लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २८३

← अध्यायः २८२ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २८३
[[लेखकः :|]]
अध्यायः २८४ →

श्रीकृष्ण उवाच-
मध्याह्ने च यथा तद्वद् रात्रौ सद्भोजनान्यपि ।
अभवन् सर्वयोग्यानि भुक्त्वा पीत्वा जलादिकम् ।। १ ।।
ताम्बूलकं समगृह्य रात्रिरञ्जनकानि वै ।
द्रष्टुं रंगे गताः सर्वे दृष्टवन्तो नवान् नवान् ।। २ ।।
दृश्यान् बोध्यान् कलाकाण्डान् परिहारोत्तरं ततः ।
निद्रां शान्तिं जगृहुश्च तृतीयाप्रातरागमत् ।। ३ ।।
ब्राह्मे मुहूर्ते सततं मंगलैस्तूर्यनिःस्वनैः ।
गीतिभिर्बन्दिकवाग्भिर्जजागरुश्च देहिनः ।। ४ ।।
ब्रह्माण्डे यानि वाद्यानि तान्यवाद्यन्त तत्र वै ।
स्नाता हृष्टाः कृतसन्ध्यावन्दनाश्च महर्षयः ।। ५ ।।
आशीर्वादान् प्रदातुं वै बालकृष्णं समाययुः ।
कृतस्नानं कृतवेषं समासीनं परासने ।। ६ ।।
दत्ताशीर्वचना विप्रास्तिलकं चन्द्रकं व्यधुः ।
गणेशपूजनं चक्रुः कलशस्य प्रपूजनम् ।। ७ ।।
नान्दीश्राद्धादिकं चक्रुर्गुरोश्च पूजनं व्यधुः ।
कुलदेवाऽर्हणं चक्रुर्वेदघोषान् व्यधुस्तथा ।। ८ ।।
सर्वतोभद्रदेवानां विष्णोश्च पूजनं व्यधुः ।
दुग्धपानादिकं चक्रुर्महीमानाः समन्ततः ।। ९ ।।
भोजनानि व्यधुश्चापि प्रातरारभ्य देहिनः ।
कोट्यर्बुदाब्जपद्माब्जपरार्धजनतास्तदा ।। 2.283.१० ।।
तृतीये प्रहरे कृत्वा परिहारं समन्ततः ।
शुभे मुहूर्ते सज्जाश्च बभूवुः सर्वतोजनाः ।। ११ ।।
काशीं प्रति प्रगन्तुं वै योगयात्रानुयायिनः ।
विमानानां सहस्राणां सहस्राणि तदाऽभवन् ।। १ २।।
श्रृंगारितानि सर्वाणि सज्जानि वाहनान्यपि ।
व्योमगान्येव सर्वाणि योगयात्रात्मकानि वै ।। १३ ।।
उद्धोषितं वरपित्रा काशीमायान्तु पावनीम् ।
योगयात्रात्मकाः सर्वे शिवेश्वरः समीहते ।। १४।।
शंकरो गणयुक्तोऽत्र क्षेत्रं पास्यति सर्वथा ।
नगरं चाश्रमाँश्चापि मण्डपाद्यं च पास्यति ।। १५ ।।
श्रुत्वा सज्जा बभूवुश्च सर्वे वै महीमानकाः ।
सुराष्ट्रीयप्रजाग्र्याश्च सृष्ट्यग्र्याश्च समर्हणाः ।। १६।।
सर्वा ब्रह्मप्रियाश्चापि समस्तकृष्णयत्निकाः ।
तासां पित्रादिकाः सर्वे सर्वभूमिनिवासिनः ।। १७।।
शृणु राधे तदाऽऽश्चर्यमभूच्चमत्कृतिप्रदम् ।
व्योमवाणी स्पष्टभावा चाश्रूयन्त समन्ततः ।। १८।।
सृष्टित्रयेऽपि यैः कन्या दत्ता निजाः परात्मने ।
पञ्चदशसमामध्ये बालकृष्णाय शार्ङ्गिणे ।। १ ९।।
तैः सर्वैस्तत्र पित्राद्यैरागन्तव्यं ध्रुवं यतः ।
