लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १६१

← अध्यायः १६० लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १६१
[[लेखकः :|]]
अध्यायः १६२ →

श्रीकृष्ण उवाच-
राधिके दिव्यभक्तः स देवायतनको मुनिः ।
श्रुत्वाऽऽश्चर्यभृतः कृष्णं नारायणं पुपूज ह ।। १ ।।
आरार्त्रिकं परं कृत्वा प्रेममग्नोऽतिसिद्धिमान् ।
अनादिश्रीकृष्णनारायणेच्छया तदा स्वयम् ।। २ ।।
दिव्यप्रासादरूपोऽभूत् सहस्रकलशान्वितः ।
सर्वलक्षणसम्पन्नः सर्वांगपरिपूरितः ।। ३ ।।
सर्वोपस्थापनयुक्तः सेवायां मूर्तिमानपि ।
व्यतिरिकेणापि चास्ते मुक्तरूपधरोऽपि सन् ।। ४ ।।
प्रासादः सोऽभवत् ख्यातो देवाद्यैश्च प्रपूजितः ।
इन्द्रो विलोक्य तत्तुल्यं कारयितुं मनोऽकरोत् ।। ५ ।।
विश्वकर्माणमाहूय दर्शयामास तत्कृतिम् ।
आज्ञां ददौ ततोऽमरावत्यां कर्तुं सुमन्दिरम् ।। ६ ।।
विश्वकर्मा समभ्यस्य कुंकुमाऽक्षरभूस्थले ।
ततः स्वर्गं ययौ शृंगं सहस्रकलशं व्यधात् ।। ७ ।।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।
पत्नीषट्कसहितं स्थापयामास महोत्सवैः ।। ८ ।।
अथ प्रवृत्ताः प्रासादाः सर्वलोकेषु वै ततः ।
सर्वत्राऽऽध्यात्मिको देवायनो देवोऽस्ति तेषु वै ।। ९ [।
एवं दिव्यं मन्दिरं तु द्रष्टुमायान्ति मानवाः ।
सुराः पातालसंस्थाश्च सत्यलोकनिवासिनः ।। 2.161.१ ०।।
कुंकुमवापिकाक्षेत्रं दृष्ट्वा मन्दिरशोभितम् ।
प्रमोदन्ते नरा नार्यो विश्राम्यन्ति बृहत्सुखे ।।१ १।।
दर्शनीयं मन्दिरं तु श्रुत्वा कपर्दिसंघतः ।
आसमुद्रात् समायान्ति जना द्रष्टुं समुत्सुकाः ।। १२।।।
धनमेदो धीवरोऽपि प्रतीचिवार्धितीरगः ।
श्रुत्वा कुटुम्बसहितो द्रष्टुं गृहाद् विनिर्ययौ ।। १३।।
वस्त्रापथं शुभं दृष्ट्वा तुरीदेवीं ययौ पथि ।
वृक्षच्छायाघटामध्ये स्थितां मूर्तिमयीं शुभाम् ।। १४।।
जीवन्तिकानदीतीरे प्रासादे संस्थितां सतीम् ।
आम्राणां वनमध्यस्थां काष्ठहारादिसेविताम् ।। १५।।
आश्रयदां वनिनां तां शान्तिदां वनवासिनीम् ।
विलोक्य गजपृष्ठस्थां चतुर्भुजां हरिप्रियाम् ।।१६।।
लक्ष्म्यंशरूपां सत्त्वाढ्यां फलपुष्पादिपूजिताम् ।
नेमे गत्वाऽन्तिके तस्थौ धनमेदोऽतिभावतः ।। १७।।
सस्नौ नद्या ह्रदे चाम्रवृक्षस्याऽधो भुवस्तले ।
सामग्रीर्यात्रिकीः सर्वा निधाय च ततः परम् ।। १८।।
समादाय जलं शीतं पुष्पाणि चाम्पकानि च ।
अमृतस्य फलान्युत्तमानि पक्वानि तौलसीम् ।। १ ९।।
ययौ लक्ष्मीं तुरीनाम्नीमर्चयितुं हि मन्दिरे ।
कुटुम्बेन तु तद्देव्याः सन्निधौ प्रणनाम सः ।।2.161.२०।।
स्तुतिं चकार विधिना वन्यरक्षणकारिणीम् ।
