लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३०१

← अध्यायः ३०० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३०१
[[लेखकः :|]]
अध्यायः ३०२ →


श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! पुरुषोत्तमयोगिनी ।
पुरुषोत्तममासस्य कथा दिव्याऽघनाशिनी ॥ १ ॥
परब्रह्मसकाशात्तु वासुदेवो व्यजायत ।
वासुदेवात् समभवद् भूमाख्यः पुरुषोऽग्रणीः ॥ २ ॥
भूम्नोऽभवद् विराडस्य मुखादग्निरजायत ।
अग्नेरपत्यं लोकेषु हिरण्यं विश्रुतं त्रिषु ॥ ३ ॥
सृष्ट्यारंभे न वै कश्चिदग्नेः सत्कारमाचरत् ।
अत्युष्णत्वाद् दाहकत्वात् कृष्णवर्त्मकृतेस्तथा ॥ ४ ॥
आश्रयापयितुर्भस्मीकरणप्रकृतेस्तथा ।
अग्निमेतादृशं दृष्ट्वा ब्रह्माद्या अपि बान्धवाः ॥ ५ ॥
भयं प्राप्ता न सत्कारं सहवासं चरन्त्यपि ।
भोजने तूत्सवे पाने दूरं कुर्वन्ति चाऽनलम् ॥ ६ ॥
त्रैलोक्ये नाऽऽप स क्वापि विश्रान्तिं भोजनादिकम् ।
सर्वदिग्भ्यः सर्वदेहिभ्यस्तिरस्कारमाप्य सः ॥ ७ ॥
केभ्यश्चित्तु स्थलेभ्यः स प्राप्तवाँस्ताडनादिकम् ।
अतो ज्वालादिकं तूष्णगुणं जिह्वा निगूह्य च ॥ ८ ॥
अन्यैरलक्षितो वह्निर्लोकालोकाचलं ययौ ।
क्षुधितः शिखरं लोकालोकाचलस्य जग्धवान् ॥ ९ ॥
उदरे पच्यमानं तद् पुत्ररूपं व्यजायत ।
हिरण्यं तत्तु संजातं कांचनी भूमिका तु सा ॥ १० ॥
लोकाऽलोकाचलपार्श्वे प्रकाशिता व्यजायत ।
एवं स पर्वते प्रदक्षिणां कुर्वन् प्रयाति वै ॥ १ १॥
भवति क्षुधितो यत्र शृंगं तत्राऽत्ति पार्वतम् ।
पचमानं तु तत्पुत्ररूपेण जायते ततः ॥ १२॥
एवं पुत्राः सुवर्णानि समजायन्त सर्वतः ।
सर्वत्र काञ्चनी भूमिर्लोकालोकाचलं त्वनु ॥ १३॥
सञ्जाता वर्तुलाकारा पश्चात् शृंगं महत्तमम् ।
ब्रह्माण्डसदृशं भक्षयित्वा पृथ्व्यां समन्तरे ॥ १४॥
मध्यदेशे ययौ दिव्यानलस्तत्राऽश्रमत् क्षणम् ।
पच्यमानं महच्छ्रंगं पुत्ररूपं व्यजायत ॥ १५॥
सुवर्णे तन्महामेरौ व्याप्तं चाऽभूत् समन्ततः ।
मेरुस्तस्मात् सुवर्णस्य प्रख्यातिमगमत्ततः ॥ १६॥
जडं सुगन्धहीनं च खनिग्रावात्मकं गुरु ।
यत्र यत्र पतितं तत् तत्र तत्रैव संस्थितम् ॥ १७॥
वह्नेरिव सुवर्णस्यापि न मानं कृतं जनैः ।
