लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १००

← अध्यायः ०९९ लक्ष्मीनारायणसंहिता - खण़्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १००
[[लेखकः :|]]
अध्यायः १०१ →

श्रीनारायणीश्रीरुवाच-
परमेश कृपासिन्धो साधूनां परमं धनम् ।
मुक्तानां जीवनं कृष्णो देवानां दैवतं परम् ।। १ ।।
कृपयैव भवान् कृष्णनारायणोऽत्र भूतले ।
समायास्यथवा चान्यत् कारणं विद्यते नु किम् ।। २ ।।
श्रीपुरुषोत्तम उवाच-
कृपाऽत्र कारणं मुख्यं शिवराज्ञीप्रिये सदा ।
इच्छैव कारणं सृष्टौ ममागमस्य सर्वथा ।। ३ ।।
तथापि नियतं हेतुमुद्भावयामि चापरम् ।
यदा यदा समायामि सृष्ट्यन्तरे च कल्पके ।। ४ ।।
आदौ क्वचिन्महर्षेश्च भृगोर्निमित्तमाप्य ह ।
समायामि मुहुश्चेति भक्तानामिच्छयाऽपि च ।। ५ ।।
श्रीनारायणीश्रीरुवाच--
भृगोः किं कारणं जातं यदर्थं वै त्वया प्रभो ।
मुहुर्मानुषभावेऽत्र प्राकट्यं गृह्यते वद ।। ६ ।।
श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि कथयामि पुरावृत्तं तु कारणम् ।
भृगुस्त्रीख्यातिवधतो भृगुशापेन मानुषे ।। ७ ।।
प्राकट्यं सर्वथा विष्णोर्बहुवारं प्रजायते ।
देवकार्यार्थलग्नस्य दिव्यैश्वर्यस्य शार्ङ्गिणः ।। ८ ।।
युगधर्मे परावृत्ते शिथिले च वृषे ततः ।
कर्तुं धर्मव्यवस्थानं जायते विष्णुरव्ययः ।। ९ ।।
हिरण्यकशिपुर्दैत्यो राज्ये त्रिलोकमण्डले ।
शास्ताऽभवत्पुरा राजा दशकोटिसमास्तथा ।। 3.100.१ ०।।
द्वासप्ततिलक्षाणि वर्षाण्यन्यानि वै तथा ।
तथाऽशीतिसहस्राणि सम्राट् निरामयोऽभवत् ।। १ १।।
ततो दशयुगं राजा प्रह्लादश्चाऽभवद् भुवः ।
ततो राजा बलिश्चासीद् दशकोटिसमास्तथा ।। १२।।
त्रिंशल्लक्षाणि च षष्टिसहस्राणि समा भुवः ।
त्रयस्ते इन्द्रा विख्याता दैत्यानामभवँस्तदा ।। १ ३।।
दैत्यसंस्थमिदं सर्वमासीद् राज्यं त्रिलोकगम् ।
अत्रान्तरे च संग्रामाः सुरासुरक्षयावहाः ।। १४।।
आसन् द्वादश चोग्राश्च विष्णुर्यत्र सुराऽर्थितः ।
दैत्यान् व्यनाशयद् दिव्यचक्रेण संगतो मुहुः ।। १५।।
वाराहकल्पे ते सर्वे संग्रामास्तान् प्रिये शृणु ।
प्रथमो नारसिंहस्तु हिरण्यकशिपुर्हतः ।। १६।।
द्वितीयश्चापि वाराहो यत्र हतो हिरण्यदृक् ।
प्रह्लादो निर्जितश्चापि तृतीयोऽमृतमन्थने ।। १७।।
विरोचनश्चतुर्थश्च हतो वै तारकामये ।
