लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १९५

← अध्यायः १९४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १९५
[[लेखकः :|]]
अध्यायः १९६ →

श्रीकृष्ण उवाच-
राधिके श्रीबालकृष्णो विमानात् समवातरत् ।
रायगामलनृपतिः पुष्पहारान् ददौ गले ।। १ ।।
राज्ञी प्रक्षालयामास चरणौ परमात्मनः ।
कन्यकाश्च कुटुम्बं च राज्ञः पुपूजुरच्युतम् ।। २ ।।
गन्धाक्षतैः पुष्पस्रग्भिश्चन्दनेन सुगन्धिना ।
हारान् गुच्छान् ददौ चापि ततो राजा हरिं च तम् ।। ३ ।।
न्यषादयद् रम्यगजेऽम्बालिकावरशोभिते ।
शृंगारितेऽतिसुभगे चतुर्दन्तेऽर्जुने वरे ।। ४ ।।
उच्चके संस्थितं कृष्णं जनता समलोकयत् ।
छत्रं दधुश्च शिरसि कुमाराश्चामरेऽपि च ।। ५ ।।
अन्यान् सर्वान् महीमानान् शकटीषु न्यषादयत् ।
राजाऽभ्रामयदीशेशं नगर्यां राजमार्गके ।। ६ ।।
रिगाप्रजा हरिं नत्वा पुपूजुरुत्तमोत्तमैः ।
फलै रत्नैरम्बराद्यैः स्वर्णरूप्यककम्बलैः ।। ७ ।।
पुष्पहारैर्हीरकाद्यैरमूल्यवस्तुभिस्तथा ।
गोपुरे चत्वरे संगे हट्टके मार्गसन्निधौ ।। ८ ।।
अंगणे सर्वथा लोका अपूजयन् सुवस्तुभिः ।
अवर्धयन् शुभा गौर्योऽक्षतलाजाब्जकेसरैः ।। ९ ।।
हार्दिकैर्भावनैश्चापि निरीक्षणैः सुमानसैः ।
स्वागतं सर्वतो बुद्ध्या चक्रुः कीर्तनगीतिभिः ।। 2.195.१० ।।
राजप्रासादवर्यं च ययौ कृष्णोऽतिभास्वरः ।
राजकन्याः पञ्च कृष्णहस्तं जगृहुरादरात् ।। ११ ।।
राज्ञी पुपूज देवेशं जामातारं तदा मुदा ।
ददौ दानानि सुभगा विविधानि पुपूज च ।। १ २।।
ददौ कन्याः पञ्च कृष्णनारायणाय तत्र ह ।
उत्सवं च शुभं चक्रे राजा कृतार्थतां वहन् ।। १३।।
ततः प्रधानसौधानि प्रजागृहाणि सर्वशः ।
श्रेष्ठिनां मन्दिरोद्यानगृहादीनि ययौ हरिः ।। १४।।
भगवान् श्रीहरिस्तत्र सर्वत्र पूजितः प्रभुः ।
ईशानो ब्रह्मपत्न्यश्च गौर्यो महर्षयस्तथा ।। १५।।
सर्वेऽपि पूजितास्तस्यां नगर्यां नागरैर्मुदा ।
गौरीभिः पूजितं कृष्णकुटुम्बं भाववस्तुभिः ।। १६ ।।
ततो हरिर्निजावासं चाययौ सैन्यशोभितः ।
जलपानं चकाराऽथ सभां चकार तत्र च ।। १७।।
उपादिदेश च जनान् राधिके कृष्णवल्लभः ।
धर्मः पाल्यः सदा भक्तैरर्थस्तेन प्रजायते ।। १८।।
केवलार्थपरो जन्तुरचिरेण विनश्यति ।
वित्तं दत्तं च वा न्यस्तमस्थाने चेद् विनश्यति ।। १९।।
हिंसार्थं योजितं चापि पापायैव प्रकल्पते ।