कल्पवृक्षजवस्त्वाद्यैर्निर्वहन्ति हि देहिनः ॥ १८॥
किं सुवर्णं च कौ वह्निरित्येवं नाऽभवद्धि धीः ।
किं कायं वै सुवर्णस्य किं कार्यं चाऽनलस्य वै ॥ १९॥
अप्येवं नाऽभवत्प्रज्ञा कल्पवृक्षबलात्तदा ।
सुवर्णं चाऽनलश्चोभौ मूल्यहीनौ शुशूचतुः ॥२० ॥
अथात्र खलु नास्माकं ब्रह्माण्डेस्ति परीक्षकः ।
विना प्रयोजनं नैव मूल्यं कस्यापि जायते ॥२१ ॥
तृणं प्राप्तेऽपि समये कोटिस्वर्णसमं भवेत् ।
अग्निर्वै शैत्यकलहे बहुमूल्योऽभिजायते ॥२२॥
त्यक्तं मयूरपिच्छं तु गोलोके कृष्णसंधृतम् ।
स्वस्यैव मकुटे तेन पूज्यतां मूल्यतां गतम् ॥२३॥
ब्रह्मणा विधृतं गंगाजलं पुरा कमण्डलौ ।
विसृष्टं मूल्यवज्जातं महद्भूतं हि मूल्यवत् ॥२४॥
कंकरः खलु कृष्णेन धृतो वक्षसि मूल्यवान।
न धृतः कर्दमः कैश्चिन्मूल्यं नाप्तो मनागपि ॥२५॥
तस्मादहं महानग्निर्मम पुत्रः सुवर्णकम् ।
विना प्रयोजनं यद्वा महद्भिः संधृतिं विना ॥२६॥
मूल्यवन्तौ न वै स्याव दुःखं तद्वै महत्तमम् ।
गुणिनां गणनारंभे यद्यंगुलिर्न तिष्ठति ॥२७॥
वरं तस्यात्र मृत्युर्वै प्राणनं क्लेशदं वृथा ।
विद्या वा राज्यसत्ता वा सिद्धिरैश्वर्यमेव वा ॥२८॥
ख्यातिर्वा धनिता वापि भक्तिर्वा जीवने वरम् ।
तद्विहीनेन मर्तव्यं मरिष्यावस्ततोऽद्य वै ॥२९॥
इति विचार्य वह्निस्तत्पुत्रो ययतुरुच्चकैः ।
मेरोस्तु शिखरे तस्मात्पातेन मरणार्थिनौ ॥३ ०॥
तावत् तत्र सत्यलोके घोषयन् दुन्दुभिर्हरेः ।
ताभ्यां श्रुतोऽधिके मासे शोकं कुर्वन्तु मा जनाः ॥३ १॥
नारायणं तु संस्मृत्य नवम्यामद्य ये जनाः ।
करिष्यन्ति व्रतं पूजां तेषामिष्टं भविष्यति ॥३२॥
एकभुक्तेन नक्तेन तथैवाऽयाचितेन वा ।
फलेन पयसा त्वद्य द्विकालं त्वैककालिकम् ॥३३॥
व्रतं कृत्वाऽर्चनं कृत्वा कृष्णस्य शरणागताः ।
अपि चेत्ते मानहीना दरिद्रा निष्प्रयोजनाः ॥३४॥
गणनाहीनकाश्चापि यास्यन्ति चोत्तमं पदम् ।
अहं वै दुन्दुभिर्वच्मि पुरुषोत्तमदेशनाम् ॥३५॥
दुःखो वा क्लेशसन्दृब्धोऽतितिरस्कृत एव वा ।
अस्थानो वाऽल्पमूल्यो वा जडो वा तूग्र एव वा ॥३६॥
यः कश्चिच्छरणं प्राप्याऽधिकमासे व्रतं चरेत् ।
विधूय तस्य दुःखानि करिष्याम्यवनं सदा ॥ ३७॥
पुरुषोत्तममासस्य मानकृन्मान्य एव मे ।
