लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०३६

← अध्यायः ३५ लक्ष्मीनारायणसंहिता -लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ३६
[[लेखकः :|]]
अध्यायः ३७ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि रथ्यामार्जनिकाकथाम् ।
आसीत् श्रीकरलाग्रामे नाम्ना कारेलिका सती ।। १ ।।
जात्या शूद्री ग्रामरथ्यामार्जनादिक्रियापरा ।
यत्पतिश्चापि कुरुते राजचत्वरमार्जनम् ।। २ ।।
यत्पुत्राश्चाश्वपालित्वं कुर्वन्ति नृपतेः खलु ।
राजा तद्ग्रामशास्ताऽपि नाम्नाऽऽसीद् विधमंकरः ।। ३ ।।
तस्य राज्ये सदा सायं कथां करोति भूसुरः ।
लक्ष्मीनारायणसंहिताया नाम्ना हिताञ्जलिः ।। ४ ।।
तत्र गत्वा ग्रामजनाः सायं शृण्वन्ति तत्कथाः ।
कारेलिकाऽपि च तस्याः पुत्राद्याश्च पतिस्तथा ।। ५ ।।
पुत्र्यश्चापि कथाः श्रेष्ठा नित्यं शृण्वन्ति सादराः ।
श्रुतं कथायां मोहोऽस्ति जीवानां बन्धकृत् त्विति ।। ६ ।।
मोहरूपं स्थूला चास्मि नामजात्यादिशोभना ।
रूपरंगगुणैराढ्या बाल्ययौवनगर्विता ।। ७ ।।
ममेदं बालबालाद्यं गृहं क्षेत्रं धनादिकम् ।
एवं नैजास्मिताबुद्धिर्मोहस्तत्र श्रुतोऽनया ।। ८ ।।
तत्त्यागो मोहशून्यत्वं नाऽस्मि देहादिभिन्नता ।
आत्मा ब्रह्मस्वरूपाऽस्मि ब्राह्म्यहं मोहवर्जिता ।। ९ ।।
न मे नेत्रे न मे कर्णौ रूपशब्दादयो न मे ।
न मे नासा न मे त्वक् च गन्धस्पर्शादयो न मे ।। 4.36.१ ०।।
नाऽहं जिह्वा न वा वाङ् मे न मे वाणी न भोभवा ।
नाऽहं हस्तौ च पादौ च नाऽऽदानं मे न वा गतिः ।। ११ ।।
नाऽहं योनिर्नवा शिश्नं न मे गेहो न तद्रतिः ।
नाऽहं गुदा न मे प्राणादयो नापि विसर्जनम् ।। १२।।
नाऽहं देहो न मे दैह्यं जाग्रत् स्वप्नं सुषुप्तकम् ।
नाऽहं वर्ष्म न मे बाल्यं यौवनं वृद्धतादिकम् ।। १ ३।।
नाहं नारी न पुमान् वा नपुंसकं न चास्म्यहम् ।
न मे माया न मे सत्त्वं रजस्तमो न मे गुणाः ।। १४।।
न मे दुःखं न मे चाद्यं न मे पुण्यं सुखं न च ।
न मे कर्म न मे यत्नो न मे भोगो न मे कलिः ।। १५।।
न मे क्षेत्रं गृहं स्वामी पत्नी पुत्राः सुता सुहृत् ।
न मे धनं नैव लोकः कुटुम्बं मे न चापि वै ।। १६।।
ततो मे सूतकं नापि न हर्षो रोदनं न मे ।
सर्वं त्वज्ञानसक्लृप्तं ह्यात्माऽस्मि ज्ञानवानहम् ।। १७।।
अहन्ता विमला मेऽस्ति ममता परमात्मनि ।
यद्यदुक्तं समस्तं मे वर्तते श्रीपतौ हरौ ।। १८।।
निर्गुणं चापि निर्बन्धं दिव्य मोक्षप्रदं सदा ।
नैष्कर्म्यं सर्वथा कृष्णनारायणेऽस्ति मे शुभम् ।। १ ९।।
भजनं भोजनं चापि भाजनं भगवान्मम ।
बन्धो मोक्षो हरिर्मेऽस्ति भावनावासनाश्रयः ।।4.36.२०।।
