लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०३२

← अध्यायः ३१ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ३२
[[लेखकः :|]]
अध्यायः ३३ →

श्रीनरनारायण उवाच—
शृणु बद्रीप्रिये देवि फणाग्रामस्य वासिनीम् ।
कुलालीं कुंभकर्त्रीं वै भक्तां नाम्ना सुनारिणीम् ॥ १॥
भद्रातीरे फणाग्रामेऽवसत् सा कुंभकारिणी ।
मृत्तिकानां सुपात्राणि निर्माय पतिनोदिता ॥२॥
विक्रीणाति गृहे नैजे न याति सा बहिः क्वचित् ।
पतिर्नाम्ना रणस्तम्बो धृत्वा पात्राणि वाहने ॥३॥
पक्कानि बहुधान्येव याति ग्रामान्तरं क्वचित् ।
विक्रयार्थं ततो मूल्यं चान्नं प्राप्य निजगृहम् ॥ ४ ॥
प्रयात्येव सदा त्वायद्रव्याद् भागं दशांशकम् ।
कृष्णार्थं साधुसाध्व्यर्थं व्ययत्येषो हि धामिकः ॥५॥
रटते श्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।
पात्रेषु कृष्णकृष्णेति लिखत्येषः शलाकया ॥ ६॥
गृहे तेन कृता मूर्तिः कृष्णनारायणस्य हि ।
बद्रिके पूजनं तस्याः करोति कुंभकृत् प्रगे ॥ ७॥
सुनारिणी च तत्पत्नी स्नात्वा करोति पूजनम् ।
 रोटकं चापि तक्रं च नैवेद्ये प्रददाति वै ॥८॥
जलं दीपं मुखवासं पूगीफलं ददाति च ।
नत्वा करोति कार्याणि प्रत्यहं तदनन्तरम् ॥ ९॥
मध्याह्नेऽपि तथा तस्मै निवेद्य भोजनादिकम् ।
प्रासादिकं सदाऽश्नाति कुंभकारोऽपि वै ततः ॥१०॥
करोति यात्रिकाणां च सेवां सतां सुयोगिनाम् ।
साध्वीनां च यतीनां च भक्तिभावेन भोजनैः ॥११॥
पादसंवाहनाद्यैश्च जलपानादिभिस्तथा।
आवासदानैः सततं शुश्रूषया मुहुर्मुहुः ॥१२॥
अपुत्रयोस्तयोरिच्छा पुत्रार्थिनी व्यवर्तत ।
साधूनामग्रतस्तौ तु पृच्छमानौ सुसाधुभिः ॥१३॥
अनपत्यौ जगदतुश्चाशीर्वादाँस्तु साधवः ।
साऽपत्यौ पुत्रिकापुत्रवन्तौ भवतमित्यमू ॥१४॥
युञ्जन्त्येव सदा भक्त्या प्रसादिता महाशयाः।
अथ कालान्तरे पुत्रोऽभवन्मानसरञ्जनः ॥१५॥
साधुधर्मा साधुवृत्तिः सर्वसम्पद्विवर्धनः॥
यस्य कण्ठेऽभवच्चिह्नं मालायाः शोभनं परम् ॥१६॥
दृष्ट्वा तु मुमुदे माता पिता चान्येऽपि दर्शकाः ॥
साधवश्च तथा सत्यो वीक्ष्य मालां मुदं ययुः ॥१७॥
पुत्रोऽपि सततं ध्यानी नारायणेति वाङ्मयः ॥
अनभ्यस्तोऽप्यत्र देहे पूर्वाभ्यासेन शिक्षितः ॥१८॥
नारायणेति वै नाम जग्राह काकलीगिरा।
अहो भाग्यमहो भाग्यं यद्गृहे मालिकायुतः ॥१९॥