पुपूज परया प्रीत्या फलपुष्पजलादिभिः ।।२१।।
अहो मातश्च हे मातर्महालक्ष्मि महासति ।
वने दत्तं मया नीतं गृहणाऽऽद्यं नमोस्तु ते ।। २२।।
प्रसन्ना भव यात्रार्थं प्रज्वालय च कल्मषम् ।
धीवराणां पावनी त्वं समुद्धर हरिप्रिये ।।२३।।
न जानाम्यर्चनं जात्या निकृष्टोऽशुद्ध एव यत् ।
हृदयं तेऽर्पितं शुद्धं मत्वा गृहाण चामृतम् ।।२४।।
बुद्धिं देहि तथा भक्तिं मुक्तिं देहि मदर्हिकाम् ।
परिवारसहितस्य मह्यं श्रेयः प्रदेहि च ।।२५।।
इत्युक्त्वा च मुहुर्नत्वा मार्जयामास मन्दिरम् ।
शुष्कपत्राणि निष्कास्य धूल्यादि चापहृत्य च ।।२६ ।।
जलेन क्षालयामास मन्दिरं तुरिकां तथा ।
स्नपयामास सलिलैः प्रदक्षिणां चकार सः ।।२७।।
पत्रपुष्पाणि चादाय नूतनानि बहून्यपि ।
तोरणं मालिकां चापि क्लृप्त्वा ददौ समर्हणे ।।२८।।
रात्रिमुवास तत्रैवाश्रयं प्रवीक्ष्य शान्तिदम् ।
फलादिवन्यभोज्यं च दृष्ट्वोवास दिनान्तरे ।।२९।।
तृतीयेऽपि दिने तस्थौ विश्रान्तिमाप भूयसीम् ।
नित्यं स्वगृहवत् सर्वं देवीकार्यं सुपूजनम् ।। 2.161.३ ०।।
संशोधनं सेवनादि करोति भावतो वने ।
रात्रौ कुर्वन्ति भजनं कुटुम्बिनो हि कण्ठतः ।।३ १।।
वह्निं प्रकाशयित्वैव तापं शैत्यनिवृत्तये ।
गृह्णन्त्यपि च तद्देव्या आगारे मिलिताश्च ते ।।३२।।
इत्येवं राधिके रात्रिं विनिर्याप्य दिनान्तरे ।
पुष्पाणि विविधान्येव समादायाऽम्बराणि च ।।३३।।
पुष्पाणामेव संसाध्य लक्ष्म्यै समर्पयन्ति ते ।
मुकुटं कर्णफुल्लानि चावतंसान् सुकञ्चुकीम् ।।३४।।
शाटीं च घर्घरीं मालां गुच्छं च रशनां तथा ।
पादुके झुल्लरीं चेति कृत्वा समर्पयन्ति ते ।।३५।।
सुगन्धि मधु मिष्टं चानीय वृक्षसुसंस्थितम् ।
समर्पयन्ति देव्यै च भोजनं सुरसान् बहून् ।।३६ ।।
चन्दनस्य शुभं काष्ठं समाहृत्य वनान्तरात् ।
धूपं कुर्वन्ति गन्धाढ्यं सेवन्ते स्मेति भावतः ।।३७।।
भजनं श्रीहरे कृष्ण लक्ष्मि मातर्नमोऽस्तु ते ।
एवं कुर्वन्ति सततं वनमध्ये तुरीगृहे ।। ३८।।
तुर्यावस्थात्मिका लक्ष्मीरदृश्याऽपि तदर्हणाम् ।
समग्रहीत् प्रसन्नाऽभूत् स्वभावसेवया सती ।।३९।।
मूर्तौ स्थिताऽपि जग्राहाऽमृतं मधु फलानि च ।
पपौ तु सलिलं शीतं दधार मालिकाश्च ताः ।।2.161.४०।।
पौष्पाम्बराणि जगृहे धूपं जग्राह भावतः ।
वने सेवां भक्तकृतां सर्वां जग्राह मूर्तिगा ।।४१।।
एवं कुटुम्बसहितो धनमेदोऽपि धीवरः ।
योगक्षेमौ वने लेभे तीर्थयात्राप्रसंगतः ।।४२।।
निर्मलान्तःकरणः स पञ्चदशदिनानि वै ।
उवास मन्दिरे तत्र वने तुर्यान्तिके मुदा ।।४३।।
नित्यपूजादिसम्पत्त्या पुण्यं चावाप भूरि च ।