यद्वाऽऽत्मनोऽपि हिंसां वा कुरुते हिंसकं भवत् ।।2.195.२०।।।
धर्म ऊधो भवत्येव मा छिन्द्यात्तं कदाचन ।
ऊधश्छेदे पयोलाभो क्षीरार्थिनो न जायते ।। २१ ।।
ऊधसोऽर्थमयं दुग्धं प्रगृह्णीयाद् विवेकवान् ।
दुग्धं दोग्ध्र्याः सेवनेन प्राप्यते नित्यमुत्तमम् ।। २२।।
एवं पृथ्वीमुपायेन भुञ्जानो लभते फलम् ।
सतीं गां च तनुं धर्मं भुञ्जानो लभते फलम् ।। २३।।
दोग्ध्रीं धान्यं सुवर्णं च रक्षयेत् पृथिवीं च ताम् ।
धर्मं नित्यं रक्षयेच्च दोग्ध्रीं मत्वा विवेकवान् ।।२४।।
भूतानां रक्षणं धर्मो दया सा परमा मता ।
दयाधर्मेण कर्ता वै तरत्यसारसागरम् ।।२५।।
भीतानां रक्षणं कार्यं रक्षाफलं सुलभ्यते ।
दशवर्षसहस्राणि स्वर्गे वासात्मकं हि तत् ।। २६।।
स्विष्टिः स्वधीतिः सुतपा यान् लोकान् जयते ततः ।
तानेव दयया प्राज्ञो जयते धर्ममाचरन् ।।२७।।
देवताः पितरः सन्तो जीवन्ति दानधर्मणा ।
अन्यभूतानि जीवन्ति दयागार्हस्थ्यधर्मणा ।।२८।।
छायायामप्सु वायौ च सुखमुष्णे प्रमेलने ।
अग्नौ वाससि सूर्ये च सुखं शीते प्रमेलने ।। २९।।
शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः ।
उष्णे शीतं साधुरूपं प्राप्तव्यं सुखदं हृदि ।।2.195.३ ०।।
शीते चोष्णं कृष्णरूपं प्राप्तव्यं सुखदं सदा ।
तेषु भोगेषु नाऽसक्तो लभते सुखमुत्तमम् ।।३ १।।
अन्ये धर्माः शीतजानामन्ये चोष्णनिवासिनाम् ।
उष्णस्थानां स्नानजं च फलं यत् स्याच्छुभप्रदम् ।।३२।।
शीतस्थानां यज्ञदानैस्ततोऽधिकं फलं भवेत् ।
अर्थदानं मतं पुष्टिप्रदं देहस्य तुष्टये ।।३३ ।।
अर्थो द्वेधा धनरूपः सुखदोऽत्र भवेत् खलु ।
परार्थो मोक्षरूपस्तु शाश्वतिकसुखप्रदः ।।३४।।
अभयस्य प्रदातुस्तु फलं सर्वोत्तमोत्तमम् ।
नहि प्राणसमं दानं मोक्षदानं ततोऽधिकम् ।।३५।।
अहं श्रीबालकृष्णो वै स्वामिश्रीकृष्णवल्लभः ।
ददामि मोक्षदानं च प्राणदानं धनादि च ।।३६।।
श्रेष्ठं मध्यं कनिष्ठं च त्रयमेतद्विभज्यते ।
मोक्षदानं परं दानं दातव्यं सर्वथा भुवि ।।३७।।
ग्रहीतव्यं तु तद्दानं नित्यानन्दप्रदं तु यत् ।
अन्याऽऽदाने भवेद् व्याधिर्मोक्षदाने विनश्यति ।। ३८।।
मोक्षदाने ब्रह्मदानं ब्रह्मभूतं करोति हि ।
ब्रह्मवृक्षो रक्ष्यमाणो मधुहेम ददाति वै ।।३ ९।।
ब्रह्मदानपरं दानं नाधिकं सृष्टिमण्डले ।
मोक्षदानं ब्रह्मदानं ब्रह्माहं मां ददामि च ।।2.195.४० ।।
