लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०८७

← अध्यायः ८६ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ८७
[[लेखकः :|]]
अध्यायः ८८ →

श्रीपद्मावतीप्रज्ञे प्रोचतुः-
कृष्णनारायणस्वामिन् यद्याज्ञा मोक्षदा मता ।
को विशेषो भोगिनो वै त्यागिनो वद नौ स्फुटम् ।। १ ।।
श्रेष्ठो वेदे तथा लोके त्यागाश्रमो गृहाश्रमात् ।
किमत्राऽऽज्ञांकिते त्यागाश्रमे श्रैष्ठ्ये तु कारणम् ।। २ ।।
गृहाश्रमस्य वै श्रैष्ठ्यं विद्यते वा न सर्वथा ।
त्यागाश्रमस्य हीनत्वं विद्यते वा न वा क्वचित् ।। ३ ।।
गृहाश्रमे च के दोषास्त्यागाश्रमे च के गुणाः ।
त्यागाश्रमे च के दोषा गृहाश्रमे च के गुणाः ।। ४ ।।
केषां संसारमग्नत्वं स्वाश्रमस्थायिनामपि ।
आज्ञया वर्तमानानामपि नैम्न्यं न वा क्वचित् ।। ५ ।।
कथं दारा बन्धनं वै कथं पुमान्न बन्धनम् ।
पुमान् वा बन्धनं दारा न स्यात्तु बन्धनं कथम् ।। ६ ।।
मोक्षफलं कदा कस्य नरस्य वा स्त्रिया द्रुतम् ।
गृहस्थस्य त्यागिनो वा मोक्षः कस्य मतो द्रुतम् ।। ७ ।।
गृहस्थस्य त्यागिनो वा सादृश्यं विद्यते न वा ।
विधर्मित्वं सधर्मित्वं कियत् तद्वद नौ प्रभो ।। ८ ।।
द्वयोर्वा गृहधर्मित्वं विद्यते वा न विद्यते ।
द्वयोर्वा त्यागधर्मित्वं विद्यते वा न विद्यते ।। ९ ।।
भोग्यं किं कश्च भोक्ताऽस्ति कोऽस्त्यभोक्ता पृथग्जनः ।
किमभोग्यं तथा कृष्ण वद नौ हितकृदृतम् ।। 4.87.१ ०।।
श्रीकृष्णनारायण उवाच-
शृणुतं हितकृत् सर्वेषां प्रिये सहचारिके ।
पृष्टं तत्त्वं समस्तं वै यज्ज्ञात्वा मोक्षभाग् भवेत् ।। ११ ।।
विस्तरेण प्रवक्ष्यामि यथार्थं शृणुतं प्रिये ।
वक्तो बद्रीकण्टकश्चैकोऽपरः सरलोऽस्ति वै ।। १२।।
वक्रो गृहाश्रमो बोध्यस्त्यागस्तु सरलो मतः ।
वक्रे बन्धनमाप्नोति सरले बन्धनं नहि ।। १३।।
वक्रः पाशस्वरूपोऽस्ति सरलः पाशवर्जितः ।
समभूस्थितयोश्चापि वैधर्म्यं बहुधा मतम् ।। १४।।
सरलोऽगाधतामेति वक्रो नोपैत्यगाधताम् ।
वक्रो वक्ति पुनर्जन्म सरलस्त्वपुनर्भवम् ।। १५।।
वक्रः स्वर्गात् पतनं च सरलः शाश्वतीं गतिम् ।
वक्रो नारीस्वरूपोऽस्ति लज्जयाऽऽज्ञाप्रपालकः ।। १६।।
सरलोऽस्ति नररूपः शासकश्च सहायदः ।
पत्तलादौ सरलः प्राक् पश्चाद् विशति वक्रकः ।।१७।।
भज्यते वा बहिर्वक्रः सरलः पारगो भवेत् ।
प्रज्ञे पद्मावति दाराश्रमस्त्यागाश्रमात् पृथक् ।। १८।।
उक्तधर्मानुरुद्धश्च विशेषबन्धनप्रदः ।
वक्रः प्रविष्टश्चरणे न निर्याति निमज्जति ।। १९।।
सरलश्चाकृष्टियोगान्निर्यात्येव न मज्जति ।
वक्रे भंगा हि बहवः सरले सन्ति नैव ते ।।4.87.२०।।
सरलस्त्यागमार्गो वै वक्रो दारादिलम्बनः ।
दारशून्यस्तु तरति दारमग्नो निमज्जति ।।२१ ।।
दारास्तु किलकः स्थूलो बन्धनाय च शृङ्खला ।
गदा गर्वविनाशाय दारा दरं भयस्य च ।।२२।।
दारा मत्तमनःशास्त्री दाराः स्वातन्त्र्यरोधिका ।
सत्ताया मार्दवकर्त्री दारा रुद्धगुहात्मिका ।।।२३।।
दारा वै कण्टकी वल्ली दारा गवाक्षिकाफलम् ।
