प्रमुखा विकल्पसूचिः उद्घाट्यताम्

याज्ञवल्क्यस्मृतिः/प्रायश्चित्ताध्यायः/यतिधर्मप्रकरणम्

वनाद्गृहाद्वा कृत्वेष्टिं सार्ववेदसदक्षिणाम् ।
प्राजापत्यां तदन्ते तानग्नीनारोप्य चात्मनि । । ३.५६ । ।

अधीतवेदो जपकृत्पुत्रवानन्नदोऽग्निमान् ।
शक्त्या च यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथा । । ३.५७ । ।

सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः ।
एकारामः परिव्रज्य भिक्षार्थी ग्रामं आश्रयेत् । । ३.५८ । ।

अप्रमत्तश्चरेद्भैक्षं सायाह्नेऽनभिलक्षितः ।
रहिते भिक्षुकैर्ग्रामे यात्रामात्रं अलोलुपः । । ३.५९ । ।

यतिपात्राणि मृद्वेणु दार्वलाबुमयानि च ।
सलिलं शुद्धिरेतेषां गोवालैश्चावघर्षणम् । । ३.६० । ।

संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च ।
भयं हित्वा च भूतानां अमृतीभवति द्विजः । । ३.६१ । ।

कर्तव्याशयशुद्धिस्तु भिक्षुकेण विशेषतः ।
ज्ञानोत्पत्तिनिमित्तत्वात्स्वातन्त्र्यकरणाय च । । ३.६२ । ।

अवेक्ष्या गर्भवासाश्च कर्मजा गतयस्तथा ।
आधयो व्याधयः क्लेशा जरा रूपविपर्ययः । । ३.६३ । ।

भवो जातिसहस्रेषु प्रियाप्रियविपर्ययः ।
ध्यानयोगेन संपश्येत्सूक्ष्म आत्मात्मनि स्थितः । । ३.६४ । ।

नाश्रमः कारणं धर्मे क्रियमाणो भवेद्हि सः ।
अतो यदात्मनोऽपथ्यं परेषां न तदाचरेत् । । ३.६५ । ।

सत्यं अस्तेयं अक्रोधो ह्रीः शौचं धीर्धृतिर्दमः ।
संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः । । ३.६६ । ।

निःसरन्ति यथा लोह पिण्डात्तप्तात्स्फुलिङ्गकाः ।
सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि । । ३.६७ । ।

तत्रात्मा हि स्वयं किंचित्कर्म किंचित्स्वभावतः ।
करोति किंचिदभ्यासाद्धर्माधर्मोभयात्मकम् । । ३.६८ । ।

निमित्तं अक्षरः कर्ता बोद्धा गुणी वशी ।
अजः शरीरग्रहणात्स जात इति कीर्त्यते । । ३.६९ । ।

सर्गादौ स यथाकाशं वायुं ज्योतिर्जलं महीम् ।
सृजत्येकोत्तरगुणांस्तथादत्ते भवन्नपि । । ३.७० । ।

आहुत्याप्यायते सूर्यः सूर्याद्वृष्टिरथौषधिः ।
तदन्नं रसरूपेण शुक्रत्वं अधिगच्छति । । ३.७१ । ।

स्त्रीपुंसयोस्तु संयोगे विशुद्धे शुक्रशोणिते ।
पञ्चधातून्स्वयं षष्ठ आदत्ते युगपत्प्रभुः । । ३.७२ । ।

इन्द्रियाणि मनः प्राणो ज्ञानं आयुः सुखं धृतिः ।
धारणा प्रेरणं दुःखं इच्छाहंकार एव च । । ३.७३ । ।

प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ ।
तस्यैतदात्मजं सर्वं अनादेरादिं इच्छतः । । ३.७४ । ।

प्रथमे मासि संक्लेद भूतो धातुविमूर्च्छितः ।
मास्यर्बुदं द्वितीये तु तृतीयेऽङ्गेन्द्रियैर्युतः । । ३.७५ । ।

आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम् ।
वायोश्च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यं एव च । । ३.७६ । ।

पित्तात्तु दर्शनं पक्तिं औष्ण्यं रूपं प्रकाशिताम् ।
रसात्तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् । । ३.७७ । ।

भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिं एव च ।
आत्मा गृह्णात्यजः सर्वं तृतीये स्पन्दते ततः । । ३.७८ । ।

दौहृदस्याप्रदानेन गर्भो दोषं अवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्मात्कार्यं प्रियं स्त्रियाः । । ३.७९ । ।

स्थैर्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः ।
षष्ठे बलस्य वर्णस्य नखरोम्णां च संभवः । । ३.८० । ।

मनश्चैतन्ययुक्तोऽसौ नाडीस्नायुशिरायुतः ।
सप्तमे चाष्टमे चैव त्वङ्मांसस्मृतिमानपि । । ३.८१ । ।

पुनर्धात्रीं पुनर्घर्मं ओजस्तस्य प्रधावति ।
अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते । । ३.८२ । ।

नवमे दशमे वापि प्रबलैः सूतिमारुतैः ।
निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः । । ३.८३ । ।

तस्य षोढा शरीराणि शट्त्वचो धारयन्ति च ।
सडङ्गानि तथास्थ्नां च सह षष्ट्या शतत्रयम् । । ३.८४ । ।

स्थालैः सह चतुःषष्टिर्दन्ता वै विंशतिर्नखाः ।
पाणिपादशलाकाश्च तेषां स्थानचतुष्टयम् । । ३.८५ । ।

षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयम् ।
चत्वार्यरत्निकास्थीनि जङ्घयोस्तावदेव तु । । ३.८६ । ।

द्वे द्वे जानुकपोलोरु फलकांससमुद्भवे ।
अक्षतालूषके श्रोणी फलके च विनिर्दिशेत् । । ३.८७ । ।

भगास्थ्येकं तथा पृष्ठे चत्वारिंशच्च पञ्च च ।
ग्रीवा पञ्चदशास्थिः स्याज्जत्र्वेकैकं तथा हनुः । । ३.८८ । ।

तन्मूले द्वे ललाटाक्षि गण्डे नासा घनास्थिका ।
पार्श्वकाः स्थालकैः सार्धं अर्बुदैश्च द्विसप्ततिः । । ३.८९ । ।

द्वौ शङ्खकौ कपालानि चत्वारि शिरसस्तथा ।
उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः । । ३.९० । ।

गन्धरूपरसस्पर्श शब्दाश्च विषयाः स्मृताः ।
नासिका लोचने जिह्वा त्वक्श्रोत्रं च इन्द्रियाणि च । । ३.९१ । ।

हस्तौ पायुरुपस्थं च जिह्वा पादौ च पञ्च वै ।
कर्मेन्द्रियाणि जानीयान्मनश्चैवोभयात्मकम् । । ३.९२ । ।

नाभिरोजो गुदं शुक्रं शोणितं शङ्खकौ तथा ।
मूर्धांसकण्ठहृदयं प्राणस्यायतनानि तु । । ३.९३ । ।

वपा वसावहननं नाभिः क्लोम यकृत्प्लिहा ।
क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानं एव च । । ३.९४ । ।

आमाशयोऽथ हृदयं स्थूलान्त्रं गुद एव च ।
उदरं च गुदौ कोष्ठ्यौ विस्तारोऽयं उदाहृतः । । ३.९५ । ।

कनीनिके चाक्षिकूटे शष्कुली कर्णपत्रकौ ।
कर्णौ शङ्खौ भ्रुवौ दन्त वेष्टावोष्ठौ ककुन्दरे । । ३.९६ । ।

वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातजौ स्तनौ ।
उपजिह्वास्फिजौ बाहू जङ्घोरुषु च पिण्डिका । । ३.९७ । ।

