लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १४७

← अध्यायः १४६ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १४७
[[लेखकः :|]]
अध्यायः १४८ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिकेऽनादिकृष्णनारायणो विभुः ।
आह देवायतनकं यत्तद् वच्मि च ते ततः ।। १ ।।
वास्तुदेवार्चनं कार्यं प्रतिष्ठाऽनन्तरं यतः ।
तदङ्गात्मा स्थापनीयस्ताम्रस्य कलशो नवः ।। २ ।।
ओम् आजिघ्र कलशं मह्या त्वा विशन्तु चेन्दवः ।
सहस्रधाराः पयस्वत्वस्त्वां विशन्तु तिष्ठ च ।। ३ ।।
इति कलशं स्थापयित्वा जलं तत्र प्रपूरयेत् ।
वरुणस्य सुखं स्थानं चोत्तंभनं जलं त्वयि ।। ४ ।।
ऋतं च सदनं त्वं वै जलमाधत्स्व पावनम् ।
इति वारि पूरयित्वा कण्ठे वस्त्रं प्रवेष्टयेत् ।। ५ ।।
वसोः पवित्रमसि शतधारं सहस्रधारवत् ।
इतिवस्त्रं वेष्टयित्वा पूगीफलं घटेऽर्पयेत् ।। ६ ।।
ओं फलिनी पुष्पिंणी स्यादफलाऽपुष्पापि ते युजेः ।
पूगि त्वं च घटे तिष्ठ फलदा भव देहिनः ।। ७ ।।
इति पूगीफलं दत्वा पञ्चरत्नानि चार्पयेत् ।
स्वर्णं रौप्यं हीरकं च माणिक्यं मौक्तिकं तथा ।। ८ ।।
परिवाजपतिः कविरग्निर्हव्यानि चाक्रमीत् ।
इति रत्नानि दत्वैव हिरण्यं प्रक्षिपेद् घटे ।। ९ ।।
अग्नेरपत्यं देवेन विधृतं शिरसा पुरा ।
हिरण्यं हरिणा नीतं कलशे प्रददामि तत् ।। 2.147.१० ।।
इति हिरण्यं दत्त्वैव गन्धं कलशे प्रक्षिपेत् ।
कौंकुमं कैसरं गन्धं चान्दनं प्रददामि ते ।। १ १।।
इतिगन्धं प्रदायैवाऽर्पयेदोषधिकास्ततः ।
रसप्लुता मधुस्रावाः पुरा जाता हरेस्तनौ ।। १२।।
तास्त्वपि प्रक्षिपाम्येव शतं सप्त च रुघ्घनाः ।
इति सर्वौषधीर्दत्वा सप्तमृदः समर्पयेत्। ।। १३।।
गजाश्वगोस्थलीजातां वल्मीकचत्वरोद्भवाम् ।
राजचत्वरलब्धां चार्पयेत् तुलसीमूलजाम् ।। १४।।
पृथिवी सर्वरूपा त्वं शर्मदा भव वासदे ।
इति सप्तमृदो दत्वा दूर्वां घटे समर्पयेत् ।। १५।।
काण्डात्काण्डात्प्ररोहन्ती परुषः परुषः परि ।
एवं नो दूर्वे प्रतनोः सहस्रेण शतेन च ।। १६।।
इति दूर्वां घटे दत्याऽर्पयेद्वै पञ्चपल्लवान् ।
अश्वत्थेवो निषदनं पर्णे वो वसतिः कृता ।। १७।।
गोभाज इत्किलाऽथ यत् स नवथ पूरुषम् ।
ओं नमः कलशे मुखेऽश्वत्थस्य च वटस्य च ।। १८।।
चूतस्योदुम्बरस्याऽपि प्लक्षस्यापि नवानि वै ।
पत्राणि स्थापयाम्यत्र सस्यवद् राष्ट्रकं तव ।। १९।।
ओं पवित्रं पवित्राख्यं पुनातु सूर्यरश्मिवत् ।
पवित्रपते कलशेऽर्पयाम्यत्र पवित्रकम् ।।2.147.२० ।।
ओं नमस्ते पवित्राय कुशजन्याय वेधसे ।