पुरुषोत्तममासे वै पुण्यकृत्पूततां व्रजेत् ॥३८ ॥
ममाऽर्चनप्रकर्ताऽत्र सर्वाऽर्च्यतामवाप्नुयात् ।
यस्य वै रक्षिता कोऽपि भवत्येव न वै क्वचित् ॥३९॥
चेत् स रक्षत्यधिमासं तथा मां पुरुषोत्तमम् ।
रक्षयिष्ये तु तमहं वदामि पुरुषोत्तमः ॥४०॥
पूजयन्तु च मां भक्त्या भोजयन्तु सुपायसम् ।
प्रार्थयन्तु यथेष्टं च मत्तो गृह्णन्त्वभीष्टकम् ॥४१॥
अनुग्रहेण दातास्मि त्वकृतस्यापि चेष्टदः ।
अल्पस्य बहुदश्चापि गृह्णन्तु पुरुषोत्तमात् ॥४२॥
अद्य ये न करिष्यन्ति व्रतं वा वरणं च वा ।
तेषां हानिरलाभश्च नान्यः कश्चिदतोऽधिकः ॥४३॥
तस्मादायान्तु गृह्णन्तु वरान् कुवन्तु पूजनम् ।
आचरन्तु मलमासे नवम्यां व्रतमुत्तमम् ॥४४॥
प्रदाताऽस्मि समृद्धोऽस्मि समुदारोऽस्मि सर्वथा ।
दुन्दुभिः प्रवदाम्यत्र नारायणान्तरात्मकः ॥४५॥
नारायणस्वरूपोऽहं पुरुषोत्तमदेशनः ।
प्रसन्नं दासभक्तं वा करोमि पुरुषोत्तमम् ॥४६ ॥
पत्रं पुष्पं फलं तोयं यो मयि सन्नियोक्ष्यते ।
अहं तस्मिन्नियोक्ष्यामि श्रेष्ठं रत्नादिकं पुनः ॥४७॥
भोज्यं भक्ष्यं तथा लेह्यं चोष्यं यो मेऽर्पयिष्यति ।
तस्मै कोटिगुणितं तदर्पयिष्येऽप्यहं तथा ॥४८॥
यस्य द्रष्टाऽऽश्रयदाता पोष्टा मानयिताऽविता ।
कोऽपि नास्ति तु तस्याऽहं सर्वकर्ताऽविताऽस्मि वै ॥४९॥
आगच्छन्तु महाभागाः सत्कृता वाऽप्यसत्कृताः ।
बाला वा बालिका वापि युवत्यः सधवाऽधवाः ॥५०॥
युवानो भाग्यवन्तो वा भाग्यहीना दरिद्रकाः ।
वृद्धा पलितवल्यंगाः सुचित्ता वाऽप्यचित्तकाः ॥५१ ॥
तृतीयप्रकृतिव्याप्ता नामसंज्ञाविहीनकाः ।
स्थावरा जंगमाः केऽपि जडा वा जडसन्निभाः ॥५ २ ॥
तिर्यञ्चोऽपि विवरस्था गर्तस्थाः खनिखातजाः ।
मुखजाः पृष्ठजाश्चापि मलजा अमलोद्भवाः ॥५ ३ ॥
मलमासं समाश्रित्य तोषयित्वा पुमुत्तमम् ।
पारमेष्ठ्यपदं यान्तु यान्तु वाऽक्षरधाम तत् ॥५४॥
स्वर्गे सुखं परं यान्तु यान्तु श्रीपुरुषोत्तमम् ।
सुतं यान्तु पतिं यान्तु पत्नीं यान्तु च पद्मिनीम् ॥५५॥
गृहं कीर्तिं धनं यान्तु यान्तु शाश्वतपूजनम् ।
सर्वाधिक्योत्तमस्थानं गृह्णन्त्वनुग्रहान्मम ॥५६॥
इत्युदारां घोषणां संश्रुत्वाऽग्निश्च सुवर्णकम् ।