तालूदरं बस्तिशीर्षं चिबुके गलशुण्डिके ।
अवटश्चैवं एतानि स्थानान्यत्र शरीरके । । ३.९८ । ।

अक्षिकर्णचतुष्कं च पद्धस्तहृदयानि च ।
नव छिद्राणि तान्येव प्राणस्यायतनानि तु । । ३.९९ । ।

शिराः शतानि सप्तैव नव स्नायुशतानि च ।
धमनीनां शते द्वे तु पञ्च पेशीशतानि च । । ३.१०० । ।

एकोनत्रिंशल्लक्षाणि तथा नव शतानि च ।
षट्पञ्चाशच्च जानीत शिरा धमनिसंज्ञिताः । । ३.१०१ । ।

त्रयो लक्षास्तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् ।
सप्तोत्तरं मर्मशतं द्वे च संधिशते तथा । । ३.१०२ । ।

रोम्णां कोट्यस्तु पञ्चाशच्चतस्रः कोट्य एव च ।
सप्तषष्टिस्तथा लक्षाः सार्धाः स्वेदायनैः सह । । ३.१०३ । ।

वायवीयैर्विगण्यन्ते विभक्ताः परमाणवः ।
यद्यप्येकोऽनुवेत्त्येषां भावनां चैव संस्थितिम् । । ३.१०४ । ।

रसस्य नव विज्ञेया जलस्याञ्जलयो दश ।
सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः । । ३.१०५ । ।

षट्श्लेष्मा पञ्च पित्तं तु चत्वारो मूत्रं एव च ।
वसा त्रयो द्वौ तु मेदो मज्जैकोर्ध्वं तु मस्तके । । ३.१०६ । ।

श्लेष्मौजसस्तावदेव रेतसस्तावदेव तु ।
इत्येतदस्थिरं वर्ष्म यस्य मोक्षाय कृत्यसौ । । ३.१०७ । ।

द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः ।
हिताहिता नाम नाड्यस्तासां मध्ये शशिप्रभम् । । ३.१०८ । ।

मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः ।
स ज्ञेयस्तं विदित्वेह पुनराजायते न तु । । ३.१०९ । ।

ज्ञेयं चारण्यकं अहं यदादित्यादवाप्तवान् ।
योगशास्त्रं च मत्प्रोक्तं ज्ञेयं योगं अभीप्सता । । ३.११० । ।

अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् ।
ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत्प्रभुः । । ३.१११ । ।

यथाविधानेन पठन्सामगायं अविच्युतम् ।
सावधानस्तदभ्यासात्परं ब्रह्माधिगच्छति । । ३.११२ । ।

अपरान्तकं उल्लोप्यं मद्रकं प्रकरीं तथा ।
औवेणकं सरोबिन्दुं उत्तरं गीतकानि च । । ३.११३ । ।

ऋग्गाथा पाणिका दक्ष विहिता ब्रह्मगीतिका ।
गेयं एतत्तदभ्यास करणान्मोक्षसंज्ञितम् । । ३.११४ । ।

वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः ।
तालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति । । ३.११५ । ।

गीतज्ञो यदि योगेन नाप्नोति परमं पदम् ।
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते । । ३.११६ । ।

अनादिरात्मा कथितस्तस्यादिस्तु शरीरकम् ।
आत्मनस्तु जगत्सर्वं जगतश्चात्मसंभवः । । ३.११७ । ।

कथं एतद्विमुह्यामः सदेवासुरमानवम् ।
जगदुद्भूतं आत्मा च कथं तस्मिन्वदस्व नः । । ३.११८ । ।

मोहजालं अपास्येह पुरुषो दृश्यते हि यः ।
सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रकः । । ३.११९ । ।

स आत्मा चैव यज्ञश्च विश्वरूपः प्रजापतिः ।
विराजः सोऽन्नरूपेण यज्ञत्वं उपगच्छति । । ३.१२० । ।