पावित्र्यं प्राप बहुधा लक्ष्मीदेवीप्रसादतः ।।४४।।
पौषशुक्लस्य पूर्णायां रात्रौ चन्द्रे शिरोगते ।
कीर्तनं प्रचकाराऽसौ मृदंगेन कुटुम्बिभिः ।।४५।।
शीतकान्तिसुधावल्ये वनवृक्षादिशोभिते ।
निर्मले रजनीभागे शान्ते राजसभावने ।।४६ ।।
गीतिं चकार पत्न्या च पुत्रीभिः पुत्रकैः सह ।
प्रत्यक्षं मधुरं श्रुत्वा साक्षात् तुरी बभूव ह ।।४७।।
रूपरूपानुशोभाढ्यावयवांऽगातिसुन्दरी ।
प्रसन्नवदना हस्ते कमलं बिभ्रती सती ।।४८।।
मणिस्वर्णविभूषाढ्या दिव्याम्बरादिधारिणी ।
कोटिशारदपूर्णेन्दुकान्त्यतिकान्तिभासुरा ।।४९।।
श्वेतगजस्य पृष्ठे सा निषण्णा च मनोहरा ।
वरदानं गृहाणाऽत्र प्रसन्नाऽस्मीत्युवाच तम् ।।2.161.५०।।
भक्त त्वया वने मेऽत्र मन्दिरे वसतिः कृता ।
सेवा बहुप्रकारेण कृता नैजगृहादिवत् ।।५१ ।।
वरं वरय भद्रं ते यथेष्टं वद चार्पये ।
एकवारं गृहस्यापि मार्जनेन ममात्र च ।।५२।।
दारिद्र्यं नाशमायाति स्वर्गं दिव्यमवाप्नुयात् ।
एकवारं प्रदीपेन ममालये तु वै चिरम् ।।५३।।
फलं सूर्यस्य लोकाप्तिः सहस्रयुगजा भवेत् ।
एकवारं तुलस्याश्चार्पणेन मम मस्तके ।।५४।।
चक्रवर्तित्वमेवाऽस्मै ददामि सम्पदश्चिरम् ।
पुष्पहाराद्यर्पणेन ददामि स्वर्णभूषणम् ।।५५।।
एकवारं फलानामर्पणेन प्रददामि वै ।
शाश्वतं चामृतं स्वर्गमैन्द्रं पदं समुज्ज्वलम् ।।५६।।
एकवारं जलदानाद् ददामि वारुणं पदम् ।
आत्मार्पणेन सर्वस्वं ददामि धाम शाश्वतम् ।।५७।।
पतिर्मे भगवान् साक्षादनादिः श्रीनरायणः ।
तत्स्मृद्धिं प्रददाम्यस्मै मद्भक्ताय महात्मने ।।५८।।
मय्यर्पितं प्रगृह्णामि समर्प्य पतये ततः ।
तत्प्रसादं सदा चाऽद्मि तस्य सेवापरायणा ।।५९।।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
स्मृद्धः प्रसन्नो भगवान् जायते मम सेवया ।।2.161.६ ०।।
अहं प्रिया यथा तस्य यथा च माणिकी प्रिया ।
तथा प्रियोऽपि मे भक्तस्तस्मै ददात्यलं पतिः ।।६१।।
धनमेद पवित्रोऽसि प्रसन्नाऽहं यतस्त्वयि ।
वृणु यत्ते मानसेऽस्ति ददामि पतिवाञ्च्छया ।।६२।।
इत्युक्तो धनमेदः स राधिके क्षणमान्तरे ।
आश्चर्यं परमं प्राप्य सुखं प्राप्य मुदं पराम् ।।६३।।
दास्यं कुटुम्बयुक्तस्य वरयामास मातरि ।
न सम्पदं न च राज्यं नैश्वर्यं समियेष सः ।।६४।।
धन्योऽसि धनमेद! त्वं दास्ये सर्वं प्रवर्तते ।
दास्यं तु दुर्लभं लोके निश्छद्मं स्वामिनः कृते ।।६५।।
अभिलषन्ति दास्यं वै भृत्याः संसारकोटिषु ।
स्वार्थदासा ह्यसंख्याता वर्तन्ते भुवनत्रये ।।६६।।
हार्ददासा दुर्लभा वै हार्ददासोऽत्र मे भव ।
