक्तिच्छेदैकपण्डितः
नन्वभेदेऽपि तर्कस्य का चिदस्त्युपयोगिता ॥ २.१७ ॥

परमाद्वयदृष्टौ च सोऽपि नैव न संगतः
अत एव पराद्वैतं यद्विश्वानुग्रहात्मकम्
तस्योपायं परं ब्रूते हृदयं स्पन्दनात्मकम् ॥ २.१८ ॥

हृदये बोधमये यः स्वविमर्शः पूर्णचिच्चमत्कारः
युगपद्द्रागिति हठतो लीनीकृतविश्वतःस्फुरणः ॥ २.१९ ॥

भावग्रहाद्यचरमदशायोरुल्लासिनिर्वृतिसुपूर्णः
जगदानन्दमयोऽसौ सामान्यस्पन्द इत्युक्तः ॥ २.२० ॥

स्फुरणं हृदयस्य यत्किल प्रकटमिदं विसर्गधाम्नः
सदिति प्रतिभाति यावता त्रिकशक्तौ विशतीह तावता ॥ २.२१ ॥

तदिदं हृदयं निरुच्यते परमं भैरवसंविदामृतम्
इषिदृक्कृतिशक्तिशूलगं परमे धाम्नि विसृज्यते ततः ॥ २.२२ ॥

परमे भगवत्परात्मनि स्फुरितं विश्वमिदं चिदात्मकम्
शक्तित्रयशूलगं ततः शाम्भवभूमिविसर्गवर्त्मना ॥ २.२३ ॥

तदथो सदिति प्रगीयते तदिदं पूर्णमिहाहमात्मकं
हृदयं शिवशक्तिसंगमस्फुरणात्मैव सदावभासते ॥ २.२४ ॥

इह सृष्टिलयस्थितिक्रमाः शतशो वापि सहस्रकोटिशः
प्रविभान्ति सदातनात्मना हरविष्ण्वम्बुजहेतुसंचिताः ॥ २.२५ ॥

इह तु पुरोक्ताद्युक्तिकलापाद्यः प्रविशेत्सद्यो नाशक्तः
तं प्रति शाक्तोपायपथेन प्रकटीक्रियते हृदयस्पन्दः ॥ २.२६ ॥

त्रिशूलप्रान्तगप्राणप्रेरणावाप्तहृत्पथः
तदन्तर्वर्तिचिच्चन्द्रकलाविश्रान्तितत्परः ॥ २.२७ ॥
झटित्येवाथ तद्भूमित्यागेन प्रोज्झ्य ता दशाः
निरानन्दादिकाः पञ्चभूतमध्यव्यवस्थिताः ॥ २.२८ ॥

त्यजेत्पूर्वां परां क्रामेत्सम्यग्विश्रान्तितत्परः
यतो निजानन्दमयी भूमिः शान्तपदानुगा ॥ २.२९ ॥

निरानन्दपरानन्दौ पुरुषाजातसंगतौ
अभेदभिन्नभोग्यौघजनितानन्दजृम्भणात् ॥ २.३० ॥

महानन्दस्थितिः कापि वामाचारा समुल्लसेत्
भैरवीयमहाधाम्नि स्वीकृताशेषसंविदि ॥ २.३१ ॥

महानन्दश्चिदानन्दीभूय भूयः प्रवर्तते
अस्मिंस्तु स्वीकृताशेषदक्षवामोर्ध्वगत्रिके ॥ २.३२ ॥

त्रिके सर्वात्मना द्वैताद्वैतसंग्रहणात्मनि
अभिन्ना वाथ भिन्ना वा भिन्नाभिन्ना अथापि वा ॥ २.३३ ॥

भावा निजादिकानन्ददशापञ्चकयोजिताः
जायन्ते जगदानन्दसमुद्दामदशाजुषः ॥ २.३४ ॥

निजानन्दः प्रमात्रंशमात्रनिष्ठनिबन्धनः
शून्यतामात्रविश्रान्तेर्निरानन्दात्मिका स्थितिः ॥ २.३५ ॥

प्रमेयपदविश्रान्तेः परानन्दोऽप्युदेत्यलम्
अनन्तमेयसंघट्टपूर्णे मेये तु सर्वतः ॥ २.३६ ॥

प्रमाणाच्चर्वणायोगान्महानन्द इति स्थितिः
समस्तमानमेयौघकलनाग्रासकोविदः ॥ २.३७ ॥
यदा विश्रान्तिमभ्येति निरुपाधिसुनिर्भराम्
तदा खलु चिदानन्दो यो जडानुपबृंहितः ॥ २.३८ ॥

न च यत्र स्थितिः कापि विभक्ता जडरूपिणी
यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् ॥ २.३९ ॥

यदनाहृतसंवित्ति परमामृतबृंहितम्
तदेव जगदानन्दधामास्माकं गुरुर्जगौ ॥ २.४० ॥

यत्रास्ति भावनादीनां न मुख्या कापि संगतिः
तत्र विश्रान्तिराधेया हृदयोच्चारयोगतः ॥ २.४१ ॥

या तत्र सम्यग्विश्रान्तिस्तत्पराद्वैतमुच्यते
प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः ॥ २.४२ ॥

चतुष्किकाम्बुजालम्बिलम्बिकासौधसिक्तभूः
बन्धमोक्षविभागेन नरादन्यत्र योगिना ४३

अनुत्तरस्वभावेन वाग्व्यापाराभिवर्तिना
चिद्विमर्शपराहंकृत्प्रलयोल्लासयोगिना ॥ २.४४ ॥

उद्योगवशरिक्तेन सद्द्वादशकलात्मना
सूर्येणाभासिते भावे पूरिते परिचर्चिते ॥ २.४५ ॥

तद्ग्रासमन्थरवशाः षोडशाख्यकलाजुषा
प्रविष्टेण विबोधाग्नौ सम्यग्विसृजता कलाः ॥ २.४६ ॥

चतस्रो जीवनीः प्राप्तविसर्गाविकृतस्थितेः
अन्तःकृतानन्ततत्त्वकादिक्षान्तेन सर्वतः ४७

भावानां भावतासारविमर्शाभावहृद्युजा
बहिःप्रसवसद्योगिकुलनेत्र्यधिशायिना ॥ २.४८ ॥

रुद्रयामलभावेन नित्यं या निष्ठितैव ताम्
चित्प्राणगुणदेहान्तशक्तिसोपानमालिकाम् ॥ २.४९ ॥

विसर्गेन विसृज्याथ स्पन्दनोदरवर्तिना
विसर्गभूमिमाश्लिष्य मत्स्योदरदशाजुषम् ॥ २.५० ॥

सर्वसर्वगतां सर्वजीवनीं परमां कलाम्
त्रिशूलभुवमाक्रम्य नाडीत्रितयसंगताम् ॥ २.५१ ॥

विकस्वरां संकुचितां क्रमेणैकात्म्यमाश्रिताम्
भ्रूकुटीबिन्दुनादान्तशक्तिसोपानमालिकाम् ॥ २.५२ ॥

रासभीवडवास्रावससंकोचविकासिकाम्
मुहुर्मुहुर्लीयमानसृष्टभावौघनिर्भराम् ॥ २.५३ ॥

एकीकृतमहामूलशूलवैसर्गिकास्पदाम्
समग्रभावभरणभैरवीयहृदाश्रिताम् ॥ २.५४ ॥

सर्वापूरणहेवाकसमर्जितपराभिधाम्
आद्यन्तरहितामेनां विश्वप्रवणशालिनीम् ॥ २.५५ ॥

हृद्बोधाकाशचिच्चन्द्रचन्द्रिकां त्रितयेशिकाम्
देवीं प्राप्य न किं नाम लभते लम्भ्यत्यपि ॥ २.५६ ॥

तदत्र भावनादेहगतोपायैः परे सति
यदैष प्रविविक्षुः स्याद्योगी तावद्प्रकम्पते ॥ २.५७ ॥

पूर्वजन्मशताभ्यस्तदेहतादात्म्यनिश्चयः
जलपांसुवदेकत्वं मन्वानश्चिच्छरीरयोः ॥ २.५८ ॥

भेदाख्यमायारहिते परिपूर्णचिदात्मनि
प्रविशेत्प्रथमं यावत्स्वबलाक्रमणक्रमात् ॥ २.५९ ॥