तत्र वै शांभवीलक्ष्म्या योगे स्युर्लग्निताश्च ताः ।। 2.283.२०।।
यावता वेदविधिना विधिना मानवेन च ।
वाह्नेयविधिना चापि कन्यादानविधानतः ।। २१ ।।
न्यूनतापरिहारार्थं देशधर्मानुरोधतः ।
वह्निं प्रदक्षिणीकृत्य विधानं संभविष्यति ।। २२ ।।
सर्वाभिश्चापि कन्याभिर्लोमशाश्रमवृत्तिभिः ।
अनादिश्रीकृष्णनारायणकान्ताभिरेव ह ।। २३।।
आगन्तव्यं श्रीकृष्णस्य वाहिन्या सममेव वै ।
स्वपित्रादिकुटुम्बाद्यैः सार्धं रोधो न विद्यते ।। २४।।
श्रुत्वा सर्वे जनकाश्च कुटुम्बाः सर्ववस्तुभिः ।
योग्योपकरणैः सर्वे नारीयुक्ताः समुत्सुकाः ।।।२५।
सज्जा अभवन् कन्याश्चाऽभवन् सज्जाः समस्ततः ।
लोमशो मुनयश्चाऽन्ये महर्षयश्च साधवः ।। २६।।
सज्जा अभवन् सन्तश्च महीमानाः समन्ततः ।
भूषाम्बरविमानाद्यैः सहिताः कोटिशोऽपरे ।।२७।।
राधे तदा तु कन्यानामानन्दो न ममौ तनौ ।
सर्वशृंगारभूषादिपेटायुक्ताः समन्ततः । । २८ ।।
सज्जा अभवँस्तूर्णं वै कृष्णालयं समाययुः ।
कन्यानां पितरश्चापि मातरोऽपि द्रुतं तदा । । २९ । ।
कृष्णालयं समागत्य कन्याऽऽगमं सहाऽपि च ।
वाहिन्या च प्रनिश्चिक्युर्बभूवुर्हृष्टमानसाः । । 2.283.३० । ।
शकुनान्यभवँस्तत्र सर्वेषां तु तदा मुहुः ।
शुभान्येव हि सर्वाणि सर्वासामपि सन्ति च । । ३१ ।।
श्रेष्ठयोगप्रदान्येव यशःकीर्तिकराण्यपि ।
अविघ्नकार्यफलकान्यभवन् सूचनानि च ।। ३२। ।
प्रसन्नाननवत्यश्चाऽऽनन्दभृताः सवत्सकाः ।
दुग्धस्रावं प्रमुञ्चन्त्यो मिलिताः कामधेनवः । । ३३ ।।
सर्वशृंगारभूषाढ्याः सर्वानन्दपरिप्लुताः ।
कन्यका मिलितश्चापि मिलिता वारयोषितः । । ३ ४।।
सफलार्द्राणि सस्यानि दधि गजाः सुभूषिताः ।
साऽम्बालिका राजराज्ञीयुक्तास्तत्र समागताः ।। ३५ । ।
हंसाश्च राजहंसाश्च कन्यकाश्च जलान्विताः ।
गान्धर्व्यो मिलिताश्चापि गायन्त्यः सुविभूषिताः ।। ३६ ।।
देवानां दर्शनं चापि प्रत्यक्षं चाऽम्बरेऽभवत् ।
लक्ष्मीनां कमलानां च दर्शनान्यभवँस्तदा ।। ३७ ।।
वादित्राणां निनदाश्चाऽऽश्रूयन्त मंगलावहाः ।
यज्ञहोमा वेदमन्त्रा अश्रूयन्त शुभावहाः । । ३८ ।।
स्वाभाविकं चाऽभवच्च श्वेतवस्तुप्रदर्शनम् ।
दक्षिणा वह्नयश्चाप्यनुकूला वायवोऽभवन् ।। ३९ ।।
गुर्वाशीर्वादवाचश्चाऽभवँस्तत्राऽतिशोभनाः ।
कृतवस्तूपसंग्राहाः सर्वे नराश्च योषितः ।। 2.283.४० । ।
कुंकुमवापिकासंस्थाः कृतभोजनपानकाः ।
कृतोपहाराः सद्वेषाः कुटुम्बसहिता जनाः । । ४१ । ।
