लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०४२

← अध्यायः ४१ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ४२
[[लेखकः :|]]
अध्यायः ४३ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि ततस्तत्र महोत्सवे ।
सप्तम्यां श्रीहरेर्दर्शनार्थं संसन्महत्यभूत् ।। १ ।।
दिव्ये गजासने रम्ये स्वर्णरत्नादिभास्वति ।
उच्चैरुच्चतमे कृष्णो न्यषीदद् दिव्यविग्रहः ।। २ ।।
लक्षलक्षातिलक्षाणां मानवानां हि गोचरः ।
महासनेऽभवत् कृष्णनारायणोऽर्कवत्तदा ।। ३ ।।
दिव्यतेजोऽम्बारयुक्तो दिव्यैश्वर्यप्रतापवान् ।
असीमाऽनवधिप्रागल्भ्यौदार्यौज्ज्वल्यमण्डितः ।। ४ ।।
तादृक्सौष्ठवमाधुर्यलावण्यहास्यशोभितः ।
तादृक्सौन्दर्यसाद्रूप्याऽऽकर्षणाऽऽनन्दपूरितः ।। ५ ।।
तादृग्यौवनगाम्भीर्यवीर्यबलविराजितः ।
तादृक्कृपादयास्नेहप्रेमाऽनुग्रहवर्षकः ।। ६ ।।
कोटिकामप्रमोहाढ्यसौष्ठवघट्टनात्मकः ।
व्यद्योतताऽक्षरधाम्ना तेजसा मूर्छनाकरः ।। ७ ।।
नरनारीहृदयस्थोऽन्तरात्मा नेत्रगोचरः ।
सर्वावतारभगवान् तदानीं कृपयाऽभवत् ।। ८ ।।
पूजितो वन्दितः सर्वैः स्वागतं तु नवं नवम् ।
कृतं लोकैर्भक्तवर्गैरासायं परमात्मनः ।। ९ ।।
हरिश्चोपादिदेशापि कृपात्मकं तु संसदि ।
निजार्थकृतसर्वस्वभक्तेभ्योऽनुग्रहेण वै ।। 4.42.१ ०।।
सर्वे भवन्तु सुखिनो दर्शनान्मम देहिनः ।
भवतां सुखलाभार्थं समागतोऽस्म्यनुग्रहात् ।। ११ ।।
परे धाम्न्यक्षरे लोके दिव्योऽहं प्रभवामि यः ।
सर्वावतारधर्ता श्रीपतिः श्रीपुरुषोत्तमः ।। १२।।
सर्वेश्वरनियन्ता च सर्वशक्तिपतिः प्रभुः ।
सर्वसिद्धर्षिपित्रॄणां सुराणां दैवतं परम् ।। १ ३।।
अन्तरात्मा कालमायामहापुरुषशासकः ।
सोहमेव भवाम्यत्र बालकृष्णो भवादृशः ।। १४।।
मम योगं गता ये ये ते धामाऽक्षरं ययुः ।
वासुदेवा असंख्याता नारायणा ह्यसीमकाः ।। १५।।
श्रीकृष्णाश्चाप्यसंख्याता विष्णवोऽसंख्यमूर्तयः ।
रामा नरेश्वराः सिद्धेश्वराश्चाप्यतिसंख्यकाः ।। १ ६।।
मम योगेन जायन्ते क्लृप्ता वांऽशोद्भवा मम ।
मत्स्वरूपा मत्तादात्म्या मदभिन्ना भवन्ति ते ।। १७।।
मामाश्रित्य समस्तासु सृष्टिषु पारमेश्वराः ।
निष्पद्यन्तेऽनन्तशक्तिधरा मत्कृपया हि ते ।। १८।।
सोऽहं समस्तसृष्टीनां कृपाकटाक्षपावनः ।
गोचरोऽस्मि भवतां चाऽवतारी पुरुषोत्तमः ।। १ ९।।
संहितायाः कथां येऽत्र शृण्वन्ति संस्मरन्त्यपि ।
तेषामहं समुद्धर्ता मायासंसारवारिधेः ।।4.42.२०।।
ये मां श्रीमत्कृष्णनारायणेति संभजन्ति वै ।