भवेन्निद्रास्य सा देहावेशशैथिल्यदायिनी
कम्प्ररूपैव यावन्नो रूढिर्जाता परात्मनि ॥ २.६० ॥

एतदव्यक्तलिङ्गं तन्नरशक्तिशिवात्मकम्
यत्र विश्वमिदं लीनं यदन्तःस्थं च गम्यते ॥ २.६१ ॥

किं चाध्वजातमेतद्देहस्थतयैव पूर्वनिर्णीतम्
तस्योन्मेषवशेन स्फुटतां यायात्समावेशः ॥ २.६२ ॥

चित्तत्त्वस्य विशेषस्पन्ददशाशालिनश्चिदानन्दः
शाक्तसमुल्लासभरादन्तःकृतमन्त्रवीर्यपरसारः ॥ २.६३ ॥

नरशक्तिमयमिदं तद्व्यक्ताव्यक्तं भवेल्लिङ्गं
सिद्धिफलप्रसवरसप्रसूनमिति कथ्यते शास्त्रे ॥ २.६४ ॥

व्यक्तलिङ्गं तदुक्तं तु यत्केवलनरात्मकम्
एकस्य स्पन्दनस्येयं त्रिधा भेदव्यवस्थितिः ॥ २.६५ ॥

एतल्लिङ्गज्ञानप्रवियुक्तहृदा वृथैव हि भजन्ते
बाह्यस्थलिङ्गपूजां प्रयासमात्रं फलाय न हि तत्स्यात् ॥ २.६६ ॥

यद्व्यक्तमात्मलिङ्गाख्यं नररूपसमाश्रयि
देहाभेदमये बाह्ये विश्वस्मिन् भरिते सति ॥ २.६७ ॥

समुदेति महानन्दभूमौ लीनस्य योगिनः
तेनाद्यं लिङ्गमभ्येति संमुखीनत्वमञ्जसा ॥ २.६८ ॥

अत्र लिङ्गे सदा तिष्ठेत्पूजाविश्रान्तितत्परः
यद्योगिनीनां हृदयं परमानन्दमन्दिरम् ॥ २.६९ ॥

पूर्वोक्तबीजयोन्यंशविसर्गानन्दमन्दिराः
यत्र कामपि तादात्म्यसम्पत्तिं चिन्वते बुधाः ॥ २.७० ॥

यत्र प्रयासविरहात्सर्वोऽसौ देवतागणः
आनन्दपूर्णे धाम्न्यास्ते नित्योदितचिदात्मकः ॥ २.७१ ॥

यत्तद्भैरवनाथस्य संकोचेतरभासनम्
अविद्यमानसंकोचविकासस्यापि भासते ॥ २.७१ ॥

यत्तत्समाप्तिसंघट्टसमुत्थानन्दधारया
अवसिक्तमिदं विश्वमपोज्झति पुराणताम् ॥ २.७२ ॥

तत्र प्रवेशने यत्नः कार्यत्वेन प्रयासकृत्
यतः सदोदितो भानुः किं दीपेन विचार्यते ॥ २.७३ ॥

यदि स्वात्मस्थितो योगी शिवचित्स्पन्दभूमिगः
यदि वा बाह्यभावौघविशेषयोगिनीकुलनन्दनः ॥ २.७४ ॥

घटाभावेऽपि सामान्यस्पन्दाभासमयीं स्थितिम्
परभैरवमुद्रां तामन्तर्लक्षबहिर्दृशम् ॥ २.७७ ॥

यदाश्रयति शैवी सा परा देवी ततः पुनः
स्वातन्त्र्यहेलानिर्मेये तत्तदर्थक्रियामये ॥ २.७८ ॥

भावौघे सोत्सुकौन्मुख्यविमर्शरसयोगतः
विशेषस्पन्दसद्भूमिं शक्तिं संस्पृश्य वर्तते ॥ २.७९ ॥

एतेनाधिष्ठिता धाम्ना स्वमन्त्रास्तत्प्रकाशने
यान्ति स्वातन्त्रयोगित्वं विचित्रास्वपि सिद्धिषु ॥ २.८० ॥

हानादानतिरस्कारवृत्तौ रूढिमुपागतः
सर्वभासनयोगेन भासमानं चिदात्मना ॥ २.८१ ॥

अभेदवृत्तितः पश्यन् दृश्यं चितिचमत्कृतेः
अर्थक्रियार्थितादैन्यकारितां कातरां स्थित्म् ॥ २.८२ ॥

विहाय यावदासीत तावच्छांभवभूमिकाम्
भैरवीमाविशत्येव परां भूमिमयत्नतः ॥ २.८३ ॥

एतदाविष्टसंवित्ति सर्वमेव निरीक्ष्यते
प्रकाशरूपताक्रान्तं चैतन्यं हि प्रकाशते ॥ २.८४ ॥

न चाप्रकाशं प्राकाश्ययोगादेति प्रकाशताम्
इति विस्तरतः पूर्वं प्रकाशितमिदं यतः ॥ २.८५ ॥

महासाहससंयोगविलीनाखिलवृत्तिकः
पुञ्जीभूतस्वरश्म्योघनिर्भरीभूतमानसः ॥ २.८६ ॥

अकिंचिच्चिन्तकः स्पष्टदृष्टभेदोज्झितस्थितिः
यावदासीत तावत्तु पूर्वोक्ता एव भूमयः ॥ २.८७ ॥

सांमुख्यं यान्ति संसारसद्मदाहैकहेतवः
यश्च दिव्योऽक्षसंघातो भेदरूढितिरोहितः ॥ २.८८ ॥

स्वातन्त्र्यपोषकक्रीडामात्रोपकरणात्मकः
यदा निमीलनावन्ध्यस्तिष्ठत्येकं क्षणं तदा ॥ २.८९ ॥

तद्द्वारोदितसंबोधमहाज्वालाविलापितम्
विश्वमभ्येति परमानन्दसागरशायिताम् ॥ २.९० ॥

तद्रसापानविश्रान्तः संविद्देवीः प्रतर्पयन्
अचिरादेति मरणजन्मत्रासविहीनताम् ॥ २.९१ ॥

आश्यानभावं हि गता स्वसंविद्देहेन्द्रियज्ञेयमयत्वमाप्ता
युक्त्या तु सा प्राप्तविलीनभावात्संविद्घनं स्वं वपुरेव याति ॥ २.९२ ॥

युक्त्या ययैव बाह्यार्थविवशीकृतचेतसाम्
व्युत्थितिर्जायते सैव भैरवानन्दसंविदः ॥ २.९३ ॥

तयैव योगिनीवक्त्रसंप्रदायक्रमाप्तया
विधूतकल्मषावेशा तिष्ठते चिन्मयी स्थितिः ॥ २.९४ ॥

वक्त्रमीषद्यदा योगी विकासयति संविदः
सर्वा इन्द्रियनाड्यन्तश्चक्राक्रमणसंश्रयाः ॥ २.९५ ॥

तदा विकासं ग्राह्यार्थभेदाभावमयं हठात्
प्रयान्ति चिदुन्मुखत्वात्नीलपीतादिभेदवान् ॥ २.९६ ॥

ग्राह्यग्राहकसंबन्धभेदः सपदि भिद्यते
योगिनीवक्त्रसंरूढसंप्रदायक्रमाप्तया ॥ २.९७ ॥
सद्योऽनुभवदायिन्या मुद्रया मुद्रिताखिलः
सर्वाधिष्ठातृचिद्रूपसाक्षाद्भैरवतन्द्रितः ॥ २.९८ ॥

स योगी विस्मयाविष्टो लभते स्वात्मसंविदम्
तत्तद्दृश्योदयापाययोगेऽप्यनपयत्स्थिति ॥ २.९९ ॥

तडागवर्तिनिम्नाम्बु तन्नान्यत्र प्रवर्तते
प्रयत्नेनापि तन्मात्रपूरणाय यदक्षमम् ॥ २.१०० ॥

यदा त्वन्तःद्वारवारिधारसंपूरितं रसात्
भवेद्भवेयुस्तत्पूर्णाः प्रवाहाः सर्वतोमुखाः ॥ २.१०१ ॥

एवं स्वोल्लासरभसाच्चैतन्यं प्रोन्मिषत्स्वयं
अविभागेन भावांशान् स्वात्माभेदेन भासयन् ॥ २.१०२ ॥

