लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०१२

← अध्यायः ११ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्व प्राकट्यं मे ततः परम् ।
वेधसो वै समाध्याख्ये पञ्चदशे तु वत्सरे ।। १ ।।
दशमे कल्पके षष्ठे मनौ वै ब्राह्मणगृहे ।
भूतले च पर्वतस्य मेरोः पूर्वे सुधार्मिके ।। २ ।।
वार्तिकाऽऽख्ये महाखण्डे भक्ताऽऽशापूरकोऽभवम् ।
शृणु लक्ष्मि! वार्तखण्डे धर्मव्रतोऽभवद् द्विजः ।। ३ ।।
ब्राह्मणो ब्रह्मवित् साक्षाद् धर्मदेवाऽवतारकः ।
षट्कर्मनिरतो नित्यं द्वात्रिंशद्गुणवाँस्तथा ।। ४ ।।
नवधाभक्तियुक्तश्च षोडशवस्तुपूजकः ।
नित्यं त्रिषवणस्नायी क्वचित्पञ्चाग्नितापनः ।। ५ ।।
शीलव्रतपरश्चापि तपोव्रतपरायणः ।
पञ्चयज्ञपरश्चापि सर्वसाधनशोभनः ।। ६ ।।
साधुधर्मपरो नित्यपत्नीव्रतपरायणः ।
सतां सेवापरश्चापि पुरुषार्थपरायणः ।। ७ ।।
आत्मनिवेदनवृत्तिः सत्त्वप्रकर्षशोभितः ।
शास्त्रज्ञः श्रुतसम्पन्नः सत्रधर्मक्रियापरः ।। ८ ।।
एवं गुणैः सदा युक्तः परमेशप्रपूजकः ।
अथाऽभवत्तस्य पत्नी भक्तिव्रताऽभिधा सती ।। ९ ।।
पातिव्रत्यपरा नित्यं श्रीभगवत्परायणा ।
गृहकार्यपरा चापि गृहधर्माभिशालिनी ।। 3.12.१ ०।।
शीलव्रतोज्ज्वला साध्वी रागद्वेषविवर्जिता ।
सदा कृष्णे हरौ भक्तिमती चात्मनिवेदना ।। १ १।।
व्रतकर्त्री हरेः पूजाकर्त्री चातिथिपूजिका ।
कीर्तने नित्यमेवाऽभिमग्ना कार्येषु सर्वथा ।। १ २।।
अन्यवाणीविहीना च नामजापपरायणा ।
स्नानशुद्धिपरा साध्वी साधुसेवापरायणा ।। १३ ।।
कार्ये प्रभोजने दाने व्रते कृष्णार्पणान्विता ।
दोषदृष्टिविहीना च गुणमात्राभिधारिणी ।। १४।।
प्रातर्ध्यानं करोत्येव हरेर्मे भजनं तथा ।
पूजां पाठं स्तवनं च मालाजापं निवेदनम् ।। १५।।
आरार्त्रिकं च मध्याह्ने नैवेद्यं च जलार्पणम् ।
ताम्बूलकं ततः सायं तत्तत्सेवापरायणा ।। १६।।
एवं सा कार्तिके सर्वव्रतानि प्रकरोति हि ।
माघस्नानं तथा वैशाखेऽपि दानं करोति वै ।। १७।।
परमेशे तथा पत्यौ पातिव्रत्यक्षतौ क्वचित् ।
प्रायश्चित्तं करोत्येव द्रागेव भक्तिसुन्दरी ।। १८।।
साक्षात् सा भक्तिदेवी वै यथा तथा हि वर्तते ।
भक्त्युज्ज्वला सदा चास्ते मम भक्तिसुजीवना ।। १९1।।
एवं सा यौवने भावे पतिदेवात् शनैरिह ।
लोके प्राप्तवती पुत्रं शंखचक्रादिचिह्नितम् ।।3.12.२०।।