यो द्रव्यदेवतात्याग संभूतो रस उत्तमः ।
देवान्संतर्प्य स रसो यजमानं फलेन च । । ३.१२१ । ।

संयोज्य वायुना सोमं नीयते रश्मिभिस्ततः ।
ऋग्यजुः सामविहितं सौरं धामोपनीयते । । ३.१२२ । ।

खमण्डलादसौ सूर्यः सृजत्यमृतं उत्तमम् ।
यज्जन्म सर्वभूतानां अशनानशनात्मनाम् । । ३.१२३ । ।

तस्मादन्नात्पुनर्यज्ञः पुनरन्नं पुनः क्रतुः ।
एवं एतदनाद्यन्तं चक्रं संपरिवर्तते । । ३.१२४ । ।

अनादिरात्मा संभूतिर्विद्यते नान्तरात्मनः ।
समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः । । ३.१२५ । ।

सहस्रात्मा मया यो व आदिदेव उदाहृतः ।
मुखबाहूरुपज्जाः स्युस्तस्य वर्णा यथाक्रमम् । । ३.१२६ । ।

पृथिवी पादतस्तस्य शिरसो द्यौरजायत ।
नस्तः प्राणा दिशः श्रोत्रात्स्पर्शाद्वायुर्मुखाच्छिखी । । ३.१२७ । ।

मनसश्चन्द्रमा जातश्चक्षुषश्च दिवाकरः ।
जघनादन्तरिक्षं च जगच्च सचराचरम् । । ३.१२८ । ।

यद्येवं स कथं ब्रह्मन्पापयोनिषु जायते ।
ईश्वरः स कथं भावैरनिष्टैः संप्रयुज्यते । । ३.१२९ । ।

करणैरन्वितस्यापि पूर्वं ज्ञानं कथं च न ।
वेत्ति सर्वगतां कस्मात्सर्वगोऽपि न वेदनाम् । । ३.१३० । ।

अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः ।
दोषैः प्रयाति जीवोऽयं भवं योनिशतेषु च । । ३.१३१ । ।

अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम् ।
रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम् । । ३.१३२ । ।

विपाकः कर्मणां प्रेत्य केषांचिदिह जायते ।
इह वामुत्र वैकेषां भावस्तत्र प्रयोजनम् । । ३.१३३ । ।

परद्रव्याण्यभिध्यायंस्तथानिष्टानि चिन्तयन् ।
वितथाभिनिवेशी च जायतेऽन्यासु योनिषु । । ३.१३४ । ।

पुरुषोऽनृतवादी च पिशुनः परुषस्तथा ।
अनिबद्धप्रलापी च मृगपक्षिषु जायते । । ३.१३५ । ।

अदत्तादाननिरतः परदारोपसेवकः ।
हिंसकश्चाविधानेन स्थावरेष्वभिजायते । । ३.१३६ । ।

आत्मज्ञः शौचवान्दान्तस्तपस्वी विजितेन्द्रियः ।
धर्मकृद्वेदविद्यावित्सात्त्विको देवयोनिताम् । । ३.१३७ । ।

असत्कार्यरतोऽधीर आरम्भी विषयी च यः ।
स राजसो मनुष्येषु मृतो जन्माधिगच्छति । । ३.१३८ । ।

निद्रालुः क्रूरकृल्लुब्धो नास्तिको याचकस्तथा ।
प्रमादवान्भिन्नवृत्तो भवेत्तिर्यक्षु तामसः । । ३.१३९ । ।

रजसा तमसा चैवं समाविष्टो भ्रमन्निह ।
भावैरनिष्टैः संयुक्तः संसारं प्रतिपद्यते । । ३.१४० । ।

मलिनो हि यथा आदर्शो रूपालोकस्य न क्षमः ।
तथाविपक्वकरण आत्मज्ञानस्य न क्षमः । । ३.१४१ । ।

