यज्ञाधिकारः/एकपञ्चाशोऽध्यायः

← पञ्चाशोऽध्यायः यज्ञाधिकारः
एकपञ्चाशोऽध्यायः
[[लेखकः :|]]
द्विपञ्चाशोऽध्यायः →

यज्ञाधिकारः।
------------
अथैकपञ्चाशोऽध्यायः।
--------------------------
तन्त्रसङ्करनिष्कृतिः।

अतः परं प्रवक्ष्यामि तन्त्रसङ्करनिष्कृतिम्
विष्णोस्तन्त्रं द्विधा प्राक्तमर्चनार्थ न्तु वैदिकम्। 1
प्रथमं सौम्यमन्यत्तदाग्नेयं तान्त्रिकं भवेत्
वैखानसेन सूत्रेण निषेकादिक्रियाऽन्वे तै 2
ब्राह्मणैः क्रियामाणं यत्तत्सौम्यं वैदिकं मतम्
विधिस्तु वेदमूलश्च दीक्षायुक्तश्च तान्त्रिकः 3
स चोक्तो द्विविधो मार्गः शुद्धमिश्र विभेदितः
शुद्धं भागवतं प्रोक्तं पञ्चरात्र मथेतरम् 4
सूतैर्वा सात्वतैर्वा ऽपि कृतं यच्छुद्धतान्त्रिकम्
तेषां शारीरसंस्कारास्त त्तत्त न्त्रेषु कीर्तिताः 5
न तेषां वेदमर्यादा सूतादीनं प्रवर्तते
त्यक्ताऽत्मसूत्रविधिभिर्नाना ( सूत्राधिकारिभिः।क।) सूत्रार्थदर्शिभिः 6
दीक्षितैः क्रियामाणं यत्तन्मिश्रमभिधीयते
केवलं भुक्तिदं सुद्धं मिश्रं मुक्त्यैकसाधनम् 7
भुक्तिमुक्तिप्रदं सौम्यमिति पूर्वज(शासनम्।) दर्शनम्
सौम्यं नारामः प्राह वेदेभ्यः सारमुत्थितम् 8
तस्माद्रभह्मा विराट्तस्मात्स एव मुखना मुनिः
(तस्माद्भृग्वादि।) ततोऽस्मदाद्यामुनयश्चत्वारो लेभिरे विधिम्। 9
तेभ्यः प्रादुरभूच्छास्त्रमुत्तमं चतुरात्मकम्
वेदानां व्यसनादर्वाक् प्राग्रूपं मिलित न्तु यत् 10
ता न्तु वैखनसीं शाखामिति ब्रह्मविदो विदुः
तत्समष्ट्यात्मकं सूत्र प्रोक्तं विखनसा तथा 11
ऋगादिभेदसम्भिन्ना व्यष्टिरूपेण सा पुनः
ऋग्यजुः सामाथर्वेति चतुर्धा सा यथाऽभवेत्। 12
चतुर्था व्यष्टिरूपेण तत्सूत्रं चाभवत्पुनः
आत्रेयं भार्गव ञ्चैव मरीचं काश्यपि त्विति 13
( वैदिक वैष्णवसंज्ञित श्री वैखानसभगवच्छास्त्रप्रवर्तनाधिकाराभिषिक्ताः सार्धकोटिग्नन्धसंख्यात भतवद्विखनो
महागुरु समुपदिष्टवैदिकसमू र्तभगवद्यजनसूत्र पठनपाठनैकनिरताः) भार्गवं यन्मया प्रोक्तं तदेकादशधा मतम्
खिलिं क्रियाधिकारश्च वासाधिकारणं तथा। 14
मानाधिकरण ञ्चैव निरुक्त ञ्च प्रकीर्णकम्
अर्चनस्याधिकारश्च यज्ञाधिकरणं तथा। 15
वर्णाधिकरण ञ्चैव पुरातन्त्रं तथैव च