उज्ज्वलं तापशमनं दृष्टिशान्तिकरं शिशुम् ।
ललाटे तिलकं चन्द्रे बिभ्राणं च निसर्गजम् ।।२१।।
प्राप्य पुत्रं पिता चक्रे पुत्रजन्ममहोत्सवम् ।
विप्रोऽपि भगवद्भक्त्या राज्यसम्पत्प्रपूरितः ।।२२।।
महत्पुत्रोत्सवं चक्रे स्वर्णगोदानकर्मभिः ।
हीरकादिप्रदानानि रत्नान्नदानकान्यपि ।। २३।।
क्षेत्रवाटीप्रदानानि गृहदानं तथाऽकरोत् ।
धनानि च ददौ दाने पुत्रजन्ममहोत्सवे ।।२४।।
वर्षमध्ये सुसंस्कारान् सर्वांश्चक्रे यथाविधि ।
वर्षे पूर्णे जन्मदिनोत्सवं पिता चकार ह ।।२५।।
मासे त्रयोदशे पूर्णे विमानं चाम्बरात्तदा ।
समायातं हि वैकुण्ठाद् दिव्यपार्षदशोभितम् ।।२६।।
ज्वरव्याप्तं च तं बालं सेवितं रक्षितं तथा ।
मात्रा पित्रा भालितं च निन्युस्तं पार्षदा द्रुतम् ।।२७।।
दिव्यदेहो दिव्यकान्तिर्दिव्यहस्तचतुष्टयः ।
हारमुकुटसंशोभोऽभवत् शवस्य सन्निधौ ।।२८।।
क्षणं स्नेहाद् रुरोदापि माता तथा पिताऽपि च ।
बन्धुसुहृत्पार्श्ववासा रुरुदुर्मरणात्तथा ।।२९।।
पार्षदाः पुत्रपितरौ प्राहुः क्षणं निवृत्य वै ।
मा रोदनं चास्य कृते कर्तव्यं भक्तिशालिना ।। 3.12.३० ।।
मनुष्यजन्मसाफल्यं येनाऽऽप्तिः पादयोर्हरेः ।
प्राप्तव्यं यत् तदाप्तं वै चानेन चाऽक्षरं पदम् ।। ३ १।।
तस्मादस्योत्सवः कार्यः शोकः कार्यो न सर्वथा ।
बहूनां जन्मनामन्ते हरेर्भक्तिः प्रजायते ।।३२।।
बहुपुण्यप्रतापेन भक्तौ तु पितरौ तथा ।
तादृशौ पितरौ पुत्रमोक्षदौ स्थोऽत्र भूतले ।। ३३।।
ताभ्यां जन्म समासाद्य प्रयात्ययं हि मोक्षणम् ।
मायायां पतने शोको मोक्षणे शोचनं न वै ।।३४।।
पुत्रो भूत्वा समायाच्चेद् भगवत्पदमुत्तमम् ।
लाभश्चेतादृशो नान्यः पित्रोर्मोक्षप्रदो हि सः ।।३५।।
यो वै जन्म समासाद्य याति जनार्दनालयम् ।
पितरौ तारितौ तेन तरता भवसागरम् ।।३६।।
स पुत्रः पुत्र एवाऽस्ति तार्यते तरति स्वयम् ।
न स पुत्रो मतो यश्च निमज्जयति मज्जति ।।३७।।
तस्मादेनं समादाय यास्यामो भगवत्पदम् ।
भगवत्कृपया साध्यं सर्वस्य भगवत्पदम् ।।३८।।
इत्युक्ता पार्षदैः साध्वी भक्तिव्रता जगाद तान् ।
कथं बाल्ये तनु त्यक्त्वा प्रयात्ययं वदन्तु मे ।। ३९।।
श्रुत्वा वै पार्षदाश्चाहुः शृणु सौभाग्यसुन्दरि! ।
योगभ्रष्टा योगिनो वै जायन्ते भक्तमन्दिरे ।।3.12.४०।।
पूर्वदेहस्य वै त्यागसमयो वासनाबलात् ।
पुनर्जन्मधारणं वै जायते भक्तिमद्गृहे ।।४१।।