तान् मत्वाऽहं निजान् भक्तान् तारयिष्यामि मोहतः ।।२ १ ।।
नरा नार्यश्च षण्ढाश्च ये भजिष्यन्ति मां त्विह ।
सेविष्यन्ते च सर्वस्वार्पणैस्ते धामिनो मम ।।।२२।।
सर्वेषां देहिनां कर्मतुल्यं फलं ददाम्यहम् ।
नीतिरेषा तु संसारे कृपा मे त्वतिरेकिणी ।। २३।।
कृपायां नियमो नास्ति फलकर्माभिबन्धकः ।
उद्धरामि जगत्सर्वं प्रसादेन न संशयः ।। २४।।
वह्नेर्योगात् समस्तं वै पावनं जायते यथा ।
मम योगेन सर्वं वै पावनं जायते तथा ।। २५।।
यथाऽहं पावनश्चाऽस्मि तथैव मम मूर्तयः ।
सन्तो मे पावनाः सर्वे वाणी मे पावनी सदा ।। २६।।
संहितेयं मम वाणी पावनी सर्वदेहिनाम् ।
लक्ष्मीश्चाऽहमहं लक्ष्मीश्चैकं तत्त्वं द्विधा कृतम् ।।२७।।
लक्ष्मीनारायणश्चाहं संहिता मे सरस्वती ।
तस्याः श्रवणमात्रेण मदक्षरमवाप्यते ।।२८।।
शब्दमूर्तिः साधुमूर्तिर्धातुमूर्तिर्मदात्मिका ।
अहं त्रिमूर्तिकश्चाऽस्मि साध्वीमूर्तिस्त्रिधा मम ।।।२९।।
भक्तिमूर्तिस्तथोपास्तिमूर्तिर्दीक्षात्ममूर्तिकः ।
षण्मूर्तोऽहं सदा चास्मि मिलामि तत्र तत्र ह ।।4.42.३०।।
साक्षादहं विराजेऽद्य सिन्धुतीरे भवन्मठे ।
कल्याणार्थं भवतां वै कृपया मनुजाकृतिः ।। ३१ ।।
नार्यश्चोपासते मां तु पतिरूपेण नित्यदा ।
उपासते पतयो मां धातुरूपेण नित्यदा ।। ३२।।
षण्ढाः संकल्परूपेणोपासते मां फलोज्झिताः ।
वृक्षा रसप्रदं मां तूपासते पृथिवीभुजः ।।३३।।।
पक्षिणश्चाम्बरात्मानं पशवश्चौषधिव्रजम् ।
देवाः सुधां दैत्यवर्या बलं क्लेदं तु जन्तवः ।। ३४।।
उपासते यथायोग्यस्वभावानुगुणं तु माम् ।
चक्षुष्मन्तः सुरूपं मां विनेत्रा सूपवर्जितम् ।।३५ ।।
सेन्द्रियाः सेन्द्रियं निरिन्द्रिया मां तु निरिन्द्रियम् ।
सतत्त्वा मां तत्त्वयुक्तं निस्तत्त्वा तत्त्ववर्जितम् ।। ३६।।
सगुणा गुणवन्तं मां निर्गुणा गुणवर्जितम् ।
सस्नेहा मां स्निग्धमूर्तिं निस्स्नेहा रूक्षमव्ययम् ।।३७।।
सत्यश्चानन्ददातारं सन्तः शान्तिखनीश्वरम् ।
उपासते यथायोग्यं फलं तथा ददाम्यहम् ।। ३८।।
देहिनो देहवन्तं मां विदेहा देहवर्जितम् ।
स्वार्थाः परार्थघातारं निस्स्वार्थाश्चाऽपरिग्रहम् ।।३९।।
ज्ञानिनः स्वप्रकाशं मां जडा भूतात्मवर्तिनम् ।
विपन्नास्त्राणकर्तारं सम्पन्नाः सम्पदात्मकम् ।।4.42.४० ।।
श्रान्ता उद्यमरूपं मां व्यापृता यत्नरूपिणम् ।
उपासतेऽलसाः फलोज्झितं मां रागिणः सुखम् ।।४१ ।।
तेषामुपास्तिमालम्ब्य ददामीष्टफलं सदा ।
अहं वै कृपया लभ्यो मन्त्रलभ्यो भवामि च ।।।०५।।
भक्तिलभ्यः स्नेहलभ्यः समाधिलभ्य इत्यपि ।