धर्मोऽहं चार्थरूपोऽहं मोक्षोऽहं मोक्षदोऽप्यहम् ।
मोक्षात्मानं ददाम्येव मुमुक्षवे प्रसादितः ।।४१ ।।
स्त्रियं वा ब्रह्म वा हन्यात् साधुं हन्यात्तु यो घृणी ।
तत्पापैः क्रियमाणैश्च सृज्यते स दरिद्रकः ।।४२।।
ईशानो रुद्रदेवश्च हिनस्त्यसाधुपापिनः ।
साधून् रक्षति सर्वात्मा मद्रूपो रुद्र ईश्वरः ।।४२।।
आत्मा रुद्रो निजः प्रोक्तः पापं हन्याद् यदा स्वतः ।
पापं द्वेषो वञ्चनादि चात्मघातादि नाशयेत् ।।४४।।
आत्मघातो मोक्षघातस्तं न कुर्यात् कदाचन ।
आत्मा स्वार्थी भवेन्नित्यं मोक्षार्थी मत्समागमात् ।।४५।।
देहभावं न चोहेत मिश्रभावं परित्यजेत् ।
शुष्कैरार्द्रं दह्यतेऽपि मिश्रितं चेद् भवेद् यदि ।।४६ ।।
आत्मा दुःखी जायतेऽपि देहमिश्रो भवेद् यदि ।
पापकृद्भिः कथंचिच्च न स्यान्मिश्रो विवेकवान् ।।४७।।
रागद्वेषौ पापरूपौ त्यक्तव्यौ मुक्तिमिच्छता ।
प्रमादमोहौ पापौ च त्यक्तव्यौ भूतिमिच्छता ।।४८।।
पुण्यलोकः स्वयं स्वर्गः सुखी चात्मा दिवं मतम् ।
पापलोकोऽत्र निरयो दुःखी चात्मा ह्यधो मतः ।।४९।।
पृथ्वी साधूँस्तथाऽसाधून् सन्धारयति सदृशी ।
सूर्यः साधूँस्तथाऽसाधून् करोति तापनं समः ।।2.195.५० ।।
जलं तृप्तान् करोत्येव साधूनसाधुकानपि ।
वातः प्राणं स्पर्शनं च समं करोति देहिषु ।।।५१ ।।
आपः पुनन्ति सर्वांश्च साध्वसाधून् समानतः ।
अत्र लोके तथा चास्ति फललोके तु भिन्नता ।।५२।।
पुण्यशालिकृते वारि शीतं तत्रोपसर्पति ।
अपुण्यस्य कृते वारि दृष्टिमार्गं न गच्छति ।।५३।।
पुण्यशालिकृते पृथ्वी कोमलास्तरणान्विता ।
अपुण्यस्य कृते पृथ्वी कण्टककर्करान्विता ।।५४।।
पुण्यशालिकृते वायुः शीतलो गन्धिसंस्पृशः ।
अपुण्यस्य कृते वायुर्विषोल्बणोऽतिदारुणः ।।५५।।
पुण्यशालिकृते सूर्यो यथापेक्षोष्णताप्रदः ।
अपुण्यस्य कृते सूर्यो दाहको भस्मसात्करः ।।५६।।
इत्येवं चान्तरं लोके फलाढ्ये वर्तते सदा ।
पुण्यलोको मधुमाँश्च घृतादः स्वर्णभूषणः ।।५७।।
अमृतादो मोदयुक्तो जरामृत्युविवर्जितः ।
पापस्य लोको निरयस्तमोदुःखसुतापनः ।।५८।।
क्षुत्तृड्व्याप्तः शोककोशः क्षणमृत्युवशंगतः ।
तं लोकं गन्तुमिच्छेद् यो विवेकभ्रष्ट एव सः ।।१९।।
पुण्यलोकं प्रयातुं यो वाञ्च्छेद् विवेकवान् हि सः ।
शाश्वतं च परं लोकं मम धामाऽक्षराभिधम् ।।2.195.६ ०।।
गन्तुमिच्छेत्तु यः प्राज्ञो मुमुक्षूत्तम एव सः ।
नित्यपूजो ब्राह्मणस्तल्लोकं समभिगच्छति ।।६ १।।
