लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ००४

← अध्यायः ३ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ४
[[लेखकः :|]]
अध्यायः ५ →

श्रीबद्रीश्वर्युवाच-
नरनारायणविष्णो कृष्णनारायणप्रभो ।
कृष्णकान्तहरे कृष्णश्रीमाणिकीरमाऽऽर्त्तिहन् ।। १ ।।
कथं स बदरो राजा बदरीफलतां गतः ।
नरश्च बीजतां प्राप्तस्तन्मे ब्रूहि नरायण ।। २ ।।
श्रीनरनारायण उवाच-
शृणु बद्रीरमे देवि तत्कथां पावनीं शुभाम् ।
मोक्षकरीं हि भक्तानां पापिनां पापनाशिनीम् ।। ३ ।।
बदरो वै महाभक्तो राज्यं धनं गृहादिकम् ।
सम्पदः स्त्रीजनं यानवाहनानि प्रजास्तथा ।। ४ ।।
कोशं रत्नानि भूमिश्च देहदैहिकमित्यपि ।
सर्वं कृत्वा हि कृष्णार्थं व्यवर्तत स साधुवत् ।। ५ ।।
न्ययुङक्त दासदासीश्च साधुसेवासु सर्वदा ।
सौधेषु साधवस्तस्य निवसन्ति हरेर्जनाः ।। ६ ।।
कीर्तनानि सदा तस्यालये भवन्ति बद्रिके ।
सर्वस्वं श्रीकृष्णभक्तयोगार्थं त्वकरोद्धि सः ।। ७ ।।
आत्मनिवेदितां प्राप्तस्त्वेकदाऽचिन्तयन्नृपः ।
निवेदितं मया सर्वं हरये परमात्मने ।। ८ ।।
मायिकं सर्वमेवाऽपि तथाऽऽत्माऽपि निवेदितः ।
पार्थिवं च जलीयं च तैजसं प्राण इत्यपि ।। ९ ।।
सर्वं निवेदितं श्रीमन्नारायणाय चक्रिणे ।
गेहं यानं भोजनादि वस्त्रालङ्कारभूषणम् ।। 4.4.१ ०।।
गन्धसुगन्धतैलादि कृष्णार्थं चौपयोगिकम् ।
सर्वं प्रजायते योग्यं सेवार्हं जडवस्तुकम् ।। १ १।।
किन्तु निकृष्टमत्यर्थं वर्ष्म दुर्गन्धिसंभृतम् ।
समलं विकृतं क्लेद्यं नोपयोगाय चक्रिणः ।। १२।।
भवत्येवाऽशुचि नित्यं मलमूत्रसमन्वितम् ।
स्नाय्य्वस्थिमांससंव्याप्तं न्यक्कृतं कुणपं शवम् ।। १३।।
सर्वथा नोपयोगार्थं स्वामिनो मे प्रजायते ।
जीवच्छवं मृतं भस्म विष्टा मृद् वा प्रकीर्तितम् ।। १४।।
कथं कृष्णकृते कार्ष्णसतां कृतेऽस्य योजनम् ।
उपयोगि कथं स्याच्च कथं न स्यान्निरर्थकम् ।। १९।।
यन्मया पोषितं लक्षवत्सरैः सेवितं शुभैः ।
तस्य कथं सतामर्थे ह्युपयोगो भवेदिह ।। १६।।
सार्थक्यं च भवेदस्य मानवस्य हि वर्ष्मणः ।
करोमि तपसा दिव्यं सतां भोग्यं हरेस्तथा ।। १७।।
भक्त्या वा चोपयोगस्थं कुर्वे सेवार्हमेव तत् ।
नृपाय साधवः सेवां दिशन्ति न कदाचन ।। १८।।
नृपदेहो दीनवच्च करोति सेवनं न च ।
तस्मान्नृपस्य देहोऽयं निष्फलोऽद्य प्रवर्तते ।। १९।।
सफलं तं करोम्येव तपसाऽऽराधनेन च ।