घटे त्वां च निक्षिपामि पवित्रं कुरु वारि तत् ।।२१।।
इति दत्वा पवित्रं च घटोपर्यक्षतभृताम् ।
स्थालीं न्यसेन्नवां शर्करादियुक्तां सुकांचनीम् ।।२२।।
पूर्णा दर्वी परापत सुपूर्णा पुनरापत ।
वस्नेव विक्रीणावहा इषमूर्जः शतक्रतो ।। २३ ।।
इति तण्डुलपात्रं च नत्वा श्रीफलमर्पयेत् ।
श्रीश्च लक्ष्मीः रमा राधा ब्रह्मविद्यासतीरतिः ।। २४।।
सुगुणा मञ्जुला हंसा ललिता कम्भरा सती ।
सन्तोषा माणिकी दुर्गाऽमृताऽम्बा शारदा इमाः ।।२५।।
श्रीफले संवसन्त्वत्र सम्पज्जुष्यो भवन्तु नः ।
इति श्रीफलमास्थाप्य श्रीदं तं प्रणमेन्मखी ।।२६ ।।
ओं मनोजुतिर्जुषतामाज्यस्य बृहस्पतिः क्रतुम् ।
इमं तनोत्वरिष्टं यज्ञं समिमं दधातु च ।
विश्वेदेवा इह घटे मादयन्तामों प्रतिष्ठ ।।२७।।
इति घटं प्रतिष्ठाप्याऽऽवाहयेद् वरुणं ततः ।
जलं सर्वरसाढ्यं वै पावनं च क्रतोर्हितम् ।।२८।।
तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोद्ध्युरुशंसमान आयुः प्रमोषी ।।२९।।
ओं भुर्भुवः स्वः वरुण इहागच्छ च तिष्ठ च ।
इत्यावाह्य वरुणं चार्चयेत् षोडशवस्तुभिः ।।2.147.३० ।।
सर्वे समुद्राः सरितस्तीर्थानि च सरांसि च ।
आयान्तु च मखीयानां दुरितक्षयहेतवे ।। ३ १।।
कलशस्य मुखं कृष्णः कण्ठः सदाशिवः स्मृतः ।
मूलं ब्रह्मा स्वयं बोध्य उदरं मातरः स्मृताः ।।३२।।
कुक्षयः सागराः सन्ति पृथ्वी कलशरूपिणी ।
वेदाः सांगाश्च कलशावयवात्मान एव च ।।३३।।
आवाहयामि तीर्थानि चागच्छत च तिष्ठत ।
अमृतोन्मथने जातः कलशो विष्णुहस्तगः ।।३४।।
तीर्थप्राणसुरभूतवासोऽसि फलदोऽसि च ।
आदित्या वसवो रुद्रा विश्वेदेवाः सपितृकाः ।।३५।।
अश्विनौ त्वयि तिष्ठन्तु यज्ञार्थं सन्निधिं कुरु ।
इत्येवं कलशं प्रार्थ्य तस्योपरि तु कानकीम् ।।३६।।
वास्तुमूर्ति कृकलासरूपां तत्र निधापयेत् ।
अग्न्युत्तारणकं कुर्याद् वस्त्रैराच्छादयेत् पटैः ।।३७।।
तत उत्तानकं वास्तुमीशानशिरसं नरम् ।
ध्यायेदग्न्युत्तारणे च देशकालौ प्रकीर्त्य च ।।३८।।
अवघातादिदोषाणां परिहारार्थमेव च ।
अग्न्युत्तारणकं प्राणप्रतिष्ठां च समाचरेत् ।।३९।।
मूर्तिं पात्रे निधायैव दुग्धधारा प्रपातयेत् ।
जलधारां ततः कुर्यात् सूक्तं पठेत् पुनः पुनः ।।2.147.४०।।
ओं समुद्रस्य त्वावकयाग्ने परिव्ययामसि ।
सर्वदेवोत्तारणः पावकोऽस्मभ्यः शिवो भव ।।४१ ।।
ओं हिमस्य त्वा जरायुणाऽग्ने परिव्ययामसि ।
सर्वदेवोत्तारणः पावकोऽस्मभ्यः शिवो भव ।।४२।।
ओमपामिदं न्ययनं समुद्रस्य निवेशनम् ।
विघ्नरूपाँस्तथाऽन्याँस्ते ह्यस्मत्तपन्तु हेतयः ।।४३ ।।