नित्यं दानी मखी रक्षी पूजी क्षत्रोऽपि गच्छति ।
उद्यमी चोपकारी च धर्मी वैश्योऽपि गच्छति ।।६२।।
हिती सेवी च सन्तोषी याति शूद्रोऽपि शेषभुक् ।
तत्र तत्राऽनुसन्धानं मम भक्त्यात्मकं स्मृतम् ।।६३ ।।
आज्ञां वहते नियतो गुरोर्योऽस्खलितो जनः ।
तस्य सिद्धिर्भवत्येव गुरोबर्लान्न संशयः ।।६४।।
अल्पं च सारभूतं च करणीयं विशेषतः ।
येन सिद्धिर्द्रुतं श्रेयःप्रदा भवति देहिनः ।।६५।।
येषां श्रीभगवान् रक्ष्यो येषां रक्ष्यं च कीर्तनम् ।
मम भक्तास्तथा रक्ष्यास्ते रक्ष्या मम सर्वदा ।।५६।।
येषां पुरोगमा भक्ताः सन्तो ब्रह्मपरं त्वहम् ।
यद्गृहे भक्तकन्याश्च ते रक्ष्या मम सर्वदा ।।६७।।
न कालात् कर्मतस्तेषां मायातो यमतो भयम् ।
योषां चास्मि गृहे चाहं हृदये पूजितः सदा ।।६८।।।
साधून् रक्षेत् सदा राजा ते हि रक्षन्ति रक्षिताः ।
आशीरेषां भवेद् धामप्रदात्री बन्धनाशिनी ।।६९।।
दानेन तपसा यज्ञैर्भक्त्या दमेन सेवया ।
साधवो वा गृहस्था वा क्षेममिच्छेयुरात्मनः ।।2.195.७०।।
अपारे पारकर्ता यश्चाऽप्लवे प्लवदोऽपि यः ।
यमाश्रित्याऽतिघोरेऽत्र संसारे सुखिनो जनाः ।।७१ ।।
त्यागी वापि गृही वापि नरो नारी च वा भवेत् ।
तारकं बान्धवं मत्वा साधुं तं परिपूजयेत् ।।७२।।
परमेशं तथा सन्तं ज्ञानदं च गुरुं प्रभुम् ।
सतीं साध्वीं पूजयेच्च मोक्षदो हि यतो गुरुः ।।७३।।
किं तैर्ये वृषभा नोह्याः किं धेन्वा वाऽप्यदुग्धया ।
किं पत्न्या वन्ध्यया लाभः कोऽर्था राज्ञाऽप्यरक्षता ।।७४।।
किं तद्धनेन देहेन सेवा साधोर्न मे भवेत् ।
किं राज्येन च शुष्केण किं दस्युग्रस्तसम्पदा ।।७५।।
किं निःस्नेहेन भोग्येन किं जनु यन्न मुक्तिदम् ।
यथा काष्ठकृतो हस्ती शार्दूलश्चर्मकृद् यथा ।।७६।।
यथा षण्ढो यथा क्षारं क्षेत्रं निर्विद्यको यथा ।
यथा मेघाऽऽडम्बरश्च क्षत्रं बलविवर्जितम् ।।७७।।
यथा व्रतं दानहीनं भक्तः स्नेहविहीनकः ।
गुरुर्ज्ञानादिशून्यश्च सर्वेप्येते निरर्थकाः ।।७८।।
सफलं मोक्षदं सर्वं निष्फलं तद्विवर्जितम् ।
आत्मलाभो न वै यत्र स लाभो हानिरुच्यते ।।७९।।
आत्मलाभः परो लाभः परमात्मसमर्पणम् ।
मोक्षलाभो भवेत्तेन सत्यलाभो मतो हि सः ।।2.195.८० ।।
सेवयन्तु सतो नित्यं भजन्तु मां सदा जनाः ।
रक्षयन्तु स्वकं धर्म मम धाम प्रयान्त्वपि ।।८ १।।
भवतामस्तु वै स्वस्ति लोके चात्र परत्र च ।
