लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५०२

← अध्यायः ५०१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५०२
[[लेखकः :|]]
अध्यायः ५०३ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! पुरा चासीद् हारीतनामको मुनिः ।
वानप्रस्थाश्रमी तस्य भार्या पूर्णकलाभिधा ।। १ ।।
साध्वी पतिव्रता रूपौदार्ययौवनशोभिता ।
लक्ष्मीसमां तां दृष्ट्वा वै कामदेवो मुमोह च ।। २ ।।
स्नान्तीं विवस्त्रां संपश्यन् त्यक्त्वा प्रीतिं रतिं स्त्रियौ ।
विजनं तत्स्थलं मत्वा प्रसुप्तः स तटे क्षणम् ।। ३ ।।
कौतुकं प्रचकाराऽसौ निःश्वासान् निःश्वसन् मुहुः ।
तिष्ठन् सन्दर्शने तस्या रुग्णो दीनो यथा जनः ।। ४ ।।
सापि तथाविधं कंचिदनाथं भिक्षुकं शुभम् ।
मत्वा पार्श्वं ययौ किंचिद् फलं दातुं प्रभोजनम् ।। ५ ।।
तावत् कामो यौवनस्थो वह्निवच्च प्रभासुरः ।
कामप्रभृतनयनः सर्वांगसुन्दरो दृढः ।। ६ ।।
अभवत् क्षणमात्रेण सानुरागश्च भावुकः ।
पूर्णकला तु तं दृष्ट्वा सानुरागं तु निर्जने ।। ७ ।।
जम्भाभगकृतायासवेपमानशरीरकम् ।
द्रुतं तद्बाणनिर्भिन्ना साभिलाषा बभूव ह ।। ८ ।।
पार्श्वे सा निषसादाऽस्य स्पृष्ट्वा विहस्य वै मुहुः ।
हन्यमाना विशेषेण कामबाणैः पतिव्रता ।। ९ ।।
भूमिं लिलेख चांगुल्या पश्यन्ती तन्मुखाम्बुजम् ।
सायं समयः सञ्जातो हारीतस्तामनागताम् ।। 1.502.१० ।।
ज्ञात्वाऽन्वेष्टुं चिरं तत्राऽऽययौ यत्र तु सा सती ।
तिष्ठत्येव न संभोगं लब्धवती च तावता ।। ११ ।।
हारीतस्तां सतीं पतिव्रतां दृष्ट्वा तु मोहिताम् ।
तां विमोहां कारयन्तं जल्पन्तं च रजोमयम् ।। १ २।।
कामस्य हृद्गतं भावं ज्ञात्वा कोपात् समब्रवीत् ।
यस्मात् पाप त्वया पत्नी ममैवं शरपीडिता ।। १३ ।।
अनभिज्ञा तथा साध्वी स्वामिधर्मपरायणा ।
प्रतार्यते सुरूपः सन् भोक्तुमिच्छति मे प्रियाम् ।। १४।।
कुष्ठव्याधिसमायुक्तस्तस्माद् विप्रियदर्शनः ।
स्वकैर्दारैस्तथा मुक्तो भविष्यसि न संशयः ।। १५ ।।
इत्युक्तः सः प्रणिपत्योवाच हारीतमुत्तरम् ।
मया भार्या तव दृष्टा मोहमात्रेण वै मुने ।। १६ ।।
न च भुक्ता तथा नैव कुचेष्टापि कृताऽधुना ।
तस्मान्नाहं शापपात्रं क्षमां कुरु कृपानिधे ।। १७।।
पापं त्रेधा मानसं वाचिकं कर्मजमित्यपि ।