रतिर्विरामः कृष्णो मे महानन्दे हरौ मम ।
तृप्तिर्मे सर्वदा कृष्णः शान्तिर्विश्रान्तिरच्युतः ।।२१।।
गोचरो मे हरिश्चास्ति साक्षात् स्वप्ने सुषुप्तके ।
अहंभावोऽन्तरे तस्मिन् कृष्णनारायणेऽस्ति मे ।।२२।।।
व्यवहारः स्फुरणं मे नित्ये श्रीपरमात्मनि ।
निद्रा तुर्या मूर्छना मे प्रभौकान्तेऽन्तरात्मनि ।।२३।।
एवं श्रुता कथा तेन बद्रिके संहितागता ।
विचारिता तथा सा च निजात्मनि स्थिरीकृता ।।२४।।
नित्यं पुत्रसुतास्वामिष्वपि तद्वत् कथाऽमृतम् ।
पच्यते निशि मननात् सत्संगात् स्वगृहेऽनिशम् ।।२५।।
तेन सर्वं कुटुम्बं वै मार्जयित्र्या विमोहकम् ।
हर्षशोकविहीनं वै मायापाशविवर्जितम् ।।२६।।
वर्तते श्रीकृष्णकान्तमहानन्दपरिप्लुतम् ।
मोहो नास्ति न रागोऽस्ति नाऽविद्या द्वेषणं न च ।।२७।।
न भयं विद्यते चापि नाऽऽत्मारामस्य बन्धनम् ।
निर्मोहिनी ततो जाता सिद्धा कारेलिका भुवि ।।२८।।
यथा माता तथा पुत्राः पुत्र्यः पतिस्तथाविधः ।
निर्मोहि तत्कुटुम्बं वै कृष्णमोहनमात्रकम् ।।२९।।
हिताञ्जलिमुनिर्नारायणं भजन् कथामृतम् ।
पाययत्येव लोकांश्च मन्त्रान् ददाति मोक्षदान् ।।4.36.३ ०।।
निर्मोहकारकं मुमुक्षुभ्यो देहिभ्य आदरात् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।३ १ ।।
 'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ।।३२।।
 'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ।
'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ।।३३।।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ।
'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ।।३४।।
पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः' ।
'ओं मां श्रीबालकृष्णाय समर्पयामि ओं नमः' ।।३५।।
 'ओं श्रीलक्ष्म्यै महालक्ष्म्यै दुःखभंक्त्र्यै श्रियै नमः' ।
'कृष्णस्य वल्लभोक्तोऽहं श्रीहरिः शरणं मम' ।।३६।।
 'श्रीकृष्णोवल्लभश्चार्यः श्रीस्वामी शरणं मम' ।
'श्रीकृष्णोवल्लभःस्वामी श्रीहरिः शरणं मम' ।।३७।।
'प्रभुःकृष्णो मालतीनारायणः शरणं मम' ।
हिताञ्जलिमुनिर्बद्रि मन्त्रानेवंविधान् बहून् ।।३८।।
मुमुक्षुभ्योऽर्पयत्येव करोति बन्धवर्जितान् ।
महाभागवतान् लोकान् कृत्वा ददाति मोक्षणम् ।।३९।।
बहवो मोहशून्या वै भक्ता भागवता भुवि ।
नरा नार्योऽभवँस्तस्य कथाभिश्च समागमैः ।।4.36.४०।।
कारेलिका त्वात्मवेत्त्री मोक्षमार्गपरायणा ।
कुटुम्बसहिता साध्वी मन्त्रान् जग्राह वैष्णवी ।।४१।।
मोहशून्या हरिस्थैर्या श्रीकृष्णानन्दिनी सती ।
अजायत महामुक्तानिका कृष्णपरायणा ।।४२।।