लेभाते स्म महाधैर्यं शोकं तत्यजतुस्ततः ॥५७॥
मेरोः शृंगे सत्यलोके दुन्दुभिं शरणं गतौ ।
नत्वा च दुन्दुभिं तस्य पूजां चक्रतुरादरात् ॥५८॥
वह्निना तु सुतं स्वर्णं दुन्दुभेस्तस्य पादयोः ।
अकारयन्नतिं तावद् दृष्ट्वा रूपोत्तरं सुतम् ॥५९॥
दुन्दुभिना समुत्तोल्य गृहीत्वा करयोनिजे ।
मस्तके च तथा स्कन्धे क्षणं सुवर्णको धृतः ॥६० ॥
अर्पितो वह्नये पश्चाद् वह्निः प्राह सगद्गदः ।
नावयोः रक्षिता कोऽपि सत्कर्ताऽपि न विद्यते ॥६ १॥
महद्दुःखमनुभूय मृत्य्वर्थं त्वागतावुभौ ।
दुन्दुभे यदि ते वाक्याद् व्रतं कुर्वोऽद्य नक्तकम् ॥६२॥
पूजनं च हरेः कुर्वो रक्षिता चेद्भवेद्धरिः ।
एवं संवदतोर्नेत्रादश्रवो न्यपतन् भुवि ॥६३॥
रजतं तत्समुत्पन्नं स्थले स्थल्यां समुज्ज्वलम् ।
वीक्ष्यैवं भग्नहृदयं दयमानं महानलम् ॥६४॥
सपुत्रं दुन्दुभिस्तं चाऽऽश्वासयामास सद्गिरा ।
नवम्यां अधिमासस्य व्रतं कुरुत नक्तकम् ॥६५ ॥
पूजां कुरुत वै कृष्णनारायणस्य चाद्य ह ।
सौवर्णीं प्रतिमां कारयित्वा नारायणस्य च ॥६६॥
पञ्चामृतेन संस्नाप्य समर्च्याऽक्षतचन्दनैः ।
विभूष्य स्वर्णभूषाभिर्हारैर्मालाभिरित्यपि ॥ ६७॥
सद्रत्नैरम्बरैर्द्रव्यैर्विभिन्नैर्भोजनैः फलैः ।
जलैस्ताम्बूलपानैश्च धूपदीपप्रदक्षिणैः ॥६८ ॥
तोषयित्वाऽर्थयेद् देवं कृष्णं श्रीपुरुषोत्तमम् ।
असत्कृतमनाधारमनादृतमनाश्रयम् ॥ ६९ ॥
क्षुधितं तृषितं द्वेष्यं दाहकं मां समुद्धर ।
जडं निर्गन्धमतिं वै गुरुं प्रस्तररूक्षकम् ॥७ ० ॥
निर्गुणं चेतनाहीनं वाऽकिञ्चित्करमित्यपि ।
समुद्धर कृपासिन्धो गणनां प्रापय प्रभो ॥७ १ ॥
एवं स्तुतिं प्रकुर्याच्च श्रीफलार्घ्यं समर्पयेत् ।
पुष्पांजलिं प्रदद्याच्च नत्वा नाथं विसर्जयेत् ॥७२ ॥
मध्याह्नेऽपि तथा कुर्यात् कुर्यान्निशीथके तथा ।
सवाद्यनर्तनगीतैर्नीराजयेद्विसर्जयेत् ॥७ ३ ॥
एवं कुरु कृशानो त्वं हाटक त्वं तथा कुरु ।
नारायणः प्रसन्नः सन् युवामुद्धारयिष्यति ॥७४॥
इत्याश्रुत्य महादुन्दुभ्युक्तं नारायणोदितम् ।
वह्निश्चकार सौवर्णीं मूर्तिं नारायणस्य वै ॥७५॥
लक्ष्म्या मूर्तिं चकाराऽथ पूजयामासतुश्च तौ ।
पिता पुत्रश्च विधिवद् व्रतं नक्त प्रचक्रतुः ॥७६॥