हार्ददास्ये वसन्त्येव सिद्ध्यैश्वर्याणि सर्वदा ।।६७।।
छद्मदास्ये क्लेशभूता वर्तन्ते रक्तहारिणः ।
तस्मात् कर्तव्यमेवात्र दास्यं हृदयरंजितम् ।।६८।।
यथा दासी भवाम्यत्र नारायणस्य पद्मजा ।
यथा दासी भवत्यत्र शिवस्य पार्वती सती ।।६९।।
सूर्यदासी प्रभा चास्ते दासी पद्मावती हरेः ।
यथा च माणिकी दासी राधा दासी हरेर्जया ।।2.161.७० ।।
यथा च मंजुला हंसा दासी च सुगुणा हरेः ।
ललिता चाऽक्षरब्रह्म गरुडो दास इत्यपि ।।७१ ।।
तथा दास्यं कुरु देवे यथा च हनुमान् कपिः ।
यथा हेमन्तको दासो वसन्तो दास इत्यपि ।।७२।।
कल्पे कल्पे भवन्त्येव दासा ह्येते हरेस्तथा ।
लभ दास्यं मयि मे च पत्यौ श्रीपुरुषोत्तमे ।।७३।।
अनादिश्रीकृष्णनारायणः श्रीकंभरासुतः ।
मानवेन तु रूपेण वर्तते यत्र गच्छसि ।।७४।।
कुंकुमवापिकाक्षेत्रे लोमशाश्रमसन्निधौ ।
देवायतनसौधे श्रीकान्तस्तत्र विराजते ।।७५।।
मादृश्यः कमलास्तत्र राजन्ते कोटिशोऽपि च ।
सर्ववीर्यधरस्याऽस्य सेवयाऽऽनन्दसंभृताः ।।७६।।
याहि भक्त शुभं क्षेत्रं कुंकुमवापिकाभिधम् ।
कान्तं सेवय सर्वं ते दास्यं फलर्द्धिमद्भवेत् ।।७७।।
गृहाण वनपुष्पाणि फलानि विविधानि च ।
अर्पय पतये तत्र नमस्काराँश्च मे वद ।।७८।।
अहं पश्चिमभागेऽत्र क्षेत्रसीम्नि तदाज्ञया ।
तुरीरूपेण तिष्ठामि क्षेत्रपा कमला स्वयम् ।।७९।।
अदृश्येन स्वरूपेण कृष्णं सेवे हि नित्यदा ।
याहि शीघ्रं मानसेष्टं तव तत्र भविष्यति ।।2.161.८०।।
इत्युक्त्वा सा तुरीलक्ष्मीर्मूर्तौ विलीनतां गता ।
धनमेदो हर्षमत्तो माघमासे तु कृष्णके ।।८१ ।।
पक्षे कुंकुमवाप्यां सकुटुम्बश्च मुदा ययौ ।
वीक्ष्य वीक्ष्य मुदं प्राप ह्युद्यानानि वनानि च ।।।८२।।।
लोमशस्याश्रमं वीक्ष्य वीक्ष्याकाशगतालयम् ।
ब्रह्मप्रियाः समालोक्य विलोक्याऽश्वसरोवरम् ।।८३ ।।
सौधानि बहुलक्षानि विलोक्य देवतालयान् ।
वीक्ष्य तीर्थानि दिव्यानि धनमेदो जहर्ष ह ।।८४।।
स्थले स्थले चकाराऽसौ दण्डवत् सकुटुम्बकः ।
लक्ष्मीदर्शितकान्तं च द्रष्टुं महालयं ययौ ।।८५।।
यत्राऽनादिः कृष्णनारायणो विराजते प्रभुः ।
कोटिसूर्याभमुकुटाभूषणादिप्रतेजितः ।।८६।।
रूपानुरूपावयवो भगवान् कमलादिभिः ।
सेवितः श्रीहरिः साक्षाद् देवमुक्तादिसेवितः ।।८७।।
नेमे च दण्डवत् कृष्णं ददौ तुरीप्रदोपदाः ।
पुपूज च स्वयं पुष्पैः फलैर्भावैर्हृदंगमैः ।।८८।।
पादोदकं पपौ मूर्ति हृदये स दधार च ।
प्राप्य प्रासादिकं चापि सत्कारं स्वागतादिकम् ।।८९।।
भोजनं चापि संप्राप्य विश्रान्तिं स चकार ह ।
सायं तीर्थानि कर्तुं च ययावश्वसरस्तटे ।।2.161.९०।।