मीलनाविषयीभावं श्रयेद्यदि मुहूर्तकं
मायाविगलनाद्भूमिर्भैरवीया विराजते ॥ २.१०३ ॥

वैकल्पिकोऽह्यवच्छेदः पश्चाद्यां दर्शयेद्भिदाम्
सैव माया स्वतन्त्रस्य भेददृष्टिप्रकाशिनी ॥ २.१०४ ॥

उन्मेषमात्ररूढस्य सा निर्मूला न संभवेत्
इत्थं किं बहुनोक्तेन नयेऽनुत्तरात्मनि ॥ २.१०५ ॥

वस्तुतोऽस्ति न कस्यापि योगाङ्गस्याभ्युपायता
स्वरूपं ह्यस्य नीरूपमवच्छेदविवर्जनात् ॥ २.१०६ ॥

उपायऽप्यनुपायोऽस्यायागवृत्तिनिरोधतः
रेचनपूरणैरेषा रहिता तनुवातनौः ॥ २.१०७ ॥

तारयत्येवमात्मानं भेदसागरगोचरात्
निमज्जमानमप्येतन्मनो वैषयिके रसे ॥ २.१०८ ॥

नान्तरार्द्रत्वमभ्येति निश्छिद्रं तुम्बकं यथा
स्वं पन्थानं हयस्येव मनसो ये निरुन्धते ॥ २.१०९ ॥

तेषां तत्खण्डनयोगाद्धवत्युन्मार्गकोटिभिः
किंस्विदेतदिति प्रायो दुःखेऽप्युत्कण्ठते मनः ॥ २.११० ॥

सुखादपि विरज्येत ज्ञानादेतदिदं [त्विति]
तथाहि गुरुरादिक्षद्बहुधा स्वकशासने ॥ २.१११ ॥

अनादरविरक्त्यैव गलन्तीन्द्रियवृत्तयः
यावत्तु विनियम्यन्ते तावत्तावद्विकुर्वते ॥ २.११२ ॥

प्रत्याहारोऽपि नामायं योऽक्षजाले प्रवर्त्यते
बन्धस्यारूढवृत्तेस्तद्वज्रलेपेन बन्धनम् ॥ २.११३ ॥

अर्थेषु तद्भोगविधौ तदुत्थे
दुःखे सुखे वा गलिताभिशङ्कम्
अनाविशन्तोऽपि निमग्नचित्ता
जानन्ति वृत्तिक्षयसौख्यमन्तः ॥ २.११४ ॥


सत्येवात्मनि चित्स्वभावमहसि स्वान्ते तथोपक्रियां
तस्मै कुर्वति तत्प्रचारचतुरे सत्यक्षवर्गेऽपि च
सत्स्वर्थेषु रसादिषु स्फुटतरं यद्भेदवन्ध्योदयं
योगी तिष्ठति पूर्णरश्मिखचितस्तत्तत्त्वमादीयताम् ॥ २.११५ ॥

अविवेक एव परमिह संसार इति प्रवादमात्रम्
अविवेक एव हि परं निःश्रेयसलाभसोपानम् ॥ २.११६ ॥

त्यजावधानानि ननु क्व नाम
धत्सेऽवधानं विचिनु स्वयं तत्
पूर्णेऽवधानं नहि नाम युक्तं
नापूर्णमभ्येति च सत्यभावम् ॥ २.११७ ॥

यत्रैवानन्दयोगः क्वचन ननु भवेत्तत्र पूर्णः स्वभावः
--- --- ते वेति तत्र प्रशमपदमियाद्यद्ययं भेदमोहः
तज्ज्ञाने जाग्रदादावपि निखिलपदे चिन्महाचक्रनाथो
योगी जायेत नानाव्यवहृतपथगोऽप्युल्लसन्मन्त्रवीर्यः ॥ २.११८ ॥

यथा हि कूपं प्रचिकीर्षुरेव
प्राप्ते जले याति कृतित्वमेकः
कश्चित्पुनर्हस्तगतादि[वारि]मात्राद्
इत्थं परप्राप्तिविधिर्विचित्रः ॥ २.११९ ॥

अनुपायमिदं तस्मादुपायोपेययोगतः
भेदबन्धाद्विमुच्येत कथं वेतरथा जनः ॥ २.१२० ॥

अनुपायेऽपि चैतस्मिन् किंचित्सांबन्ध्यवृत्तितः
उपायस्योपदेशोऽयं शास्त्रेऽत्र बहुधा कृतः ॥ २.१२१ ॥

यथा लिप्यक्षरैर्बालाः सत्ये वर्णात्मनि स्फुटम्
प्रवेश्यन्ते तथा मूढैस्तैरौपायिकैः क्रमात् ॥ २.१२२ ॥

तदर्थमेव चाद्वैते परतत्त्वेऽपि सादरम्
पूजाध्यानादि शास्त्रेऽस्मिन्नुचितं किंचिदुच्यते ॥ २.१२३ ॥

यत्किंचिन्मनसाह्लादि यत्र क्वापीन्द्रियस्थितौ
योज्यते बोधसद्ब्रह्मधाम्नि ब्रह्मबिलात्मनि ॥ २.१२४ ॥

आत्मानुसारिसद्भावसमावेशदशाश्रयात्
तत्तत्परकुलेशानशक्तिचक्रार्चनाक्रमे
प्रयात्येवाप्रयत्नेन करणत्वं स्वभावतः ॥ २.१२५ ॥


कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालिताम्
आत्तैर्मानसतः स्वभावकुसुमैः स्वामोदसंदोहिभिः
आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात्
त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम् ॥ २.१२६ ॥

एवं यत्र क्वचित्तिष्ठेत्स्वविमर्शस्वभावतः
तत्र शक्तित्रयावेशस्त्रिधा तावत्प्रकाशते ॥ २.१२७ ॥

नवधा भासमानस्य प्रोक्तद्वादशचक्रतः
विश्रान्तिरेकक्षणगा साष्टोत्तरशतस्थितिः ॥ २.१२८ ॥

एकैव शतसंख्या च सा स्थितिः प्रविभाव्यते
इत्थं यत्किंचनैतस्य वचनं योगिनो भवेत् ॥ २.१२९ ॥

तदेव जपयोगाय जायतेऽनुत्तरे पथि
अन्तरिन्धनसद्भावमनपेक्ष्यैव नित्यशः ॥ २.१३० ॥

यो ज्वलत्यखिलाक्षौघप्रसृताग्रशिखाशतः
तत्रैव सर्वभावानां प्रवेशश्चेद्विमृश्यते ॥ २.१३१ ॥

नूनं झटिति संप्लुष्टस्थूलरूपतया हठात्
यान्ति बोधमहाज्वालाप्रकाशैक्यं स्वरूपतः
स एष परमो होमो भैरवीयक्रमे मतः ॥ २.१३२ ॥

निजबोधजठरहुतभुजि भावाः सम्यग्समर्पिता युक्त्या
जहति भेदविभागं निजशक्त्या तं समिन्धते यस्मात् ॥ २.१३३ ॥

यदेव स्वेच्छया सृष्टिस्वाभाव्यवशतः पुरः
निर्मिमीतेऽक्षविषयं तद्ध्यानायावकल्पते ॥ २.१३४ ॥

निराकारे हि चिद्धाम्नि विश्वाकृतिमये सति
फलार्थिनां काचिदेव ध्येयत्वेनाकृतिः स्थिता ॥ २.१३५ ॥

यथा ह्यभेदसंपूर्णे भावेऽप्युदकमाहरन्
अन्याकृत्यपहानेन घटमर्थयते रसात् ॥ २.१३६ ॥

तथैव परमेशाननियतिप्रविजृम्भणात्
काचिदेवाकृतिः कांचित्सूते फलविकल्पनम् ॥ २.१३७ ॥

यस्तु संपूर्णचिद्वृत्तिर्न फलं नाम वाञ्छति
तस्य विश्वाकृति ध्यानं सर्वदैव विजृम्भते ॥ २.१३८ ॥

कुलयोगिन उद्रिक्तभैरवीयरसासवात्
घूर्णमानस्य यः कश्चित्कोऽप्युदेति यथा तथा ॥ २.१३९ ॥

