लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २१६

← अध्यायः २१५ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २१६
[[लेखकः :|]]
अध्यायः २१७ →

श्रीकृष्ण उवाच-
राधिके पञ्चदश्यां वै प्रभाते बालकृष्णकः ।
मंगलैर्गीतिकाभिश्च वाद्यैर्बुबोध संस्तवैः ।। १ ।।
कृतस्नानः कृतपूजः कृतदुग्धादिपानकः ।
सिंहासने निषसाद पितरावभिवन्द्य च ।। २ ।।
तावद्राजा समायातः पूजनार्थं हरेः पुरः ।
ददौ वै मुकुटं मूर्ध्नि कुण्डले कटके तथा ।। ३ ।।
सुवर्णस्योर्मिकाश्चापि शृंखलां मौक्तिकस्रजम् ।
रत्नहीरकहाराँश्च द्रव्यं लक्षाधिकं ददौ ।। ४ ।।
आत्मार्पणं ददौ चापि पुष्पहारान् ददौ तथा ।
पादौ प्रक्षाल्य च पपौ राजा सम्बन्धिसंयुतः ।। ५ ।।
नीराजनं चकाराऽथ ननाम पाहि मां जगौ ।
राज्ञी पूजां यौतकं च ददौ वव्रेऽवनं सदा ।। ६ ।।
एवंस्थिते तु तद्भ्राता कालीमण्डलिनाग्रजः ।
पूर्वराज्यप्रशास्ता वै वनजेलेशभूपतिः ।। ७ ।।
वनज्वालाप्रदेशेशः सानुज्योष्ट्रीपुरीपतिः ।
आययौ स्वविमानेन समानेतुं हरिं तदा ।। ८ ।।
आगत्य दण्डवच्चक्रे पुष्पमालां गले न्यधात् ।
आर्पयत् स्वर्णपात्रे च सौवर्णमुद्रिकाशतम् ।। ९ ।।
प्रार्थयच्च प्रदेशान् स्वान् पावयितुं परेश्वरम् ।
हरिस्तथास्त्विति प्राह सज्जोऽभवत् क्षणान्तरे ।। 2.216.१ ०।।
चक्रे कालीमण्डलीनो नृपो विदायमाननम् ।
अर्हणां महतीं चक्रे चन्दनाऽक्षतकुंकुमैः ।। १ १।।
द्रव्यैर्नानाविधै रत्नैर्हारैः शेखरकुण्डलैः ।
यौतकैश्चोपदाभिश्च नीराजनं ततोऽकरोत् ।। १२।।
हरेः सार्थस्य पूजां च कृत्वा सैन्येन तूर्यकैः ।
जयनादैस्तथा मानं विदायं श्रीहरेर्व्यधात् ।। १ ३।।
श्रीहरिः स्वविमानस्थोऽभवत्तत्र तदाम्बरे ।
प्रजास्तु दर्शनं चक्रुर्नेमुस्तुष्टुवुरुत्सुकाः ।। १४।।
आगन्तव्यं रक्षितव्या वयमाहुः पुनः पुनः ।
हरिर्दर्शितमार्गेण व्योम्ना विमानमैरयत् ।। १५।।
राकासनो महर्षिश्च राजगुरुविमानके ।
सार्धं कृष्णेन चायाति राजा पूर्वं ययौ पुरीम् ।। १६।।
सम्मानार्थं हरेस्तत्र सैन्यं सज्जं ह्यभूत् तथा ।
प्रजाः सर्वाः साक्षताश्च पुष्पमालासमन्विताः ।। १७।।
स्वागतार्थं महोद्याने सानुज्योष्ट्रीसमीपतः ।
पुरःस्थिता अभवँश्च प्रतीक्षन्त्यो हरेर्दिशम् ।। १८।।
गुरुः कालीमण्डलीनस्य पूर्णासनको मुनिः ।
आययौ हरिणा सार्धं तथा राकासनो मुनिः ।। १९।।
व्योम्नि प्रजा विमानं वै समालोक्याऽतिहर्षिताः ।