एतेषां साररूपेण तन्त्रमुत्तरसंज्ञकम्। 16
एतावदेव मारीचं तथाऽऽत्रेयं प्रकीर्तितम्
पञ्छधा काश्यपीयं स्यादधि कारप्रभेदतः 17
(भगवद्भृगुमरीच्यत्रिकाश्यपादयः प्रतिमन्वन्तरं प्रति चतुर्युगं वा कालपरम्परापुरुषरम्पराबाहुल्यादिना
स्वप्रर्तितसंहिताना मत्यन्तशैथिस्यान्यथा भावादिदोषेणतिरोधाने (प्राये) सति पुनः पनस्तेषां प्रकाशाय
कालान्तरेषु समानार्थखान्। ग्रन्धान् अधिकारसंहिताकाण्कड तन्त्रादिनामान्वितं तदेवं भगवच्छ्रास्त्रं
वैखानससंज्ञितं प्रतिपत्तृभदेन बहुधा प्रपञ्चयामासुः शिथिलप्रायाः पूर्वोपदिष्टाः संहिता विशेषाः अपि केचन
कैश्चित्पुरुषैः क्वचित्क्वचिद्देशे कथञ्चित् विधृता दृश्यन्ते ऽध्यापि, ते चानन्तरं प्रवर्तिताश्च संहिताभेधाः
तत्तन्मान्मा व्यवह्रीयन्ते। तथाहिः-
कस्मिंश्चित्प्रवर्तनाकाले पञ्चविंशतिसङ्‌ख्यान्विताः जयानन्दादिसंज्ञन्विताः किञ्चिन्न्यूनलक्ष
चतुष्टयग्रन्थसङ्ख्याताः संहिता अभूवन्। कस्मिंश्चित्प्रवर्तनाकाले अष्टाविंशत्यादिग्रन्धसङ्ख्यायुताः
खिलक्रिया प्रकीर्णादिसंज्ञाऽन्विताः लक्षचतुषअटयग्रन्थ सङ्ख्यायुताः। एवमन्यस्मिन् काले किञ्चिदधिक
लक्षद्वयग्रन्थसंङ्ख्यायुताः प्रत्येकं खिलक्रियावास यज्ञार्चनादिभेदभिन्नाः संहिता अभूवन्निति। एवमन्यत्रापि
एव ञ्च कालभेदेन ग्रन्थसङ्ख्यान्यूनत्वाधिक्यानां संहितानामभेदानां संहितासङ्ख्याभे दाना ञ्च विरोधः
परिहृतः अयञ्च न्ययो वैष्णवपुराणे पुराणपरिगणनाध्याये व्याख्यातृभिः विष्णुचित्तादिभिः सञ्चारितः इति
नाच्चियार कोविल् कृष्णभट्टाचार्याणां निर्वाहः क्वाचित्कः पाठः प्रामादिक इत्येके।)
लक्षग्रन्थेन मारीच तदर्धं भृगुचोदितम्
तदरथमत्रिणा प्रोक्तं तदर्धं काशयपेन तु 18
खिल ञ्चैव पुरातन्त्रं मानाधिकरणं तथा
अर्चनस्याधिकारश्च षट्सहस्रं पृथक् पृथक् 19
वर्णाधिकरण ञ्चैव विरुक्त ञ्च प्रकीर्णकम्
पृथख् पृथक् द्विसाहस्रं त्रिसाहस्रमतः परम् 20
एकपञ्चाशदध्यायं यज्ञआधिकरणं मतम्
वासाख्यां तावदध्यायं चतुःसाहस्र सम्मितम् 21
तथा क्रियाधिकारणं सवसाहस्र मुत्तमम्
भार्गवं शास्त्रमित्युक्तं मारीचं शृणुतर्षयः 22
खिलं क्रियाधिकारश्च पुरातन्त्रार्चनाऽह्वयौ
वानमानाधिकारौ च यज्ञाधिकरणं तथा 23
प्रकीर्णनिरुक्ते च वर्णाधिकरणं तथा
प्रत्येगमष्टसाहस्रमेते षूत्तरसज्ञकम्। 24
यद्विमानार्चनं कल्पं तन्त्रमुत्तर संज्ञकम्
अर्चाधिकारमात्रेयं चतुस्साहस्र सम्मितम् 25
तथा वासाधिकरणं यज्ञाधिकरणं तथा
खिलं तत्पञ्चसहस्रं निरुक्तं द्विसहस्रकम् 26
समूर्तार्चादिकाराख्यं शेषं स्यात्तन्त्रमुत्तरम्
काश्यपीयेऽर्चनाख्यं स्यात्तद्द्वि साहस्रमुच्यते 27
वासाधिकरणं तद्वत्त थैव खिलसंज्ञकम्
क्रियाधिकरणं प्रोक्तं तस्मात्पञ्च शताधिकम् 28