यत्प्रसंगेनापि चान्याः स्त्रियो मुक्तिं प्रपेदिरे ।
जन्तवश्चापि मार्जन्या यस्याः स्पर्शमुपागताः ।।४३।।
सर्वे ते कर्मभिर्हीना भूत्वा प्रमोक्षणं गताः ।
कृष्णकृष्णेतिकृष्णेति साध्वी सा भजते प्रभुम् ।।४४।।
स्नात्वा सम्पूज्य राधेशं शृंगारभूषणादिभिः ।
आरार्त्रिकं सुनैवेद्यं फलं ताम्बूलकं तथा ।।४५।।
जलं पुष्पाञ्जलिं कृष्णकान्तायाऽऽर्प्य प्रसादिजम् ।
भुंक्ते सा सकुटुम्बैव महाभागवती सती ।।४६।।
मार्जने चापि रथ्यादौ वीक्ष्य जन्तून् ततस्तु सा ।
श्रावयत्येव नामानि तेभ्यः कृष्णहरे प्रभो ।।४७।।
अज्ञातमृत्युभावेऽपि जन्तूनां मोक्षणं भवेत् ।
श्रूयते श्रीकृष्णनाम यत्र श्रीबद्रिके स्थले ।।४८।।
तत्र दह्यन्ति कर्माणि याम्या दूता न यान्ति च ।
वासनाश्च क्षयं यान्ति श्रोतारो यान्ति मोक्षणम् ।।४९।।
निर्मोहिनां प्रसङ्गेन यान्ति निर्मोहतां जनाः ।
पशवः पक्षिणश्चापि जन्तवः पादपा अपि ।।4.36.५०।।
प्राणमात्रधराश्चापि निर्मोहतां व्रजन्ति वै ।
का कथा वैष्णवीनां वै समागमे हि मोक्षणे ।।५१।।
वैष्णवीनां बालका वै मुक्ता एव भवन्त्यपि ।
वैष्णवीनां जलमन्नं गृहमम्बरमित्यपि ।।५२।।
पावनं पापहं बद्रि जायते जीवमोक्षकृत् ।
परोक्षेऽपि प्रसादश्चेद् वैष्णवीनां प्रलभ्यते ।।५३।।
प्राणप्रयाणसमये याता मोक्षं प्रयाति हि ।
वैष्णवीनां दर्शनं च स्पर्शनं च समागमः ।।५४।।
स्रत्सङ्ग आशीर्वादाश्च भवन्ति मोक्षदाः सदा ।
वैष्णव्यो यत्र वर्तन्ते भूमिः सा हरिमन्दिरम् ।।५५।।
कुटुम्बं श्रीहरेस्तत्र बद्रिके तिष्ठते सदा ।
वैष्णवी कमला राधा रमा लक्ष्मीश्च पार्वती ।।५६।।
वैष्णवी ललिता वाणी प्रज्ञा श्रीर्माणिकी जया ।
सन्तुष्टा वैष्णवी ब्राह्मी कृष्णा नारायणी मता ।।५७।।
ताभिः सन्धार्यते कृष्णोवल्लभः प्राप्यते हरिः ।
ताभिः संसेव्यते कृष्णस्ताभिः कृष्णैः प्रकाश्यते ।।५८।।
कृष्णं विनाऽन्यत्र यासां मोहः प्रीतिः रतिर्न वै ।
परब्रह्मनिवासो वै वैष्णव्यां श्रीस्थितिस्तथा ।।५९।।
वैष्णवीनां हरौ नित्यं तादात्म्यं चापि तत्तथा ।
अतो वै पावनी देवी वैष्णवी प्रमदा परा ।।4.36.६०।।
कार्ष्णी सा बद्रिके नारायणी सा पुरुषोत्तमी ।
वासुदेवी तथा बद्रीनारायणी हि सा मता ।।६१ ।।
गङ्गा सा यमुना सरस्वती ब्रह्मह्रदात्मिका ।
अश्वपट्टसरास्था च शाऽस्ति कुंकुमवापिका ।।६२।।
वैष्णवी सर्वथा तीर्थोत्तमा सर्वविधारिणी ।
सर्वपुण्यप्रदा मोक्षप्रदा मोहविखण्डिनी ।।६३।।
एतादृशी मोहशून्या कारेलिकाऽभवत् सती ।
सायं श्रीकृष्णशरणे कीर्तनं प्रकरोति सा ।।६४।।
ततो वै शयनं याति क्रोडे कृत्वा नरायणम् ।