राजा सैन्येन सहितः स्वागतं वाद्यनादनैः ।।2.216.२०।।
चकार जयशब्दैश्च ध्वजः पताकिकादिभिः ।
नमनैः पुष्पदानैश्च गीतिकाभिश्च मंगलैः ।।२१ ।।
विमानं भूतले स्थैर्यमाप्तं हरिर्बहिर्ययौ ।
राजा ददौ बालकृष्णकण्ठे पौष्पीः स्रजः शुभाः ।।२२।।
पादयोश्च जलैश्चक्रेऽभिषेचनं तदमृतम् ।
पपौ कुटुम्बसहितो दण्डवत् प्रचकार ह ।।२३।।
राज्ञी नेमे कंभरायै महालक्ष्म्यै पुपूज ताम् ।
गोपालकृष्णं पितरं पुपूज नृपतिस्ततः ।।२४।।
कुटुम्बं ब्रह्मकान्ताश्च पुपूजुश्च कुटुम्बिनः ।
हस्तियाने हरिं राजा न्यषादयत् सुवर्णजे ।।२५।।
तथाऽन्यानश्वगन्त्र्यादौ शिबिकादौ न्यषादयत् ।
हारशेखरगुच्छाद्यैः सम्पूज्य सैन्यसंयुतः ।।२६।।
वाद्यघोषैः कीर्तनैश्च निन्ये पुर्यां हरिं नृपः ।
गोपुरे पूजयामासुः राजकुमारकाः पृथक् ।।२७।।
चत्वरे श्रेष्ठिनश्चापि प्रधाना महति स्थले ।
प्रातिरथ्यं पूजनं च हरेस्तत्र प्रजा व्यधुः ।।२८।।
प्रमदा हारपुष्पाद्यैश्चन्दनाऽक्षतसत्फलैः ।
कुंकुमैः पूजयामासुर्हृदयैर्भावनादिभिः ।।२९।।
अम्बरैश्च तथा भूषाभिश्च द्रव्यैः सुवर्णकैः ।
पादस्पर्शैर्मस्तके च दुःखहावर्धनैरपि ।।2.216.३ ०।।
अञ्जलिभिश्चक्षुषां च भावनाभिरपूजयन्।
दृष्ट्वा कान्तं बालकृष्णं रूपरूपातिशोभितम् ।।३ १ ।।
दध्युर्वै हृदये कान्ता अविस्मरणशाश्वतम् ।
अपरा दूरतः स्थित्वा लोकयामासुरच्युतम् ।।३२।।
दिव्यतेजोमयं शान्तं कोटिकन्दर्पसुन्दरम् ।
कृष्णं राधादिसहितं गोपगोपीगणार्चितम् ।।३३।।
तथाऽन्यास्तं चतुर्हस्तं नारायणं रमार्चितम् ।
लोकयामासुरेवेशं चेतरा बदरीपतिम् ।।३४।।
तापसं श्रीहरिं कृष्णं परास्तु शेषशायिनम् ।
काश्चिदन्याः सूर्यसंस्थं हिरण्मयं प्रभुं हरिम् ।।३५।।
तथाऽन्या वह्निमध्यस्थं दिव्यं सत्पुरुषं प्रभुम् ।
युवत्यो ददृशुः कान्तं पूर्णकामसुखप्रदम् ।। ३६।।
भक्ता ददृशुस्तं देवं महाऽक्षरनिवासिनम् ।
प्रजा नरास्तथा नार्यो ददृशुर्विष्णुरूपिणम् ।। ३७।।
राधारमासतीवृन्दातुलसीश्रीप्रसेवितम् ।
रमापद्मावतीहासामंजुलासद्गुणार्चितम् ।।३८।।
माणिकीदुःखहालक्ष्मीदुर्गिकाकमलार्चितम् ।
ददृशुर्बहुधा तत्र हस्तियानगतं हरिम् ।।३ ९।।
ब्रह्मप्रियादिभिश्चापि पिशङ्गिनीप्रपूजितम् ।
गौरीभिश्चामरीभिश्च कन्याभिरर्चितं प्रभुम् ।।2.216.४०।।
ददृशुर्वै योषितश्च दिव्यं श्रीहरिमेव ताः ।
एवं हरिर्ददौ नैजं दर्शनं बहुधा तदा ।।४१ ।।
सानुज्योष्ट्रीनगर्यां वै प्रजाभ्यो विहरन् मुहुः ।