यद्धिष्ण्यं न तु देवाय तद्धिष्ण्यं धिक्कृतं मतम् ।।4.4.२०।।
यच्छिरो देवनमने नोपयुक्तं तु धिक्कृतम् ।
ये नेत्रे न दर्शनार्थे देवानां तेऽपि धिक्कृते ।।२१ ।।
ये श्रोत्रे न श्रवणार्थे देवानां तेऽपि धिक्कृते ।
यल्ललाटं न देवार्हचन्दनादिप्रसादवत् ।।२२।।
तन्निर्भाग्यं सदा बोध्यं भालं भल्लुकभालवत् ।
या नासा श्रीहरेर्गन्धग्राहिणी नैव वर्तते ।।२३।।
सा शुष्कतिलपुष्पाभा गह्वराढ्या न शोभना ।
यन्मुखं श्रीहरेर्वाचं न गृणाति कदाचन ।।२४।।
न कीर्तनं न मोदं च तन्मुखं मूर्खकर्कवत् ।
या जिह्वा न रसं वेत्ति नारायणप्रसादजम् ।।२५।।
सा तु दर्वीव बोध्या वा दर्दुरीव च निर्गुणा ।
यन्मुखं सुन्दरं रम्यं हरेर्भोग्यं न चेद्यदि ।।।२६।
राहुग्रस्तं सदा तत्तु बोध्यं सुयोषितामपि।
नरस्य च मुखं तत्तु वानरास्यसमं मतम् ।।२७।।
यन्मुखं न हरेर्नारायणाऽऽस्यरसवेदि तत् ।
ताम्बूलरसशून्यं च तद्बिलं मूषकस्य वै ।।२८।।
यः कण्ठो न हरेः कीर्तिगीतिमग्नोऽतिसुस्वरः ।
स बोध्यः कीचकवद्धि वृथास्वननिनादवान् ।।२९।।
यद्वक्षो न हरेर्योग्यं यन्नोरः श्रीहरेः श्रितम् ।
यत्र नास्ति हरेर्वासस्तद्वक्षो वृक्षनीडकम् ।। 4.4.३०।।
यद्वक्षसि स्वयं कृष्णो न शेते हारवत्तु तत् ।
शववक्षोऽशुचिबोध्यं वृथास्तनविलम्बितम् ।। ३१ ।।
यौ स्तनौ श्रीकृष्णकान्तकरपद्मतलाऽस्पृशौ ।
तौ पिण्डौ चाऽमंगलौ वै रसालीग्रन्थिसदृशौ ।।३२।।
यौ स्कन्धौ कृष्णहस्ताभ्यां नाऽऽश्लिष्टौ स्तम्बिनौ तु तौ ।
यः पृष्ठः कृष्णशयने स्पृष्टो नैव स काष्ठवत् ।।३३।।
उदरं यद् रमाकान्तोदरलग्नं न तद् दरम् ।
नाभिः कृष्णेन दृष्टा न सा गर्तः खनिरूपवत् ।। ३४।।
कटिर्जघनं गुप्तं च स्पृष्टं कृष्णेन नैव यत् ।
तद् याम्यं चालयं बोध्यं पापाश्रयं समस्तकम् ।।३५।।
नितम्बौ सक्थिनी जानू जंघे पादौ च पत्तले ।
कृष्णस्पर्शमनापन्ने वृक्षस्तम्बनिभे तु ते ।।३६।।
मनो यत् कृष्णविरहं रौरवं तत्तु वै मतम् ।
बुद्धिर्या कृष्णशून्या सा कुंभिपाकात्मिका खनिः ।।३७।।
चित्तं कृष्णविहीनं यत् तत्तु शृगालसदृशम् ।
अहन्ता कृष्णशून्या या सा वृकीव विनाशिनी ।।३८।।
गुणत्रयं कृष्णशून्यं तत्तु त्रिदोषरूपि यत् ।
अवस्थात्रितयं कृष्णशून्यं त्वघत्रयं हि तत् ।।३९।।
रूपं कृष्णानपेक्षं यत् तत् श्वित्रं सर्वदा मतम् ।
रसः कृष्णविहीनो यः स वै वैतरणी नदी ।।4.4.४० ।।