प्रातश्चैवं हरिं स्मृत्वा भजते नित्यवत् सती ।।६५।।
अथैकदा तु वै तस्याः पुत्र्यः पञ्चाऽतिशोभनाः ।
मार्गशीर्षे क्षुद्रबद्रीफलान्याहर्तुमुत्सुकाः ।।६६।।
सीम्नि क्षेत्रेषु विश्वेषु ययुर्वनेषु शाखिषु ।
तत्रर्षिर्नामतो बद्रिकायनो बद्रिकातले ।।६७।।
बद्रिकाषण्डमध्यस्थस्तापसः शशबिन्दुना ।
महर्षिणा समं दृष्टः कन्याभिः पञ्चभिस्तदा ।।६८।।
शशबिन्दुः कन्यकास्ता दृष्ट्वा क्षेत्रान्तरं ययौ ।
ध्यानस्थस्तु ऋषिर्बद्रिकायनः प्रबुबोध ह ।।६९।।
अपश्यत् कन्यकाः पञ्च बद्रीफलाभिचायने ।
दत्तध्यानास्ततः सोऽपि पप्रच्छ यूयमत्र का।।4.36.७ ० ।।
कथं सीम्नि बद्रिकाणां षण्डे भ्रमथ किंफलाः]
कन्यकास्तु महाश्चर्यं दृष्ट्वा प्राप्ता मुनीश्वरम् ।।७ १ ।।
तापसं जटिलं सौम्यं शुष्कं दृष्ट्वा शनैर्मुनिम् ।
नत्वा प्राहुर्वयं शूद्र्यो निर्मोहिवंशजाः सुताः ।१७२।।
कारेलिकायाः पुत्र्यः स्मो नमस्ते भगवन्निह ।
श्रुत्वेत्थं निर्मोहिजास्ताः परीक्षितुमियेष सः ।।७३ ।।
रूपं त्विन्द्रसमं तूर्णं चकार कामगर्वहम् ।
सूर्यवत् तैजसं स्वर्णसमं चक्षुर्मनोहरम् ।।७४।.।
चन्द्रवच्छीतलं लक्ष्मीकान्तवत् कान्तिसंभृतम् ।
सर्वाभरणसौगन्ध्यशृंगारमन्मथान्वितम् ।।७५।।
मोहनार्थं कन्यकानां चञ्चलेन्द्रियगर्भितम् ।
मन्दसुगन्धशीतलानिलकृतातिमोदकृत् ।।७६।।
षोडशोत्तरवर्षं वै पुष्टं वीर्यभृतं दृढम् ।
मन्दहास्यमयं दृष्टिकटाक्षभावगर्भितम् ।।७७।।
प्रेमवर्षान्वितनेत्रं चाह्वानौष्ठक्रियापरम् ।
आकारयत् सर्वभावैरिङ्गितैरनिवर्तिभिः ।।७८ ।।
रूपातिरूपसौन्दर्यमार्दवस्निग्धताभृतम् ।
चमत्कृतिभृतं रम्यं नेत्रचित्तात्मवेशितम् ।।७ ९ ।।
त्यजमानमपि त्यागं नैव प्राप्तं विलोकितम् ।
कृष्णवत् सुन्दरं सर्वकामपूरमुपस्थितम् ।।4.36.८ ० । ।
एतादृशं परं रूपं दधार मुनिराट् स तु ।
किन्तु ताः कन्यका मत्वा महापुरुषमुत्तमम् । ।८ १ ।।
सत्त्वभावनया मानदृष्ट्या चक्रुर्नतिं मुहुः ।
पुत्तलं मायिकं मत्वा जहुदृष्टिं तु वैकृतिम् ।।८ २। ।
न क्षोभं नापि चाञ्चल्यमवापुस्तत्र पुत्तले ।
नवद्वारनरकाढ्ये नश्वरेऽशुचिसंग्रहे ।। ८३ ।।
स्वदेहवद् वर्तमाने गर्भविकृतिसंभृते ।
अस्वे चात्मपृथग्भूते जडे कर्दमिते कृतौ ।। ८ ४।।
सर्वमलक्षरणाढ्ये दुर्गन्धे बहिरुज्ज्वले ।
मोहमात्रां मनाक् तास्तु नाऽऽपुः सुन्दरदुर्भगे ।।८६ ।।
तदा ताः कन्यकाः सर्वा निर्विकारा विलोक्य सः ।
बद्रिकायनऋषिरुवाच मोहकृद्वचः ।। ८ ६। ।
भवतीनां स्वागतं वै करोम्यत्र वनान्तरे ।
युवतीनां कन्यकानाम् ऋषिश्चाहं प्ररक्षकः ।।८७।।
समर्थोऽस्मि यावदर्थपूरणे सिद्धिमानिह ।