शेषं भगवतर्चायः कल्पमुत्तर संज्ञितम्
विष्णुयागविधिश्चेति तदेव परिकीर्तितम् 29
प्रारब्धं येन तन्त्रेण तत्त न्त्रेण समापयेत्
नोक्त चेत्तत्र तच्छेषमन्यत न्त्रेण चाचरेत् 30
तन्त्रोत्तरविरुद्धं यदधिकारेषु चोदितम्
नाचरेत्सर्वधा प्राज्ञ इति पूर्वज दर्शनम् 31
उक्तं योनोत्तरे तन्त्रे अधिकारोक्त वच्चरेत्
( इति आरभ्य सार्तदशश्लोकानां क्वचिदादर्शे पूर्यस्मिन्नध्याये पाठोदृश्यते।) आचार्याश्चार्चकाश्चैव ऋत्विजो
बलिवाहकः 32
मन्त्रदीप्रदातारः पाचकाः परिचारकाः
वैखानसेन सूत्रेण निषेकादिक्रियान्विताः 33
वेदवेदाङ्गतत्त्वज्ञा ब्राह्मणा अधिकारिणः
समस्कृत्याभिपूज्यैव यजमानयुतो गुरुः 34
अर्चकादीन्नियुञ्जीत तत्तत्कर्मणि मन्त्रवित्
पुष्पापचयकर्तार स्तथा माल्योपजीविनः 35
पानीयवाहकाश्चैव शिबिकावाहकादयः
एतान् वैखानसालाभे नियुञ्जीतान्य सूत्रिणः 36
सङ्खचक्राङ्क्रितभुजान् गृह्णीयादन्यसूत्रिणः
उद्यानरक्षखाद्यांस्तु चतुर्वर्णेषु वैषणवान् 37
गृह्णीयाच्चक्रसङ्खां कान् पूर्वलाभे तथोत्तरान्
ग्राह्य वै नृत्त ( गीतज्ञाः घ।) गीतार्थं नृत्त( शास्त्र विदः।ख।) गीतविदः स्त्रियः 38
एतेषां ब्राह्मणादीनां सूतके प्रेतके तथा
आशौचलाघवं तत्र नाचरेद्गुण गौरवात् 39
उत्तसवे स्वपने चैव शान्तिकादिविधौ बुधाः (तथा)
गुरोः कर्माभियुक्तस्य ऋत्विजा ञ्च विशेषतः 40
तत्तत्कर्मावसाने तु आशौचं प्रविधीयते
नित्यार्चनाभुयुक्तस्य पूजकस्य विशेषतः 41
तत्सन्ध्यार्चावसाने तु सोऽशुचिः पूजको भवेत्
सर्वधाऽऽचार्यसाङ्कर्यं नाचरेदर्चकस्य च 42
मन्त्रांशैवोपचारांश्च उत्तरोक्तवदाचरेत्
नामवनर्णाक्षरादीनि वर्णाधिकरणोक्तवत् 43
प्राकारप्रतिमादीनि वासाधि करणोक्तवत्
ऋषिच्छन्दोधिदेवांश्च क्रियाधिकरणो क्तवत् 44
नित्यार्चनं निरुक्तोक्तं यज्ञे चोत्सव ईरितः
अग्नि कार्यविशेष ञ्च पुरातन्त्रो क्तवच्चरेत् 45
यद्यच्छास्त्रेष्वनुक्तं तत् खिलाधिकरणो क्तवत्
मानोन्मानप्रमानानि मानाधिकरणो क्तवत् 46
अर्चापरिच्छद ञ्चैव अभ्यञ्जनविधिं तथा


कर्मशेष ञ्च सर्वत्र प्रकीर्णविधानतः। 47
अर्चनस्याधिकारोक्त विधिस्सार्वत्रिको भवेत्
तन्त्रोत्तरेषु विधयस्सर्वे सार्वत्रिका मताः। 48
कर्षणादिप्रतिष्ठान्ता नित्यार्चास्नपनेतराः
न्यूनातिरोक व्याघातं निष्कृतिः सर्वकर्मणाम्। 49
अन्यन्मन्त्रविधाने च तन्त्रोत्तरविधिः स्मृतः
नामवर्णाक्षरध्यान मन्त्रानप्युपचारकान् 50
नान्योन्यसङ्करं कुर्यात्कु र्याच्चेदाभिचारिकम्
यदिच्छेत्कर्मसाङ्कर्यं तन्न दोषाय कल्पते 51
एतद्वैखानसं शास्त्रं संक्षेपाद्वः प्रकीर्तितम्
शुद्धं यदर्चनाहीनं तत्र मिश्रं निवेशयेत् 52
मिश्रं चेदर्चनाहीनं तत्र सौम्यं निवेशयेत्
भूशुद्‌ध्यादिप्रतिष्ठान्तं कर्मोत्कृष्ट विधानतः 53
कृत्वा विवेशयेन्मुख्यमन्यथा शुचिनाऽर्च येत्
गौणे मुख्यं पुनः कार्यं मुख्ये गौणं न चाऽचरेत् 54
यदि शुद्धे च सौम्ये च संस्कारं द्विगुणं चरेत्
क्रियामाणेऽर्चने वाऽपि मुख्यमार्गं यदिच्छति 55
शान्तिं हुत्वाऽर्चयेत् क्षिपं कार्या विचारणा
विपरीतं यदिच्छेत्तदारूठपतनं मतम् 56
नाऽचरेत्सर्वदा प्राज्ञ इति पूर्वज दर्शनम्।
नाशिष्या येदमाख्यायं नै वाशुश्रूषवे तथा 57
नैवाबक्ताय देवेशे नाश्रद्धाय विशेषतः
इति श्री वैखानसे भगवच्छास्त्रे( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे तन्त्रसङ्कर निष्कृतिर्नाम
एक पञ्चाशोऽध्यायः।


श्री विखनसमहागुरवेनमखः।
---------------------------
जयत्यात्मेश्वरोन्निद्रध्यानसौधप्रियातिथिः
श्री मत्सत्पपुरीवासः श्रीरामः सीतया गृही।