गन्धः कृष्णविहीनस्तु मलपात्रनिभः स वै ।
शब्दः कृष्णेन विधुरो घूकशब्दो हि सर्वथा ।।४१ ।।
स्पर्शः कृष्णेन हीनस्तु विषानलसमः स हि ।
रतिः प्रीतिः सुखं मोदः कृष्णहीनास्तथोत्सवाः ।।४२।।
सर्वे ते नारका बोध्या आनन्दा निरयात्मकाः ।
कृष्णयुक्तं समस्तं वै स्वल्पं महत्तु यद् भवेत् ।।४३।।
तत्तु दिव्यं शाश्वतं च मोक्षप्रदं महामृतम् ।
श्रीकृष्णस्य सतामर्थे यद् भवेदुपकारकम् ।।४४।।
चेन्निकृष्टं भवेत् तत्तु चोत्कृष्टं सुरवन्दितम् ।
अपि मज्जाऽस्थिचर्मादि कृष्णार्थं योजितं भवेत् ।।४५६।।
सर्वं दिव्यं मुक्तिदातृ सार्थकं नरवर्ष्म तत् ।
वृक्षाः कृष्णकृते यानरूपा भवन्ति सार्थकाः ।।४६।।
हस्तिदन्तास्तृणवल्ल्यो भवन्ति भूषणासनम् ।
चमरीपुच्छवालानां चामरं जायते शुभम् ।।४७।।
कस्तूरिका मृगस्याऽपि मता कृष्णोपयोगिनी ।
मृगसिंहादिचर्माणि भवन्ति चासनान्यपि ।।४८।।
शुक्त्यादीनि च रत्नानि भूषणानि भवन्त्यपि ।
कन्दमूलफलानां च नैवेद्यं जायते हरेः ।।४९।।
कणानां मिष्टभोज्यानि जायन्ते परमात्मनः ।
दुग्धादीनि गवोत्थानि पेयानि संभवन्त्यपि ।।4.4.५०।।
माक्षिकं च मधुरं च मधु भक्ष्यं प्रजायते ।
कौशेयं कीटजं वस्त्रं कृष्णार्थं चौपयोगिकम् ।।५१ ।।
धातवः खनिजाश्चापि हेतिरूपा भवन्त्यपि ।
शंखः सामुद्रजन्तूत्थो वाद्यरूपो भवत्यपि ।।५२।।
मणयोऽपि शरीरोत्था मौक्तिकानि च वै स्रजि ।
धार्यन्ते कृष्णकान्तेन सर्वं तथौपयोगिकम् ।।५३।।
अपि हंसस्य पृष्ठं च गरुडस्य गजस्य च ।
अश्वस्यापि हरेः शुभासनयोग्यं भवत्यपि ।।५४।।
किन्त्वयं नरदेहो वै नास्ति कृष्णौपयोगिकः ।
सतां वा नोपयोगार्थस्ततो निरर्थकः सदा ।।५५।।
एवं व्यचिन्तयद् राजा बहुधा निजवर्ष्मणः ।
अपि वै कज्जलं कृष्णं कृष्णनेत्रासनं भवेत् ।।५६।।
तत्तुल्योऽपि न वै देहो नरस्याऽतो निरर्थकः ।
नारीदेहो हरेरर्थे दास्या इव कृतार्थकः ।५७।।
तत्तुल्यो न नरदेहो यः कृष्णार्थो न वर्तते ।
तस्मान्मया तु कृष्णार्थः साधुसाध्व्यर्थ इत्यपि ।।५८।।
ऋषिमुन्यर्थ एवापि कर्तव्यस्तापसार्थकः ।
भुक्तं राज्यं कृतं सर्वं कर्तव्यं नाऽवशिष्यते ।।५९।।
विशालाख्यो युवा पुत्रो योग्योऽस्ति राज्यकोविदः ।
तस्मै समर्प्य राज्यं मे कार्यं कृष्णार्पणं तनु ।।4.4.६०।।
विचार्येत्थं स बदरः समाहूय प्रजाजनान् ।
प्रकाशं हृदयं कृत्वा प्राप्य प्रजामतानि च ।।६१।।
महोत्सवेन पुत्राय विशालाख्याय वै धुरम् ।