तारका सा बृहस्पतेः पत्नी चन्द्रेण चाहृता ।। १८।।
तन्निमित्तं तु तद्युद्धं बभूव रोमहर्षणम् ।
वामनेन बलिर्बद्धो युद्धं महदभूत्तदा ।। १ ९।।
षष्ठे ह्याडीबको जम्भो हतः शक्रेण विष्णुना ।
सप्तमे शंभुना दैत्यास्त्रिपुराद्या विनाशिताः ।।3.100.२०।।
अष्टमे चाऽन्धको निघातितः सदैत्यदानवः ।
नवमे विप्रचित्त्याद्या लक्षशः शक्रसूदिताः ।।२१।।
वृत्रासुरो घातितश्च दशमे वज्रपाणिना ।
एकादशे तु रजिना दैत्याः सर्वे विनाशिताः ।।२२।।
द्वादशे च सुरैः षण्डामर्काद्या विनिपातिताः ।
एते देवासुराणां वै संग्रामा द्वादशाऽभवन् ।। २३।।
विष्णुस्तत्र च सर्वत्र साहाय्योऽभूद् द्युवासिनाम् ।
पर्यायेण च सम्प्राप्तं त्रैलोक्यं पाकशासनम् ।।२४।।
ततो यज्ञस्य भागांश्च यज्ञे देवा ह्युपागमन् ।
यज्ञनारायणश्चापि देवपक्षी ततोऽभवत् ।।२५।।
यज्ञे देवानथ गते शुक्रं प्राहुर्हि दानवाः ।
दैत्याश्चासुरमूर्धन्यास्त्रासमाप्त्वा हि निर्बलाः ।। २६।।
स्थातुं न शक्नुमो भूमौ प्रविशामो रसातलम् ।
एवमुक्तोऽसुरगुरुर्विषण्णः सान्त्वयन् गिरा ।।२७।।
माऽभैष्ट धारयिष्यामि तेजसा स्वेन वोऽसुरान् ।
वृष्टिमोषधीन् भोज्यानि रसान्सुधाः सुखानि च ।।२८।।
युष्मदर्थं प्रदास्यामि धारयित्वा स्वतेजसा ।
यास्याम्यहं महादेवं मन्त्रार्थे विजयाय च ।।२९।।
युष्माननुग्रहीष्यामि पुनः पश्चादिहागतः ।
यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने ।।3.100.३ ०।।
नो चेद् देवा हनिष्यन्ति यावदागमनं मम ।
अतश्चोग्रान् महामन्त्रान् सम्प्राप्याऽहं महेश्वरात् ।।३ १।।
आगच्छामि ततो योत्स्यामहे जेष्याम एव तान् ।
पितुर्भृगोश्चाश्रमस्थाः सम्प्रतीक्षत दानवाः ।। ३२।।
सः सन्दिश्याऽसुरान् काव्यो महादेवं प्रपद्य च ।
सम्प्रपूज्य स्वागतं प्राप्य प्रणम्योवाच शंकरम् ।।३३।।
मन्त्रानिच्छामि शंभो त्वत् ये न सन्ति बृहस्पतौ ।
पराभवाय देवानामसुरेष्वभयावहान् ।। ३४।।
श्रुत्वा महेश्वरः प्राह चरव्रतं मयोदितम् ।
पूर्णं वर्षसहस्रं वै कुण्डधूममवाक्छिराः ।।३५।।
पास्यसि ब्रह्मचारी संस्ततो मन्त्रानवाप्स्यसि ।
तयोक्तः शुक्र एवाऽसौ धूम्रपस्तापसोऽभवत् ।।३६।।
वटशाखां समालम्ब्य कैलासेऽवाक्शिराः सदा ।
तस्मिन् छिद्रे तदाऽमर्षाद् देवा दैत्यानुपाद्रवन् ।।३७।।