सुतो नारायणभक्तो व्यजायत सतां कृपा।
सुतो व्यवर्धत भक्त्या वर्ष्मणा यशसा धिया ॥२०॥
आयान्ति विश्रुतं द्रष्टुं कीदृङ्मालायुतो हि सः ।
साधवो बहवः सत्यो यात्रालवोऽप्यनेकशः ॥२१॥
आयान्ति मानवाश्चापि ग्रामनगरवासिनः।
 देशगाश्चापि सौराष्ट्रनरनार्यः सकौतुकाः ॥२२॥
द्रष्टुमायान्ति तं बालं मालायुक्तं मनोहरम् ।
बालो नारायणं कृष्णं बालकृष्णं श्रियःपतिम् ॥२३॥
अनादिश्रीकृष्णनारायणं हरिं रटत्यति ।
श्रुत्वा दृष्ट्वा क्षणं स्थित्वा कृत्वा बालकवन्दनम् ॥२४॥
महाभक्तं तु देवांशं मत्वा कृष्णांशमेव वा ।
दत्वोपदा अन्नवस्त्रमुद्रास्वर्णफलानि च ॥२५॥
रत्नमाणिक्यपात्राणि प्रयान्ति कृतिपावनाः।
कुंभकारगृहं पूर्णं स्मृद्ध्या जातं सुसम्पदा ॥२६॥
जनप्रवाहसंशोभं साधुवासैस्तु मन्दिरम् ।
पुत्रप्राप्त्या प्रसिद्धं च तीर्थं सर्वमनोहरम् ॥२७॥
अथैकदा ऋषिस्तत्र सारायणः समाययौ।
सेवितः कुंभकाराभ्यां प्रसादितश्च भोजनैः ॥२८॥
वन्दितश्चापि पृष्टश्च पुत्रस्य मालिकां प्रति ।
कथं मालासमं चिह्नं कीदृशं भाग्यमस्य तु ॥२९॥
कीदृशोऽयं च किंकर्मा किमायुः किंविधो ह्ययम् ॥
श्रुत्वा सारायणः साधुर्दृष्ट्वा रेखां ललाटजाम् ॥३०॥
भाग्यं क्षणेन वै ज्ञात्वा वीक्ष्य प्राग्भवजं तथा ॥
उवाच कुंभकारं तं रणस्तम्बं हितावहम् ॥३१॥
रणस्तम्ब भवानास्ते भक्तराट् सह योषिता।
कृष्णनारायणः साक्षाद् भगवान् सेव्यते त्वया ॥३२॥
मूर्तिरूपो गृहे नित्यं सेव्यन्ते साधवस्तथा ।
साध्व्यश्च तीर्थतुल्या वै सेव्यन्ते तीर्थयायिनः ॥३३॥
तव पात्राणि सर्वाणि मृज्जातानि तु यानि वै।
तत्र त्वया कृष्णकृष्ण लिख्यते स्मर्यते हरिः ॥३४॥
पावनं हृदयं तेऽस्ति पत्नी ते पावनी सदा ।
भक्तानी वर्तते साध्वी यथा मुक्तानिका सती ॥३५॥
साधुसाध्वीयोगियतिजनाशीर्वादतस्तव।
गृहे पुत्रोऽयमुत्पन्नो नक्षत्रेशो हि चन्द्रमाः ॥३६॥
पत्नी ते नित्यमेवाऽत्र प्रातः पूजनकारिणी।
हरिं चार्थयते साध्वी पुत्रं चन्द्रनिभं शुभम् ॥३७॥
हरेः कृपया साधूनामाशीर्वादैस्तथा तव ।
  नक्षत्रमालिकाकण्ठः पुत्रोऽयं समजायत ॥३८॥
देवता चन्द्रमाश्चास्ते पुत्रस्तेऽयं तु मानवः ।
 अपि देवसमश्चास्ते कृष्यन्ते येन मानवाः ॥३९॥
चन्द्रांशं तं सुतं प्राप्य लभ स्वर्गसुखानि वै ॥
भाविकाले सुतस्तेऽयं मानवानां महान् गुरुः ॥४०॥