एवं भ्रमित्वा नगरीं राजसौधं समाययौ ।।४२।।
सिंहासने व्यराजच्च राज्ञी पूजां चकार ह ।
जलपानं ददौ चापि तस्यास्तु पञ्चकन्यकाः ।।४३।।
पुपूजुः श्रीपतिं कान्तं सुन्दरं मनसेप्सितम् ।
वरमालां न्यधुः कण्ठे कृष्णस्य पारिजातिकीम् ।। ४४।।
वव्रिरे तमलभ्यं वै सुलभं स्वगृहागतम् ।
कृतकृत्या अभवँश्च प्राप्य कान्तं हरिं च ताः ।।४५।।
नृपो राज्ञी कुमाराश्च सद्भाग्यं मेनिरे निजम् ।
राजोत्सवं चकारापि मध्याह्ने भोजनं ददौ ।।४६।।
भुक्त्वा सार्थाः सुविश्रान्तिमापुस्त्रिवादनोत्तरम् ।
यौतकं च विदायं च ददौ राजा तु शार्ङ्गिणे ।।४७।।
दर्शनार्थं नरा नार्यश्चाययुश्च तदाऽऽलयम् ।
तेभ्यो हरिर्ददौ बोधं मन्त्रं च वैष्णवं शुभम् ।४८।।
बलं सदा हरेः रक्ष्यं सर्वसौख्यप्रदं नृणाम् ।
आपत्काले मृत्युकाले यमकाले ह्यसद्गतौ ।।४९।।
गतिरेव बलं मेऽस्ति चापदादिनिवारकम् ।
शाल्मलिर्बलहीनोऽपि पुरा ब्रह्माश्रयाज्जयी ।।2.216.५० ।।
अभवद् वायुदेवस्य कृत्वा पराभवं खलु ।
हिमाचले महानासीद् वृक्षः शाल्मलिसंज्ञकः ।।५१ ।।
शाखी स्कन्धी च पत्री च पशुपक्ष्याश्रयप्रदः ।
पुष्पफलादिभिः क्षुद्वारकश्चाश्रयिणामपि ।।५२।।।
विशालां प्रति गच्छन् वै नारदस्तं विशालिनम् ।
पप्रच्छ त्वं कथं वृक्ष निर्भयो वर्तसे सुखी ।।५३ ।।
वायुना तव शाखां च भग्नां पश्यामि नैव यत् ।
किन्नु ते पवनश्चास्ते मित्रं यस्त्वां प्ररक्षति ।।५४।।
महाबलो हि पवनः पर्वतानपि नाशयेत् ।
स त्वां त्यक्त्वा वर्ततेऽत्र ततो हेतुर्भविष्यति ।।५५।।
हस्तिनो गवयाश्चान्ये मृगास्तिष्ठन्ति ते ह्यधः ।
शोभसे त्वं परसेव्यश्चोपकारी हि सर्वथा ।।५६।।
तर्कये पवनस्तेऽस्ति बन्धुः सखाऽथवा सुहृत्। ।
यद्वा त्वं पवनस्य स्याच्छरणागत एव ह ।।५७।।
श्रुत्वा तु शाल्मलिः प्राह न मे वायुः सखा सुहृत् ।
न बन्धुर्न शरण्यश्च येनाऽहं रक्षितोऽभवम् ।।५८।।
मम तेजो बलं श्रेष्ठं वायोश्चाष्टादशाधिकम् ।
तेन विष्टम्भितो वायुर्मयैवं स पराकृतः ।।५९।।
तस्माद् बिभेमि वायोर्न कुद्धात्वा वेगवत्तमात् ।
नारदस्तु तदा प्राह महाश्चर्यमिदं श्रुतम् ।।2.216.६० ।।
वरुणो यमराजश्च कुबेरो न मरुत्समाः ।
सर्वचेष्टाकरो वायुस्तं त्वं वै जीतवान् यतः ।।६ १ ।।
यद्वा मिथ्या भाषसे त्वं द्रुपते बुद्धिलाघवात् ।
कथयिष्येऽनिलं गत्वा तव दुर्भाषितं खलु ।। ६२।।
पर्वतैः सागरैश्चापि ग्रहैर्वा देवपादपैः ।
नैव क्षिप्तः कदाचिद्वै वायुर्यथा त्वयोदितः ।।६३।।
