लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५२२

← अध्यायः ५२१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५२२
[[लेखकः :|]]
अध्यायः ५२३ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततश्चापि लोमशः स महामुनिः ।
इन्द्रद्युम्ने ददौ ज्ञानं लीनं मायिकवायुना ।। १ ।।
लोमशः प्राह राजस्त्वं शृणु वृत्तं पुराभवम् ।
एकदा नारदः सत्याल्लोकाच्छ्रीबदरीवनम् ।। २ ।।
नारायणं नरं द्रष्टुं तीर्थयात्राप्रसंगतः ।
विशालायां तदा त्वासीत् स्वायंभुवमनोः सुतः ।।३ ।।
तपस्यां संप्रकुर्वन् श्रीकृष्णनारायणं जपन् ।
प्रियव्रताभिधानस्तं दृष्ट्वा श्रीनारदो मुनिः ।। ४ ।।
ययौ तस्य तु निकटे राजा ननाम चादरात् ।
राजा चेष्ट्वा बहुयज्ञैर्विपुलैर्भूरिदक्षिणैः ।। ५ ।।
निवृत्तिं धर्ममाश्रित्य साधुं ननाम नारदम् ।
अभ्युत्थानेन च मुदा ज्वलद्भास्करतेजसम् ।। ६ ।।
ददौ पाद्यं चासनं सुनैवेद्यं बदरीफलम् ।
ततः पप्रच्छ कुशलं पप्रच्छ लोकवर्तनम् ।। ७ ।।
भगवन् किञ्चिदाश्चर्यमेतस्मिन् कृतसंज्ञिते ।
युगे दृष्टं श्रुतं वापि तन्मे कथय नारद ।। ८ ।।
नारदः प्राह दृष्टं यच्छृणुष्वाश्चर्यमद्भुतम् ।
ह्यस्तनेऽहनि राजेन्द्र! श्वेतद्वीपं गतोऽभवम् ।। ९ ।।
तत्र दुग्धसरो दृष्ट्वा फुल्लपंकजशोभितम् ।
तथा तस्य तटे रम्यां कुमारीं पृथुलोचनाम् ।। 1.522.१ ०।।
दृष्ट्वाऽहं विस्मयाऽऽपन्नस्तां कन्यामायतेक्षणाम् ।
पृष्टवानस्मि राजेन्द्र तदा मधुरभाषिणीम् ।। ११ ।।
काऽसि भद्रे कथं वाऽसि किं वा कार्यमिह त्वया ।
कर्तव्यं चारुसर्वाँगि तन्ममाऽऽचक्ष्व सुन्दरि ।। १ २।।
एवमुक्ता मया सा च मां दृष्ट्वाऽनिमिषेक्षणा ।
क्षणं तूष्णीं स्थिता यावत् तावन्मे ज्ञानमुत्तमम् ।। १ ३।।
विस्मृतं सर्ववेदाश्च शास्त्राणि संहितास्तथा ।
योगाः शिक्षास्तथा सर्वा धर्मन्यायाः कलादयः ।। १४।।
सर्वे दृष्ट्वैव मे राजन् कुमार्याऽपहृतं क्षणात् ।
ततोऽहं विस्मयाविष्टश्चिन्ताशोकाकुलः स्वयम् ।। १५।।।
तामेव शरणं गत्वा हृदा पश्यामि तां पुनः ।
तावद् दिव्यः पुमाँस्तस्याः शरीरे समदृश्यत ।। १६।।
तस्यापि पुंसो हृदये त्वपरस्तस्य चोरसि ।
अन्यो रक्तेक्षणः श्रीमान् द्वादशादित्यसन्निभः ।। १७।।
एवं दृष्ट्वा पुमांसोऽत्र त्रयः कन्याशरीरगाः ।
क्षणेन लीनाः कन्यैका प्रपश्यामि न तान्पुनः ।। १८।।
ततः पृष्टा मया देवी सा कुमारी कथं मम ।
वेदा नष्टा ममाऽऽचक्ष्व भद्रे तन्नाशकारणम् ।। १ ९।।
कन्या प्राह च माताऽहं वेदानां तव नारद ।
सावित्री ब्रह्मणः पत्नी जननी तव नारद ।।1.522.२०।।