अलभ्यः सुलभश्चास्मि संहितापाठिनां त्विह ।।४३।।
 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
इतिमन्त्रप्रजप्तुस्तु सुलभोऽहं निरन्तरम् ।।४४।।
गुरोः सेवाफलं कृष्णनारायणाप्तिरुत्तमा ।
साक्षादत्र भवेच्चेति तथा प्राप्तोऽस्मि वस्त्विह ।।४५।।
यो मां स्मरति नमति चष्टे ध्यायति सेवते ।
तस्याऽहं हृदये नित्यं विशेषेण पुरोऽपि च ।।४६।।
यः पत्न्यां श्रियमीक्षेत पत्यौ नारायणं तु या ।
अपत्ये पार्षदान्मे च तद्गृहं मेऽक्षरं पदम् ।।४७।।
यः प्रवृत्तौ ममाऽऽज्ञां वै निवृत्तौ च मयि स्थितिम् ।
जीवने मम तादात्म्यं दधाति स प्रयाति माम् ।।४८।।
यस्येन्द्रियाणि सर्वाणि कृष्णार्थानि मनोऽपि च ।
आत्माऽपि श्रीकृष्णनारायणार्थः स पुमर्थवान् ।।४९।।
अपि लोके दुराचारो योऽनन्याश्रयवान् मयि ।
मद्भक्तिं कुरुते नित्यं स साधुर्मोक्षसाधनः ।।4.42.५०।।
अपि धर्मविरागाढ्यो निष्परिग्रह आत्मवान् ।
विहाय मां वर्तमानस्तस्य हानिर्महत्तमा ।।५ १ ।।
असाधुः स तु मन्तव्यो यो न भजते मां प्रभुम् ।
न वा साधून् सेवतेऽपि नष्टार्थः स तु सर्वथा ।।५२।।
अपीन्द्रधिष्ण्यमापन्नो धर्मराजप्रतापवान् ।
सूर्यतेजोऽभिसम्पन्नो भक्तिहीनस्तु नारकी ।।५३।।
अपि भौतिकतत्त्वेशः सिद्ध्यैश्वर्यैकशेवधिः ।
बह्वण्डानां नियन्ता चेद् भक्तिहीनः स नारकी ।।५४।।
बुद्धेः पारं गतश्चापि मायापारं गतोऽपि च ।
ब्रह्मभावं गतश्चापि भक्तिहीनस्तु नोत्तमः ।।५५।।
प्रजापालनशक्तोऽपि सर्वाचारपरायणः ।
सतां सेवाविहीनो यः स फल्गुजन्मवानिह ।।५६।।
सर्वविद्याधरश्चापि सर्वशासनवीर्यवान् ।
सतां सेवाविहीनश्चेत् फल्गुजीवनवानिह ।।५७।।
देवकोटिं गतश्चापि महर्षितां गतोऽपि चेत् ।
मम सतां कृपाशून्यस्तस्य सर्वं निरर्थकम् ।।५८।।
कामधेनुर्गृहे यस्य कल्पद्रुमश्च मन्दिरे ।
यस्य गृहे न वै सन्तस्तद्गृहं फेरुराजवत् ।।५९।।
दृष्टिर्यस्याऽतिदिव्याऽपि सत्त्वं चान्तःस्थितं तथा ।
सतां दर्शनहीनश्चेत् सदाऽन्धः स तु नारकी ।।६०।।
पूजाभिः पूजितश्चापि कीर्त्या प्रकाशमानपि ।
सतां दर्शनहीनश्चेत् सदाऽन्धो दीनकिंकरः ।।६१ ।।
चतुर्दशसु लोकेषु गतिमानपि सर्वथा ।
साधून् प्रति गतिहीनो दुर्गतिः स तु नारकी ।। ६२।।
आरण्यको मुनिश्चापि त्यागवैराग्यशीलवान् ।
साधुसत्संगहीनश्चेत् स स्यादारण्यकः पशुः ।। ३३।।
मायापाशात् पशुत्वं वै जीवानां विद्यते सदा ।
माया तु वासना बोध्या भक्त्यन्तरायकारिणी ।। ६४।।
सा तु प्रक्षालनीया वै सतां हरेश्च सेवया ।
आत्मार्पणं हरौ कार्यं सर्वार्पणं तु सत्स्वपि ।।६५।।