रात्रौ प्रार्थयतो यावत् कृष्णनारायणं हरिम् ।
लक्ष्मीसमन्वितं तावत् प्रादुर्बभूव चाग्रतः ॥७७ ॥
तेजःपरिधि संव्याप्ताननं लक्ष्मीप्रसेवितम् ।
मन्दं मन्दं हसन्तं तं विलोक्य पुरुषोत्तमम् ॥७८ ॥
वह्निस्वर्णौ प्रार्थयतः कृपानाथ समुद्धर ।
ऊष्णस्वभावयुक्तस्य दाहकस्य मम स्थलम् ॥७९॥
नास्ति कुत्रापि तन्नाथ देहि मे भोजनं तथा ।
मूल्यं मूर्खस्य पुत्रस्य सुवर्णस्य तु नास्ति वै ॥८ ० ॥
प्रस्तरस्य न सत्कारो दृश्यते तद्यशः कुरु ।
सर्वदा तव सेवां च प्रदेहि भगवन् विभो ॥८ १ ॥
शरणे तेऽस्मि पतितो मामुद्धर सपुत्रकम् ।
इत्यर्थितो हरिकृष्णो वह्निं प्राह नरायणः ॥८२ ॥
शोकं त्यज कृशानो त्वं तुष्टोऽस्मि त्वद्व्रतेन वै ।
ममाऽऽननात् समुत्पन्नः सदा त्वस्तु ममाननम् ॥८ ३ ॥
वरं ददाम्यहं पुत्र यज्ञादौ भोजनं त्वयि ।
स्थापयिष्यन्ति ये होष्यन्त्यनले कुण्डमध्यगे ॥८४॥
अग्निहोत्रस्य हवनं त्वयि न्यस्यन्ति ये जनाः ।
त्वद्द्वारा तन्मया सर्वं जक्षितव्यं न चाऽन्यथा ॥८५॥
वह्नि विना जना ये मे दास्यन्ति भोजनादिकम् ।
तदहं न ग्रहीष्यामि सर्वथाऽनुग्रहात् त्वयि ॥८६॥
अद्यदिनादहं लोकेऽग्निमुखो भगवानिति ।
ख्यातिं यास्ये जनास्तेन मदर्थे भोजनादिकम् ॥८७॥
त्वयि क्षेप्स्यन्ति तत्सर्वं भक्षयिष्यामि त्वन्मुखात् ।
शमीष्वदृश्यरूपेण तव वासो विशेषतः ॥८८॥
हीरकादिषु तद्वच्च सर्वत्राऽस्तु तवाऽऽश्रयः ।
यथा वस्तुप्रदहनं न स्याद्वासस्तथा तव ॥८९॥
सर्वत्राऽस्तु कृशानो त्वं सुखी भव जनादिषु ।
सम्मानं सर्वथा तेऽस्तु सत्कारः सर्वथा तव ॥९० ॥
कल्पवृक्षलये काले चूल्यादौ पाचनाय वै ।
प्रज्वालनं तवैवाऽस्तु सर्वथैव गृहे गृहे ॥९ १॥
चिन्तामण्यादि नाशे तु प्रदीपस्य गृहे गृहे ।
सम्मानं सर्वथा ते स्याद् धैर्यमावह तावता ॥९२॥
द्वितीयेन च दिव्येन रूपेण पार्षदेन मे ।
धाम्नि सेवां वह नित्यं वह्ने मुक्तोऽसि मेऽनघ ॥९३॥
प्रथमे युगपर्याये व्यतीते त्वनलं विना ।
कार्यं किमपि सर्वेषां भविष्यति न वै तदा ॥९४॥
तव मूल्यं च सम्मानं सत्कारादरपूजनम् ।
पराकाष्ठागतं सर्वे भविष्यति न संशयः ॥९५॥
सुवर्णोऽयं च ते पुत्रो ममाऽतिवल्लभः खलु ।