प्रगृहीतायुधा बृहस्पतिपुरोगमा द्रुतम् ।
अथ जेतुं सुरान्नैव शक्ष्याम इति दानवाः ।।३८।।
नत्वा ययुस्तदा शुक्रमातरं ख्यातिमेव ह ।
शरणं भीतभीतास्ते प्रापद्यन्त तदाऽभयम् ।।३९।।
चक्रे रक्षां भृगोः पत्नी किन्तु देवा रुषान्विताः ।
असुरान् जघ्नुः परितः ख्यातिः क्रुद्धाऽभवत्तदा ।।3.100.४०।।
पातिव्रत्यबलेनेन्द्रं संस्तभ्याऽभ्यचरत् सती ।
संस्तम्भितो द्रुतं चेन्द्रो वशीकृतो जडोऽभवत् ।।४१।।
व्यद्रवन्त विलोक्यैनं देवास्ततो दिशो दश ।
अथ विष्णुः प्राह शक्रं शीघ्रं त्वां न्यस्य वै मयि ।।४२।।
प्रवेशयित्वा रक्षामि माऽभैषीस्त्वं सुरोत्तम ।
इन्द्रं विष्णुः स्वमूर्तौ प्रावेशयित्वा ररक्ष ह ।।४३।।
विष्णुना रक्षितं वीक्ष्य ख्यातिः क्रुद्धा वचोऽवदत् ।
एषा विष्णुं महेन्द्रं च दहामि क्षणमात्रतः ।।४४।।
इन्द्रः श्रुत्वा हरिं प्राह शीघ्रं कुरु परेश्वर ।
जहि सुदर्शनेनैनां यावन्नो न दहेत् सती ।।४५।।
विष्णुः ससंभ्रमश्चक्रं मुमोच प्राणहेतवे ।
ख्यातेश्चिच्छेद मूर्धानं पतिता सा मृताऽभवत् ।।४६।।
स्वस्त्रीवधं समाकर्ण्य भृगुश्चुकोप सत्वरम् ।
शशाप स्त्रीविहन्ता त्वं मानुषेषु पुनः पुनः ।।४७।।
जन्म धृत्वाऽतिदुःखानि चानुभव मुहुर्मुहुः ।
स्त्रीनिमित्तानि दुःखानि भुंक्ष्व लोके पुनः पुनः ।।४८।।
एवं भृगोः प्रतापेन जायते विष्णुरच्युतः ।
नष्टे धर्मे लोककार्यहितार्थं मानुषेष्विह ।।४९।।
अथ भृगुः शिरो धृत्वा काये द्राक् समयोजयत् ।
यदि कृत्स्नो मया धर्मश्चिरितो ज्ञायतेऽपि वा ।।3.100.५०।।
पत्नीव्रतपरश्चाऽहं त्वं पतिव्रततत्परा ।
तेन सत्येन जीवस्व जीवस्व विष्णुसन्निधौ ।।५१ ।।
इत्युक्त्वा प्रोक्ष्य वार्भिश्च जीवयामास तां भृगुः ।
ख्यातिस्तूर्णं गतनिद्रेवाऽभिबुबोध तत्क्षणम् ।।५२।।
इन्द्रस्य स्तंभनं विष्णुर्नाशयामास योगतः ।
भृगुः शान्तोऽभवत् पश्चात् तुष्टाव परमेश्वरम् ।।५३।।
क्षमां ययाचे सततं भोजनादि ददौ शुभम् ।
विष्णुर्नैव हि जग्राह भृगुं प्राह हि माधवः ।।५४।।
तव पुत्री मम पत्नी भाविनी भार्गवी यदा ।
तदा ग्रहीष्याम्यागत्य तया साकं हि भोजनम् ।।५५।।
इत्युक्त्वा प्रययौ विष्णुस्त्यक्त्वा दैत्यादिकाँस्तदा ।
इन्द्रः स्वस्थो ययौ स्वर्गं देवा ययुर्निजालयान् ।।५६।।
दैत्याद्याश्च भृगोः क्षेत्रे स्वस्था आश्रमसन्निधौ ।