सर्वदेवोत्तारणः पावकोऽस्मभ्यः शिवो भव ।
नमस्ते हरसे शोचिषे नमस्ते अस्त्वर्चिषे ।।४४।।
विघ्नरूपाँस्तथाऽन्याँस्ते ह्यस्मत्तपन्तु हेतयः ।
सर्वदेवोत्तारणः पावकोऽस्मभ्यः शिवो भव ।।४५।।
प्राणदाऽपानदा व्यानदा वर्चोदा वरिष्ठदाः ।
विध्नरूपाँस्तथाऽन्याँस्ते ह्यस्मत्तपन्तु हेतयः ।।४६ ।।
सर्वदेवोत्तारणः पावकोऽस्मभ्यः शिवो भव ।
एवमग्न्युत्तारणं च कृत्वा पञ्चभिरमृतैः ।।४७।।
संस्नाप्य वास्तुपुरुषं कलशोपरि विन्यसेत् ।
ध्यायेद् वास्तुस्वरूपं च परब्रह्मोद्भवं पुरा ।।४८।।
ततः शंभोः शरीराच्चाऽभवत् पुत्रो बली महान् ।
यज्ञापकारकः सोऽयं देवैः पराजितो मृधे ।।४९।।
निपात्याऽधोमुखो बद्धः समन्ताद् देवतागणैः ।
ईशाने मस्तकं न्यस्तं नैर्ऋत्ये पादसंपुटम् ।।2.147.५०।।
जानुनी कूर्परीकृत्य बाहुयुग्मं तथाविधम् ।
वायव्याग्न्योस्ततो जानुं हृदये चांजलिस्तथा ।।५१ ।।
पदीकृत्य च तस्योर्ध्वं सर्वे सुराश्च रोहिताः ।
तं सर्वसुखासं चावाहयामि च वास्तुकम् ।।५२।।
ओं भूर्भुवः सः वास्तुनरं चावाहयामि नौमि च ।
सम्मानयामि चागच्छ महाबलपराक्रम ।।५३।।
सर्वदेवाश्रितवपुर्ब्रह्मपुत्र नमोऽस्तु ते ।
सर्वब्रह्माण्डधृगसि त्वागच्छ भगवन्निह ।।५४।।
आगच्छ भगवन् वास्तो सर्वदेवान्वितस्त्विह ।
तिष्ठात्र कुरु कल्याणं यज्ञेऽस्मिन् सन्निधो भव ।।५५।।
ओं वास्तोष्पते प्रतिजानीह्यस्मान् स्वावेशो अनमीवो भवा नः ।
यत्त्वेमहे प्रति तन्नो जुषस्व शन्नो भव द्विपदेशं चतुष्पदे ।।५६।।
इत्यावाह्याऽक्षतपुष्पैश्चन्दनाम्बरभूषणैः ।
सम्पूज्य प्रार्थयेद् रक्षां रक्ष संकटविप्लवात् ।।५७।।
नैवेद्यं धूपदीपौ च नीराजनादि चार्पयेत् ।
स्वाहेत्युच्चार्य च ततोऽगदवान् विधिनाऽर्चयेत् ।।५८।।
ओं नमः शिखिने चेशानाय पाद्यं तथाऽर्धकम् ।
आचमनं स्नपनं चाम्बरं गन्धं तथाऽक्षतान् ।।५९।।
पुष्पाणि धूपदीपौ च नैवेद्यं च जलं फलम् ।
ताम्बूलं शयनं दक्षिणां ददामि गृहाण शम् ।।2.147.६ ० ।।
पर्जन्याय नमः पाद्यादिकं गृहाण शं कुरु ।
जयन्ताय नमः पाद्यादिकं गृहाण शं कुरु ।।६ १ ।।
ओमिन्द्राय नमः पाद्यादिकं गृहाण शं कुरु ।
ओं सूर्याय नमः पाद्यादिकं गृहाण शं कुरु ।।६२।।
ओं सत्याय नमः पाद्यादिकं गृहाण शं कुरु ।
ओं भृशाय नमः पाद्यादिकं गृहाण शं कुरु ।।६३।।
ओं आकाशाय नमश्च ओं वायवे च नमो नमः ।
ओं पूष्णे च नमः ओं वितथायापि नमो नमः ।।६४।।
गृहक्षताय नम ओं ओं यमाय नमो नमः ।
ओं गन्धर्वाय च नमो भृंगराजाय ओं नमः ।।६५ ।।
ओं मृगाय नम ओं च पितृभ्योऽपि नमो नमः ।