अनन्यपूर्वाश्चेत् प्राप्तयौवना भवथ प्रियाः ।। ८८ । ।
मां संवृणुत सुन्दर्यो दैवात् प्राप्तं तु सुन्दरम् ।
वरं त्वनन्यसदृशं स्वानुरूपं स्पृहायुतम् ।। ८९ ।।
इन्द्रश्चन्द्रो रविः शंभुः शिष्या मे सन्ति देवताः ।
तं मां त्रिलोकनाथाभं पतिं वृणुत चार्थिनम् ।। 4.36.९० ।।
श्रुत्वा ताः कन्यका बद्रि प्राहुर्मोहविवर्जिताः ।
स्वागतं ब्रह्मणो विद्वन् सर्वान्तर्यामिणोऽस्तु वै ।। ९१ ।।
न स्वागतं तु नारीणां ऋषिकल्याणकृत् क्वचित् ।
युवतीनां रक्षकोऽस्ति चान्तरात्मा जनार्दनः ।। ९२ ।।
योऽस्ति नित्यं वने त्वत्र ऋषेश्चापि प्ररक्षकः ।
न देहे रक्षयितृत्वं रक्ष्ये भवति वास्तवम् ।। ९३ ।।
आवयोः सर्वथा साम्यं रक्ष्ये देहे न रक्षिता ।
यावदर्थाः सकामानां सतृष्णानां प्रपूरणे ।। ९४।।
वाञ्च्छिताः संभवन्त्येव निष्कामानां निरर्थिता ।
सामर्थ्यं सिद्धयश्चापि तुष्टिमतां तु देहिनाम् ।। ९५।।
मोहिनां संभवन्त्येव निर्मोहिनां न सिद्धयः ।
अनन्यपूर्वो जीवात्मा शाश्वतः सर्वदा प्रियः ।।९६।।
परमात्मा कृष्णनारायणः प्रियतमोऽस्ति नः ।
आत्माऽऽत्मनां प्रियतमो न नारीवर्ष्म तत्तथा ।।९७।।
दुर्गन्धं पौरुषं वर्ष्म नारीवर्ष्माऽपि तत्तथा ।
किं प्रियत्वं तत्र चास्ते ह्यप्रिये रागवर्जिते ।।९८।।
अशाश्वती प्रियता वै नश्वरा न हिताय सा ।
इन्द्रवारुणिकायास्तु फलवद् वर्ष्म सुन्दरम् ।।९९।।
बहिः रूपचमत्कारकरं मोहितचक्षुषाम ।
अन्तर्नेत्रवतां दुष्टं सर्वथा मलसंभृतम् ।। 4.36.१०० ।।
सुन्दरी सुन्दरो वापि मलानां वाचकोऽस्ति सः ।
कफपित्तादिधातूनां रागौ सौन्दर्यमत्र किम् ।। १०१ ।।
यौवनं वारानाढ्यं वै निर्वासना तु वृद्धता ।
शान्तिर्जीवनमुक्तिश्च ब्रह्मानन्दोऽतिमुक्तता ।। १ ०२।।
वरो नारायणः कृष्णस्तदन्ये त्ववरा मताः ।
स्पृहा यत्रास्ति किं तस्य वरत्वं निरयार्थिनः ।। १०३ ।।
योनिलोभो हि नरकं मूत्राकांक्षा यमालयः ।
स्वानुरूपा मतिस्तेऽत्र रजोकेदारके यदि ।। १ ०४।।
तदा नरकवाञ्च्छा ते निवृत्ता नैव सर्वथा ।
आर्षत्वं ते शोभते न यदात्मब्रह्मभावितम् ।। १ ०५।!
तस्माद् याहि यथेष्टं त्वं महावनान्तरं त्वितः ।
आशा हि नरकं प्रोक्तं तत्रापि स्त्री ततोऽधिकम् ।। १ ०६।।
स्त्रीयोगी पुरुषस्तस्मादत्यधिको हि नारकी ।
नरकाणां मोहकर्ता तेषु पातयिता तथा ।। १ ०७।।
इति श्रीलक्ष्मीनारायणीयसंहिताया चतुर्थे तिष्यसन्ताने कारेलिकाभिधायाः शूद्र्याः कथाश्रवणेन निर्मोहित्वं तस्याः पञ्चपुत्रीणामपि निर्मोहित्वम्, हिताञ्जलि मुनिद्वारा प्राप्तबोधत्वम्, बद्रिकायनर्षिकृतं तासां परीक्षणं चेत्यादिनिरूपणनामा षट्त्रिंशोऽध्यायः ।। ३६ ।।