त्वया नाऽहं समागत्य सत्कृता वा नमस्कृता ।
मां न जानासि येन त्वं ततो वेदा हतास्तव ।। २१ ।।
सावित्रीं चापि गायत्रीं यो न जानाति वै द्विजः ।
तस्य ज्ञानं तु वेदानां जायते न कदाचन ।।२२।।
मातृनाशे भवेन्नाशः पुत्राणां मातृसेविनाम् ।
मातृभक्ताश्च ते पुत्रा विना क्वापि च मातरम् ।।२३।।
नहि तिष्ठन्ति पात्रेषु वेदा नष्टास्ततस्तव ।
मातृपूजा न कुर्वन्ति मन्वते न च मातरम् ।।२४।।
नमन्ति मातरं नैव ते स्युर्मूर्खा जडात्मकाः ।
मातरं नहि जानन्ति सेवन्ते न च मातरम् ।।२५।।
आशीर्वादविहीनास्ते जडा भवन्ति तामसाः ।
मातृदुःखं कृतं येन माता नैव च पोषिता ।।२६।।
गर्भभारहता तेन कृता माताऽवमानिता ।
ते विचित्तास्तथोन्मत्ता दरिद्रा दुःखिनस्तथा ।।२७।।
उद्वेजिनः सविघ्नाश्च रुग्णा भवन्ति पुत्रकाः ।
तस्मान्माता पितुर्दशगुणा मान्या सुतेन वै ।।२८।।
कार्यार्थं गमने क्वापि माताऽऽह्वयति पृष्ठतः ।
तत्कार्यं सफलं सिद्ध्येन्माता तस्माद्गरीयसी ।।२९।।
पिता बीजप्रदाता तन्नवमासान् पुपोष या ।
कष्टं प्रसह्य सूते तं पञ्चवर्षाणि रक्षति ।। 1.522.३ ०।।
मूत्रमलादि बालस्य प्रक्षालयति सर्वदा ।
तस्माच्छतगुणा माता बालं कट्यां दधाति या ।।३ १ ।।
उदरे च तथा कट्यां हृद्ये च दधाति या ।
सदा पूज्यतमा माता सेवनीया शुभेच्छुभिः ।।३२।।
नारदस्तां समुत्थाय ज्ञात्वा मातरमित्यथ ।
नत्वा प्रपूज्य पप्रच्छ के त्रयः पुरुषा इति ।।३३ ।।
मातोवाच मयि दृष्टः सर्वांगश्चारुशोभनः ।
एष ऋग्वेदनामा वै वेदो नारायणः स्वयम् ।।३४।।
वह्निभूतो दहत्याशु पापान्युच्चारणादनु ।
एतस्य हृदये योऽयं दृष्ट आसीत्त्वयाऽऽत्मज ।।३५।।
स यजुर्वेदरूपेण स्थितो ब्रह्मा महाबलः ।
तस्याऽप्युरसि संविष्टो य एष शुचिरुज्ज्वलः ।। ३६।।
सामवेदो महाभागवतभक्तः स शंकरः ।
एष आदित्यवत् पापान्याशु नाशयति स्मृतः ।।३७।।
एते त्रयो महावेदास्तथा देवास्त्रयश्च ते ।
एतस्मिन् सरसि पुत्र! ज्ञानात्मके ममान्तिके ।।३८।।
स्नात्वा गृहाण वेदादीन् सर्वज्ञत्वं तथा लभ ।
कृते वेदसरःस्नाने प्राग्भवीयं स्मरिष्यसि ।।३९।।
एवमुक्त्वा तिरोभावं गता माता तदा मम ।
अहं तत्र कृतस्नानो लब्ध्वा सहस्रजन्मजम् ।।1.522.४०।।
ज्ञानं समागतश्चात्राऽऽश्चर्यं दृष्टं हि तन्मया ।
तत्रैकं मम ते जन्म कथयामि पुराभवम् ।।४१ ।।
पूर्वकल्पे भवानासीद् राजा बाहुधनो भुवि ।
दक्षिणे पश्चिमे देशे सिंहारण्ये च रैवते ।।४२।।
तदाऽहमभवं तत्र शत्रुंजितानदीतटे ।
ब्राह्मणो वेदविद्यादिनिष्णातः शारदाऽभिधः ।।४३।।
बहुभृत्यपरीवारो बहुधान्यधनादिमान् ।