ददौ राज्यस्य धर्म्यां च मनो मोक्षेऽकरोत्ततः ।।६२।।
नरनारायणशालां समासाद्य हिमालये ।
व्यचिन्तयन्निजं देहं सतां सेवौपयोगिकम् ।।६३।।
नारायणस्य सेवायां तथा यथौपयोगिकम् ।
तस्थौ समाधौ सहसाऽऽत्मन्यात्मानं निधाय सः ।।६४।।
स्नेहातिशयमासाद्य नरनारायणप्रभौ ।
तल्लीनः सम्बभूवैव विस्मृत्य देहमात्मनः ।।६५।।
ब्रह्मानलेन सम्पूर्णो ज्ञानाऽग्निनाऽतिभासुरः ।
स्नेहशिखिना द्रवितो विदेहः सहसाऽभवत् ।।६६।।
सर्वेषां मुनिवर्याणां पश्यतां द्रवतां गतः ।
रोमलोहितमांसानि स्नाय्वस्थिमज्जिकास्ततः ।।६७।।
वीर्यं चैतानि सर्वाणि रसात्मकानि चाऽभवन् ।
बदर्याः श्रीमाणिकीश्रीरूपायाः पादभूस्थले ।।६८।।
रसः सर्वः खाद्यरूपो व्यलीयत तदा द्रुतम् ।
महाश्चर्यमिदं जातं श्रीपादयोः समर्पितः ।।६९।।
यादृशी भावना चान्ते तथा भवति देह्यपि ।
तूर्णं बदरो राजाऽसौ रसभावमुपागतः ।।4.4.७०।।
द्रवखाद्यस्वरूपो वै बद्रीमूलेष्वलीयत ।
बद्रीस्तम्बे चाविवेश रसरूपोऽतिमिष्टकृत् ।।७१ ।।
शाखासु सहसा व्याप्तः पुष्परूपोऽभवत्तथा ।
फलरूपोऽभवच्चापि बदराणि ततोऽभवन् ।।७२।।
महाश्चर्यमिदं जातं बदरेण निजं वपुः ।
कृत्वा रसं द्रवितं तत् फलरूपं प्रपादितम् ।।७३।।
बद्रीफलानि मिष्टानि तानि पक्वानि सर्वशः ।
सुगन्धीनि सुरूपाणि महान्ति तृप्तिदानि च ।।७४।।
माणिक्याश्रीगर्भजानि पावनानि तदाऽभवन् ।
प्रसादजानि सर्वाणि बदराणि तदाऽभवन् ।।७५।।
नरनारायणो देवो जग्राह कानिचित्तदा ।
नैवेद्येऽभुङ्क्त भग्वान् मधुराणि फलानि वै ।।७६।।
अथाऽन्ये ऋषयो देवा गन्धर्वा मानवाः सुराः ।
ये ये त्वासन् हिमाद्रौ ते चखदुः सत्फलानि वै ।।७७।।
एकं फलं वर्षकालतृप्तिदं तद् व्यजायत ।
मधुगर्भं समस्तं वै तापसानां हि तृप्तिकृत् ।।७८।।
चतुर्दशसु लोकेषु प्रशंसा संव्यजायत ।
सुधाश्रेष्ठानि हिमवद्गिरौ बद्रीफलानि वै ।।७९।।
नारायणप्रसादानि प्राप्यन्ते तृप्तिदानि वै ।
परम्परया त्वाकर्ण्य पितरः सिद्धचारणाः ।।4.4.८ ०।।
ऋषयो मानवा देवास्तथाऽन्ये देहिनो गिरौ ।
आययुः फललाभार्थं नारायणोऽपि सन्ददौ ।।८१ ।।
प्राप्य फलानि सर्वेऽपि सुधोर्ध्वस्वादवन्ति वै ।
अत्त्वा तृप्तिं वार्षिकीं चावापुः सर्वे सुखप्रदाम् ।।८२।।
ये येऽदन्ति फलान्यस्यास्ते ते प्रयान्ति दिव्यताम् ।
बलं पुष्टिं च वीर्यं च सहस्रधाऽऽप्नुवन्ति ते ।।८३ ।।