महीमानाः सर्ववर्गाः सभृत्यमित्रबान्धवाः ।
सज्जा बभूवुः शीघ्रं ते सज्जविमानकोटयः । । ४२ । ।
अथ मंगलशंखस्य पाञ्चजन्यस्य वै तदा ।
यात्रामुखे निनादोऽभूद् विधये मंगलाय वै । । ४३ ।।
तदा गोपालकृष्णो वै ददौ दानानि कोटिशः ।
कन्याभ्यश्चापि विप्रेभ्यो बालेभ्यश्च विशेषतः ।।४४। ।
मिष्टान्नानि शर्कराश्च फलानि विविधान्यपि ।
वस्त्राभूषाश्च पात्राणि रत्नानि च धनानि च ।। ४५ । ।
गोदानानि स्वर्णरूप्यप्रदानानि तदा ददौ ।
यात्रामुखे गणेशस्य पूजनं प्रचकार ह । । ४६ ।।
सर्वतोभद्रपूजा च वृद्धानां पूजनं नमः ।
कुलदेवस्य च तथा पुरुषोत्तमशार्ङ्गिणः ।। ४७ ।।
श्रीविष्णोर्दर्शनं चापि पूजनं वै श्रियास्तथा ।
चकार तत्र दानानि ददावसंख्यकान्यपि । । ४८ । ।
तीर्थदेवान्नमस्कृत्य द्वारदेवानपूजयत् ।
गाः सम्पूज्य ततो यानं विमानं समपूजयत् । ।४ ९ । ।
वैदिकाँश्चाऽपूजयच्च बालकृष्णोऽपि वै तदा ।
शंखचक्रगदापद्मधरो मुकुटशोभितः । । 2.283.५ ० । ।
सकुण्डलोऽभवद्धस्ते स्वर्णखड्गधरोऽभवत् ।
वरवेषोऽभवत्तूर्णं हीरहारादिशोभितः । ।५ १ ।।
सर्वकौशेयसौवेर्णवेषोऽभवद् वरोत्तमः ।
कृतकुंकुमतिलकः सुवासितसुगन्धवान् ।। ५२ । ।
प्रकोष्ठबाहुकट्यंगांऽगुलीभूषणभूषितः ।
कृताऽक्षताऽन्वितचन्द्रः शुशुभे तेजसाऽन्वितः । ।५३ ।।
माता श्रीकंभरालक्ष्मीस्तिलकं तस्य संव्यधात् ।
सन्तुष्टाख्या स्वसा चन्द्रं व्यधाद् कण्ठे स्रजं ददौ । । ५४ । ।
मणिमौक्तिकहाराँश्चोज्जयिनी शुकपत्निका ।
न्यधारयद्धरेः कण्ठेऽमृता च कज्जलं ददौ । । ५५ । ।
चक्षुषोः, शंवती केशानसाधयत् सतैलकान् ।
रमाऽलक्तकमेवाऽपि करयोश्च तले ददौ । । ५६ ।।
पदयोश्च तलेऽलक्तकमर्पयद्धि माणिकी ।
लक्ष्मीः कमलहाराँश्च स्वर्णहारान् ददौ तदा । । ५७ ।।
हासा ददौ पुष्पगुच्छं केयूरं मञ्जुला ददौ ।
अम्बा तेजोमणिं चक्रे सुगन्धं सगुणाऽक्षिपत् । । ५८ ।।
एवं विभूषयित्वैव ब्रह्मप्रियास्तथाऽपराः ।
कन्यका कृतवेषाश्च सज्जा भूत्वा व्यवस्थिताः । । ५९ । ।
तथाऽन्ये भ्रातरश्चापि गोपालकृष्णपूर्वजाः ।
अन्ये चापि भ्रातरश्च बालकृष्णस्य पितृजाः । । 2.283.६० । ।
कन्यकाः शतशश्चापि बालाश्च बालिकास्तथा ।
पुत्रपौत्रा स्वसारश्च सम्बन्धिनः सहस्रशः ।
सज्जा बभूवुस्तूर्णं ते कृतपानादनास्तदा । । ६१ । ।
राजानो ये पितरौ वै कन्यकानां च भूमिपाः ।
तेऽपि सज्जा अभवँश्च कृतपानादनाः खलु । । ६ रे ।।
तावद्भेरीनिनादोऽभूच्छंखनादस्तथाऽभवत् ।
विमानेषु समारोहसूचको लम्बगर्जनः । । ६३ ।।