तपन्ति च प्रतीक्षन्ते शुक्रस्यागमनं प्रति ।।५७।।
शुक्रोऽपि हरपार्वत्योः सन्निधौ वटवृक्षके ।
अधःशिरास्तपश्चोग्रं करोति शंकराज्ञया ।।५८।।
पूर्णे वर्षसहस्रे तु विगते शंकरः स्वयम् ।
दिव्यरूपेण निकटेऽदृश्यताऽऽगत्य वै वटे ।।५९।।
शक्रस्तुष्टाव शंभुं तं लम्बमानो वटेऽपि च ।
नमोऽस्तु शितिकण्ठाय कपर्दिने च शंभवे ।।3.100.६० ।।
मीढुषे वसुवीर्याय रुद्राय रोहिताय ते ।
गिरीशायाऽर्कनेत्राय तक्षकक्रीडनाय च ।।६१।।
पिनाकिने च श्वेताय भीमायोग्राय ते नमः ।
महादेवाय शर्वाय मृगव्याधाय ते नमः ।।६२।।
स्थाणवे बहुरूपाय त्रिनेत्राय च मृत्यवे ।
त्र्यम्बकाय नमस्तेऽस्तु शंकराय शिवाय च ।।६३।।
ध्यानिने व्यापिने सद्योजातायेशाय ते नमः ।
वामदेवाय च कृत्तिवस्त्राय प्रभवे नमः ।।६४।।
भगनेत्रविहन्त्रे ते पशूनां पतये नमः ।
भूतानां पतये पूषाहन्तघ्नाय च ते नमः ।।६५।।
अर्करूपाय च न्यग्रोधाय कालाय ते नमः ।
संकर्षणाय रुद्राय वह्नये योगिने नमः ।।६६।।
पृथिव्याद्यष्टरूपाय लिंगायाऽलिंगिने नमः ।
पार्वतीपतये तुभ्यं गोपतये नमो नमः ।।६७।।
महेशाय च डमरूवादित्राय च ते नमः ।
कैलासस्थाय देवानां स्तुत्याय ते नमो नमः ।।६८।।
महावैष्णवसन्नाम्ने गणानां पतये नमः ।
ब्रह्मिष्ठाय च शुक्रस्य पित्रे भूयो नमो नमः ।।६९।।
इत्युक्त्वा विररामाऽसौ शुक्रस्तं प्राह शंकरः ।
मा तपः कुरु विप्रेन्द्र संकल्पस्ते भयावहः ।।3.100.७० ।।
तथापि वत्सरान्तेऽहं पूरयिष्ये तु शीलिने ।
शीलव्रताय ते शुक्र दास्ये यथेष्टमन्त्रकान् ।।७१।।
इत्युक्त्वा शंकरो देवस्तत्रैवाऽन्तरधीयत ।
अथेन्द्रेण निजाकन्या जयन्ती प्रेषिता तदा ।।७२।।
कथिता पुत्रि शक्रो वै दारुणं चरते तपः ।
अनिद्रार्थं त्रिलोक्यां वै ततो याहि द्रुतं च तम् ।।७३।।
शुक्रं प्रसेवयस्वैनं शय्यासेवादिभिर्द्रुतम् ।
तैस्तैर्मनोऽनुकूलैश्च ह्युपचारैरतन्द्रिता ।।७४।।
श्रुत्वा सुरूपा कन्या सा जयन्ती प्रययौ हि तम् ।
पित्रा यथोक्तं वाक्यं सा शुक्रे कृतवती सती ।।७५।।
शुक्रस्तां प्राह सुश्रोणि! दशवर्षाणि वै मया ।
सह तिष्ठाऽदृश्यरूपा सम्प्रयोगं च मे कुरु ।।७६।।
इत्याज्ञप्ता दश समाः शुक्रेण सह सा स्थिता ।
शुक्रवत् तापसी भूत्वा सूक्ष्मयोगवती सदा ।।७७।।
अथ बृहस्पतिर्दशवत्सरेषु निजं वपुः ।