मनस्तापाद् व्रजेत्पापं मानसं तद्गतं मम ।। १८।।
वाचिकं तु जपेनैव यद्वा स्तवनमात्रतः ।
तस्य प्रसादनेनैव नश्यति यत्र तत्कृतम् ।। १९ ।।
प्रायश्चित्तैर्यथोक्तैश्च कर्मजं पातकं व्रजेत् ।
कर्मजं न कृतं कृतं मानसं वाचिकं च यत् ।।1.502.२०।।
भवत्प्रसादतो नश्येत् प्रसन्नो भव सर्वथा ।
हारीतः प्राह तं कामं देहप्राबल्ययोगतः ।।२ १ ।।
प्रथमं मनसा सर्वं चिन्त्यते तदनन्तरम् ।
ततः प्रजल्पते वाचा क्रियते कर्मणा पुनः ।।२२।।
प्रथमं हि मनस्तस्मात् सर्वकृत्येषु दोषवत् ।
तस्मात्ते निग्रहश्चात्र मानसोऽपि कृतो मया ।।२३।।
रवेराराधनेनैव कुष्ठस्ते विगमिष्यति ।
इयं भार्या मम पत्नी भूत्वा खण्डशिला क्षणम् ।।२४।।
सूर्याराधनपुण्येन सती पत्नी भविष्यति ।
इत्युक्त्वा च ययौ स्वस्याऽऽश्रमं हारीतको मुनिः ।।२५।।
पूर्णकला शिला जाता कामः कुष्ठी ततोऽभवत् ।
नागनद्यास्तटे सूर्यं ध्यात्वाऽऽराधनमाचरत् ।।२६ ।।
मासान्ते रविरागत्य कामकुष्ठं ह्यनाशयत् ।
शिलां स्पृष्ट्वा सतीं पत्नीं कृत्वा पूर्वं यथास्थिताम् ।।२७।।
ददौ नारायणमन्त्रं ययौ सूर्यो दिवं प्रति ।
कामः कामस्य भवनं सती हारीतकगृहम् ।।२८।।
ययौ पतिं नमस्कृत्य वस्तुतः पावनी तदा ।
सिषेवे भावतः साध्वी भेजे नारायणं हरिम् ।।२९।।
 'ओं नमः श्रीकृष्णनारायणाय पतये नमः ।
जजाप नित्यदा मन्त्रं बभूव दिव्यवैष्णवी ।।1.502.३ ०।।
अथ तस्याः सन्निधौ वै दीर्घिकानामकन्यका ।
समागच्छति नित्यं वै सेवनार्थं गृहान्तरात् ।।३ १ ।।
पर्णशाला च सान्निध्ये वर्तते इतिभावतः ।
नित्यं पूर्णकलापार्श्वे तिष्ठति चत्वरे द्रुमे ।।३२।।
वेदिकायां च शालायां जपति श्रीहरेर्मनुम् ।
'ओं नमः श्रीकृष्णनारायणाय पतये नमः' ।।३ ३।।
एवं जापप्रभावेण दिव्यदेहा हि कन्यका ।
वभूव व्योमचारा च निरावरणसिद्धिका ।।३४।।
वीरशान्तस्य च ऋषेः पुत्री सा दीर्घिका ह्यभूत् ।
अतिदीर्घा प्रमाणेन जनहास्यविवर्धिनी ।।३५ ।।
न कश्चिद् वरयामास दृष्ट्वाऽतिदीर्घिकां तु ताम् ।
अतिसंक्षिप्तकेशीं च ह्यतिदीर्घां च वामनाम् ।।३६ ।।
उद्वाहयति यः सः षण्मासान्तरे मृतिं व्रजेत् ।
इतिकारणमालम्ब्य न गृह्णाति जनश्च ताम् ।।३७।।
ततो वैराग्यमापन्ना तपस्तेपे सुदारुणम् ।
चान्द्रायणानि कृच्छ्राणि तथा चीर्णान्यनेकशः ।।३८।।