पाद्यादीनि च गृह्णन्तु कुर्वन्तु शं नमो नमः ।।६६ ।।
ओं नन्दिने नम ओं च सुग्रीवाय नमो नमः ।
ओं पुष्पदन्ताय नमो वरुणाय च ओं नमः ।।६७।।
ओमसुराय च नमः शेषाय च नमो नमः ।
नमः पापाय रोगाय ओं नामश्चाहये नमः ।।६८।।
ओं मुख्याय नमो भल्लाटाय ओं च नमो नमः ।
ओं सोमाय च नागायाऽदितये दितये नमः ।।६९।।
ओमदभ्यश्च नमश्चापवप्साय नमो नमः ।
पाद्यादीनि च गृह्णन्तु कुर्वन्तु शं नमो नमः ।।2.147.७०।।
ओमर्यम्णे नम ओं सावित्राय च नमश्च ओम् ।
ओं सवित्रे नमो विवस्वते चेन्द्राय ओं नमः ।।७ १।।
ओं जयन्ताय नम ओं मित्राय नम ओं नमः ।
राजयक्ष्मणे नम ओं ओं रुद्राय नमो नमः ।।७२।।
ओं पृथिवीधराय च नम ओं ब्रह्मणे नमः ।
पाद्यादीनि च गृह्णन्तु कुर्वन्तु शं नमो नमः ।।७३।।
ओं चरक्यै नम ओं च विदार्यै च नमश्च ओम् ।
पूतनायै नम ओं च पापायै च नमश्च ओम् ।।७४।।
ओं स्कन्दाय नमश्चार्यम्णे नमो जृंभकाय ओम् ।
नम ओं पिलिपिच्छाय ओमिन्द्राय नमश्च ओम् ।।७५।।
अग्नये ओं नमो यमाय ओं निर्ऋतये नमः ।
नम ओं च वरुणाय ओं वायवे नमो नमः ।।७६।।
ओं कुबेराय नम ओमीशानाय ओं नमः ।
ओं ब्रह्मणे नमश्च ओमनन्ताय नमो नमः ।।७७।।
पाद्यादीनि च गृह्णन्तु कुर्वन्तु शं नमो नमः ।
भवन्तश्चांगदेवाद्या गृह्णन्तु गन्धमक्षतान् ।।७८।।
पुष्पधूपौ दीपवस्त्रे प्रतिपात्रस्थभोजनम् ।
जलं फलं दलं ताम्बूलकं च दक्षिणादिकम् ।।७९।।
आरार्त्रिकं चार्पयामि गृह्णन्तु वितरन्तु शम् ।
अथ वास्तुपुरुषं च पूजयेत्तु पुनस्तथा ।।2.147.८०।।
कुर्यात्प्राणप्रतिष्ठां वै बीजप्रणवबृंहिताम् ।
एकाग्रं हृदयं कृत्वा ध्यात्वा देवं समुच्चरेत् ।।८ १ ।।
ओं आं ह्री क्रौ यं रं लं वं शं षं सं हं क्षं हं सः सोऽहम् ।
अस्य देवस्य वै प्राणा इह प्राणा वसन्तु च ।।८२।।
ओं आं ह्रीं क्रौं यं रं लं वं शं षं सं हं क्षं हं सः सोऽहम् ।
अस्य देवस्य वै जीव इह जीवः स्थितश्च ओम् ।।८३।।
ओं आं ह्रीं क्रौं यं रं लं वं शं षं सं हं क्षं हं सः सोऽहम् ।
अस्य देवस्य वाङ्मनस्त्वक्चक्षुःश्रोत्रमित्यपि ।।८४।।
जिह्वा घ्राणं पाणिपादाः पायूपस्थानि चान्तरम् ।
अस्मिन्नागत्य च चिरं सुखं तिष्ठन्तु वै स्वाहा ।।८५।।
ओं मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञम् ।
इमं तनोत्वरिष्टं च यज्ञं समिमं दधातु ।।८६।।
विश्वेदेवास इह मादयन्तामों प्रतिष्ठत ।
एवं प्रतिष्ठायज्ञेन यजन्ते वै प्रतिष्ठितान् ।।८७।।
तव वास्तो महापूजां करोम्यनुग्रहं कुरु ।
ओं वास्तुपुरुषाय च नमोऽर्पयामि पाद्यकम् ।।८८।।