तदा गोपालकृष्णश्च लक्ष्मीः श्रीकम्भरासती ।
कुटुम्बं सुविमाने वै चारुरोह सवस्तुकम् ।
ब्रह्मप्रियाः समस्ताश्चारुरुहुश्च विमानकम् । । ६४। ।
लोमशाद्याः ऋषयश्चारुरुहुः सुविमानकम् ।
साधवोऽश्वपट्टवासाश्चारुरुहुर्विमानकम् ।।६५।।
कुंकुमवापिकालोकाश्चारुरुहुर्विमानकम् ।
राजा स्वर्णांगदोऽप्यारुरोह सवंशविस्तरः ।।६६।।
रणंगमोऽप्यारुरोह लक्ष्मणश्चारुरोह वै ।
तीर्थदेवाश्चारुरुहुश्चारुरुहुः प्रजाजनाः ।।६७।।
महीमानाश्चारुरुहुर्विमानान्ययुतान्यपि ।
शृणु राधेऽग्रगण्यानां नामान्यपि समासतः ।।६८।।
मेघनाद्यश्चतुर्दशसहस्राणि च सज्जिताः ।
षष्ठी या मनसादेवी बालरक्षाकरी सदा ।।६९।।
तस्या रूपाणि कन्या वै दीपावल्यो हि कोटिशः ।
ताः सज्जाश्च विमानो वै लोमशस्याऽऽश्रमात्तदा ।
आरुरुहुः कृतवेशाः सोत्साहाश्चाच्युताऽऽज्ञया ।।2.283.७० ।।
तलाजा या तलपुत्री राक्षसी दिव्यतां गता ।
साऽपि विमानमेवाऽत्राऽऽरुरोह माधवाऽऽज्ञया ।।७१।।
कामधेन्वात्मककन्याः कोटिसंख्या विमानकम् ।
आरुरुहुस्तदा तत्र बालकृष्णाज्ञया द्रुतम् ।।७२।।
वसुमत्या समं कन्याशतमर्जन्तरक्षसः ।
आरुरोह विमानं च बालकृष्णाज्ञया तदा ।।७३।।
आरुरोह हरकन्या क्रोधना माधवाज्ञया ।
धरापुत्र्योऽयुतसहस्राणि धरासमन्विताः ।।७४।।
कोटिसंख्या गह्वराख्याश्चारुरुहुर्विमानकम् ।
सर्वाभरणवस्त्राढ्या दिव्याः प्रोत्साहितास्तदा ।।७५।।
सूच्याख्या वेधसः पुत्री विमानमारुरोह च ।
वनदेवीसुताःलक्षं चारुरुहुर्विमानकम् ।।७६।।
वनदेव्या समं मात्रा ओषध्याख्या हि कन्यकाः ।
दमनादिरक्षसां च नूत्नाख्या लक्षकन्यकाः ।।७७।।
आरुरुहुर्विमानं च भूषाम्बरादिभूषिताः ।
कंकताल्यो नूतनाः षट् चारुरुहुश्च कन्यकाः ।।७८।।
कंकतालादिनार्यश्च दिव्याऽयुतसुकन्यकाः ।
आरुरुहुर्विमानं च सर्वाभरणभूषिताः ।।७९।।
अर्यमादिकपितॄणां दिव्याश्च लक्षकन्यकाः ।
पितृयुक्ता निषेदुश्च विमाने सुविभूषिताः ।।2.283.८० ।।
रसातलीयदैत्यानां पञ्चसहस्रकन्यकाः ।
कृष्णाज्ञया चारुरुहुर्विमानं सुविभूषिताः ।।८ १ ।।
वासन्तिक्यः कन्यकाश्च विभूषिताश्च षोडश ।
आरुरुहुर्विमानं वै बालकृष्णाज्ञया तदा ।।।८२।।
तालमालस्य दैत्यस्य कन्याः पञ्चशतानि च ।
स्वलंकृताः कृष्णवाक्याच्चारुरुहुर्विमानकम् ।। ८३ । ।
नागकन्या विंशतिश्च तथा दशसहस्रकम् ।
स्वलंकृताश्चारुरुहुर्विमानं माधवाज्ञया । । ८४ । ।
शावदीनस्य वै कन्यासहस्रं सुविभूषितम् ।