मयि न्यस्य क्रियाः सर्वा भाव्यं ब्रह्मात्मना त्विह ।
संहिताश्रवणं कृत्वा भाव्यं मदात्मना ततः ।।६६।।
मम भावयुतो यः स्यात्तमुद्धरामि सर्वथा ।
स्वस्त्यस्तु भवतां श्रेष्ठं साक्षान्मम प्रसादतः ।।६७।।
इत्युक्त्वा श्रीकृष्णनारायणस्तत्र तु बद्रिके ।
विरराम ततः श्रीमान् लोमशास्तान् मनुं परम् । । ६८ । ।
श्रावयामास च सर्वान् वैष्णवान् परमान व्यधात् ।
सभाविरामः सञ्जातो हरिः प्रपूजितो जनैः । । ६९ ।।
विश्रामार्थं ययौ नैजं स्थानं तत्र नृपादिभिः ।
आरार्त्रिकं च नैवेद्यं श्रीहरेर्विहितं शुभम् । ।4.42.७ ० । ।
अन्येषां भोजनपानासनसत्कारपूजनम् ।
यथायोग्यं नृपाद्यैश्च कृतं निशामुखे तदा । ।७ १ । ।
रात्रौ नार्यो नरा राज्ञ्यो राजानो लोमशं मुनिम् ।
स्वप्रकाशायनकं ते वक्तारं समसेवयन् ।।७२।।
साधून् सिषेविरे चापि पादसंवाहनादिभिः ।
अतोषयन् श्रेयसे तान् दिव्यभावनया युताः ।।७३ ।।
रात्रौ तत्र तु देवानां गन्धर्वाणां च गीतयः ।
अप्सरसां नर्तनानि गायनानि च योषिताम् ।।७४।।
कवीनां प्राचीनकथालहर्यश्चाभवँस्ततः ।
नाटकानां दर्शनानि चरित्राणां हरेस्तथा ।।७५।।
इन्द्रजालान्यनेकानि कलाविदां तदाऽभवन् ।
भजनानि सतीनां च साधूनां कीर्तनानि च ।।७६।।
समाधयो योगविदां तदाऽभवँस्तु बद्रिके ।
सेवा श्रेष्ठा मुमुक्षूणां तादात्म्यं तु निजात्मनाम् ।।७७।।
सर्वार्पणं प्रभक्तानां तदाऽभवँस्तु बद्रिके ।
द्रवीभावश्चात्मविदां स्नेहिनां परमात्मनि ।। ७८ ।।
ज्ञानिनां त्वेकतानत्वं प्रत्ययानां तदाऽभवत् ।
प्रमोदामोदपरमानन्दा अभवन् देहिनाम् ।।७९ ।।
क्षेत्राणां पुलको जातः स्वेदस्तु सरितां तदा ।
प्रवाहाणां पावनत्वं जातं श्रीकृष्णयोगतः ।। 4.42.८० ।।
सतां प्रकाशनं तत्र महर्षीणां विनोदनम् ।
प्रजानां धान्यसंस्कारास्तदाऽभवन् हि बद्रिके ।।८ १ ।।
पशूनां तु पवित्रत्वं पक्षिणां यादसामपि ।
जम्बूनां जीवनोत्कर्षो भावी जातो हि बद्रिके ।।८२।।
वल्लीनां पादपानां च वृक्षाणां तृणशाखिनाम् ।
कन्दानां भूतले तत्र यज्ञाऽर्हत्वं तदाऽभवत् ।।८ ३ ।।
सार्थक्यं तत्र वायूनां वह्नीनां खस्य चाऽभवन् ।
वारीणां तद्विकाराणां सार्थक्यं कृष्णयोगतः ।।८४।।
शय्यानां मन्दिराणां च वस्तूनां कृष्णसञ्जुषाम् ।
पावनत्वं सदा जातं मोक्षदायित्वमुत्तमम् ।।८५।।
बद्रिके का कथा तेषां येषां कर्णे तु संहिता ।
येषां भूमौ बालकृष्णो येषां दृष्टौ तु साधवः ।।८६।।
सुरेश्वराः समागत्य रात्रौ श्रीशं श्रीवल्लभम्प्रभुम् ।