धने वाञ्च्छा पृथिव्यां वा क्षेत्रेऽम्बरे च भोजने ।
पाने याने जीवने वा नार्यां पुत्रे च मन्दिरे ।।४२।।
पुत्र्यां पत्यौ जने बन्धौ भृत्ये दासे सुहृज्जने ।
विद्यायां वा कलायां वा कीर्तौ शत्रौ सुखे कुले ।।४३ ।।
विरक्तौ वापि संसक्तौ कामे लोभे विनाशने ।
कलहे चापि वा वैरे रूपे रसे विहारके ।।४४।।
देशे ग्रामे स्वर्गसुखे गन्धे स्पर्शे श्रवस्यपि ।
भोगे रोगे तथा राज्ये सम्पत्तौ वा प्रधानके ।।४५।।
धिष्ण्येऽधिकारे माने वा गुरुतायां च पूजने ।
यादृशी वासना यस्य तत्र जन्तुः प्रजायते ।।४६।।
भजने श्रीहरेः प्रसादने सेवादिकर्मसु ।
जनन्यां जनके वापि देवे गुरौ च साधुषु ।।४७।।
यादृशी भावना यस्य तदर्थं तत्र जायते ।
पुत्रस्तेऽयं हरेर्भक्तः पूर्वजन्मनि सेवकः ।।४८।।
सतां सेवापरश्चापि देवसेवापरायणः ।
आसीद् विप्रो वैष्णवश्च शिष्यो धर्मव्रतस्य च ।।४९।।
प्राप्तेऽस्य निधने जातः शोकस्तं शृणु सुन्दरि! ।
गुरुं ज्ञानप्रदं त्यक्त्वा प्रयामि मरणं गतः ।।3.12.५०।।
धर्मव्रतं परित्यज्य क्व गमिष्यामि चाधुना ।
तावत्प्राणा वियुक्ताश्च तव जाठरमाश्रितः ।।५१ ।।
पुत्रोऽयं तव जातोऽस्ति प्राज्ञायनो महानृषिः ।
स च जन्म समागृह्य जातिस्मरो हि वर्तते ।।५२।।
सर्वं विलीय चात्रैव प्रयाति धाम चाक्षरम् ।
तव गृहे धृतं जन्म पावनं भगवत्प्रदम् ।।५३।।
प्रसादो भक्षितोऽनेन पावनोऽयं प्रवर्तते ।
क्षीणोऽस्याऽपीह संकल्पो रागद्वेषमयोऽपि च ।।५४।।
भक्तोऽयं पावनश्चास्ते धाम प्रयाति शार्ङ्गिणः ।
योगभ्रष्टाः प्रजायन्ते स्वल्पायुषो हि बालकाः ।।५५।।
भक्तानां मुक्तनारीणां चापत्यानि भवन्ति ते ।
वर्षे वर्षद्वये वापि कृत्वा संकल्पपूर्तिकाम् ।।५६।।
अवशेषं विधायैव पूर्णं यान्ति परं पदम् ।
एवं प्राज्ञायनो विप्रस्तव पुत्रो व्यजायत ।।५७।।
पूर्णं कृत्वा निजं भावं वैकुण्ठं सम्प्रयाति ह ।
शंखचक्रादिचिह्नोऽसौ याति धाम हरेः शुभम् ।।५८।।
अभयं तत्पदं याति मा शुचो भक्तिवृत्तिके! ।
सर्वदानान्यभयस्य कलां नार्हन्ति षोडशीम् ।।५९।।
इत्युक्त्वा पार्षदा नत्वा मातरं भक्तिवृत्तिकान् ।
पितरं धर्मव्रतकं नत्वा वैकुण्ठमाययुः ।।3.12.६० ।।
पितरौ शोकविगतौ धर्मभक्तिपरायणौ ।
प्रसन्नौ मुक्तिलाभेन तौ सुतस्य व्यजायताम् ।।६१ ।।
अथ कालान्तरे जातः पुत्रस्तयोर्द्वितीयकः ।