पाराकाणि यथोक्तानि तथा सान्तपनानि च ।
एवं तस्या व्रतस्थायास्तेजो वृद्धिं गतं बहु ।।३ ९।।
आकाशगामिनी शक्तिरुद्भूता तपसो बलात् ।
ततो महेन्द्रसदसि याति समुत्सवादिषु ।।1.502.४०।।
यदा देवसभातः सा प्रयाति स्वगृहं तदा ।
तदासनाऽभ्युक्षणं च कुर्वन्तीन्द्रस्य किंकराः ।।४१ ।।
तथा दृष्ट्वाऽभ्युक्षणं च पप्रच्छ सा पुरन्दरम् ।
कं दोष वीक्ष्य मे शक्र प्रोक्ष्यते त्वासनं मम ।।४२।।
इन्द्रः प्राह सुते! तेऽस्ति शारीरो दोष एव ह ।
त्वं कुमार्यपि संप्राप्ता ऋतुकालं विगर्हितम् ।।४३ ।।
अविवाहश्च तेऽद्यापि त्वशुद्धिं सा त्वयि स्थिता ।
ऋतुकाले पतियोगः शुद्धिकरो हि योषिताम् ।।४४।।
तत् त्वं वरय भर्तारं येन यास्यसि मेध्यताम् ।
तच्छ्रुत्वा पृथिवीं गत्वा चत्वरेषु त्रिकेषु च ।।४५।।
उद्धृत्य दक्षिणं पाणिं वक्ति वरार्थमेव यत् ।
यदि कश्चिद् द्विजो जात्यः पाणिग्रहं करोतु मे ।।४६।।
मम तपसश्चार्धं तु तस्मै ददामि साम्प्रतम् ।
जल्पन्ती तां जना हास्यं चक्रुर्नर्म परस्परम् ।।४७।।
एकः कश्चित् कुष्ठरोगी ब्राह्मणः प्राह दीर्घिकाम् ।
अहं त्वामुद्वहिष्यामि कृत्वा पाणिग्रहं तव ।।४८।।
ततस्तस्याः कुमार्याः स पाणिं जग्राह साऽप्यथ ।
पतिं प्राह वद मे कां सेवां करोमि ते पते ।।४९।।
पतिः प्राहाऽष्टषष्टितीर्थेषु गन्तुं मयेष्यते ।
सहायेन त्वदीयेन यदि शक्नोषि तत्कुरु ।।1.502.५ ०।।
अहो भाग्यमिति मत्वा ततस्तूर्णं पतिव्रता ।
कारयामास सुलभं वंशकुटीरकं शुभम् ।।५ १ ।।
मृदुतूलासनयुक्तं ततः प्राह निजं पतिम् ।
मम देवाऽऽरोह मंजुषासनेंऽसगमूर्धनि ।।५२।।
नयामि सर्वतीर्थेषु क्षेत्रेषु च शुभेषु च ।
ततः कुष्ठी प्रहृष्टश्च निषसाद कुटीरके ।।५३।।
सा तत् स्वमस्तके कृत्वा सर्वतीर्थे यथासुखम् ।
सर्वक्षेत्रेषु बभ्राम स्नापयन्ती निजं पतिम् ।।५४।।
तीर्थे स्नानात् सतीयोगात् पत्युः कुष्ठो निवर्तते ।
नित्यं कुष्ठस्य संह्रासो दृश्यते तेजसाऽधिकः ।।५५।।
एवं सा हाटकेशस्य क्षेत्रं प्राप्ता निशामुखे ।
नागवत्यास्तटे वृक्षच्छायामाश्रित्य पेटिकाम् ।।५६।।
स्थापयित्वा विशश्राम पतिस्तस्या नदीतटम् ।
प्रातरुत्थाय च शनैः स्नातुं माण्डुक्यसंज्ञकः ।।५७।।
यष्ट्या याति सृतौ पत्रसमुदायं विलंघ्य च ।
तावत् पत्रेषु ऋषिराट् माण्डव्यो निद्रितोऽभवत् ।।५८।।