अद्यारभ्य मया स्वस्य मस्तके धार्य एव च ॥९६॥
मुकुटोऽयं तु मे ह्यस्तु भवतां कुण्डले मम ।
मम भूषास्वरूपोऽस्तु शृंखलाकटकोर्मिकाः ॥९७॥
रशनाहारपात्राणि स्वर्णोऽस्तु सर्ववस्तुकः ।
मया धृतस्तव पुत्रो मस्तके मुकुटात्मकः ॥९८॥
सोऽथ सर्वत्र सत्कारं यास्यति कालनिर्गमे ।
समूल्यश्च सुगूह्यश्च संरक्ष्यश्च भविष्यति ॥९९॥
कल्पवृक्षादिविलये कल्पद्रुः स भविष्यति ।
किञ्च दिव्यं स्वरूपं वै सुवर्णाय ददामि ह ॥ १०० ॥
मूलरूपेण मे धाम्नि सेविष्यते स मां सदा ।
हाटकाख्यः पार्षदो मेऽक्षरे धाम्नि निवत्स्यति ॥ १०१ ॥
अथ कालान्तरे कार्यावश्यकत्वेऽनलात्मकः ।
महातेजोमयः सोऽयं हाटकेश्वरसंज्ञकः ॥ १० २॥
पाताले च पृथिव्यां च महादेवो भविष्यति ।
ममाऽवतारः सर्वत्र पूजां प्राप्स्यति मद्बलात् ॥ १० ३॥
भक्तानां मुक्तिदाता च भविष्यति महेश्वरः ।
सर्वब्रह्माण्डसृष्टौ च ख्यातिं त्वमिव यास्यति ॥ १ ०४॥
यथाहं भगवान् व्याप्तस्तथा वह्निः सुवर्णकम् ।
व्याप्तिं यास्यति सृष्टौ मे सत्कारं च प्रयास्यति ॥ १ ०५॥
रक्षणं चापि संस्थानं सर्वं भविष्यति ध्रुवम् ।
इत्युक्त्वा च तयोर्दिव्ये रूपे कृत्वा हरिः स्वयम् ॥ १ ०६॥
निनाय स्वालयं चान्ये रूपे वस्तुषु वासिते ।
एतद्रूपं च वृत्तान्तं परिज्ञाय सुरादयः ॥ १ ०७॥
वह्निद्वारा भक्षयन्ति तृप्यन्ति तत्र भोजनात् ।
सुवर्णस्य विभूषाश्च धारयन्ति स्थले स्थले ॥ १०८ ॥
एवं वह्निस्तथा स्वर्णो नवमीपूजनं व्रतम् ।
कृत्वा मुक्तौ प्रशस्तौ संमूल्यकौ च बभूवतुः ॥ १० ९॥
पावित्र्यं सर्वदा प्राप्तौ यत्र क्वापि गतौ हि तौ ।
वृद्धिं च सर्वदा प्राप्तौ तथा सुखं तु शाश्वतम् ॥ ११० ॥
नवम्यास्तु व्रताख्यानं पठिष्यन्ति तु ये जनाः ।
श्रोष्यन्ति वा नरा नार्यो यास्यन्ति भुक्तिमोक्षणे ॥ १११ ॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये विराटपुत्रस्य वह्नेस्तत्पुत्रसुवर्णस्य च दाहकत्वजडत्वादिदोषान्वितस्य कल्पवृक्षाश्रितजनताभिरनादरे कृते मेरौ मरणोन्मुखस्य दुन्दुभिश्रवणेऽधिमास- नवमीव्रतपूजनकरणेन यज्ञादौ सर्वमान्यताभगवन्मुखता भगवदाभूषणरूपता धामप्राप्तिर्दिव्यपार्षदता चेत्यादिनिरूपणनामैकाधिकत्रिशततमोऽध्यायः ॥१.३०१ ॥