शुक्ररूपात्मकं कृत्वाऽसुरानशिक्षयत्तदा ।।७८।।
अथ शुक्रो दशवर्षोत्तरे दैत्यानुपागमत् ।
अहं शुक्रोऽस्मि दैत्येन्द्रा मद्वचः सन्निबोधत ।।७९।।
दैत्याः प्राहुर्न नः स्वामी भवान् शुक्रो न वै ऋतः ।
दशवर्षाणि नः स्वामी सत्योऽयं शुक्र एव ह ।।3.100.८०।।
इत्येवमसुरैः शुक्रोऽवमानितः शशाप तान् ।
दैत्या यूयं सत्यशुक्रं बोधिता नाऽभ्यनन्दथ ।।८१ ।।
तस्मात् प्रणष्टवीर्या वै पराभवमवाप्स्यथ ।
इति शप्ता असुरास्ते ज्ञात्वा शापं च देवताः ।।८२।।
युयुधुर्दानवाद्यैश्च हतवन्तोऽसुरान् बहून् ।
काव्यशापाऽभिभूताश्च शुक्राधारविवर्जिताः ।।८३।।
असुरा हन्यमानास्ते विविशुश्च रसातलम् ।
देवानां विजयो जातो विष्णुना तु सहायिना ।।८४।।
एतत्ते कथितं लक्ष्मि विष्णोर्जन्मसु कारणम् ।
भृगोर्निमित्तमालम्ब्य विष्णुः संजायते मुहुः ।।८५।।
धर्मान्नारायणो जातश्चाक्षुषे च मनौ हरिः ।
वैवस्वते पृथुर्विष्णुर्वामनश्चादितेः सुतः ।।८६।।
दत्तात्रेयोऽभवत्सोऽपि पर्शुरामोऽपि चैव सः ।
रामादित्यस्तथा विष्णुर्व्यासो भवति सर्वदा ।।८७।।
वासुदेवोऽपि विष्णुश्च कल्की विष्णुर्भविष्यति ।
एवमन्येऽप्यवतारा विष्णोर्भवन्ति मानवाः ।।८८।।
दैत्यानां तु विनाशार्थं धर्मरक्षणहेतवे ।
क्वचिन्नारीनिमित्तेन क्वचित्सुराऽवनाय च ।।८९।।
क्वचिद्धर्मनिमित्तेन क्वचिच्च कृपया किल ।
एते सर्वे मम लक्ष्मि ह्यवतारा विभूतयः ।।3.100.९०।।
अनादिश्रीकृष्णनारायणोऽहं पुरुषोत्तमः ।
इच्छयाऽनुग्रहेणापि चायामि हितवान् सताम् ।।९ १।।
साधून् विप्रान् वृषं गाश्च रक्षामि मानवो मुनिः ।
साधवो मेऽवताराश्च हेतयोऽपि तथाविधाः ।।९२।।
ऐश्वर्याणि चावताराः शक्तयोऽपि तथाविधाः ।
मुक्ता मे ह्यवताराश्च भक्ताश्चापि तथाविधाः ।।९३।।
देवाश्चाप्यवतारा मे धर्मावनाय सर्वथा ।
आज्ञया सृष्टिलोकेषु जायन्तेऽन्तर्भवन्ति च ।।९४।।
मूर्तयो मम याः सन्ति दिव्याः सर्वा हि तास्तु मे ।
अवताराः सदा सेवाग्राहका भक्तवत्सलाः ।।९५।।।
ममाऽवतारयोगं ये लब्धवन्तः सुराऽसुराः ।
दैत्याश्च दानवा यक्षा राक्षसाश्च नराः स्त्रियः ।।९६।।
पशवो वाहनात्मानो गजाश्च वाजिनोऽपि च ।
उष्ट्राश्च वृषभाश्चान्ये मम योगमुपागताः ।।९७।।
मत्साधुयोगमापन्ना याता यान्ति परं पदम् ।
इत्येवं मे कृपा चास्ते स्वभावो मेऽपि तादृशः ।।९८।।