माण्डुक्येन पदा यष्ट्या स्पृष्टः पत्रान्तरस्थितः ।
अजानता गतेर्मार्गे माण्डव्यो जागृतोऽभवत् ।।५ ९ ।।
प्राह कोऽयं महामूढः पदा यष्ट्या च मामिह ।
ताडयति मम निद्राभंगं करोति पापवान् ।।1.502.६०।।
सूर्योदयात् प्रागेव ते मृतिर्भवतु वै ध्रुवा ।
माण्डुक्यस्तं तथा श्रुत्वा ननाम वै मुहुर्मुहुः ।।६१।।
तथापि तोषमेवाऽयं नापन्नो माण्डवीसुतः ।
माण्डुक्यस्त्वरितः स्नात्वा चागत्य वृक्षसन्निधौ ।।६२।।
पत्नीं प्राह यथावृत्तं कुरु सेवां तथान्तिमाम् ।
माण्डव्यशापतश्चाहं मरिष्ये प्राक् रवेर्दृशेः ।।६३।।
दीर्घिका च तदा प्राह पातिव्रत्यं तु मे यदि ।
तीर्थयात्रा च विधिना पतिसेवा च भावतः ।।६४।।
सर्वं सत्यव्रतं चेन्मे सूर्योदयोऽत्र मा भवेत् ।
इत्युक्तो भास्कराऽश्वानां स्तंभनं व्योममण्डले ।।६५।।
बभूव सहसा तेन नाभ्युदेति प्रभाकरः ।
रात्रिकालो महाञ्जातः सर्वे सूर्योदयं विना ।।६६।।
बभूवुश्चातिदुःखस्था रुद्धा यज्ञादिकाः क्रियाः ।
श्राद्धाऽध्ययनदानानि धर्मकृत्यानि यानि च ।।६७।।
सूर्याधाराणि सर्वाणि रुद्धानि च विशेषतः ।
देवाः स्वर्गपराः सर्वे यज्ञभागविवर्जिताः ।।६८।।
जाताश्च दुःखिताः सर्वे ययुर्यत्र दिवाकरः ।
प्राहुर्देव कथं नैव करोष्युदयनं प्रभो ।।६९।।
एतत् त्वया विना सर्वं जगद् व्याकुलतां गतम् ।
सूर्यः प्राह भयात् पतिव्रताया नोदयो मम ।।1.502.७०।।
तस्माद् गत्वा सुराः सर्वे तां वदन्तु कृते मम ।
येन तद्वाक्यमासाद्य गमिष्याम्युदयं सुखम् ।।७१ ।।
अन्यथा मां शपेत् क्रुद्धा नूनं सा हि पतिव्रता ।
पातिव्रत्येन तपसा वर्तते सा सुरेश्वरी ।।७२।।
कस्तस्या वचनं शक्तः कर्तुं चैवमतोऽन्यथा ।
एतस्मात्कारणाद् भीतो नोद्गच्छामि कथंचन ।।७३।।
पतिव्रतात्वमापन्ना नारी विदन्ति तत्फलम् ।
अश्वमेधसहस्रेण यत्फलं जायते हि तत् ।।७४।।
इत्युत्तमतपोयोगाद्बिभेमि सत्ययोषितः ।
ततो देवा द्रुतं यान्तु यत्राऽस्ति सा पतिव्रता ।।७५।।।
अथ देवाः समायाता दीर्घिकां जगदुश्च ते ।
त्वया पतिव्रते! सूर्यो यन्निषिद्धो दिवाकरः ।।७६।।
शुभं तन्न कृतं भद्रे क्रिया नष्टा रविश्रिताः ।
तस्मादुद्गच्छतु प्राज्ञे! तव वाक्याद् दिवाकरः ।।७७।।
यज्ञक्रिया जपो होमः प्रवर्तन्ते यतः शुभे ।
दीर्घिका च तदा प्राह माण्डव्येन च रोषतः ।।७८।।