शरीरगः समावेशो मोदनद्रावणात्मकः
सा स्वीकृतजगन्मुद्रा मुद्रा नैरुत्तरे मते ॥ २.१४० ॥

एष योगविधिः कोऽपि कस्यापि हृदि वर्तते
यस्य प्रसीदेच्चिच्चक्रं द्रागपश्चिमजन्मनः ॥ २.१४१ ॥

लोकेनालोक्यमानोऽपि देहबन्धविधौ स्थितः
अभ्येति योगे रूढे न क्षणात्कामपि संविदम् ॥ २.१४२ ॥

अत्रैव त्वस्मत्पूर्वाचार्याणां धिषणा भृशम्
अभ्यमंस्त भवाभोगविभ्रमाणामसंनिधिम् ॥ २.१४३ ॥

वेदसांख्यभवेद्वादन्यायसौगतलौकिकैः
पञ्चरात्रक्रियाशास्त्रसिद्धान्तादिभिरलम् ॥ २.१४४ ॥

उचितोचितविज्ञानक्रियांशपरिभावकैः
सर्वैः स्वप्रक्रियारूढैस्तैस्तैरौचित्ययोगतः ॥ २.१४५ ॥

यत्र बीजसमावापखननादिक्रियाक्रमः
अकारि शाम्भवानेकशाखाभिर्योऽतिविस्तृतः ॥ २.१४६ ॥

तस्य चिद्भैरवतरोः फलमेतदनुत्तरम्
आश्रमस्थितचर्याद्यैर्जटाजालाञ्जनान्तकैः ॥ २.१४७ ॥

कृतैरप्यकृतैर्वापि यत्र नो लभ्यते भिदा
तत्रैव योगे विश्रान्तिं कुर्वतां भवडम्बरः ॥ २.१४८ ॥

हिमानीव महाग्रीष्मे स्वयमेव प्रलीयते
अलं हि चर्व्यमाणेऽस्मिन् सरसे संविदासवे ॥ २.१४९ ॥

निस्सरन्ति महोल्लासाः संख्या येषु न विद्यते
तेषां च प्रकटीकाराः कृताः प्रागेव विस्तरात्
अत्राभिनवगुप्ते तु तत्त्वे केऽप्येव निश्चिताः ॥ २.१५० ॥

केतकीकुसुमसौरभे भृशं
भृङ्ग एव रसिको न मक्षिका
भैरवीयपरमाद्वयार्चने
कोऽपि रज्यति न भेदमोहितः ॥ २.१५१ ॥

नात्र रूढस्य कार्या स्याच्छुद्धिः काचन कुत्रचित्
अशुद्धं हि जगत्येव भैरवात्मनि किं भवेत् ॥ २.१५२ ॥

अशुद्धेऽपि च भूतौघे केन शुद्धिः प्रतायताम्
अनवस्था भवेदित्थं व्यर्थान्योन्याश्रितिस्तथा ॥ २.१५३ ॥

अशुद्धस्य तिरोधाने शुद्धं नाम प्रलीयते
प्रतियोगिकृतं तद्धि न स्वभावेन नीलवत् ॥ २.१५४ ॥

अत एव न कश्चिदाग्रहो
विषयाणां ग्रहणेऽप्यपोहने
परभैरवसंविदात्मनः
स्वयमेवोच्छलिता हि भोक्तृता ॥ २.१५५ ॥

सर्वमत्र विहितं यतोऽमुना
वर्त्मना सकलमेव युज्यते
मार्गमेवमपहस्त्य किंचन
कापि नैव ननु याति युक्तताम् ॥ २.१५६ ॥

तथाहि दीक्षा नामेयं या मलानां निकर्तनी
स भेदवादिनां पक्षे कथं नामोपपद्यते ॥ २.१५७ ॥

तथाहि यो मलो नाम स कथं चित्स्वभावकम्
आत्मानमावृणीते क्व विभोरावरणक्रिया ॥ २.१५८ ॥

न च प्रकाशस्तमसा जातु संव्रियते यतः
प्रकाशोदय एवायं ध्वान्तध्वंसक्रियात्मकः ॥ २.१५९ ॥

किं चावरणमुक्तं हि रश्म्यादेर्गतिधर्मिणः
प्रतीघातात्मकं तत्किं विभोरगतिधर्मिणः ॥ २.१६० ॥

अपि वा ज्ञेयतामात्रतिरोधानं हि संवृतेः
पटादिना घटादेः स्यान्न स्वरूपान्यथास्थितिः ॥ २.१६१ ॥

न चात्मानश्चिदात्मत्वाज्ज्ञेयत्वमधिशेरते
तदावरणमेषां तु शब्देष्वपि न शोभते ॥ २.१६२ ॥

नन्वीश्वरस्य ते ज्ञेया अणवः कथमीदृशम्
चिदात्मकं हि न ज्ञेयं चिदात्मत्वतिरोहितेः ॥ २.१६३ ॥

संविज्ज्ञेयेति शब्दोऽयं वन्ध्या मे जननीत्यदः
वाक्यं स्मरयतीव स्वं स्वात्मसब्रह्मचारि यत् ॥ २.१६४ ॥

किंचेश्वरस्य सार्वज्ञ्यं तावता प्रतिहन्यते
आवृतान् वेत्ति नाणून् यन्न त्वेषां काचन क्षतिः ॥ २.१६५ ॥

नन्वनावरणे नीले ज्ञातुरावरणे सति
न दर्शनं तथा बाधा न सर्वज्ञो मलावृतः ॥ २.१६६ ॥

मैवं तत्र हि दृग्रश्मीन् गच्छतः प्रतिहन्ति तत्
पटादि न तु विज्ञातुरस्त्यावरणसंभवः ॥ २.१६७ ॥

मलश्चाव्यापको व्याप्तुरावारक इति स्फुटम्
घटेऽपि व्योम्नि संदध्यादशून्यत्वं स्वरूपतः ॥ २.१६८ ॥

आत्मनश्चाधिकार्यत्वान्मलः किंचित्करो न चेत्
कथमावरणायैष शक्तो ननु च भोः किमु ॥ २.१६९ ॥

मलसद्भावमात्रं हि तस्यावरणमुच्यते
मलेन सद्वितीयोऽणुरावृतः परिभाष्यते ॥ २.१७० ॥

हन्तानेन नयेनैष शिवमुक्तात्मनामपि
स्थितमावरणं सत्यं मलसद्भावमात्रतः ॥ २.१७१ ॥

किंचावृतो मलेनात्मा मलमेव न वेत्ति किम्
तदसंवेदने तस्य किं मलान्तरमुच्यते ॥ २.१७२ ॥

नन्वतः किं मलं वेत्तु तर्हि विद्याकले विना
सर्वज्ञत्वं भवेत्तच्च मलं विदितमेव सत् ॥ २.१७३ ॥

जहात्वात्माभ्युपायैस्तैस्तैर्विचित्रैः प्रकल्पितैः
किंचावरणमेतेन यस्यात्मनि भवेत्ततः ॥ २.१७४ ॥

घटादौ ज्ञातृकर्तृत्वे कथमस्य भविष्यतः
ननु विद्याकले किंचिज्ज्ञत्वकर्तृत्वपदे स्मृते ॥ २.१७५ ॥

इत्थं विमूढमतयो वञ्च्यन्ते न तु पण्डिताः
जडस्वभावा मायैषा तत्सूतिश्च कलादिकः ॥ २.१७६ ॥

अचिदात्मा कथंकारं चिदभिव्यञ्जनक्षमः
अभिव्यक्ता च चिद्विभ्वी किंचित्त्वादिविशेषणैः ॥ २.१७७ ॥

विशेष्यतां कथं नाम सांशवस्तूचितं हि तत्
ननु देवः कलाविद्याकरणो व्यञ्जयेच्चितम् ॥ २.१७८ ॥

व्यनक्तु सर्वतो हन्त नास्याशक्तिरथाग्रहः
मले सदातने चास्य कथं मुक्तिर्भविष्यति ॥ २.१७९ ॥

रोद्ध्री शक्तिर्मलस्यास्ति सा च क्वापि निवर्तते
क्वापि प्रवर्तते चेति धिगिदं मूढभाषितम् ॥ २.१८० ॥