वैष्णवः परमः श्रेष्ठो भविष्यति न संशयः ।
चन्द्रस्तम्बेति तन्नाम ख्यातं लोके भविष्यति ॥४१॥
पुत्रवान् धनवान् भूत्वा ततः साधुर्भविष्यति ।
पित्रोर्मुक्तिं कारयित्वा त्यागवान् स भविष्यति ॥४२॥
इत्युक्त्वा ऋषिराट् सारायणो ययौ तु रैवतम् ।
कुंभकारौ समाकर्ण्य प्रसन्नौ हृष्टमानसौ ॥४३॥
चन्द्रपितरौ स्वौ ज्ञात्वा मेनाते भाग्यमुत्तमम् ।
चन्द्रस्तम्बं देवरूपममन्येतां ततश्च तौ ॥४४॥
बालं सौभाग्यसम्पन्नं सिद्धिप्रसेवितं सुरम् ।
  चन्द्रजन्मत आरभ्य कुंभकारगृहेऽनिशम् ॥४५॥
सम्पदो वै समायान्ति समायान्ति विभूतयः।
अन्नसत्रं महत्तेन कुंभकारेण निर्मितम् ॥४६॥
यत्र नित्यं सहस्रं वै मानवानां तथाऽधिकम् ।
भुंक्ते मिष्टान्नमुत्कृष्टं राजाधिराजराज्यवत् ॥४७॥
रणस्तम्बश्चैकदा तु तीर्थयात्रामियेष ह ।
सुनारिणीं प्रियामाह यास्यामोऽक्षरतीर्थकम् ॥४८॥
गुरुर्नौ लोमशो यत्र यत्र श्रीपुरुषोत्तमः॥
परब्रह्म स्वयं बालकृष्ण इष्टो विराजते ॥४९॥
पुत्रस्य मन्त्रलब्धिः स्याद् गुरोर्हरेश्च दर्शनम् ।
सतां ब्रह्मप्रियाणां च दर्शनं ब्रह्मवादिनाम् ॥५०॥
अश्वपट्टसरःस्नानं देवतीर्थादिदर्शनम् ।
भवेच्च पुत्रसाफल्यं सर्वसाफल्यमित्यपि ॥५१॥
इत्येवं बद्रिके कृत्वा निश्चयं पुत्रसार्थकौ।
सुनारणीरणस्तम्बौ ययतुः कुंकुमस्थलीम् ॥५२॥
चन्द्रस्तम्बो नैकसंख्यमणिरत्नान्नवस्त्रयुक् ।
पितृभ्यां सहितस्तद्वत् फणिप्रजाजनैः सह ॥५३॥
शकटीयानवाहाद्यैरश्ववृषक्रमेलकैः ।
सहस्रमानवैर्नारीनरैः सह ययौ तथा ॥५४॥
माघस्य पूर्णिमायां ते चाश्वपट्टसरोवरम् ।
प्रापुः श्रीकुंकुमवापीतीर्थवारि पपुर्मुदा ॥५५॥
अश्वपट्टसरोवारि पपुः स्नात्वा दिनान्तके ।
सायमारार्त्रिकं चक्रुः सरोवरस्य ते तदा ॥५६॥
श्रीबद्रीप्रियोवाच—
आरार्त्रिकफलं श्रीमन्नरनारायणप्रभो।
लोकानां श्रेयसे मह्यं ब्रूहि मोक्षप्रदं परम् ॥५७॥
श्रीनरनारायण उवाच--
बद्रिके वर्तिकया त्वेकया धेनुघृताक्तया ।
आरार्त्रिकविधातुस्तु महेन्द्रपदमुत्तमम् ॥५८॥
तिसृभिर्वर्तिकाभिर्वै सूर्यपदमनुत्तमम् ।
पञ्चभिर्वर्तिकाभिस्तु बृहस्पतेः पदं भवेत् ॥५९॥
सप्तभिर्ब्रह्मणः स्थानं नवभिः शिवमन्दिरम् ।
एकादशभिर्वैराज्यं त्रयोदशभिर्हिरण्मयम् ॥६०॥
पञ्चदशभिर्महाभौमं भवेत् पदं परं ततः ।