किन्तु ज्ञानेन सम्पन्नश्चासं परमबुद्धिमान् ।।४४।।
ततो ध्यातं मयैकान्ते किमनेन करोम्यहम् ।
द्वन्द्वेन सर्वमेतद्धि न्यस्य पुत्रेषु याम्यहम् ।।४५।।
तपसे धृतसंकल्पो विचार्य च रसायनम् ।
दास्यभक्त्या हरिस्तुष्येत् पितरः श्राद्धकर्मभिः ।।४६ ।।
देवा यज्ञैर्जना दानैः स्त्रियः कामैः रिपुः क्षयैः ।
ततोऽहं निर्गतो गेहादश्वपट्टसरः प्रति ।।४७।।
लोमशो यत्र वै शश्वद् राजते सरसस्तटे ।
तत्र गत्वा मया विष्णुः पुराणपुरुषोत्तमः ।।४८।।
आराधितोऽतिसद्भक्त्या कृष्णनारायणो हरिः ।
ततो मे भगवाँस्तुष्टः प्रत्यक्षतां जगाम मे ।।४९।।
स्तुतो मया तदा कृष्णनारायणश्च तद्यथा ।
'परं पराणाममृतं पुराणं पुरुषं प्रभुम् ।।1.522.५०।।
नमाम्यप्रतिमं कृष्णनारायणं पतिं परम् ।
ईशितारं हरिं चोग्रतेजसं वीर्यवत्तमम् ।।।५१।।
परब्रह्म परेशं त्वां स्तौमि नारायणं प्रभुम् ।
श्रीपतिं कम्भरालक्ष्मीबालं गोपालबालकम् ।।५२।।
राधालक्ष्मीरमापद्माप्रभापद्मावतीपतिम् ।
पार्वतीमाणिकीगंगाललितामनसापतिम् ।।५३।।
सतां च स्वामिनं कृष्णनारायणं नमाम्यहम् ।
प्रसिद्धः शरणं मेऽस्तु कृष्णनारायणः प्रभुः ।।५४।।
प्रधानेशश्च धामेशो ह्यक्षरेशः सतीपतिः ।
सहस्रमूर्धाऽनन्ताक्षोऽनन्तबाहूरुपादवान् ।।५५।।
क्षीरस्थश्चामृतस्थश्च कुंकुमवापिकास्थितः ।
त्रियुगश्च त्रिवेदस्थः कृते श्वेततनुश्च यः ।।५६।।
ततो रक्तश्च पीतश्च कृष्णश्चापि ततः पुनः ।
वर्तते बहुधा यश्च विप्रान् मुखात् ससर्ज यः ।।५७।।
भुजयोर्बहुधा क्षत्रं चोर्वोर्विशः पदाच्चरान् ।
वर्णान् ससर्ज यो देवो विश्वतनुं नमामि तम् ।।५८।।
शंखचक्रगदापद्मधनुर्ध्वजत्रिशूलवान् ।
स्वस्तिकस्वर्णरेखात्मश्रीवत्सहारशोभितः ।।५९।।
शरणं मे सदा चाऽस्तु मुक्तिदो मेस्तु वै भवान् ।
इतिस्तुतो मया देवः कृष्णनारायणः प्रभुः ।।1.522.६ ०।।
वरं वृणीष्वेत्यसकृत् प्राहाऽहं मोक्षमिष्टवान् ।
इष्टदेवश्च मां प्राह भज त्वं प्रकृतिं मुने ।।६१ ।।
ममाऽऽज्ञया च प्रवृत्तिर्मोक्ष एव न संशयः ।
विनाऽऽज्ञां मे च निवृत्तिर्बन्धनाय भवेद् ध्रुवम् ।।६ २ ।।
तस्मात् कल्पान्तरं याहि सायं जातोऽद्य वै दिवा ।
नारं पानीयमित्युक्तं नारं ज्ञानं तथोच्यते ।।६३ ।।
नारं त्वात्मस्थितं विष्णुं यो ददाति स नारदः ।
सदा ते नाम चैतद्वै ख्यातं सम्यग् भविष्यति ।।६४।।
एवमुक्तश्च तं नत्वा कृष्णनारायणं प्रभुम् ।
लोमशं तं महर्षिं च राजँस्त्वद्गृहमागतः ।।६ ५ ।।
त्वया सम्मानितश्चाहं त्वर्थितो मोक्षणं प्रति ।
मयाऽप्युक्तं भज कृष्णनारायणं पतिं प्रभुम् ।।६६ ।।