सोऽपि वर्षद्वये याते तथैव निधनं गतः ।।६२।।
पार्षदाश्चाययुस्तं च नेतुं विमानसंस्थिताः ।
तथैव शोकं व्यनुदन् पित्रोः पुनस्तथैव ते ।।६३ ।।
अथ कालान्तरे जातस्तयोः पुत्रस्तृतीयकः ।
सोऽपि वर्षद्वये याते तथैव निधनं गतः ।।६४।।
चतुर्थोऽपि पंचमोऽपि वर्षत्रयाऽन्तरे तथा ।
एवं तेषामनुजाश्च दशोत्तरशतं मृताः ।।६५।।
त्रिशतेषु वत्सरेषु बालकाः सर्व एव ते ।
मृताश्च पार्षदैर्नीताः सर्वे पदं हरेर्हि ते ।।६६।।
लोका अज्ञाः प्रवदन्ति पापफलं सवासनाः ।
भक्ता विज्ञाः प्रवदन्ति पुण्यं हरेः कृपा हि सा ।।६७।।
यत्कुक्षौ जन्म चासाद्य परंधाम प्रयान्ति यत् ।
साधुतुल्या स्थितिः पित्रोर्मोक्षदत्वं हि देहिनाम् ।।६८।।
यद्गृहे जन्म सम्पाद्य मोक्षद्वारमपावृतम् ।
तद्गृहं तत्पितरौ च दिव्यौ स्तः श्रीनरायणौ ।।६९।।
पुत्राणां मोक्षणं वीक्ष्य पितरौ मोदमाप्नुतः ।
परं लोकव्यवहारे निम्नता दृश्यते यतः ।।3.12.७०।।
भक्तिव्रता धर्मपत्नी वाञ्च्छां चक्रे सुतार्थिनी ।
एकपुत्रो दीर्घजीवी भवेन्मे चेति पूजने ।।७१ ।।
सदैवं चार्थयत् पुष्पाञ्जल्यन्ते भक्तिवृत्तिका ।
मयोक्तं च तथाऽस्त्वेवं दीर्घजीवी भविष्यति ।।७२।।
सुतस्ते त्वेकादशश्च द्वादशोऽहं हरिस्तथा ।
इत्युक्त्वा विररामाऽहं सा तु प्राह निजं पतिम् ।।७३।।।
मुदितौ दम्पती जातौ ततो वर्षान्तरेऽग्रजः ।
मम भ्राता तत्र जातः संकर्षणो जनार्दनः ।।७४।।
वर्षद्वयोत्तरे चाऽहं श्रीमत्कृष्णनरायणः ।
अभवं तत्र देवानां पुष्पवृष्टिर्बभूव ह ।।७५।।
पितरौ नन्दितौ जातौ प्रसन्नौ सुखभागिनौ ।
अथ लक्ष्मि! त्वया चापि स्वावतारः समीहितः ।।७६।।
ममाऽऽज्ञां सम्प्रगृह्यैव देवीव्रतां हि मातरम् ।
देवव्रतं च पितरं विप्रं धर्मपरायणम् ।।७७।।
पवित्रं सर्ववेदानां ज्ञातारं ब्रह्मवेदिनम् ।
परब्रह्मपरं दास्ये वर्तमानं हरेः सदा ।।७८।।
भजन्तं मां यज्ञनारायणं सर्वात्मदर्शिनम् ।
समाधिस्थं पूर्वजन्मयोगिनं शुद्धसद्व्रतम् ।।७९।।
त्वं तत्र सर्वचिह्नाढ्या लक्ष्मीः स्वयं व्यजायथाः ।
तदा पुष्पादिवृष्टिश्चाऽम्बराद् बभूव सर्वतः ।।3.12.८०।।
देवदुन्दुभयो नेदुः सुराण्यस्त्वामपूपुजन् ।
त्वं वै यज्ञोपवीतादिसर्वसंस्कारशोभना ।।८ १।।
विवाहयोग्या ह्यभवश्चक्रिषे मद्व्रतं तदा ।
कान्तप्रयोव्रतं रम्यं सर्वसौभाग्यदं शुभम् ।।८२।।
मया स्वप्ने तु ते मात्रे पित्रे च दर्शनं निजम् ।