जडानां कोऽनुसन्धिः स्यात्तं विनैतत्कथं भवेत्
अथ तत्रापि देवस्य हेतुताभ्युपगम्यते ॥ २.१८१ ॥

किं निमित्तमसौ देवस्तां शक्तिं संप्रवर्तयेत्
प्रवर्तितां वा किं नाम तां निवर्तयते पुनः ॥ २.१८२ ॥

स्वातन्त्र्यादिति चेत्पूर्णं तदेवाश्रीयते न किम्
मलस्य ध्वान्तरूपस्य न च पाकोऽपि कश्चन ॥ २.१८३ ॥

स ह्यन्यतादानयोगाद्धन्त्यमुष्य ध्रुवात्मताम्
एतेन मलसंबन्धादीश्वरेच्छाप्रचोदितः ॥ २.१८४ ॥

भोगलोभकथाविष्टः पशुः सृष्ट्यानुगृह्यते
इति यद्भण्यते मूलहतं तज्, जनितं ततः ॥ २.१८५ ॥

स्वात्मप्रच्छादनक्रीडामात्रमेव मलं विदुः
स्वतन्त्रो हि विभुः किंचित्किं न स्वात्मनि भासयेत् ॥ २.१८६ ॥

यच्च कर्मापि नामेष्टं तत्तावत्प्रविचार्यताम्
तथाहि कर्मसंबन्धे स्थितेऽपि कथमीदृशः ॥ २.१८७ ॥

महाप्रलय उच्यते महासृष्टिश्च वा कथम्
नन्वीश्वरेच्छया तत्र कर्मायाति निरुद्धताम् ॥ २.१८८ ॥

कर्मौदासीन्ययोगेन कर्मान्तरमपेक्षताम्
ईश्वरोऽथ नवा पूर्वपक्षे संभव एव च ॥ २.१८९ ॥

नसंभवे स कुत्रांशे चैश्वर्यमधिगच्छतु
कर्मतः सर्वमेवेदं स्यात्सृष्टिप्रलयादिकम् ॥ २.१९० ॥

अथ कर्मानपेक्षो वा कर्मणां रोधनं ततः
सदा निरुद्धान्येवेशः कर्माणि कुरुतां विभुः ॥ २.१९१ ॥

ननु तेषां स्वभावोऽयं यद्भोगप्रसवात्मता
कथं स्वभाव एष स्याद्यः परोपाधितां गतः ॥ २.१९२ ॥

अनपेक्षो हि भावानां स्वभावः कर्मणां ततः
ईशैषणानपेक्षाणां यद्रूपं तत्स्वकं वपुः ॥ २.१९३ ॥

किं च प्रलयलीनानि कर्माणि स्थितिभाञ्ज्यपि
किं प्रबोधयते देवः किं नु दृ[सृ]ष्टैर्हि तैः कृतम् ॥ २.१९४ ॥

मलपाकाय चेत्सोऽपि सुदूरमपसारितः
किं चात्मा विभुरेवैष स किं नाम करोति हि ॥ २.१९५ ॥

इति पूर्वं विचारश्च विस्तरेण प्रपञ्चितः
मृद्दण्डचक्रसूत्रेषु धीमान् कर्तेश्वरः स्थितः ॥ २.१९६ ॥

कुम्भकारस्य कर्तृत्वं कुत्रांशे न्ववतिष्ठताम्
अकृष्टपच्यबीजेषु प्ररोहप्रसवादिके ॥ २.१९७ ॥

पूर्वं करोतु हेतुत्वं न सस्येष्विति को नयः
इदं दुष्कृतमेतच्च सुकृतं फलभेदतः ॥ २.१९८ ॥

इति यत्प्रविभक्तं किं तत्रास्येच्छैव जृम्भते
स्वतन्त्रो यद्यसौ कस्मात्परपीडाकारीं निजाम् ॥ २.१९९ ॥

इच्छां गृह्णाति यो नित्यं करुणारसनिर्भरः
ननु स्वभावात्तत्तादृक्कर्मातः फलदायकम् ॥ २.२०० ॥

प्रायश्चित्तादिकरणाच्छाम्येच्चेति विचारयन्
देवस्तथैव तनुते शास्त्रं चित्रोपदेशकम् ॥ २.२०१ ॥

शैवं, स्वभाव एदादृक्कर्मणामिति को नयः
बीजमङ्कुरसंसूतिस्वभावमिति मादृशः ॥ २.२०२ ॥

पूर्ववृद्धव्यवहृतेर्विज्ञातुं प्रभविष्णवः
ईश्वरस्तु निजेच्छया विना न हि कदाचन ॥ २.२०३ ॥
अवलोकितवान् कर्मफलवैचित्र्यचातुरीम्

तस्माद्देवः सर्वकर्ता यदि स्यात्
कर्तारः स्युर्नात्मवर्गाः कथंचिद्
नो कर्तारस्तेऽपि चेत्कर्मवन्ध्यान्
उद्दिश्यैनान् सर्वकर्ता न देवः ॥ २.२०४ ॥

इत्थं च भेददृष्ट्येदं कर्म नाम न मु[यु]क्तिमत्
एतावानत्र संक्षोपो व्यासोऽन्यत्र तु दर्शितः ॥ २.२०५ ॥

संवेदनात्मको देव एकस्तस्मात्स्वतः खलु
सर्वकर्ता स वैचित्र्यात्कर्मयोगीति भण्यते ॥ २.२०६ ॥
माया च नाम विश्वस्य या कारणमिति स्थिता
सा धरण्यन्ततत्त्वांशगर्भा नित्या यदि स्फुटम् ॥ २.२०७ ॥

प्रलयो न कदाचित्स्यान्ननु स व्यक्तिभावतः
व्यक्तिं नाम न जानीमो विज्ञानं ग्राह्यता यतः ॥ २.२०८ ॥

तदीश्वरपरज्ञानग्राह्यतास्ति सदातनी
तस्यामविद्यमानायामीश्वरः कारणं कुतः ॥ २.२०९ ॥

स्फुटं प्रकुरुते कुम्भं तद्वदीशे भविष्यति
मैवमन्तर्बहीरूपकरणप्रविभेदतः ॥ २.२१० ॥

स्फुटास्फुटादिविज्ञानं युक्तं कुम्भकृति स्फुटम्
ईश्वरस्य स्फुटोदारपूर्वविज्ञानशालिनः ॥ २.२११ ॥

को न ज्ञातो भवेद्भागो यत्रापि व्यक्त्यपेक्षिता
सत्कार्यवादिनां देशे कारणेऽपि स्फुटं स्थितम् ॥ २.२१२ ॥

विश्वमित्यपि मायायां स्फुटं स्यादसमञ्जसम्
व्यापकाश्च शिवात्मानस्तत्त्वैः साकं परस्परम् ॥ २.२१३ ॥

कथं च नाम विद्यन्तां व्यापकत्वतिरोहितेः
विकासः परमो व्याप्तिः संविदो भेद उच्यते ॥ २.२१४ ॥

मायीयं कञ्चुकव्रातं यथा करणसंचयः
विचारितः पूर्वमेव कार्यवर्गश्च चर्चितः ॥ २.२१५ ॥

यावच्छिवपदाध्यासवन्ध्यं विश्वं न विस्फुरेत्
तत्स्वातन्त्र्यकथामात्रमेतदित्यवधार्यताम् ॥ २.२१६ ॥

एवं मलाद्यभावे हि का दीक्षा को हि दीक्षकः
दीक्षापात्रं च को वा स्यादिति किंचिन्न युज्यते ॥ २.२१७ ॥

शिष्येऽध्वन्यनले कुम्भे मण्डले स्रुक्करादिके
समस्ताध्वकृतो न्यासः कथं वाप्युपपद्यताम् ॥ २.२१८ ॥

नहि तावन्त एव स्युर्ननु संकल्पनावशात्
शोध्यशोधकभावोऽयं सर्व एवोदितो ननु ॥ २.२१९ ॥

कल्पितं चेत्फलेत्सत्यं मनोराज्यार्जितश्रियः
जयन्ति नाकसाम्राज्यलाभविश्रान्तियोगतः ॥ २.२२० ॥

किं नाम बलवद्रूपसंकल्पपथवर्तिनः
फलन्ति न तथा भावा ध्यानादिविषनाशवत् ॥ २.२२१ ॥

संकल्पदार्ढ्यमित्येव ध्यानं संशयरूषितम्
ध्यानं च न फलेदेव स्वयं पक्षद्वयाग्रहात् ॥ २.२२२ ॥