मद्योगं समवाप्तस्य मत्तुल्यत्वं प्रजायते ।
साधुयोगात्साधुर्भवति दैवयोगाश्च देवता ।।९९।।
मम योगाद्भवत्येव मादृशो भक्तराट् स्वयम् ।
नारायणस्य योगेन नरो नारायणो भवेत् ।। 3.100.१० ०।।
नारी नारायणी स्याच्च मुक्तानिका रमा यथा ।
यथा पद्मावती जाता नारायण्यौ प्रिये मम ।। १०१ ।।
श्रीनारायणीश्रीरुवाच-
अनादिश्रीकृष्णनारायणस्वामिन् पते मम ।
जिज्ञासां पूरय जाते न्रायण्यौ तु रमाऽब्जके ।। १ ०२।।
कथं केन निमित्तेन संजाता संगतिस्तव ।
पद्मावत्या रमायाश्च स्फुटं कृष्ण वदाऽत्र मे ।। १ ०३।।
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं सर्वज्ञाऽसि हि मादृशी ।
तथापि मानवं भावमाप्य जिज्ञाससि त्विदम् ।। १ ०४।।
कथयामि पुरा वृत्तं येन ये संगमोऽनयोः ।
ककुप्सूर्यात्मजयोर्वै कुटुम्बे कारवेऽभवत् ।। १ ०५।।
पुरा सूर्यो यदोत्पन्नः सहस्रकिरणोऽभवत् ।
उच्चावचप्रदेशश्च ब्रह्माण्डदाहकाऽग्निकः ।। १०६ ।।
असह्यतेजाश्चात्युग्रो विवराण्यज्वलन् यतः ।
सूर्यं तेजस्विनं ज्ञात्वा याऽर्पिता विश्वकर्मणा ।। १ ०७।।
संज्ञानाम्नी कन्यकाऽपि सा जज्वालार्कतेजसा ।
विहायेयं पतिं स्वस्याः छायां कृत्वा निजां स्त्रियम् ।। १ ०८।।
स्वधिष्ण्ये तां समास्थाय निर्ययौ सा गृहान्निजात् ।
क्लिष्टचित्ता गूहती स्वां विश्वकर्मालयं ययौ ।। १ ०९।।
पित्रोपदिष्टा सूर्यस्य गृहे गन्तुं तथापि सा ।
न याता वडवा भूत्वा हिमाद्रौ व्यचरत् सती ।। 3.100.११ ०।।
तदाऽर्कस्तां मार्गयितुं समायाद्धिमपर्वते ।
अश्वो भूत्वाऽऽरब्धवाँस्तां सा न कामं ददौ तदा ।। ११ १।।
मुखं ददौ तदा सूर्यो धातुं नसोर्व्यसर्जयत् ।
नासिकाद्वयतो जातावश्विन्याः सुकुमारकौ ।। १ १२।।
ततः सा प्रययौ साकं सूर्येण सूर्यमण्डलम् ।
किन्तु सूर्यस्य तेजोभिर्जज्वालैषा पुरा यथा ।। ११३ ।।
सोवाच पितरं सूर्यमन्दतार्थं पिता ततः ।
विश्वकर्मा दिवानाथं शाणोल्लीढं चकार ह ।। १ १४।।
शातितश्चाभितः सूर्यश्चातिरूपोऽतिमोहकः ।
सह्यतेजाः समभवत् संज्ञा तस्मिन् स्थिराऽभवत् ।। १ ११।।
तदा सुरूपं सुखदं सह्यं भोगप्रदं सुरम् ।
वीक्ष्य चकमे युवती दिशा भूत्वा सुकन्यका ।। ११६ ।।
हावभावविलासाद्यैश्चेष्टाभिस्तं दिगिच्छति ।
रन्तुकामां सुमुग्धां च पार्श्वे प्राप्तां रजोन्विताम् ।। १ १७।।