वरयान्या च सहितं दत्वोक्तं देहि मे सुताम् ।।८३।।
पितरौ ते जाग्रतौ च मत्वा स्वप्नं यथार्थकम् ।
आहूय मे प्रदत्ता त्वं विधिना वह्निसाक्षिणा ।।८४।।
जयालक्ष्मीं तदा नाम्ना देवव्रतस्य पुत्रिकाम् ।
अनादिश्रीवरनारायणोऽहं परिणीतवान् ।।८५।।
देवानां च महर्षीणां समाजोऽभूत्तदा महान् ।
महोत्सवस्तदाऽभूच्च सर्वत्र भूतले दिवि ।।८६।।
संकर्षणो मम भ्राता तत्रैव ज्येष्ठिकां सुताम् ।
देवव्रतस्य वै पुत्रीं सरोजिनीमुवाह च ।।८७।।
विवाहे तत्र सम्पन्ने पितरौ शोभनौ तव ।
यौतकं ददतुः श्रेष्ठममूल्यं रत्नहीरकम् ।।८८।।
गजानश्वान् गोवृषभान् क्षेत्रं विमानमुत्तमम् ।
वाटिकां दासदासीश्च धनानि कनकानि च ।।८९ ।।
स्वर्णपात्राणि बहूनि भूषाऽम्बराणि चापि वै ।
अथाऽहं मद्गृहं यातः सर्वं नीत्वा सुखास्पदम् ।।3.12.९ ०।।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
परब्रह्माऽक्षरातीतः परमेशः सनातनः ।। ९१ ।।
आकल्पान्तं त्वया साकमहं तत्राऽभवँस्तदा ।
संकर्षणोऽपि मे भ्राता विजयाख्यश्रियाऽन्वितः ।। ९२।।
आकल्पान्तमतिष्ठद्वै भूतले धर्मरक्षकः ।
स्मर लक्ष्मि! तव जन्म मम जन्माऽपि वै तदा ।।९३।।
अहं वेद्मि न चान्ये वै कालह्रासेन कर्षिताः ।
अन्ये तथाऽवतारा मे सहस्रायुतकोटयः ।।९४।।
तत्र वर्षे मम जाता मोक्षदाः सुखदाः शुभाः ।
इत्येतत् कथितं सर्वं प्राकट्यं मम वै तदा ।। ९५।।
स्मरणाच्छ्रवणाच्चापि मननान्मोक्षदं हि यत् ।
अपुत्रो लभते पुत्रं निर्धनो धनवान् भवेत्। ।। ९६।।
दुःखिनां दुःखनाशः स्यात् सिद्धिं लभेत् प्रपाठकः ।
वंशो भवेत् प्रभक्तश्च भार्या पतिं च विन्दते ।।९७।।
राज्यं स्वर्गं समृद्धिं च वाचको लभते ध्रुवाम् ।
मम भक्तिप्रकर्तॄणां मायालेपो न जायते ।।९८।।
न वापि पतनं लक्ष्मि! सर्वदाऽभ्युदयो भवेत् ।
भुक्तिर्मुक्तिर्भवेच्चापि लभेद्वै शाश्वतं सुखम् ।। ९९।।
सर्वयज्ञफलं चापि सर्वतीर्थफलं लभेत् ।
साधुसेवाफलं चापि पातिव्रत्यफलं लभेत् ।। 3.12.१०० ।।
सर्वपूजाफलं चापि सर्वव्रतफलानि च ।
सर्वदानफलं चापि श्रवणादस्य संलभेत् ।। १०१ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः पञ्चदशे वत्सरे धर्मव्रतविप्रगृहे दशाऽधिकशतपुत्रमोक्षोत्तरं साग्रजस्याऽनादिश्रीवरनारायणस्य प्राकट्य-
मित्यादिनिरूपणनामा द्वादशोऽध्यायः ।। १२ ।।