इत्युक्त्वा विररामाऽथ राजा पुपूज तं प्रभुम् ।।।८२।।
प्रजाश्चानर्चयामासुर्बहुवस्तुभिरादरात् ।
राज्ञी पूजां चकाराथ श्रीहरेः कन्यकायुता ।।।८३।।।
तिस्रः कन्या हरेर्हस्तं जगृहुः पतिभाविताः ।
सार्थकं च जनुश्चक्रुः प्राप्य श्रीपुरुषोत्तमम् ।।८४।।
भोजनं प्रददौ राजा हरये च कुटुम्बिने ।
महीमानेभ्य एवापि ततः स्वो बुभुजे नृपः ।।८५।।
चकार सुमहान्तं चोत्सवं रात्रौ प्रजायुतः ।
नृत्यानि कारयामास वाद्यभक्त्यादिभिः सह ।।८६।।
रात्रौ सुभोजनं लब्ध्वा हर्याद्यास्ते विशश्रमुः ।
प्रातः समुत्थिता वाद्यरवैर्मंगलनिःस्वनैः ।।८७।।
कृताह्निकास्तु हर्याद्या गन्तुं सज्जास्तदाऽभवन् ।
मन्त्रं हरिर्ददौ तत्र प्रजाभ्यस्तूर्णमर्थितम् ।।८८।।
राजा श्रीहरये स्वर्णं यौतकं बहुधा ददौ ।
उपदाः प्रददौ चापि हरिश्चापि धनं तदा ।।८९।।
लातवायर्षिणे प्रादाद् यथायोग्यं प्रपूजनम् ।
राजा ददौ विदायं च दुग्धपानोत्तरं ततः ।।2.195.९०।।
हरिर्विमानमारुह्य तूर्णं शृण्वन् जयध्वनिम् ।
अम्बरे चाऽभवत् सर्वकुटुम्बेन समन्वितः ।।९ १ ।।
अन्ययानानि सर्वाणि चाम्बरे त्वभवँस्तदा ।
राजा सैन्येन सन्मानं कृतवान् समयोचितम् ।।९२।।
फेनतन्तुनृपश्चापि फालनादो मुनिस्तदा ।
आजग्मतुः समानेतुं निजराज्यं सतां पतिम् ।।९३ ।।
हरिस्तेनार्थितस्तूर्णं बहुमानपुरःसरः ।
व्योम्ना सर्वान् प्रयुज्यैवाऽऽशीर्वादैः प्रययौ तदा ।।९४।।
अन्यान्यपि विमानानि ययुस्तूर्णं तदाम्बरे ।
फेनतन्तुमहाराजराष्ट्रमुल्लंघ्य खाडिकाम् ।।९५।।
तूर्णनयानदीतीरे संगमस्थे मनोहरे ।
नगरे त्रिनयाख्ये तत्समीपोद्यानमण्डले ।। ९६।।
राजा पुरः प्रगत्वैव सैन्यसन्मानमाचरत् ।
राजदर्शितमार्गेण हरिर्नैजं विमानकम् ।।९७।।
अवातारयदुद्याने राजसौधस्य सन्निधौ ।
विमानानि तथाऽन्यानि चावतेरुस्तदाऽम्बरात् ।।९८।।
तदा वाद्यान्यवाद्यन्त जयशब्दास्तथाऽभवन् ।
पुष्पवृष्टिः प्रजानां चाऽभवद्विमानसन्निधौ ।।९९।।
राधिके कीर्तनान्येव गौर्यो जगुः प्रजाजनाः ।
स्वागतं परमं राजा चक्रे यान्त्रिकसद्रवैः ।। 2.195.१० ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने रायगामलराष्ट्रे रिगानगर्यां भ्रमणं पूजनमुपदेशनं भोजनं विश्रमणं रात्रियापनं चतुर्दशीप्रातर्दुग्धादिपानोत्तरं फेनतन्तुनृपराष्ट्राभिगमनमित्यादिनिरूपणनामा
पञ्चनवत्यधिकशततमोऽध्यायः ।। १ ९५।।