प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सुभाषितरत्नकोशः/३२ यशोव्रज्या

< सुभाषितरत्नकोशः(यशोव्रज्या (सुभाषितरत्नकोशः) इत्यस्मात् पुनर्निर्दिष्टम्)
← ३१ मध्याह्नव्रज्या सुभाषितरत्नकोशः
३२ यशोव्रज्या
विद्याकरः
३३ अन्यापदेशव्रज्या →

ततो यशोव्रज्या|| ३२

देव स्वस्ति वयं द्विजास् तत इतस् तीर्थेषु सिस्नासवः कालिन्दीसुरसिन्धुसंगपयसि स्नातुं समीहामहे /
तद् याचेमहि सप्तपिष्टपशुचीभावैकतानव्रतं संयच्छ स्वयशः सितासितपयोभेदाद् विवेको ऽस्तु नः ३२.१ (९९५)

किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थस् तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिनात्यस्वभावः /
गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्याम् उन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ३२.२ (९९६)
विद्यायाः

सा चन्द्राद् अपि चन्दनाद् अपि दरव्याकोषकुन्दाद् अपि क्षीराब्धेर् अपि शेषतो ऽपि फणिनश् चण्डीशहासाद् अपि /
कर्णाटीसितदन्तपत्रमहसो ऽप्य् अत्यन्तम् उद्द्योतिनी कीर्तिस् ते भुजवीर्यनिर्जितरिपो लोकत्रयं भ्राम्यति ३२.३ (९९७)
वार्तिककारस्य

त्वद्यशोराजहंसस्य पञ्जरं भुवनत्रयम् /
अमी पानकरङ्काभाः सप्तापि जलराशयः ३२.४ (९९८)
बिम्बोकस्य

यत् क्षारं च मलीमसं च जलधेर् अम्भस् तद् अम्भोधरैः कृत्वा स्वादु च निर्मलं च निहितं यत्नेन शुक्तौ तथा /
येनानर्घतया च सुन्दरतया चेदं यशोभिस् तव स्पर्धाम् एत्य विराजते ननु परिणामो ऽद्भुतो भौतिकः ३२.५ (९९९)
अचलसिंहस्य

दृष्टं संगरसाक्षिभिर् निगदितं वैतालिकश्रेणिभिर् न्यस्तं चेतसि सज्जनैः सुकविभिः काव्येषु संचारितम् /
उत्कीर्णं कुशलैः प्रशस्तिषु सदा गीतं च नाकेसदां दारैर् उज्जयनीभुजङ्ग भवतश् चन्द्रावदातं यशः ३२.६ (१०००)

उत्कल्लोलस्य लक्ष्मीं लवणजलनिधिर् लम्भितः क्षीरसिन्धोः को विन्ध्यः कश् च गौरीगुरुर् इति मरुताम् अभ्युदस्तो विवेकः /
नीताः कर्कत्वम् अर्कप्रवहणहरयो हारितोत्सङ्गलक्ष्मा राजन्न् उदामगौरैर् अजनि च रजनीवल्लभस् त्वद्यशोभोः ३२.७ (१००१)
अभिनन्दस्य

निर्मुक्तशेषधवलैर् अचलेन्द्रमन्थ- संक्षुब्धदुग्धमयसागरगर्भगौरैः /
राजन्न् इदं बहुलपक्षदलन्मृगाङ्क- च्छेदोज्ज्वलैस् तव यशोभिर् अशोभि विश्वम् ३२.८ (१००२)

स्वस्ति क्षीराब्धिमध्यान् निजदयितभुजाभ्यन्तरस्थाब्जहस्ता क्ष्मायामक्षामकीर्तिं कुशलयति महाभूभुजं भोज्यदेवम् /
क्षेमं मे ऽन्यद् युगान्तावधि तपतु भवान् यद्यशोघोषणाभिर् देवो निद्रादरिद्रः सफलयति हरिर् यौवनर्द्धिं ममेति ३२.९ (१००३)

त्वत्कीर्तिर् जातजाड्येव सप्ताम्भोनिधिमज्जनात् /
प्रतापाय जगन्नाथ याता मार्तण्डमण्डलम् ३२.१० (१००४)

का त्वं कुन्तलमल्लकीर्तिर् अहह क्वासि स्थिता न क्वचित् सख्यस् तास् तव कुत्र कुत्र वद वाग् लक्ष्मीस् तथा कान्तयः /
वाग् याता चतुराननस्य वदनं लक्ष्मीर् मुरारेर् उरः कान्तिर् मण्डलम् ऐन्दवं मम पुनर् नाद्यापि विश्रामभूः ३२.११ (१००५)