प्रवृत्तिं च हरेर्नारायणस्यैव कुरु नृप ।
त्वया राज्यं परित्यक्तं निर्गतस्त्वं मया सह ।।६७।।
ब्रह्मलोकं गतौ चावां रात्रिर्जाता दिनस्य च ।
दिवसश्च पुनः सृष्टो ब्रह्मणा परमेष्ठिना ।।६८।।
तत्राऽहं नारदी जातः स्मृतो नृप! भवान् मया ।
प्रियव्रतः स एवाऽयं चेति त्वां द्रष्टुमागतः ।।६९।।
यस्मान्नारायणं ध्यात्वा प्राप्तोऽस्मि गुरुतां नृप ।
तस्मात् त्वमपि राजेन्द्र भव विष्णुपरायणः ।।1.522.७०।।
मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः ।
रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश ।।७१ ।।
कृष्णनारायणविष्णोर्मूर्तयस्ताः शुभप्रदाः ।
दर्शनं प्राप्तुमिच्छूनां सोपानानि च शोभनाः ।।७२।।
यत्तासां परमं रूपं दृष्टवानहमेव तत् ।
पुरा कल्पे तदा तत्र कुंकुमवापिकाऽऽलये ।।७३।।
नरनारायणौ चात्र मूर्ती तस्यैव शोभने ।
ब्रह्मचर्यव्रतस्थेऽत्र लोककल्याणहेतवे ।।७४।।
धरा मूर्तिस्तस्य चाद्या सर्वधारणपोषिका ।
द्वितीया सलिलं मूर्तिस्तृतीया तैजसी प्रभा ।।७५।।
चतुर्थी प्राणमूर्तिर्वायुर्व्योमाख्या तु पञ्चमी ।
मन आत्मा चान्तरात्मा हरेस्ताश्चाष्टमूर्तयः ।।७६।।
अभिव्याप्तमिदं सर्वं जगन्नारायणेन हि ।
इत्युक्तो नारदेनाऽसौ राजा भागवतो महान् ।।७७।।
नारायणात्मकं ब्रह्मपरं जप्त्वा स्वयंभुवः ।
कृष्णनारायणमनाः परं निर्वाणमाप्तवान् ।।७८।।
इत्येवं लोमशः सर्वं कथयामास भूभृते ।
इन्द्रद्युम्नाय विज्ञानं कृष्णनारायणाश्रितम् ।।७९।।
श्रुत्वा लक्ष्मि! महाभागवतो राजा तुतोष ह ।
पुनस्तं लोमशं प्राह सुधां चात्माश्रितां मुने ।।1.522.८०।।
पात्रं मत्वा शुभं शिष्यं ब्रह्मामृतं च पायय ।
इत्युक्ते लोमशस्तं च ब्रह्मज्ञानं ततोऽब्रवीत् ।।८१ ।।
वैदिकं सामवेदोक्तमार्षं च गहनं तथा ।
ज्ञानचक्षुष्मता ग्राह्य हृत्प्रकाशकृतां स्थिरम् ।।८२।।
ध्यातॄणां पचनीयं च ब्रह्मौपनिषदं परम् ।
यच्छ्रुत्वा वासनालिप्तो ब्रह्मभूयाय कल्पते ।।८३ ।।
छिद्यते हृदयग्रन्थिर्भिद्यते संशयस्तथा ।
लीयते तामसो भावो वर्धन्ते सुखसम्पदः ।।८४।।
क्षीयन्ते सर्वकर्माणि शुष्कार्द्राणि दृढान्यपि ।
यज्ज्ञानेनान्तरं चक्षुरैश्वर्याढ्यं प्रकाशते ।।८५।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कुंकुमवापीक्षेत्रे लोमशेन्द्रद्युम्नसंवादे नारदस्य श्वेतद्वीपे सावित्र्यां ज्ञानह्रासस्ततः सावित्रीप्रदवेदादिज्ञानं, बदर्यां प्रियव्रताय तत्कथनं, प्रियव्रतस्य मोक्षः, भगवद्धामाऽवताराऽवतारिज्ञानफलं चेत्यादिनिरूपणनामा
द्वाविंशत्यधिकपञ्चशततमोऽध्यायः ।।५२२।।