हन्त संकल्पनायोगाद्यदि जायेत तत्फलम्
किमसंविन्मयान् भावान् बाह्यान् कांश्चितभीप्ससि ॥ २.२२३ ॥

संकल्पेनैव संस्कारः कुण्डाग्निगुरुशिष्यगः
स एव च फलाभासी तत्संविदवशिष्यते ॥ २.२२४ ॥

संविदश्च स्वतन्त्रायास्तथारूपावभासनम्
दीक्षेति किल मन्तव्यं मुञ्च्यन्ते जन्तवो यया ॥ २.२२५ ॥

अत एव तिलाज्यादेः स्वरूपे ग्रहणे मितौ
क्रमो वा नियमो नेह कश्चिच्छास्त्रे निरूपितः ॥ २.२२६ ॥

ननु मन्त्रेषु किं नाम नियमः सर्ववर्णभाक्
रूपं परं हि कथितं दीक्षापि न तथा कथम् ॥ २.२२७ ॥

एवमेवार्णदाहस्य यद्भवत्संमतं हितम्
किं तु तावति ये रूढिं न प्राप्तास्तान् प्रति ध्रुवम् ॥ २.२२८ ॥

मान्त्रोऽयं नियमः प्रोक्त उपयोगं च गच्छति
प्रतिबुद्धा हि ते मन्त्रा विमर्शपथवर्तिनः ॥ २.२२९ ॥

स्वतन्त्रस्यैव चिद्धाम्न स्वातन्त्र्यात्कर्तृतामयाः
मन्त्रा विशन्त्येवाचार्यं तं तादात्म्यनियोगतः ॥ २.२३० ॥

स्वतन्त्रीकुर्वते यान्ति करणान्यपि कर्तृताम्
इत्थं दीक्षादिविधये येऽप्यन्ये विधयो मताः ॥ २.२३१ ॥

किं नाम कुर्वतां कृत्यं निषेधं त्वपि वा कथम्
तेऽप्यत्रैवोपपद्यन्ते तत्सर्वं विहितं त्विह ॥ २.२३२ ॥

सर्वं चैतदमुत्रैव प्रतिषिद्धं यतः स्फुटम्
प्रतिषेधे दर्शितेऽस्य किं चाद्वैतपथाश्रितः ॥ २.२३३ ॥

प्रतिषेधोऽपि विहितः सोऽपि च प्रतिषिध्यते
इत्थं स्वसंविदम्भोधिः स्वात्मनि प्रोच्छलत्यलम् ॥ २.२३४ ॥

इत्थं च विश्वमेवेदं जगदानन्दसुन्दरम्
तद्विपक्षं च भेदांशमित्थं क्षपयतेतराम् ॥ २.२३५ ॥

परमेशमुखोद्भूतज्ञानचन्द्रस्य सर्वतः
तावता स्वप्रभाभारभास्वराः सुमरीचयः ॥ २.२३६ ॥

शिवचन्द्रांशुसंघातपातमात्रविलापितः
समस्तभावशीतांशुकालकूटो रसायते ॥ २.२३७ ॥

तत्रानिशं निमज्जन्तस्तद्रसापानघूर्णिताः
तद्रसीभूय तिष्ठामः शुद्धास्तापत्रयोज्झिताः ॥ २.२३८ ॥

परमेशमुखं तु शक्तिरुक्ता भवतीच्छा ननु सोद्भवं गता
प्रतिपद्यत ईश्वरादिभिन्नस्थितिविज्ञानशशाङ्कशक्तिवृत्तम् ॥ २.२३९ ॥

शशिनः किल तस्य सर्वतो यः परिपूर्णः प्रसृतो मरीचिपुञ्जः
इयमेव हि सा क्रियात्मिकोक्ता परमेशस्य जगन्मयी स्वशक्तिः ॥ २.२४० ॥

तदिदं त्रिकशक्तिनिर्भरं परमं भैरवमेव जृम्भते
न तु तद्व्यतिरेकि संभवेत्स्वविजृम्भा विजयोऽस्य कीर्तितः ॥ २.२४१ ॥

तत एव जगज्जयन्त्यमी स्फुटमर्थः प्रकटोऽपि युज्यते नः
बहुवाचकयोग ईदृशं तत्परिपूर्णत्वममुष्य वाक्यभेदम् ॥ २.२४२ ॥

इत्येक एव श्लोकोऽयं चिदात्मा भैरवः स्वयम्
समस्तभावसंदर्भनिर्भरो व्याकृतः स्फुटम् ॥ २.२४३ ॥

संसारगरनाशाय तार्क्ष्याधिष्ठितदृष्टयः
विषमेवोपयुञ्जानाः प्राप्नुवन्त्यमृतीं स्थितिम् ॥ २.२४४ ॥

इति दर्शितमेतावत्स्वप्रकाशस्वसंविदा
सिद्धं तद्व्यतिरेकेण न किंचिदेव कल्पते ॥ २.२४५ ॥

यावत्स्वसंविद्विश्रान्तं यत्तावत्तत्सदेव हि
कालान्तरव्यपेक्षे हि सत्यत्वं स्यान्न कुत्रचित् ॥ २.२४६ ॥

संविदः कालयोगश्च विस्तरेण निवारितः
तत्स्वसंविद्यथा देशं वितरेद्वर्तते तथा ॥ २.२४७ ॥

तथा संविद्यक्षमय्यां निकषाश्मनि रोपितम्
न यत्तत्संशयायैव शास्त्रेऽप्युक्तमवस्तु तत् ॥ २.२४८ ॥

स्वसंविदनुपारोहि प्रलापान्न विशिष्यते
तच्च्छास्त्रं प्रक्रिया सा च यत्संविदि विवर्तते ॥ २.२४९ ॥

हृदयाज्जगतो जाताः सर्वस्यैते क्षयोदयाः
स्वप्नस्येव सुषुप्ताख्यात्स्वसंविच्छास्त्रचर्चिताः ॥ २.२५० ॥

रूपालोकमनस्कारसामग्री संहृतिः स्थितिः
सृष्टिर्निमेषोन्मेषौ च सतां संकोचकल्पनम् ॥ २.२५१ ॥

इत्यादिका मातृमेयमानरूपा स्थितिः सदा
स्वसंविदः सुपूर्णायाः प्रपञ्चरचना स्वयम् ॥ २.२५२ ॥

सर्वसर्वात्मदिग्देशकालाकारा स्वयं हि सा
सत्यमिथ्यात्वनिर्णीतिस्तत एव हि जायते ॥ २.२५३ ॥

आचार्योत्पलदेवोऽपि तदेतदुपदिष्टवान्
बहिः सदसदात्मापि स्वसंविदि मदीयदृक् ॥ २.२५४ ॥

पश्यत्विति स्वतन्त्रस्य नियतिः सेन्द्रियाभिधा
सैव रूधा शिवादा च क्रिमेः स्वां संविदं श्रिता ॥ २.२५५ ॥

तदेव देवे संसारः स शिवः परमेई›वरः
तत्र विश्रान्तिमापन्नो मुक्त इत्यभिधीयते ॥ २.२५६ ॥

एतत्प्रसादाज्जीवन्ति ब्रह्माद्याः स्थावरान्तकाः
अविलुप्ता सदा सेयं संवित्तिरिति गृह्यताम् ॥ २.२५७ ॥

विभान्त्यपि हि सा देवी न तया रहितं क्वचित्
आत्मानं साधयेत्क्वापि क्वापि दूषयते क्वचित् ॥ २.२५८ ॥

अन्यथैव स्थापयते न च याति विकारिताम्
साधन्दूषणान्यत्ववन्ध्यापि परमेश्वरी ॥ २.२५९ ॥

भासते च तथात्वेन तत्स्वतन्त्रा स्फुटा हि सा
श्रीमान्महेश्वरो देवः पूर्वेषामपि यो गुरुः ॥ २.२६० ॥

स एतदेव प्रोवाच लोकानुग्रहहेतुतः

मूढाः किं निःसारे वायसविरटितकल्पे
तिष्टथ वचसि वृथैवं स्वां संविदमावर्ज्य
संविद्देवतयैव यदादिष्टं निकटेऽप्यथ
सर्व आद्रियमाणास्तत्तद्देशे जीवन्मुक्ता भवन्ति ॥ २.२६१ ॥