ते तं सर्वे नमस्यन्ति त्वं मोहात् कत्थसेऽफलम् ।
इत्युक्त्वा नारदश्चायाद् यत्र वायुः स्थितोऽभवत् ।।६४।।
शाल्मलिवचनान्याह व्याक्षेपसंभृतानि तम् ।
श्रुत्वा तु पवनस्तत्राऽऽययौ यत्र हि शाल्मलिः ।।६५।।
क्रुद्धः प्राह त्वया वृक्ष नारदाय विगर्हणम् ।
मम प्रोक्तं यतस्त्वां दर्शये बलं स्थिरो भव ।।६६।।
पितामहः प्रजासर्गे त्वयि विश्रान्तवान् यतः ।
त्वां त्यजामि सदा वेगेन स्पृशामि हरामि च ।।६७।।
तद्गुणं त्वं परित्यज्य बलं त्वग्रे करोषि मे ।
समूलं त्वां नयिष्येऽद्य वंशविस्तारवर्जितम् ।।६८।।
एवमुक्तः शाल्मलिश्च प्राह मे भयमेव न ।
यथाबलं समायाहि त्यज्यतां क्रोधनं मयि ।।६९।।
न मे भयं तव वायो बलं मेऽस्ति त्वदूर्जितम् ।
ये तु बुद्ध्या हि बलिनस्ते सत्यं बलिनः सदा ।। 2.216.७०।।
देहमात्रबला नैव बलिनो वै यथार्थतः ।
इत्युक्तः पवनः क्रुद्धो झंझावातमयोऽभवत् ।।७ १ ।।
शाल्मलिस्तं विलोक्यैव शातयामास वै निजान् ।
दलान् शाखाः कुसुमानि फलानि स्वल्पशाखिकाः ।।७२।।
तस्थौ दण्डसमो भूत्वा पवनः किंकरिष्यति ।
तावद्वायुश्चातिवेगी ददर्श हीनशाखकम् ।।७३ ।।
शीर्णपर्णदलाद्यं प्रोवाच वनस्पतिं हसन् ।
पश्य मे बलमैश्वर्यं यद्भयात् त्वं विशीर्णितः ।।७४।।
ब्रह्माश्रयात्तथा मेऽत्र कृपालेशादभूः सुखी ।
महतामाश्रयं त्यक्त्वा महान्तमवमन्यसे ।।७५।।
ततस्त्वं दुःखितो जातो वंशविस्तारवर्जितः ।
त्वां भक्तुं प्रसमर्थोऽस्मि मा गर्वं वह वै क्वचित् ।।७६।।
उत्खातुं च समर्थोऽस्मि मा गर्वं वह निष्फलम् ।
एवमुक्त्वातिवेगात्मप्रवाहेण ववौ बलात् ।।७७।।
वक्रीभूतोऽभवत् स्तम्बो भंक्तुं च तत्परोऽभवत् ।
उत्खातुं च भुवः कम्पोऽभवद् वायुप्रवेगतः ।।७८।।
शाल्मलिस्तु तदा नम्रो ब्रह्माणं स्मृतवान् हृदि ।
ननाम वायवे चापि ब्रह्मा शीघ्रमुपाययौ ।। ७९।।
अभयं प्रददौ वायुर्निर्वेगो ह्यभवत्तदा ।
पूजितौ देववर्यौ तौ ययतुश्च निजस्थलीम् ।।2.216.८०।।
इत्येवं बलहीनोऽपि देही वृक्षजडोऽपि च ।
यदि मां ब्रह्मधामानं समाश्रयति कानने ।।८ १।।
मायामयेऽपि तमहं रक्षामि मायिकानिलात् ।
कालाच्च कर्मणश्चापि यमदूतादवामि च ।।८२।।
मद्बलं मम साधूनां बलं त्यजति चेत् पुमान्।
वायुरूपाः कालकर्ममायास्तं नाशयन्ति वै ।।८३।।
पत्रं पुष्पं फलं शाखाः पौत्रान् धनं सुखं सुतान् ।
त्यक्त्वापि संश्रयेत् साधून् भयं तस्य न विद्यते ।।८४।।
सर्वत्यागेऽपि चेन्नास्ति ममाश्रयस्तदा भयम् ।