सूर्यस्तां वीक्ष्य तत्राह दिग्देवते किमच्छसि ।
दिग्देवी स्वेष्टमाहाऽस्मै कामं देहि सुतृप्तिदम् ।। १ १८।।
सूर्यः प्राह न मे भोगो व्यर्थः स्यात् तद्विचारय ।
यदीष्टस्तेऽस्ति चेद् गर्भो गृहाण मम संगमम् ।। १ १९।।
तदा दिशा स्वयं देवी गर्भो नेष्ट इति स्वयम् ।
विचार्याऽपि महामुग्धा भोगमैच्छद् दिनाधिपात् ।। 3.100.१२०।।
सूर्यः प्राह प्रिये देवि भोगं दास्ये फलान्वितम् ।
कदाचिन्मानवे भावे त्वं कन्या संभविष्यसि ।। १ २१।।
तदा ते मानवीनार्यै मद्योगः सफलो भवेत् ।
यदाऽनादिकृष्णनारायणः श्रीपुरुषोत्तमः ।। १ २२।।
पृथ्व्यां मानवरूपेण विचरिष्यति कामदः ।
गोपालबालकः कृष्णः कंभरानन्दनः प्रभुः ।। १२३ ।।
तदा ते जन्मसाफल्यं सर्वथा संभविष्यति ।
इत्युक्त्वा विररामाऽर्को दिशा कन्या तिरोऽभवत् ।। १ २४।।
अथ सूर्यः श्वशुरं स्वं प्रसन्नः प्राह साञ्जलिः ।
वरं वृणु प्रदात्येऽत्र यन्मनोऽनुगतं प्रियम् ।। १२५।।
विश्वकर्मा तदा प्राह प्रसन्नोऽसि यदि प्रभो ।
जामाता पुत्ररूपो वै तथापि पुत्रवाञ्च्छया ।। १ २६।।
अर्थयामि वरं रम्यं पुत्रो मे भव भास्कर ।
सूर्यस्तथाऽस्त्विति प्राह प्रजगाद च तत्पराम् ।। १ २७।।
यदाऽनादिकृष्णनारायणः पृथ्व्यां भविष्यति ।
गोपालबालकः सत्याः कम्भरायाः सुखात्मजः ।। १२८।।
तदा तद्योगलाभार्थमहं चेच्छामि जन्म वै ।
अद्य वा च युगान्ते वा युगानामयुतेऽपि वा ।। १ २९।।
श्रीहरेर्योगलाभार्थं भविष्यामि सुमानवः ।
तत्र काले विश्वकर्मन् भवता पृथिवीतले ।। 3.100.१३०।।
प्राकट्यं मानवे कार्यं मत्पितृत्वस्य सिद्धये ।
भवन्तं पितरं प्राप्य कारुयोनौ त्वदात्मजः ।। १३ १।।
भविष्यामि सुपुत्रस्ते पूरयिष्ये मनोरथम् ।
इत्येतत् समयं प्राप्य पृथ्व्यां यदा हरिः स्वयम् ।। १ ३२।।
गोपालबालकोऽनादिकृष्णनारायणोऽभवत् ।
कभराश्रीगृहे तत्र विश्वकर्माऽऽप्य वै क्षणम् ।। १३३ ।।
मंकणकसुकारोर्वै गृहे बालुजशिल्पिराट् ।
विश्वकर्मा स्वयं जज्ञे जटिलापतिरित्ययम् ।। १ ३४।।
बालुजंशिल्पिनं विश्वकर्मावतारमुत्तमम् ।
पितरं सम्प्रकल्प्यैव सूर्यः पुत्रोऽभवत्ततः ।। १३५।।
नाकमिच्छिल्पिराट् सर्वशिल्पिवर्यः सुयोगिराट् ।
तस्याऽस्य पूर्णरूपस्य भार्याऽभवत्तु सा ककुब् ।। १ ३६।।
या जाता कन्यका दिगंशात्मिका मानवी सती ।