मे पतिः शप्त एवाऽस्ति रव्युदये मृतो भवेत् ।
ततो मया निरुद्धोऽस्ति सूर्यो ह्युदयनं प्रति ।।७९।।
विना कान्तं न मे सूर्योदयेनाऽस्ति प्रयोजनम् ।
श्राद्धदानादिकैः कृत्यैरन्यैर्वा न प्रयोजनम् ।।1.502.८०।।
अथ ते विबुधाः प्राहुर्विचार्य विनयान्विताः ।
उद्गच्छतु रविर्भद्रे तवाऽयं दयितः पतिः ।।८१ ।।
कायाकल्पं समासाद्य पुनर्जीवतु तत्क्षणम् ।
पञ्चविंशतिवर्षीयं कामदेवमिवाऽपरम् ।।८२।।
त्वं च द्रक्ष्यसि संभूत्वा कन्या पञ्चदशाब्दिकी ।
एवं श्रेष्ठं सुखं लोके स्वेच्छया साधयिष्यसि ।।८३ ।।
सूर्योदये तव पत्युः शरीरं निधनं गतम् ।
पुनः सञ्जीवयिष्यामो देहि सूर्योदयं हि नः ।।८४।।
इत्युक्ता बाढमित्यंगीकृत्योवाच सती पुनः ।
यथा देवाः प्रवदन्ति दम्पत्योर्वै नवं वयः ।।८५।।
करिष्यन्त्यावयोस्तेन सत्येनोदय भास्कर ।
इत्युक्तमात्रे प्राक् काष्ठा प्रभाता चाभवद् द्रुतम् ।।८६।।
अरुणस्य प्रवेशश्चाऽदृश्यताऽरुणपर्वते ।
तावत् सूर्योदयो जातः संमृतो दीर्घिकापतिः ।।८७।।
विबुधानां करैः स्पृष्टः पुनरेव समुत्थितः ।
पञ्चविंशतिवर्षीयः कामरूपोऽतिसुन्दरः ।।८८।।
दीर्घिकाऽप्यभवत्पञ्चदशवर्षाऽतिसुन्दरी ।
दिव्या देवीसमा देवस्पर्शेन कमलासमा ।।८९।।
देवास्तां सादरं प्रोचुः सकान्तां वै पतिव्रताम् ।
वरं वृणु सति साध्वि नाऽदेयं विद्यते तव ।।1.502.९०।।
सा चोवाच नदीतीर्थं दीर्घिकेति जगत्त्रये ।
अद्यप्रभृति लोके वै ख्यातं मे नामतो भवेत् ।।९१ ।।
अन्ते धाम हरेर्मोक्षस्थल लभेयमाच्युतम् ।
सह भर्त्रेति तां प्राहुस्तथाऽस्त्विति सुरा ययुः ।।५२।।
ततः सा बहुकालं वै सुखं प्राप्य पतिव्रता ।
उत्तरे वयसि प्राप्ते कान्तं वीक्ष्य मृतं सती ।।९३।।
सह तेन जगामेयं ब्रह्मलोकं पतिव्रता ।
एवं ते लक्ष्मि! चाख्यातं दीर्घिकाव्रतमुत्तमम् ।।९४।।
पठनाच्छ्रवणात्तथावर्तनात् सेवनादपि ।
भुक्तिं मुक्तिं लभेन्नारी नरोऽपि नात्र संशयः ।।९५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने हारीतपत्न्यां पूर्णकलायां मोहितकामदेवस्य कुष्ठित्वं पूर्णकलायाः शिलात्वं पुनरुद्धारः, दीर्घिकायाः पतिसेवापुण्येन सूर्यस्तम्भनं पतिसहितायास्तस्या नवयौवनं मोक्षश्चेत्यादिनिरूपणनामा द्व्यधिकपञ्चशततमोऽध्यायः ।। ५०२ ।।