आरुरोह विमानं च बालकृष्णाज्ञया तदा । । ८५ । ।
ऐन्द्रजालिककन्यानां सहस्रं च विमानकम् ।
आरुरोह तदा कृष्णाज्ञया शृंगारशोभिताः ।। ८६ । ।
सरस्वती तथा चतुर्दशविद्याख्यकन्यकाः ।
षष्टिकन्यास्तथाऽन्याश्चारुरुहुश्च विमानकम् । । ८७ ।।
भूगर्भाच्चागतस्तत्र राजा लक्ष्मणनामकः ।
सोऽपि विमानकं चारुरोह नैजं परोत्तमम् । । ८८ । ।
स्वकीयद्विसहस्रकन्यकाभिः सह वै द्रुतम् ।
द्वासप्ततिसहस्राणि कन्यका नाडिकाभिधाः । । ८९ । ।
वेधसः पुत्रिकाश्चारुरुहुर्निजविमानकम् ।
विश्वावसुः स्वकन्याभिस्त्रिशतैश्च विमानकम् । । 2.283.९० । ।
आरुरोह तदा कृतशृंगाराभिः समुत्सुकः ।
सहस्रं कन्यका जुमासेम्लाराज्ञो विमानकम् । । ९१ । ।
आरुरुहुः स्वपित्रा च कृतशृङ्गारशोभनाः ।
शतं कन्याः सौरत्यश्च विप्रैः पितृभिरेव ताः । । ९२ । ।
सहिता भूषिताश्चाप्यरुरुहुश्च विमानकम् ।
महाबालेश्वरीकन्यात्रयं पित्रा समं तदा । । ९३ । ।
आरुरोह विमानं च स्वलंकृतं विभूषितम् ।
दक्षजवंगरो राजा उष्णालयस्य भूपतिः । । ९४ । ।
स्वकन्याशतकं रम्यं प्रजाकन्यासहस्रकम् ।
गृहीत्वा चारुरोहापि विमानं सुविभूषितम् । । ९५ । ।
अर्यम्णो विंशतिकन्या अन्या दशसहस्रकम् ।
अर्यम्णा सह सर्वास्ताश्चारुरुहुर्विमानकम् । । ९६ । ।
प्राचीनभ्वाः प्रजाकन्याः कोटिरेवाऽपि भूषिताः ।
स्वस्वपितृयुताश्चारुरुहुर्दिव्यं विमानकम् । । ९७ । ।
सन्तारणस्य विप्रस्य कन्याद्वयं विभूषितम् ।
विमाने च समारुरुहतुः पित्रा समं सुते । । ९८ । ।
इत्येवं राधिके कन्या लोमशाश्रमसंस्थिताः ।
पित्रादिभिर्लोमशेनर्षिभिर्मात्रादिभिस्तथा । । ९९ । ।
कृष्णकान्ताज्ञया तूर्णं निषेदुर्व्योमवाहने ।
शृङ्गारिताः सोत्सुकाश्च प्रोद्वाहः कृष्णयोरिति । । 2.283.१०० । ।
निजां कृष्णां मन्यमानाः कृष्णार्थं कृतकाऽर्पणाः ।
कृष्णाऽविनाभावबद्धाः प्रोद्वाहः कृष्णयोरिति । । १०१ । ।
उत्साहसंभृताः सर्वा वाहिन्या कृतयत्निकाः ।
जगुर्निजोत्सवाऽऽनन्दाः प्रोद्वाहः कृष्णयोरिति ।। १ ०२।।
अथाऽन्या अपि कन्याश्चारुरुहुश्च विमानकम् ।
कथयिष्ये राधिके ते कृष्णकान्ता विभूषिताः ।। १०३ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मार्गशुक्लतृतीयायां प्रातःकृत्यानि, मध्याह्नभोजनादीनि, ततः काशीं प्रति मंगलयोगयात्रार्थं सज्जता,
श्रीहरिशृङ्गारः, मांगलिककर्तव्यानि, ब्रह्मप्रियाद्किन्यकानां विमानाधिरोहश्चेत्यादिनिरूपणनामा त्र्यशीत्यधिकद्विशततमोऽध्यायः ।। २८३ ।।