अम्बामाता शिल्पिवर्यमनोजित्पुत्रिका शुभा ।। १ ३७।।
विवाहिता दिगंशा साऽर्कांऽशनाकजिता भुवि ।
दम्पत्योः पुत्रिका जाताः पञ्च ज्येष्ठाऽत्र चाब्जिका ।। १ ३८।।
दिशामंशस्वरूपा या साऽम्बायाः पुत्रिकाऽग्रजा ।
पद्मावती सतीतुल्या कृष्णकान्तस्य सत्प्रिया ।। १ ३९।।
सूर्यप्रभा स्वयं सूर्यजन्या हरौ सुमोहिता ।
हरिं पतिं प्रकर्तुं सा सूर्यपुत्री तु मानवी ।। 3.100.१४० ।।
व्यजायत सुरूपा वै सूर्यमानवपुत्रिका ।
द्वितीया सा रमा जाता सूर्यांशनाकजित्सुता ।। १४१ ।।
सूर्यपुत्री रमा साऽम्बादेव्यां व्यजायतोत्तमा ।
पद्मिनीरूपसौभाग्यगुणयुक्ता हरिप्रिया ।। १४२।।
ब्रह्मणो ये पुरा पुत्र्यौ रमापद्मावतीभिधे ।
पुरुषोत्तममासस्य त्रयोदश्या व्रतेन वै ।। १४३ ।।
प्राप्तेऽक्षरं परं धाम ते पुनः श्रीहरीच्छया ।
भुवि श्रीभगवत्सेवाकरणायाऽर्कपुत्रिका ।। १४४।।
रमा जाताऽथ दिक्पुत्री जाता पद्मावती तथा ।
मानवे तु हरौ पत्नीरूपेणोभेऽर्पिते भुवि ।। १४५।।
पार्षदौ मे धामसंस्थौ भर्गो हेमन्त इत्यमू ।
सेवार्थं नीतवानेतौ सहाऽहं तौ सहोदरौ ।। १४६ ।।
प्रजातौ तौ यत्र पत्नीजन्म तत्र गृहे त्विमौ ।
भर्गोऽभवद्धि भगवान् हेमन्तो हेमसंज्ञकः ।। १४७।।
सिषेवाते हरिं मां तौ परब्रह्मपरायणौ ।
भगवान् स सुतो मध्ये जातो वै भगवद्गणः ।।१४८।।
हेमन्तश्च ततो जातोऽनुजो हेमसमोत्तमः ।
ततस्तिस्रः सुता या मालती हंसी च सद्गुणा ।। १४९।।
वैकुण्ठसख्यस्तिस्रस्ता अभवन्नम्बिकासुताः ।
एवं सर्वं भक्तियुक्तं कृष्णनारायणाश्रयम् ।। 3.100.१५०।।
कुटुम्बं देवतारूपं जातं भक्त्यर्थमुत्तमम् ।
सेवार्थं श्रीकृष्णनारायणस्यैवाऽभवत् क्षितौ ।। १५१।।
इत्येषः कथितः पूर्ववृत्तान्तस्तेऽत्र मत्प्रिये! ।
पद्मावत्यारमा याश्च प्रिययोर्मम सर्वदा ।। १५२।।
यथा लक्ष्मीर्जया राधा माणिक्या ललिता, प्रिया ।
यथा श्रीस्त्वं तथा पद्मावती रमाऽत्र मे प्रिया ।। १५३।।
ब्रह्मप्रियाऽष्टकं त्वेतत् कोट्यर्बुदाऽङ्गनोत्तमम् ।
पठनाच्छ्रवणादस्य भुक्तिं मुक्तिं लभेत्तथा ।। १५४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने भगवदवताराणां सृष्टावागमने कृपा वा भृगोः शापो निमित्तं, दैत्यानां द्वादशसंग्रामाः, पद्मावतीरमाकुटुम्बस्य प्राग्वृत्तान्तादिश्चेत्यादिनिरूपणनामा शततमोऽध्यायः ।। १०० ।।