आसीद् उप्तं यद् एतद् रणभुवि भवता वैरिमातङ्गकुम्भान् मुक्ताबीजं तद् एतत् त्रिजगति जनयामास कीर्तिद्रुमं ते /
शेषो मूलं प्रकाण्डं हिमगिरिर् उदधिर् दुग्धपूरालवालं ज्योत्स्ना शाखाप्रतानः कुसुमम् उडुचयो यस्य चन्द्रः फलं च ३२.१२ (१००६)

अद्य स्वर्गवधूगणे गुणमय त्वत्कीर्तिम् इन्दूज्वलाम् उच्चैर् गायति निष्कलङ्किमदशामाद् आस्यते चन्द्रमाः /
गीताकर्णनमोदमुक्तयवसग्रासाभिलाषो वद स्वामिन्न् अङ्कमृगः कियन्ति हि दिनान्य् एतस्य वर्तिष्यते ३२.१३ (१००७)

अभयम् अभयं देव ब्रूमस् तवासिलतावधूः कुवलयदलश्यामा शत्रोर् उरःस्थलशायिनी /
समयसुलभां कीर्तिं भव्याम् असूत सुताम् असाव् अपि रमयितुं रागान्धेव भ्रमत्य् अखिलं जगत् ३२.१४ (१००८)
अमरसिंहस्य

द्याम् आवृणोति धरणीतलम् आतनोति पातालमूलतिमिराणि तिरस्करोति /
हारावलीहरिणलक्ष्महराट्टहास- हेरम्बदन्तहरिशङ्खनिभं यशस् ते ३२.१५ (१००९)

देव त्वद्यशसि प्रसर्पति शनैर् लक्ष्मीसुधोच्चैःश्रवश्- चन्द्रैरावतकौस्तुभाः स्थितिम् इवामन्यन्त दुग्धोदधौ /
किं त्व् एकः परम् अस्ति दूषणकणो यन् नोपयाति भ्रमात् कृष्णं श्रीः शितिकण्ठम् अद्रितनया नीलाम्बरं रेवती ३२.१६ (१०१०)

ऐरावणन्ति करिणः फणिनो ऽप्य् अशेषाः शेषन्ति हन्त विहगा अपि हंसितारः /
नीलोत्पलानि कुमुदन्ति च सर्वशैलाः कैलासितुं व्यवसिता भवतो यशोभिः ३२.१७ (१०११)

रामः सैन्यसमन्वितः कृतशिलासेतुर् यद् अम्भोनिधेः पारं लङ्घितवान् पुरा तद् अधुना नाश्चर्यम् आपादयेत् /
एकाकिन्य् अपि सेतुबन्धुरहितान् सप्तापि वारांनिधीन् हेलाभिस् तव देव देव कीर्तिवनिता यस्मात् समुल्लङ्घति ३२.१८ (१०१२)

न तच् चित्रं यत् ते विततकरवालोग्ररसनो महीभारं वोढुं भुजभुजगराजः प्रभवति /
यद् उद्भूतेनेदं नवबिसलतातन्तुशुचिना यशोनिर्मोकेण स्थगितम् अवनीमण्डलम् अभूत् ३२.१९ (१०१३)
संघश्रियः

श्रीखण्डपाण्डिमरुचः स्फुटपुण्डरीक- षण्डप्रभापरिभवप्रभवास् तुदन्ति /
त्वत्कीर्तयो गगनदिग्वलयं तदन्तः- पिण्डीभवन्निबिडमूर्तिपरम्पराभिः ३२.२० (१०१४)
बुद्धाकरगुप्तस्य

अपनय महामोहं राजन्न् अनेन तवासिना कथय कुहकक्रीडाश्चर्यं कथं क्व च शिक्षितम् /
यद् अरिरुधिरं पायं पायं कुसुम्भरसारुणं झगिति वमति क्षीराम्भोधिप्रवाहसितं यशः ३२.२१ (१०१५)
दक्षस्य

त्वं काम्बोज विराजसे भुवि भवत्तातो दिवि भ्राजते तत्तातस् तु विभूषणः स किम् अपि ब्रह्मौकसि द्योतते /
युष्माभिस् त्रिभिर् एभिर् अर्पिततनुस् त्वत्कीर्तिर् उज्जृम्भिणी माणिक्यस्तबकत्रयप्रणयिनीं हारस्य धत्ते श्रियम् ३२.२२ (१०१६)
वसुकल्पस्य

जनानुरागमिश्रेण यशसा तव सर्पता /
दिग्वधूनां मुखे जातम् अकस्माद् अर्धकुङ्कुमम् ३२.२३ (१०१७)

इन्दोर् लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारिर् दिग्नागानां मदजलमसीभाञ्जि गण्डस्थलानि /
अद्याप्य् उर्वीवलयतिलक श्यामलिम्नावलिप्तान्य् आभासन्ते वद धवलितं किं यशोभिस् त्वदीयैः ३२.२४ (१०१८)

इति यशोव्रज्या|| ३२