तदत्र नीतौ संवित्तिरेवासौ गुरुरुच्यते
गिरत्येव यतो विश्वं सृष्टिसंहृतियोगतः ॥ २.२६२ ॥

तदत्र मुख्या या रूढिः संबन्धः पर उच्यते
एनया यद्यदादिष्टं ज्ञानं सांसिद्धिकं तु तत् ॥ २.२६३ ॥

यत्रास्मद्गुरुवर्गस्य स्थिता नित्यावस्थितिः
त्रैयम्बकादिसंतानभेदो यस्मात्प्रवर्तते ॥ २.२६४ ॥

यत्रोक्तं पूर्वमज्ञानतादात्म्यं नश्यतीत्यपि
स्वसंविदस्तु वैचित्र्यं गृह्णत्या भात्ययं ततः ॥ २.२६५ ॥

अन्तरालमहद्दिव्यादिव्यादि शास्त्रसंगमः
तत्त्ववन्निजवागंशून् गुरोरात्मविनिर्मितान् ॥ २.२६६ ॥

प्राधान्यं प्रकटं स्वसंविदः
गुरुतः किल शास्त्रतः स्वतः
तदयं मुख्यतया कृतः श्रमः ॥ २.२६७ ॥

शास्त्रवृत्तिपरतन्त्रितो गुरुः
स्वात्मसंविदि च तत्प्रतिष्ठितम्
तेन सर्वमिदमात्मसंविदा
सिद्धिमेति नहि जात्वसह्यताम् ॥ २.२६८ ॥

एतच्छास्त्रं प्रयत्नेन चर्च्यतां हे मुमुक्षवः
मा वृथैवायुरायस्तमन्यशास्त्रेषु नीयताम् ॥ २.२६९ ॥

अभेददृष्टिर्या काचिद्भेददृष्टिरथापि वा
सात्रैवायाति निर्वाहं तेनैतत्प्रविचार्यताम् ॥ २.२७० ॥

स्वप्नकालपरिज्ञानवी[तनिद्रो] यथा तथा
एतच्छास्त्रसमभ्यासप्रबुद्धहृदयः सदा ॥ २.२७१ ॥

स्वसंविदेव तच्छास्त्रं सा चापेक्षाविवर्जिता
तथा यद्यभिधीयेत स्वतः प्रामाण्यमुच्यताम् ॥ २.२७२ ॥

शासनं शासितव्यं च शासकं चेति यत्किल
तत्तत्राकालकलितं स्वातन्त्र्याद्वैतसुन्दरम् ॥ २.२७३ ॥

तामवस्थितिमात्मीयां गर्भीकृत्यानपायिनीम्
श्रीकण्ठनाथः प्रोवाच श्रीमत्किरणशासने ॥ २.२७४ ॥

सर्वमेतत्प्रवृत्त्यर्थं श्रोत्र्र्णां तु विभेदतः
अर्थभेदात्तु भेदोऽयमुपचारात्प्रकल्पते ॥ २.२७५ ॥

फलभेदो न कल्प्योऽत्र कल्प्यश्चेदयथातथम्
दशकाष्टादशाष्टाष्टभेदभिन्नमिदं विभोः ॥ २.२७६ ॥

शिवसद्भावलाभैकफलं तल्लाभप्रोत्सुके
अधिकारिण्यणौ जातिकुलवर्णाद्यनादरात् ॥ २.२७७ ॥

प्रवृत्तमेकवाक्यत्वं यावदासाद्य वर्तते
अङ्गाङ्गिवृत्तवैचित्र्यात्तावदेकमिदं विदुः ॥ २.२७८ ॥

त्रिकशास्त्रं तथाभूतो गुरुरत्राद्वयात्मकः
तदनन्तरवाक्यांशपुञ्जः प्रकरणानि च ॥ २.२७९ ॥

मायीयभेदवृत्तान्तस्फुटभावे भवन्ति च
तथापि शिवसंप्राप्तिर्मुख्यमन्ते फलं स्थितम् ॥ २.२८० ॥

अधिकारी चैक एव शिवतावाप्तिभाजनम्
तथापि तावन्मात्रे च जाते प्रकरणात्मनि ॥ २.२८१ ॥

यादृक्फलं स्फुतं मुख्यं पर्यन्तफलमङ्गि वा
तदङ्गं वा तद्विपक्षे परपक्षे परं च वा ॥ २.२८२ ॥

अपि तत्तद्विपक्षांशसमुद्भावनभाजनम्
तथोचितशरीरादेस्तथा संस्कारभागिनः ॥ २.२८३ ॥

गुरोः शिष्यस्य चाप्युक्तस्तादृशोऽधिक्रियाक्रमः
तथा च मृत्युविध्वंसिरसायनविधिं श्रितः ॥ २.२८४ ॥

पूर्वं संस्कारलाभाय क्वाथवान्तिविरेचनैः
दीक्षया या च विकृतिः नोत्तरत्र क्रियाविधौ ॥ २.२८५ ॥

तेनाधिकारिनियमस्तद्देहविदशादिजः
तेनोच्यते वैष्णवाद्याः पशुशासनसंश्रिताः ॥ २.२८६ ॥

न शैवेऽधिकृतास्तन्त्रे न शैवा वामगोचरे
तेऽपि नो दक्षिणे तेऽपि न स्युः कुलमते त्रिके ॥ २.२८७ ॥

उक्तं श्रीभैरवकुले पञ्चदीक्षाक्रियोचितः
गुरुरुल्लङ्घिताधस्त्यस्रोता वा त्रिकशास्त्रगः ॥ २.२८८ ॥

इत्थमेकाधिकारित्वमात्मतत्त्वसमाश्रयात्
संस्काराश्रय .... भेदाद्भिन्नाधिकारिता ॥ २.२८९ ॥

स्वच्छन्दतन्त्रे तेनोक्तं सर्वशास्त्रे शिवः फलम्
यतः शिवोद्भवाः सर्वे शिवधामफला इति ॥ २.२९० ॥

तत्रैव च पुनः प्रोक्तमूर्ध्वतत्त्वविवेचने
यन्न सांख्यैर्न योगीन्द्रैर्न प्रिये पाञ्चरात्रिकैः ॥ २.२९१ ॥

इयादि यावदाक्षिप्तं वादिनां तु शतत्रयम्
त्रिषष्ट्या चाधिकं ते हि तावन्मात्रविवेचकाः ॥ २.२९२ ॥

कथं स्युरपरिच्छिन्नशिवतत्त्वविदात्मकाः
अथ तत्रांशमात्रेऽपि शिवसद्भावमेव ते ॥ २.२९३ ॥

आरोपयेयुस्तत्तावन्नैव सुस्पष्टसंगति
देवदत्तादिवाक्ये हि सर्वतः पूर्णविग्रहे ॥ २.२९४ ॥

देवदत्तपदश्रोता तावन्मात्रपदे कथम्
समग्रपूर्ववाक्यानां समारोपं करिष्यति ॥ २.२९५ ॥

कथं चाधिगमस्तस्य तावतोऽर्थस्य वाक्यतः
तस्मादेवेति चेत्तर्हि न पदश्रोतृता न च ॥ २.२९६ ॥

तावन्मात्रस्य सोऽस्त्यर्थ इत्थं प्रकृतिगोचरे
समग्रशिवशास्त्रार्थज्ञप्त्या संपूर्णरूपया ॥ २.२९७ ॥

योगसांख्यार्हतन्यायपाञ्चरात्रश्रुतिस्मृतीः
यद्येव शिवतत्त्वेन संपूर्णं परिकल्पयेत् ॥ २.२९८ ॥

तावदस्तु न तु स्फारस्तावांस्तत्रेति चर्चितम्
ज्ञप्तिश्च शिवतत्त्वस्य तत्संस्कारपुरःसरा ॥ २.२९९ ॥

अन्यथा प्रत्यवायः स्यादुपदेष्ट्रुपदेश्ययोः
तत्संस्कारग्रहश्चेत्स्यात्कामं शास्त्रार्थ ईदृशः ॥ २.३०० ॥