श्रुत्वा श्रुत्वा समायान्ति नीत्वा नीत्वा प्रयान्ति च ।
दृष्ट्वा हिमालयं बद्रीं नरनारायणाश्रमम् ।।८४।।
बदराणि विचित्राणि मोदन्ते त्वण्डवासिनः ।
महोत्सवः समस्तानां जातो बदरभोजिनाम् ।।८५।।
अब्धौ तु पर्वतं वीक्ष्य माणिक्यां बदरीं तथा ।
कृष्णनारायणं वीक्ष्य नरनारायणात्मकम् ।।८६।।
तापसं जटिनं चापि नवां सृष्टिं हि मेनिरे ।
यात्रार्थं तीर्थवर्यं वै जातं बदारकाश्रमम् ।।८७।।
सुवताराः पार्षदाश्च व्यूहा ईश्वरकोटयः ।
ईश्वराण्यः सुरा देव्यश्चाययुः फलवाञ्च्छया ।।८८।।
यथा यथा बदराणि नीयन्ते तु तथा तथा ।
द्रागेव नूतनान्येव प्रोद्भवन्ति द्रुमेऽभितः ।।८९।।
बदरोऽयं महाराजः स्नेहबदरसद्रसः ।
फलरूपोऽतिभक्त्याऽभूत् सर्वभोग्यशरीरकः ।।4.4.९०।।
अव्ययश्चाऽक्षयश्चाऽपि तथा संख्याविवर्जितः ।
दिव्यरसो ब्रह्मरसात्मकः श्रीरस उत्तमः ।।९१।।
व्यजायत कृपयाऽपि नरनारायणस्य वै ।
लक्ष्म्याश्च कृपया चापि फलपुत्रात्मकः सदा ।।९२।।
माणिक्याफलरूपः स सदा दिव्यफलोऽभवत् ।
बद्रीदेवी सफलाऽभूद् वृक्षरूपाऽपि सर्वदा ।।९३।।
नारायणोऽपि भगवान् फलपुत्राऽन्वितोऽभवत् ।
ब्रह्मचर्यव्रतस्थोऽपि बदरस्य पिताऽभवत् ।।९४।।
माणिक्याश्रीः सदा शीलव्रता च बालयोगिनी ।
बदराख्यफलैर्वंशपुत्रवती सदाऽभवत् ।।९५।।
तानौमानि बदराणि नारायणात्मकानि वै ।
लक्ष्यात्मकानि दिव्यानि मुक्तभोज्यानि चाऽभवन् ।।९६।।
तस्माद्बद्रीफलभोक्ता कृष्णमूर्तेर्महासुखम् ।
भुंक्ते मूर्त्यानन्दभोक्ता स एव बदरीवने ।।९७।।
अमायिकानि सर्वाणि बदराणि शुभानि वै ।
चैकतत्त्वमयान्येव सन्ति तद्बदरीद्रुमे ।।९८।।
एवं वै बदरीदेवि बदरः फलतां गतः ।
अतिभक्त्या रसभावं द्रवं प्राप्य द्रुमे स्थितः ।।९९।।
महाभागवतानां हि सर्वं कृष्णार्पणं मतम् ।
दिव्यं सर्वं भवत्येव श्रीकृष्णानुग्रहात्तथा ।। 4.4.१ ००।।
मायाऽप्यमाया भवति देहोऽप्यदेह इत्यपि ।
गुणाश्चाऽगुणतां यान्ति जडं दिव्यं सचेतनम् ।। १० १।।
कृष्णार्पितं समस्तं वै कृष्णात्मकं प्रजायते ।
एवं श्रीमाणिकीदेवि तव भक्तकथानकम् ।। १ ०२।।
दिव्यं श्रीबदरीदेवि मोक्षकृत् कीर्तितं मया ।
पठनाच्छ्रवणादस्य भुक्तिं मुक्तिं गतिं लभेत् ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने वदराख्यनृपस्य स्वदेहस्यौपयोगिकतासिद्ध्यर्थं बदरीमूले तपसा भक्त्या रसात्मकता बदरात्मकफलरूपता चेत्यादिनिरूपणनामा
चतुर्थोऽध्यायः ।। ४ ।।