अर्घ्यं चाचमनं पञ्चामृतस्नानं ददामि च ।
शुद्धोदकं यज्ञसूत्रं चार्पयामि च ते नमः ।।८९।।
वस्त्रं गन्धं कुसुमं च धूपं दीपं तथाऽत्तरम् ।
नैवेद्यं फलताम्बूले चार्पयामि च ते नमः ।।2.147.९०।।
दक्षिणां प्राञ्जलिं चार्घ्यं समर्पयामि ते नमः ।
ओं पूज्योऽसि त्रिलोकेषु यज्ञरक्षार्थहेतवे ।।९ १ ।।
त्वदर्चनं विना नैव सिद्ध्यन्ति क्रतुसत्क्रियाः ।
अयोने भगवन् शंभुललाटस्वेदसंभव ।। ९२।।
गृहाणाऽर्घ्यं मया दत्तं वास्तो स्वामिन्नमोऽस्तु ते ।
एवमर्थं प्रदत्वैव बलिदानं समर्पयेत् ।।९३ ।।
ओं वह्नये नम एष पायसबलिर्नमम ।
ओं पर्जन्याय नम एष पायसबलिर्नमम ।।९४।।
ओं जयन्ताय नम एष पायसबलिर्नमम ।
ओमिन्द्राय नम एष पायसबलिर्नमम ।।९५।।
ओं सूर्याय नम एष पायसबलिर्नमम ।
ओं सत्याय नम एष पायसबलिर्नमम ।। ९६ ।।
एवं वै वास्तुदेवेभ्यः प्रत्येकाय पुनः पुनः ।
ओममुकाय नम एष पायसबलिर्नमम ।।९७।।
इति दद्याद् बलिं ततश्चरक्यादिभ्य इत्यपि ।
दिक्पालेभ्यो माषभक्तबलीन् दद्याच्च तद्यथा ।। ९८।।
ओं चरक्यै नम एष माषभक्तबलिर्नमम ।
ओं विदार्यै नम एष माषभक्तबलिर्नमम ।।९९।।
पूतनायै नम एष माषभक्तबलिर्नमम ।
ओं पापायै नम एष माषभक्तबलिर्नमम ।। 2.147.१ ००।।
ओं स्कन्दाय नम एष माषभक्तबलिर्नमम ।
अर्यम्णे जृम्भकायापि पिलिपिच्छाय चार्पयेत् ।। १०१ ।।
इन्द्राग्नियमनिर्ऋतवरुणवायवे नमः ।
कुबेरेशाजानन्तेभ्यो माषभक्तबलिर्नमम ।। १ ०२।।
ततो वास्तुपुरुषाय बलिं दद्याद्धि मन्त्रतः ।
नानासुगन्धिपक्वान्नं पायसाद्यं विभिन्नकम् ।। १०३ ।।
बलिं गृहाण वास्तो त्वं क्षुधादोषं प्रणाशय ।
ओं नम एष वास्तुपुरुषाय बलिर्नमम ।। १ ०४।।
ये देवाः पायसभुजो गृह्णन्तु पायसं हि ते ।
ये देवाश्चान्नभोक्तारो गृह्णन्त्वन्नं शुभं मधु ।। १ ०५।।
ये देवा रसभोक्तारो गृह्णन्त्वेते रसान् बहून् ।
ये देवाः कृशरादास्ते गृह्णन्तु कृशरान्नकम् ।। १ ०६।।
ये देवा माषभोक्तारो गृह्णन्तु माषजं बलिम् ।
ये देवाश्चामृतभुजो गृह्णन्त्वमृतमेव ते ।। १ ०७।।
ये देवाः पिष्टचूर्णादा गृह्णन्तु पिष्टचूर्णकम् ।
ये देवाः फलभोक्तारो गृह्णन्त्वेते फलानि च ।। १ ०८।।
ये देवाः कणभोक्तारः सर्षपादाश्च ये सुराः ।
शाकादा हव्यभोक्तारो येषां योग्यं तु यद्भवेत् ।। १ ०९।।
तत्तन्मयार्पितं देवा गृह्णन्त्विष्टबलिं नमम ।
मन्त्रहीनं क्रियाहीनं भक्तिश्रद्धाविहीनकम् ।। 2.147.११ ०।।
यदर्पितं मया देव परिपूर्णं विधीयताम् ।
नमस्ते वास्तुदेवेश सर्वविघ्नहरो भव ।। ११ १।।