न तु वैष्णवता तस्य सांख्यता श्रौततापि वा
अन्यसंस्कारमूर्ध्वोर्धं गृहीत्वाप्यनुतिष्ठति ॥ २.३०१ ॥

वैष्णवाद्येव तर्ह्यस्य प्रत्यवायो महत्तरः
नन्वद्वयपदेऽमुष्मिन् केयं मुख्या प्रकल्पना ॥ २.३०२ ॥

किं ब्रूषे स्वयमेव त्वं भेदोपहतवृत्तिकः
एतदेव परं द्वैतं भवानेव संश्रितः ॥ २.३०३ ॥

यदहं वैष्णवो भूष्णुः शैवे किं नाधिकारवान्
तत्स्वयं भेदमूढस्त्वं भेदे च नियतेर्बलात् ॥ २.३०४ ॥
ततस्तैः प्रत्यवायः स्याद्योग इत्युपपादितम्
किं च तादात्म्ययोगेन देवता पूज्यते ततः ॥ २.३०५ ॥

विष्णुतादात्म्यमापन्नः कथं रुद्रं प्रपूजयेत्
गीतासु च ततो गीतं यो यच्छ्रद्धः स एव सः ॥ २.३०६ ॥

तादात्म्यभावना योगाः फलं मन्त्राः स्व }}
दद्युस्तद्भावितात्मातः फलकामस्य सिद्धिदः ॥ २.३०७ ॥

मोक्षकामस्य तच्छास्त्रमोक्षलिप्सोरपि स्फुटम्
तद्दोषभावनाक्रान्तः क्षमस्तावति योजने ॥ २.३०८ ॥

मुख्यस्तावदयं कल्पो यो यत्रैव प्रतिष्ठितः
नित्यं तादात्म्यमापन्नः स तत्राधिकृतस्त्विति ॥ २.३०९ ॥

अत एव ततो ग्राह्यं ज्ञानमित्यभिधीयते
स हि तादात्म्यमापन्नस्तद्भावनविधिक्रमात् ॥ २.३१० ॥

शिष्यस्तदैव शास्त्रं तु गृह्णन् पूर्वापरक्रमात्
कथं स्वबुद्ध्या संधत्तां तावद्यत्तेन संहितम् ॥ २.३११ ॥

यस्तु संधातुमीहेत स साक्षात्परमेश्वरः
तस्य किं वा गुरुः कुर्यात्सोऽन्येषां गुरुरुच्यते ॥ २.३१२ ॥

नान्यतो वेदविद्भ्यश्चेत्यत एव हि मन्वते
तस्मात्तादात्म्यमापन्नो गुरुरित्यभिधीयते ॥ २.३१३ ॥

स च यावति यत्रैव तत्र तावति नान्यथा
ननु वैष्णवशास्त्रार्थस्तत्कालं शिवभावनात् ॥ २.३१४ ॥

तादात्म्यं गुरुतां हन्ति पूर्णधीः प्रलपत्ययम्
रामरावणनाट्येषु नह्येता नटभूमिकाः ॥ २.३१५ ॥

नेपथ्यादिपरावृत्त्या येनान्यत्वं प्रपद्यते
वैष्णवो विष्णुरेवाहं तद्दासो वेति चर्चयन् ॥ २.३१६ ॥

इदानीं न तथास्मीति किमेतत्सुसमञ्जसम्
अत्र ह्येकतमा संविन्मिथ्याज्ञानत्वमश्नुते ॥ २.३१७ ॥

यया स एव पतितः शिष्यो वा पतितो भवेत्
तस्मान्मुख्यो ह्ययं कल्पः प्रतिशास्त्रं गुरुर्गुरुः ॥ २.३१८ ॥

उक्तं स्वतन्त्रशास्त्रेषु नासौ सिद्धिफलप्रदः
अन्यशास्त्ररतो यः स्यात्तच्छास्त्रनिरतोऽपि वा ॥ २.३१९ ॥

लोकेऽपि यावदीदृक्षः प्रवादो ज्योतिरादिके

विष्णोर्भागवता मगाश्च सवितुः शांभोर्जटाभस्मिनो
मात्-ऋणामथ मातृमण्डलविदो विप्रास्त्वथ ब्रह्मणः
शाक्याः सत्त्वहितस्य बुद्धवपुषो नग्नास्तथैवार्हतो
यो यैर्देव उपास्यते स्वविधिना तैस्तस्य कार्या क्रिया ॥ २.३२० ॥
अत एवाधिकज्ञानशाली संनिहितो यदि
देशे तत्र भवेन्नाना नाधिकारस्य भाजनम् ॥ २.३२१ ॥

यस्त्वस्मिन् पूर्णसंबोधे रूढो वास्तवशासने
उत्तरोत्तररूढ्यर्थं शिशोः करणमानसम् (?) ॥ २.३२२ ॥

फलसंपत्तये वापि भावांशवशशालिनः
अनुग्रहं स वै कुर्यात्पूर्णत्वादूर्ध्ववृत्तितः ॥ २.३२३ ॥

नन्वद्वये किमूर्ध्वं स्यान्न किंचिद्भेदमोहिताः
भवतस्त्वधरावस्था भेद एवधरो यतः ॥ २.३२४ ॥

तस्माद्ये केचनान्ये स्युः पशुशासनवर्तिनः
वैष्णवाः सौगताः श्रौतास्तथा श्रुत्यन्तवादिनः ॥ २.३२५ ॥

इत्यादयो नाधिकृता जातुचित्पतिशासने
उक्तवान् यत्र शास्त्रेष्वप्यधिकारिविवेचने ॥ २.३२६ ॥

यो वैष्णवो मनुं दद्याच्छैवं मूढमतिः शिशोः
तं पापं वञ्चकं त्यक्त्वा शिशुर्न्याय्यं समाचरेत् ॥ २.३२७ ॥

इहाप्युक्तं मोक्षदः स्यात्स्वभ्यस्तज्ञानवानिति
अभ्यस्तं च परं ज्ञानं यतो नास्त्येव विच्युतिः ॥ २.३२८ ॥

परमाद्वयविज्ञानान्न खल्वप्यस्ति विच्युतिः
स्वात्मपक्षस्थिताशेषज्ञाननिर्भरवृत्तिकः ॥ २.३२९ ॥

कथं को वा कुतो वापि च्यवतां तिष्ठतु क्व वा
इत्थं य एष शास्त्रार्थः स्थितः शक्तिप्रभावतः ॥ २.३३० ॥

अन्तःकृताशेषतत्त्ववर्णादिभरनिर्भरः
सर्वाभिधो भैरवात्मा सोऽयमेव स्वरूपभाक् ॥ २.३३१ ॥

शास्त्रेऽस्मिन् परमेशेन ज्ञानचन्द्राख्यया कृतः

तद्व्याख्यातमिदं प्रसन्नगहनं वाक्यं मया स्वागम-
प्रामाण्यप्रतिपादनक्रमवशात्तत्तत्प्रसङ्गादपि
अत्रारूढधियां प्रमाणमहिमा विश्वाद्वयोद्दामितो
भातीति स्वयमेव सत्यहृदया ज्ञास्यन्ति किं श्लाघितैः ॥ २.३३२ ॥

ये सम्यक्प्रविचारिणो ननु शिवाः कस्तान् प्रति प्रोद्यमः
किं तैर्ये प्रविमर्शदूरशिखरारोहक्रमे पङ्गवः
पाषाणायितवृत्तयः पुनरमी ये शास्त्रवन्ध्या नराः
संरम्भः प्रलयम्बुधेरिव ततः स्वात्मन्ययं घूर्णते ॥ २.३३३ ॥

संशाम्य स्वयमात्मनि त्यज जवाज्ज्वालाजटाडम्बरान्
भोः कल्पानल दाह्यमस्ति भवतो नाद्यापि किञ्चिद्यतः
त्वत्प्रोल्लासविघूर्णनाघनघुरद्घोरस्फुलिङ्गशतैर्
विश्वं व्याप्य विलीनतां गतमिदं द्राक्त्वत्प्रकाशात्मकम् ॥ २.३३४ ॥

प्रवरपुरनामधेये पुरे पूर्वे काश्मीरिकोऽभिनवगुप्तः
मालिन्यादिमवाक्ये वार्त्तिकमेतद्रचयति स्म ॥ २.३३५ ॥