कट्वेर्वारौ यथापक्वे मधुरः सन्रसोऽपि न ।
प्राप्यते ह्यात्मनि तथा नापक्वकरणे ज्ञता । । ३.१४२ । ।

सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् ।
योगी मुक्तश्च सर्वासां यो न चाप्नोति वेदनाम् । । ३.१४३ । ।

आकाशं एकं हि यथा घटादिषु पृथग्भवेत् ।
तथात्मा एको ह्यनेकश्च जलाधारेष्विवांशुमान् । । ३.१४४ । ।

ब्रह्मखानिलतेजांसि जलं भूश्चेति धातवः ।
इमे लोका एष चात्मा तस्माच्च सचराचरम् । । ३.१४५ । ।

मृद्दण्डचक्रसंयोगात्कुम्भकारो यथा घटम् ।
करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः । । ३.१४६ । ।

हेममात्रं उपादाय रूपं वा हेमकारकः ।
निजलालासमायोगात्कोशं वा कोशकारकः । । ३.१४७ । ।

कारणान्येवं आदाय तासु तास्विह योनिषु ।
सृजत्यात्मानं आत्मा च संभूय करणानि च । । ३.१४८ । ।

महाभूतानि सत्यानि यथात्मापि तथैव हि ।
कोऽन्यथैकेन नेत्रेण दृष्टं अन्येन पश्यति । । ३.१४९ । ।

वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम् ।
अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः । । ३.१५० । ।

जातिरूपवयोवृत्त विद्यादिभिरहंकृतः ।
शब्दादिविषयोद्योगं कर्मणा मनसा गिरा । । ३.१५१ । ।

स संदिग्धमतिः कर्म फलं अस्ति न वेति वा ।
विप्लुतः सिद्धं आत्मानं असिद्धोऽपि हि मन्यते । । ३.१५२ । ।

मम दाराः सुतामात्या अहं एषां इति स्थितिः ।
हिताहितेषु भावेषु विपरीतमतिः सदा । । ३.१५३ । ।

ज्ञेयज्ञे प्रकृतौ चैव विकारे चाविशेषवान् ।
अनाशकानलाघात जलप्रपतनोद्यमी । । ३.१५४ । ।

एवंवृत्तोऽविनीतात्मा वितथाभिनिवेशवान् ।
कर्मणा द्वेषमोहाभ्यां इच्छया चैव बध्यते । । ३.१५५ । ।

आचार्योपासनं वेद शास्त्रार्थेषु विवेकिता ।
तत्कर्मणां अनुष्ठानं सङ्गः सद्भिर्गिरः शुभाः । । ३.१५६ । ।

स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् ।
त्यागः परिग्रहाणां च जीर्णकाषायधारणम् । । ३.१५७ । ।

विषयेन्द्रियसंरोधस्तन्द्रालस्यविवर्जनम् ।
शरीरपरिसंख्यानं प्रवृत्तिष्वघदर्शनम् । । ३.१५८ । ।

नीरजस्तमसा सत्त्व शुद्धिर्निःस्पृहता शमः ।
एतैरुपायैः संशुद्धः सत्त्वयोग्यमृती भवेत् । । ३.१५९ । ।

तत्त्वस्मृतेरुपस्थानात्सत्त्वयोगात्परिक्षयात् ।
कर्मणां संनिकर्षाच्च सतां योगः प्रवर्तते । । ३.१६० । ।

शरीरसंक्षये यस्य मनः सत्त्वस्थं ईश्वरम् ।
अविप्लुतमतिः सम्यक्स जातिसंस्मरतां इयात् । । ३.१६१ । ।

यथा हि भरतो वर्णैर्वर्णयत्यात्मनस्तनुम् ।
नानारूपाणि कुर्वाणस्तथात्मा कर्मजास्तनूः । । ३.१६२ । ।