शान्तिं कुरु सुखं देहि सर्वान् कामान् प्रयच्छ मे ।
ओं श्रीवास्तुपुरुषायाऽर्पयामि नारिकेलकम् ।। १ १२।।
सुवर्णं चार्पयाम्यत्र प्रणमामि सुखं कुरु ।
श्रीं लक्ष्मीं च रमां राधां ब्रह्मविद्यां च पद्मजाम् ।। ११३ ।।
सुगुणां मंजुलां पद्मां ललितां कंभरां सतीम् ।
सन्तोषां माणिकीं दुर्गाऽमृताऽम्बाः शारदामिमाः ।। १ १४।।
अर्चयेत् सात्त्विकैर्द्रव्यैः पायसाद्यैश्च तोषयेत् ।
ततो वै मण्डपं वेष्टयेत् त्रिसूत्र्या समन्ततः ।
सूक्तेन पवमानेन रक्षघ्नेन निनादयन् ।। १ १५।।
ओं पवमानः सुवर्जनः पवित्रेण विचर्षणिः ।
यः पोता स पुनातु मां पुनन्तु मां देवजनाः ।। ११६ ।।
पुनन्तु मनवो धिया पुनन्तु विश्व आयवः ।
जातवेदः पवित्रवत् पवित्रेण पुनीहि माम् ।। १ १७।।
शुक्रेण देवदीद्यत् अग्ने क्रत्वा क्रतूरनु ।
यत्ते पवित्रमर्चिषि अग्ने विततमन्तरा ।। १ १८।।
ब्रह्म तेन पुनीमहे उभाभ्यां देवसवितः ।
पवित्रेण सवेन च इदं ब्रह्म पुनीमहे ।। ११९ ।।
वैश्वदेवी पुनती देव्यागाद् यस्यैस्तनुवो वीतपृष्ठाः ।
तया मदन्तः सधमाद्येषु वयं स्याम पतयो रयीणाम् ।। 2.147.१२० ।।
वैश्वानरो रश्मिभिर्या पुनात्तु वातः प्राणेनेषिरो मयोभूः ।
द्यावापृथिवी पयसा पयोभिः ऋतावरी यज्ञिये मा पुनीताम्।। १२१ ।।
बृहद्भिः सवितस्तृभिः वशिष्ठैर्देव-
मन्मभिः अग्ने दक्षै पुनीहि मा ।
येन देवा अपुनत येनापो दिव्यं कशः
तेन दिव्येन ब्रह्मणा इदं ब्रह्म पुनीमहे ।। १२२।
ओं रक्षोहणं वलगहनं वैष्णवी-
मिदमहन्तं वलगमुत्किरामि ।
यं मेऽनिष्ट्यो यममात्यो
निचखानेदमहन्तं बलगमुत्किरामि ।। १२३ ।।
यं मे समानो यमसमानो
निचखानेदमहन्तं वलगमुत्किरामि ।
यं मे सबन्धुर्यमसबन्धु-
र्निचखानेदमहन्तं वलगमुत्किरामि । । १२४ । ।
यं मे सजातो यमसजातो
निचखानोत्कृत्या किरामि ।
ओं कुणुष्वपाजः प्रसितिं न
पृथिवीं याहि राजेवामवां इभेन । । १२५। ।
तृष्वीमनुप्रसितिं द्रुणानोस्ता-
सि विद्ध्यरक्षसस्तपिष्ठैः ।
पुनन्तु मां देवजना मनसा धियो
विश्वाभूतानि जातवेदोऽपि माम् ।। १२६ ।।
इत्येवं राधिके! मण्डपं त्रिसूत्र्या प्रवेष्टयेत् ।
मण्डपे च ततश्चागत्यासने तत आविशेत् ।। १२७।।
एवं नारायणः कृष्णो जगाद देवतायनम् ।
तत्तथैव मयोक्तं ते यद्यपि नाति विस्तरम् ।। १२८ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रतिष्ठोत्सवे कलशस्थापनं वास्तोः प्रतिष्ठानं पूजनं वास्तुदेवानां पूजनं नैवेद्यं बलिस्त्रिसूत्र्या मण्डपवेष्टनं मन्त्राश्चेत्यादिकथननामा सप्तचत्वारिंशदधिकशततमोऽध्यायः ।। १४७ ।।