योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०७९


एकोनाशीतितमः सर्गः ७९

श्रीवसिष्ठ उवाच ।
इत्युक्त्वा राक्षसी प्रश्नान्सा वक्तुमुपचक्रमे । ।
उच्यतामिति राज्ञोक्ते तानिमान्शृणु राघव ।। १
राक्षस्युवाच ।
एकस्यानेकसंख्यस्य कस्याणोरम्बुधेरिव ।
अन्तर्ब्रह्माण्डलक्षाणि लीयन्ते बुद्बुदा इव ।। २
किमाकाशमनाकाशं न किंचित्किंचिदेव किम् ।
कोऽहमेवासि संपन्नः को भवानप्यहं स्थितः ।। ३
गच्छन्न गच्छति च कः कोऽतिष्ठन्नपि तिष्ठति ।
कश्चेतनोऽपि पाषाणः कश्चिद्व्योम्नि विचित्रकृत् ।। ४
वह्नितामजहच्चैव कश्च वह्निरदाहकः ।
अवह्नेर्जायते वह्निः कस्माद्राजन्निरन्तरम् ।। ५
अचन्द्रार्काग्नितारोऽपि कोऽविनाशः प्रकाशकः ।
अनेत्रलभ्यात्कस्माच्च प्रकाशः संप्रवर्तते ।। ६
लतागुल्माङ्कुरादीनां जात्यन्धानां तथैव च ।
अन्येषामप्यनक्षाणामालोकः क इवोत्तमः ।। ७
जनकः कोऽम्बरादीनां सत्तायाः कः स्वभावदः ।
को जगद्रत्नकोशः स्यात्कस्य कोशो मणेर्जगत् ।। ८
कोऽणुस्तमःप्रकाशः स्यात्कोऽणुरस्ति च नास्ति च ।
कोऽणुर्दूरेऽप्यदूरे च कोऽणुरेव महागिरिः ।। ९
निमेष एव कः कल्पः कः कल्पोऽपि निमेषकः ।
किं प्रत्यक्षमसद्रूपं किं चेतनमचेतनम् ।। 3.79.१०
कश्च वायुरवायुश्च कः शब्दोऽशब्द एव कः ।
कः सर्वं न च किंचिच्च कोऽहं नाहं च किं भवेत् ११
किं प्रयत्नशतप्राप्यं लब्ध्वापि बहुजन्मनि ।
लब्धं न किंचिद्भवति किंतु सर्वं न लभ्यते ।। १२
स्वस्थेन जीवितेनोच्चैः केनात्मैवापहारितः ।
केनाणुनान्तः क्रियते मेरुस्त्रिभुवनं तृणम् ।। १३
केनाप्यणुकमात्रेण पूरिता शतयोजनी ।
कोऽणुरेव भवन्माति न योजनशतेष्वपि ।। १४
केनालोकनमात्रेण जगद्वालः प्रनाट्यते ।
कस्याणोरुदरे सन्ति किलावनिभृतां घटाः ।। १३
अणुत्वमजहत्कोऽणुर्मेरोः स्थूलतराकृतिः ।
वालाग्रशतभागात्मा कोऽणुरुच्चैः शिलोच्चयः ।। १६
कोऽणुः प्रकाशतमसां दीपः प्रकटनप्रदः ।
कस्याणोरुदरे सन्ति समग्रानुभवाणवः ।। १७
कोऽणुरत्यन्तनिःस्वादुरपि संस्वदतेऽनिशम् ।
केन संत्यजता सर्वमणुना सर्वमाश्रितम् ।। १८
केनात्माच्छादनाशक्तेनाणुनाच्छादितं जगत् ।
जगल्लये न कस्याणोः सद्भूतमपि जीवति ।। १९
अजातावयवः कोऽणुः सहस्रकरलोचनः ।
को निमेषो महाकल्पः कल्पकोटिशतानि च ।। 3.79.२०
अणौ जगन्ति तिष्ठन्ति कस्मिन्बीज इव द्रुमः ।
बीजानि निष्कलान्तानि स्फुटान्यनुदितान्यपि ।। २१
कल्पः कस्य निमेषस्य बीजस्येवान्तरस्थितः ।
कः प्रयोजनकर्तृत्वमप्यनाश्रित्य कारकः ।। २२
दृश्यसंपत्तये द्रष्टा स्वात्मानं दृश्यतां नयन् ।
दृश्यं पश्यन्स्वमात्मानं को हि पश्यत्यनेत्रवान् ।। २३
अन्तर्गलितदृश्यं च क आत्मानमखण्डितम् ।
दृश्यासंपत्तये पश्यन्पुरो दृश्यं न पश्यति ।। २४
आत्मानं दर्शनं दृश्यं को भासयति दृश्यवत् ।
कटकादीनि हेम्नेव विकीर्णं केन च त्रयम् ।। २५
कस्मान्न किंचिच्च पृथगूर्म्यादीव महाम्भसः ।
कस्येच्छया पृथक्चास्ति वीचितेव महाम्भसः ।। २६
दिक्कालाद्यनवच्छिन्नादेकस्मादसतः सतः ।
द्वैतमप्यपृथक्कस्माद्द्रवतेव महाम्भसः ।। २७
आत्मानं दर्शनं दृश्यं सदसच्च जगत्त्रयम् ।
कोऽन्तर्बीजमिवान्तस्थं स्थितः कृत्वा त्रिकालगः २८
भूतं भवद्भविष्यच्च जगद्वृन्दं बृहद्भ्रमम् ।
नित्यं समस्य कस्यान्तर्बीजस्यान्तरिव द्रुमः ।। २९
बीजं द्रुमतयेवाशु द्रुमो बीजतयेव च ।
स्वमेकमजहदूपमुदेत्यनुदितोऽपि कः ।। 3.79.३०
बिसतन्तुर्महामेरुर्भो राजन्यदपेक्षया ।
तस्य कस्योदरे सन्ति मेरुमन्दरकोटयः ।। ३१
केनेदमाततमनेकचिदेव विश्वं
किंसार एवमतिवल्गसि हंसि पासि ।
किंदर्शनेन न भवस्यथवा सदैव
नूनं भवस्यमलदृग्वदनः स्वशान्त्यै ।। ३२
एषोऽसौ प्रगलतु संशयो ममोच्चै-
श्चित्तश्रीमुखमिहिकामलानुलेपः ।
यस्याग्रे न गलति संशयः समूलो
नैवासौ क्वचिदपि पण्डितोक्तिमेति ।। ३३
एवं मे यदि न विनेष्यथः क्रमोक्तं
संशान्तं लघुतरसंशयं सुबुद्धी ।
तद्रक्षोजरठहुताशनेन्धनत्वं
निर्विघ्नं झटिति गमिष्यथः क्षणेन ।। ३४
पश्चात्तां जनपदमण्डलीं समन्ता-
द्भावत्कीमुरुजठरा क्षणाद्ग्रसेऽहम् ।
एवं ते भवतु सुराजतेति मन्ये
मूर्खाणामतिरस एव संक्षयाय ।। ३५
इत्युक्त्वा विपुलगभीरमेघनाद-
प्रोल्लासप्रकटगिरा निशाचरी सा ।
तूष्णीमप्यतिविकटाकृतिस्तदासी-
च्छुद्धान्तः शरदमलाभ्रमण्डलीव ।। ३६

इत्यार्षे श्रीवासिष्ठमहारामायणे उत्पत्तिप्रकरणे क० राक्षसीप्रश्रो नामैकोनाशीतितमः सर्गः ।। ७९ ।।