एकपंचाशद्वर्तिकाभिर्वासुदेवधाम च ॥६१॥
एकशतवर्तिकाभिर्वैकुण्ठं वै भवेत्तथा ।
एकाधिकशतद्वयवर्तिकाभिर्निराजकः ॥६२॥
गोलोकं याति बदरि श्रीकृष्णं सेवते मुदा ।
एकाधिकपञ्चशतवर्तिकाभिर्निराजकः ॥६३॥
अक्षरं परमं धाम प्रयात्येव न संशयः।
एकाधिकसहस्रवर्तिकाभिस्तु नीराजनम् ॥६४॥
यः करोति स वै तत्राऽक्षरे गत्वोत्तमोत्तमे ।
अनादिश्रीकृष्णनारायणस्य चरणद्वये ॥६५॥
दासो वा दासिका भूत्वा शाश्वतानन्दमश्नुते ।
तादात्म्ययोगमासाद्य सर्वस्वामित्वमश्नुते ॥६६॥
सर्वैश्वर्याधिकारित्वं सर्वाधिक्यं समश्नुते ।
ब्रह्मप्रियात्वं शश्वद्वै हरिप्रियात्वमित्यपि ॥६७॥
महामुक्तत्वमेवाऽपि महामुक्तानिकात्वकम् ॥
अश्नुते सर्वकामाँश्च सह श्रीपरब्रह्मणा ॥६८॥
एवं फलं बद्रिकेऽश्वपट्टारार्त्रिकजं शुभम् ।
अश्वपट्टजले देवाः पितरः सिद्धकोटयः ॥६९॥
साधवो मुनयो योगिवर्या गणाश्च पार्षदाः ।
ब्रह्मव्रतास्तापसाश्च निवसन्ति च मातरः ॥७०॥
देव्यः सर्वा निवसन्ति तीर्थान्यपि वसन्ति च ।
रुद्रब्रह्महरयश्च वसन्ति चावतारकाः ॥७१॥
तदारार्त्रिककरणात् सृष्टित्रयनीराजनम् ॥
कृतं भवति तत्पुण्यं सर्वं कर्तुः प्रजायते ॥७२॥
कृत्वा चारार्त्रिकं पश्चात् सान्ध्यं विधिं विधाय च ।
अनादिश्रीकृष्णनारायणस्य स्वर्णमन्दिरम् ॥७३॥
ययुर्हरेर्दर्शनार्थं श्रीपतेः परमात्मनः ।
दिव्यगजासने देवैर्देवीभिस्तु निराजितः ॥७४॥
पूजितः सिद्धसंघैश्च ब्रह्मप्रियाभिरर्चितः।
मुक्तैर्भक्तैः शक्तिभिश्च तीर्थैरुपासितो द्विजैः ॥७५॥
सद्भिर्गीतो महर्ष्याद्यैर्वीक्षितस्तैः परेश्वरः ।
उपदाभिः पूजितश्च फणाग्रामजनादिभिः ॥७६॥
कुम्भकारैस्तथा रत्नमण्यादिभिश्च भूषणैः ।
सत्कृतः श्रीहरिर्बद्रि चन्द्रस्तम्बेन चार्चितः ॥७७॥
तदा चन्द्रोऽभवच्चन्द्रो मृगवाहन उज्ज्वलः ।
पश्यतां सर्वलोकानामोषधीनां पतिस्तु यः ॥७८॥
अमृतस्य घटं श्रीमत्कृष्णनारायणाय सः ।
प्रददावुपदारूपं चन्द्रकान्तमणिं तथा ॥७९॥
हरिर्जग्राह सहसा प्रसन्नस्तं मणिं घटम् ।
धारयामास कण्ठे तं मणिं घटं श्रियै ददौ ॥८॥
नीराजनं व्यधुः कृष्णनारायणस्य ते ततः॥
हरिश्चापि ददौ तेभ्यः प्रासादिकं निजामृतम् ॥८१॥
अक्षरब्रह्मधामोत्थं पाययामास ताँस्तदा ।
तृप्तयामास तान् सर्वान् सत्कारं प्रचकार च ॥८२॥
कृतकृत्याश्च ते भूत्वा ययुः श्रीलोमशाश्रमम् ।