कालानिलाद् भवत्येव तस्मान्ममाश्रयं लभेत्। ।।८५।।
इत्यादिष्टाश्च राजाद्याः प्रजाजना नराः स्त्रियः ।
चक्रुः श्रीमद्बालकृष्णाश्रयं मनुं च जगृहुः ।।८६।।
जगृहुस्तौलसीं कण्ठीं मूर्तिं हरेश्च जगृहुः ।
पुपूजुः श्रीहरिं प्रेम्णा तथेशानादिकानपि ।।८७।।
जलपानं व्यधाच्चापि विश्रान्तिमाप यावता ।
तावद् राजा विमानेन पारावारपिबाभिधः ।।८८।।
अम्बिकर्षियुतश्चायान्नेतुं कृष्णं स्वराष्ट्रके ।
प्रार्थयद्बहुधा त्वीशं कृष्णस्तथेत्यमानयत् ।।८९।।
सज्जोऽभवत्तदा शीघ्रं ततो विदायकं नृपः ।
यौतकं च ददौ मानं वनज्वालेशभूपतिः ।।2.216.९०।।
प्रजाभिर्भूभृता सम्मानितः श्रीभगवाँस्ततः ।
विमानगोऽभवच्छीघ्रं व्योममार्गे विमानकम् ।।९ १।।
सम्मानेन ययौ राष्ट्रं गतैनसं पवित्रकम् ।
गतैनाराष्ट्रके राजा सम्मानार्थं ययौ पुरा ।।९२।।
कायन्याख्यनगर्याः सन्निधौ चाब्धेस्तटे तदा ।
महाविशाले भूदेशे महोद्याने महालये ।।९३।।
सैन्येन सहितो राजा सम्मानं स्वागतं व्यधात् ।
विमानं चागतं शीघ्रं चावातरत् सुभूतले ।।९४।।
प्रजा राजा तथा चान्ये जयशब्दान् जगुस्तथा ।
सैन्यानि नेमिरे कृष्णं प्रजाश्चक्रुश्च वर्धनम् ।।९५।।
मांगलिकसुतूर्याणां निनादास्त्वभवन् मुहुः ।
कृष्णं द्रष्टुं प्रजाः सर्वा नरा नार्यः समन्ततः ।।९६।।
आजग्मुस्तत्र सुखदे महोद्याने मुदान्विताः ।
पुष्पहारादिभिर्युक्ता लाजाऽऽक्षतादिशोभिताः ।। ९७।।
प्रेम्णा हलहलाशब्दैर्गोगोशब्दातिहर्षिताः ।
सवेगाः कक्षबालाश्च नार्योऽपि द्रुतमाययुः ।।९८।।
मेदिनी द्यौरिवाऽऽसीद्वै तदोज्ज्वलप्रजायुता ।
हरिर्विमानतस्तूर्णं त्वग्रे बहिः समाययौ ।।९९।।
राजा ननाम चरणे पुष्पहारं गले ददौ ।
राज्ञी पुपूज पुष्पाद्यैर्जलं चामृतवद् ददौ ।। 2.216.१०० ।।
प्रधाना नेमिरे चापि पुष्पहारैः समार्चयन् ।
हरिर्जग्राह सर्वेषां नमस्कारादिमाननम् ।। १०१ ।।
स्वागतं स्वीचकारापि मधुपर्कादिकं शुभम् ।
फलं जलं पयश्चापि यददाद्वै प्रजाजनः ।। १ ०२।।
राधिके वीक्ष्य कमलाकान्तं मनोहरं प्रभुम् ।
वृत्तयो निश्चलभावं प्रापुस्तत्र हि योषिताम् ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरेः पंचदश्यां प्रभाते प्रबोधनं कृताह्निकत्वं पूजनं ततो वनज्वालाराष्ट्रगमनं सानुज्योष्ट्रीनगर्यां भ्रमणं पूजनं दिव्य-
दर्शनमुपदेशनं भोजनं ततो गतैनसराष्ट्रगमनं स्वागतं चेत्यादिनिरूपणनामा षोडशाधिकद्विशततमोऽध्यायः ।। २१६ ।।