दिव्यद्रवैः पूजयित्वा प्रसादं प्राप्य संययुः ।।८७।।
तीर्थानि भूव्योमगानि समागत्य रहस्ततः ।
हरेः पादस्पृष्टजलं पीत्वा ययुर्निजस्थलीम् ।।८८।।
सिद्धजना अद्रिवासा आगत्य योगवर्ष्मभिः ।
सेवयित्वा बालकृष्णं ययुर्नैजं तु गह्वरम् ।।८९।।
द्यौः स्वयं युवती भूत्वा सिषेवे द्युपतिं हरिम् ।
कृतकृत्या ययौ नैजं निवासं त्वम्बरे ततः ।।4.42.९०।।
श्वेतद्वीपादिवासाश्च मुक्ता मुक्तानिकास्तथा ।
क्षीरवासा बद्रिकास्थाः सिषेविरे नरायणम् ।।९ १ ।।
राधारमाद्याः सकलाः शक्तयः प्राणरक्षकम् ।
कान्तं सिषेविरे कान्ता दिव्यमूर्तय एव ताः ।। ९२।।
नैकरूपधरः कृष्णोवल्लभाऽऽर्यो निशान्तरे ।
जगृहे त्वर्पितां सेवां नराणां योषितामपि ।।९३।।
निशान्ते स क्षणं निद्रां योगनिद्रां निजप्रियाम् ।
जग्राह घटिकामात्रं समुत्तस्थौ ततः प्रभुः ।। ९४।।
अनादि श्रीकृष्णनारायणात्मकं परात्परम् ।
दध्यौ नैजं मूलरूपं समुत्थाय क्षणं प्रभुः ।।।९५।।
तदावताराः सर्वेऽपि सर्वावतारशक्तयः ।
ईश्वरा ईश्वराण्यश्च दिव्याऽदृश्यस्वरूपकैः ।।९६।।
जयन्तीपूजनलाभं रहस्तत्र प्रलेभिरे ।
मुक्ताः समाधिनिष्ठाश्च धामधामनिवासिनः ।। ९७।।
पार्षदा अपि कृष्णस्य पूजालाभं प्रपेदिरे ।
पार्षदान्यो गोपिकाश्च पूजासेवां प्रचक्रिरे ।। ९८।।
गजो गरुडः शेषश्च वाजी वाहोत्तमास्तदा ।
आगत्याऽदृश्यरूपैस्ते रहःपूजां व्यधुर्हरेः ।। ९९।।
बद्रिके त्वं मया साकं नरेण तनुना सह ।
महर्षिभिः रहःपूजालाभं प्राप्तवती तदा ।। 4.42.१० ०।।
एवं श्रीमत्कृष्णनारायणोर्जाष्टमिकाप्रगे ।
जयन्तीमिषमालम्ब्य दिव्या देवमपूजयन् ।। १०१ ।।
लेभिरे प्रथमं लाभं चाऽप्रकाशं परात्मनः ।
ततो ब्राह्ममुहूर्ताऽर्धविगमोऽभवदेव ह ।। १०२।।
जजागार हरिर्लोकव्यवहारेण वै ततः ।
जजागरुर्देहिनश्च मिष्टवाद्यस्वरश्रवैः ।।१ ० ३।।
ऊर्जकृष्णाष्टमीप्रातर्जयन्तीदेवता मुधा ।
भूत्वा कुमारिका दिव्या सर्वभूषाविभूषिता ।। १ ०४।।
आययौ दिव्यदेहेनाऽपूजयच्छ्रीपतिं पतिम् ।
अदृश्या न्यवसत् कृष्णे ततोऽखिलदिनं सती ।।१ ०५।।
एवं बद्रीप्रिये जातो महोत्सवस्तु देहिनाम् ।
पूजनार्थं जनाः सज्जा भवन्ति सर्वतस्तदा ।। १ ०६।।
दिव्यचिन्तामणिकल्प्याः सामग्रीः सर्वजातिकाः ।
सह नित्वाऽऽययुः पूजाकरणार्थं तदन्तिकम् ।। १ ०७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने शर्करापत्तनमण्डपे सायं सभायां श्रीहरिकृतोपदेशो हरेः पूजनं निश्युत्सवाः प्रातर्देवादिकृतरहःपूजनं चेत्यादिनिरूपणनामा द्वाचत्वारिंशोऽध्यायः ।। ४२ ।।