पूजयामासुरेनं ते ददुः फलादिकं शुभम् ॥८३॥
न्यूषुस्तत्राश्रमे रात्रौ विशाले सुखसागरे ।
भजनं कीर्तनं चक्रू रात्रौ श्रीपरमात्मनः ॥८४॥
प्रातर्मन्त्रं जगृहुश्च गुरोः श्रीलोमशान्मुनेः।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥८॥
ततो न्यूषुः पक्षकालं ह्यमायां निशि वै ततः।
आश्चर्यं दर्शयामास चन्द्रस्तम्बो निशार्धके ॥८६॥
पूर्णचन्द्रः स्वयं भूत्वा कौमुदीं समवासृजत् ।
दुग्धायमानां पृथिवीमम्बरं च सरोवरम् ॥८७॥
कुंकुमवापिकाक्षेत्रं समन्ताद्धवलं व्यधात् ।
आप्रातस्तादृशो भूत्वा तेजस्तिरो व्यधात्ततः ॥८८॥
कुंभकारसुतो भूत्वा व्यराजत जनादिषु ।
एवं देवः स्वयं भक्तगृहे सौराष्ट्रके सदा ॥८९॥
भूत्वा तु मानवश्चास्ते लोककल्याणहेतवे ।
ततश्चान्तदिने श्रीमल्लोमशस्योपदेशनम् ॥९०॥
श्रुत्वा वैराग्यवेगेन सर्वे त्यक्त्वा गृहाश्रमम् ।
त्यागाश्रमं जगृहुश्च साध्व्यश्च साधवोऽभवन् ॥९१॥
चन्द्रस्तम्बायननामाऽभवच्चन्द्रो हि साधुराट् ॥
रणस्तम्बायनसाधुः पिताऽभवत्तदैव हि ॥९२॥
सुनारिणी सती तत्राऽभवत् साध्वी नरायणी।
अन्या अन्ये च तत्रैव तस्थुस्त्वाजीवनं मुदा ॥९३॥
फणाग्रामजनाश्चापि श्रीकृष्ण हरियोगतः।
मुक्तिमापुः समयेन महाक्षरपदं ययुः ॥९४॥
रणस्तम्बोऽपि कालेन सुनारण्या समं ततः।
मुक्तिमवाप परमाऽक्षरधाम्नि पदे हरेः ॥९५॥
सेवां लेभे ततश्चन्द्रस्तम्बायनोऽपि मुक्तराट् ।
चन्द्रांशं दिवि चोत्सृत्य धृत्वा मुक्तस्वरूपकम् ॥९६॥
अनादिश्रीकृष्णनारायणेच्छयाऽक्षरं पदम् ।
ययौ मुक्तो महान् भूत्वा पादयोः परमात्मनः ॥९७॥
किमु ते महिमा बद्रि कथयामि हरेरिह ।
माणिकीस्वामिनः श्रीमत्कृष्णकान्तस्य चात्मनः ॥९८॥
फणाग्रामस्ततो जातश्चन्द्रग्रामेति विश्रुतः।
अश्वपट्टसरोवारितीर्थं चान्द्रं च तत्र तु ॥९९॥
कौमुदीनामकं तीर्थं तत आरभ्य गीयते ।
पठनाच्छ्रवणात्तस्य बद्रिके तैजसं वपुः ॥१००॥
सम्प्राप्य मुक्ततां लब्ध्वा महामोक्षमवाप्नुयात् ।
नरो नारी महानीराजनपुण्यं लभेत च ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने सौराष्ट्रे फणाग्रामस्थस्य रणस्तम्बाख्यकुंभकारस्य गृहे सुनारिणीस्त्रीभक्त्या चन्द्रजन्म, चन्द्रस्तम्बादिकृता कुंकुमवापीयात्रा, तत्र सर्वेषां वासो मोक्षणं चेत्यादिनिरूपणनामा द्वात्रिंशोऽध्यायः॥ ३२॥