निशायां च तटे न्यग्रोधस्य तले ह्युवास सः ।
जातिस्वभावभावेन तीरे वासमरोचयत् ।। ९१ ।।
रात्रौ स भजनं चक्रे नामसंकीर्तनं हरेः ।
प्रातर्जातिस्वभावेन वीक्ष्य मत्स्याँस्तु रोहितान् ।।९२।।
चक्रचिह्नसुशोभाढ्यान् धर्तुं मनोऽकरोत्तदा ।
तीरं गत्वा सूत्ररश्मिं मुमोचाऽप्सु सकण्डकाम् ।।९३।।
मत्स्यरूपधरः कृष्णनारायणः स्वयं हरिः ।
भूत्वाऽऽनने च बडिशं गृहीत्वा तद्वशं ययौ ।।९४।।
धनमेदेन सम्प्राप्तो मत्स्यो विशालतां ययौ ।
शंखचक्रगदाधारी बभूव पद्मवान् क्षणात् ।।९५।।
महद्रूपं विलोक्याऽसौ लज्जां भक्तो ययौ तदा ।
हरिः प्राह स्वभावं त्वं त्यज मां भज धीवर ।।९६।।
लक्ष्म्यास्त्वाशीर्वचनैश्च प्राप्तोऽहं ते कृपालवात् ।
दास्यं गृहाण मे याहि लोमशं मनुमावह ।। ९७।।
वैष्णवो भव तिष्ठाऽत्र कुरु मे सेवनं तथा ।
यथा त्वं दृष्टवानत्र मत्स्यरूपं चतुर्भुजम् ।।९८।।
मत्स्यतीर्थमिदं मेऽस्ति मत्स्यावताररूपवान् ।
त्वदर्थं ते दृष्टिपथं समागतोऽस्मि तं भज ।।९९।।
धीवरा मत्स्यदायादा मत्स्यस्नेहा भवन्ति वै ।
तवाऽहं मत्स्यरूपेण दास्ये मोक्षं भजस्व माम् ।। 2.161.१० ०।।
मत्स्यमूर्तिं विधायाऽत्र वटाधस्ताद् भजस्व माम् ।
तीर्थं मत्स्यावतारस्य ममैतत्पापनाशनम् ।। १० १।।
अश्वपट्टसरस्तीरे स्वर्गमोक्षप्रदं शुभम् ।
धीवराणां विशेषेण भविष्यति प्रभुक्तिदम् ।। १ ०२।।
इत्युक्त्वा राधिके कृष्णनारायणस्तिरोऽभवत् ।
धनमेदो ययौ शीघ्रं लोमशस्याश्रमं ततः ।। १ ०३।।
प्राप्तो मन्त्रं तौलसीं च स्रजं वैष्णवदासताम् ।
'ओं नमः श्रीकृष्णनारायाणाय पतये स्वाहा' ।। १ ०४।।
इतिप्राप्य सरस्तीरे समाययौ कुटुम्बयुक् ।
वटाधस्तात् पर्णकुटीं कृत्वोवास निरन्तरम् ।। १ ०५।।
मत्स्यमूर्तिं ततः कृत्वा भेजे कृष्णनरायणम् ।
स्वल्पकालेन वै राधे मुक्तिं चाप तु शाश्वतीम् ।। १ ०६।।
दिव्यपार्षदवर्यैश्च नीयमानः कुटुम्बयुक् ।
ययावक्षरलोकं स तीर्थे मात्स्येऽश्वसारसे ।। १ ०७।।
एवं ये तत्र वै गत्वा करिष्यन्त्याप्लवादिकम् ।
धीवरा अपि तत्तुल्या मोक्षं यास्यन्ति राधिके ।। १ ०८।।
माघाऽमायां मया तत्र मत्स्यरूपं प्रकाशितम् ।
पठनाच्छ्रवणाच्चास्य मत्स्यतीर्थफलं भवेत् ।। १ ०९।।
भुक्तिं मुक्तिं लभेन्मर्त्यः स्वर्गं पुत्रं धनादिकम् ।
यद्यदिष्टतमं सर्वं लभेत् कृष्णकृपालवात् ।। 2.161.११ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने तुरीदेव्या आशीर्वादेन धनमेदधीवरस्य यात्रालोः कुंकुमवाप्यां मत्स्यावतारदर्शनोत्तरं मुक्तिर्मत्स्यतीर्थं चेति-
निरूपणनामैकषष्ट्यधिकशततमोऽध्यायः ।। १६१ ।।