कालकर्मात्मबीजानां दोषैर्मातुस्तथैव च ।
गर्भस्य वैकृतं दृष्टं अङ्गहीनादि जन्मनः । । ३.१६३ । ।

अहंकारेण मनसा गत्या कर्मफलेन च ।
शरीरेण च नात्मायं मुक्तपूर्वः कथंचन । । ३.१६४ । ।

वर्त्याधारस्नेहयोगाद्यथा दीपस्य संस्थितिः ।
विक्रियापि च दृष्टैवं अकाले प्राणसंक्षयः । । ३.१६५ । ।

अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि ।
सितासिताः कर्बुरूपाः कपिला नीललोहिताः । । ३.१६६ । ।

ऊर्ध्वं एकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् ।
ब्रह्मलोकं अतिक्रम्य तेन याति परां गतिम् । । ३.१६७ । ।

यदस्यान्यद्रश्मिशतं ऊर्ध्वं एव व्यवस्थितम् ।
तेन देवशरीराणि सधामानि प्रपद्यते । । ३.१६८ । ।

येऽनेकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः ।
इह कर्मोपभोगाय तैः संसरति सोऽवशः । । ३.१६९ । ।

वेदैः शास्त्रैः सविज्ञानैर्जन्मना मरणेन च ।
आर्त्या गत्या तथागत्या सत्येन ह्यनृतेन च । । ३.१७० । ।

श्रेयसा सुखदुःखाभ्यां कर्मभिश्च शुभाशुभैः ।
निमित्तशाकुनज्ञान ग्रहसंयोगजैः फलैः । । ३.१७१ । ।

तारानक्षत्रसंचारैर्जागरैः स्वप्नजैरपि ।
आकाशपवनज्योतिर् जलभूतिमिरैस्तथा । । ३.१७२ । ।

मन्वन्तरैर्युगप्राप्त्या मन्त्रौषधिफलैरपि ।
वित्तात्मानं वेद्यमानं कारणं जगतस्तथा । । ३.१७३ । ।

अहंकारः स्मृतिर्मेधा द्वेषो बुद्धिः सुखं धृतिः ।
इन्द्रियान्तरसंचार इच्छा धारणजीविते । । ३.१७४ । ।

स्वर्गः स्वप्नश्च भावानां प्रेरणं मनसो गतिः ।
निमेषश्चेतना यत्न आदानं पाञ्चभौतिकम् । । ३.१७५ । ।

यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः ।
तस्मादस्ति परो देहादात्मा सर्वग ईश्वरः । । ३.१७६ । ।

बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च ।
अहंकारश्च बुद्धिश्च पृथिव्यादीनि चैव हि । । ३.१७७ । ।

अव्यक्तं आत्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते ।
ईश्रवः सर्वभूतस्थः सन्नसन्सदसच्च यः । । ३.१७८ । ।

बुद्धेरुत्पत्तिरव्यक्तात्ततोऽहंकारसंभवः ।
तन्मात्रादीन्यहंकारादेकोत्तरगुणानि च । । ३.१७९ । ।

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ।
यो यस्मान्निःसृतश्चैषां स तस्मिन्नेव लीयते । । ३.१८० । ।

यथात्मानं सृजत्यात्मा तथा वः कथितो मया ।
विपाकात्त्रिप्रकाराणां कर्मणां ईश्वरोऽपि सन् । । ३.१८१ । ।

सत्त्वं रजस्तमश्चैव गुणास्तस्यैव कीर्तिताः ।
रजस्तमोभ्यां आविष्टश्चक्रवद्भ्राम्यते ह्यसौ । । ३.१८२ । ।

अनादिरादिमांश्चैव स एव पुरुषः परः ।
लिङ्गेन्द्रियग्राह्यरूपः सविकार उदाहृतः । । ३.१८३ । ।

पितृयानोऽजवीथ्याश्च यदगस्त्यस्य चान्तरम् ।
तेनाग्निहोत्रिणो यान्ति स्वर्गकामा दिवं प्रति । । ३.१८४ । ।

ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः ।
तेऽपि तेनैव मार्गेण सत्यव्रतपरायणाः । । ३.१८५ । ।

तत्राष्टाशीतिसाहस्र मुनयो गृहमेधिनः ।
पुनरावर्तिनो बीज भूता धर्मप्रवर्तकाः । । ३.१८६ । ।

सप्तर्षिनागवीथ्यन्तर्देवलोकं समाश्रिताः ।
तावन्त एव मुनयः सर्वारम्भविवर्जिताः । । ३.१८७ । ।

तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया ।
तत्र गत्वावतिष्ठन्ते यावदाभूतसंप्लवम् । । ३.१८८ । ।

यतो वेदाः पुराणानि विद्योपनिषदस्तथा ।
श्लोका सूत्राणि भाष्याणि यच्च किंचन वाङ्मयम् । । ३.१८९ । ।

वेदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः ।
श्रद्धोपवासः स्वातन्त्र्यं आत्मनो ज्ञानहेतवः । । ३.१९० । ।

स ह्याश्रमैर्विजिज्ञास्यः समस्तैरेवं एव तु ।
द्रष्टव्यस्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः । । ३.१९१ । ।

य एनं एवं विन्दन्ति य वारण्यकं आश्रिताः ।
उपासते द्विजाः सत्यं श्रद्धया परया युताः । । ३.१९२ । ।

क्रमात्ते संभवन्त्यर्चिरहः शुक्लं तथोत्तरम् ।
अयनं देवलोकं च सवितारं सवैद्युतम् । । ३.१९३ । ।

ततस्तान्पुरुषोऽभ्येत्य मानसो ब्रह्मलौकिकान् ।
करोति पुनरावृत्तिस्तेषां इह न विद्यते । । ३.१९४ । ।

यज्ञेन तपसा दानैर्ये हि स्वर्गजितो नराः ।
धूमं निशां कृष्णपक्षं दक्षिणायनं एव च । । ३.१९५ । ।

पितृलोकं चन्द्रमसं वायुं वृष्टिं जलं महीम् ।
क्रमात्ते संभवन्तीह पुनरेव व्रजन्ति च । । ३.१९६ । ।

एतद्यो न विजानाति मार्गद्वितयं आत्मवान् ।
दन्दशूकः पतङ्गो वा भवेत्कीटोऽथ वा कृमिः । । ३.१९७ । ।

ऊरुस्थोत्तानचरणः सव्ये न्यस्योत्तरं करम् ।
उत्तानं किंचिदुन्नाम्य मुखं विष्टभ्य चोरसा । । ३.१९८ । ।

निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तानसंस्पृशन् ।
तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः । । ३.१९९ । ।

संनिरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः ।
द्विगुणं त्रिगुणं वापि प्राणायामं उपक्रमेत् । । ३.२०० । ।

ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः ।
धारयेत्तत्र चात्मानं धारणां धारयन्बुधः । । ३.२०१ । ।

अन्तर्धानं स्मृतिः कान्तिर्दृष्टिः श्रोत्रज्ञता तथा ।
निजं शरीरं उत्सृज्य परकायप्रवेशनम् । । ३.२०२ । ।

अर्थानां छन्दतः सृष्टिर्योगसिद्धेर्हि लक्षणम् ।
सिद्धे योगे त्यजन्देहं अमृतत्वाय कल्पते । । ३.२०३ । ।

अथ वाप्यभ्यसन्वेदं न्यस्तकर्मा वने वसन् ।
अयाचिताशी मितभुक्परां सिद्धिं अवाप्नुयात् । । ३.२०४ । ।

न्यायागतधनस्तत्त्व ज्ञाननिष्ठोऽतिथिप्रियः ।
श्राधकृत्सत्यवादी च गृहस्थोऽपि हि मुच्यते । । ३.२०५ । ।