दारा मिष्टविषतुल्या दारा फुत्कारमूषिका ।।२४।।
दारा दीर्घपथे यातुर्विघ्नकर्त्री चिरायतिः ।
दाराश्चान्तर्गता लग्ना नैव निर्याति वै क्वचित् ।।२५।।
बहिर्दारा नरं शीघ्रं चोन्मत्तयति भामिनी ।
भ्रान्तिदा दिग्भ्रमकर्त्री तमस्येव युनक्ति तम् ।।२६।।
संसारे मलिने क्षिप्त्वा करोति मलिनं नरम् ।
वीक्षणं प्रेमयुक् कृत्वा हापयत्येव मोक्षणम् ।।२७।।
ग्राह्ये धार्ये तथा भोग्ये योगे जाग्रति वा स्वपौ ।
दारा मूर्तिः पुरःप्राप्या कृष्णमूर्तिविरोधिनी ।।२८।।
आवरणस्वरूपा सा दारा नरस्य सर्वथा ।
प्रज्ञे पद्मावति त्यक्त्वा वनं यान्ति विरागिणः ।।२९।।
विरागिण्यो वनं यान्ति त्यक्त्वा त्यागिनरं ह्यतः ।
दारा वा दारको वापि रागी बन्धनवान् मतः ।। 4.87.३०।।
दारा वा दारको वापि रागशून्यो विमुच्यते ।
शृणुतं सहचारिण्यौ सन्त्याज्ञा गृहमेधिनाम् ।।३ १।।
बह्व्यस्ता नैव पात्यन्ते गृहस्थैः कर्मजालिभिः ।
नाऽऽर्चयन्ति सुरान् दीनानतिथीन् साधुसाध्विकाः ।।३२।।
न वृद्धान्न महीमानान् नर्षीन् न गा न जन्तुकान् ।
यथाधर्मं नार्चयन्ति पतिं पत्नीं च बालकान् ।।३३ ।।
न पूज्यान्नापि मान्याँश्च न गुरून् कुलदेवताः ।
न पितॄन् नैव मातॄश्च नाऽध्यात्मिकान्न यज्ञजान् ।।३४।।
नाऽऽगन्तुकान्नाऽभ्यागतान्न श्रेष्ठान्न कनिष्ठिकान् ।
न मां न पार्षदान्मेऽपि न शक्तीर्न वृषं सतीम् ।। ३५।।
नाऽर्चयन्त्याश्रिताँश्चापि विप्रान् वा भिक्षुकानपि ।
न पशून् पक्षिणश्चापि नार्चयन्ति यथार्थतः ।। ३६।।
स्वार्थमात्रपरा ये च परोपकृतिवर्जिताः ।
गृहस्थाश्चाज्ञया हीना हीनास्ते सर्वथा सदा ।।३७।।
यद्गेहे न सतां पादा यद्गेहे न सुरालयः ।
यद्गृहे नापि नैवेद्यं हरये ते श्मशानिनः ।।३८।।
यत्र ब्रह्मार्पणं नास्ति यत्र साध्वर्पणं न च ।
यत्र भक्तिर्हरेर्नास्ति ते सर्वे वै श्मशानिनः ।।३९।।
यत्र दारमयं राज्यं भोगा दारप्रसंगजाः ।
दारध्यानं दारपूजा ते हे निरयवासिनः ।।4.87.४०।।
एवमाज्ञाहीनदारप्रसक्तो निरयेऽस्ति सः ।
दाराश्रमस्ततो हीनस्तस्मात् त्यागः सदोत्तमः ।।४१ ।।
दाराश्रमे ऋणं दैवं पैत्र्यमार्षं प्रवर्तते ।
पूजापुत्राऽध्ययनैश्च निवर्तन्ते हि नान्यथा ।।।४२।।
गृहाश्रमोऽनपत्यानामपत्यार्थं प्रशस्यते ।
तस्मिन् कृतेऽनपत्यत्वं निरयाय प्रकल्प्यते ।।४३।।
जीविकाभावनालक्ष्यं दारगृहं तु देहिनाम् ।
समस्तानां तु वर्णानां गृहाश्रमो हि भोज्यदः ।।४४।।
भोज्यदाने चाऽसमर्थो गृहाश्रमो वृथाश्रमः ।
कण्डनी पेषणी चुल्ली जलकुंभी च मार्जनी ।।४५।।
पञ्चसूनाः सदाराणां स्वर्गरोधाः प्रपातिनः ।
कामो लोभो रसास्वादः पैशुन्यं स्वार्थगौरवम् ।।४६।।
मानं कलिश्चावमानं दोषा वसन्ति हारिषु ।
अहंकारः प्रमोहश्चाऽऽसक्तिश्च वासना रतिः ।।४७।।
मृषाऽऽडम्बर उद्वेगो दोषा वसन्ति दारिषु ।
अनौदार्थं संग्रहश्च ग्रहणं चाऽनिवर्तनम् ।।४८।।
प्रवृत्तिश्चाऽप्यसन्तोषो दोषा वसन्ति दारिषु ।
मालिन्यं सूतकं हानिर्भयं मुहुः प्रवासनम् ।।४९।।
दास्यं पराश्रयत्वं च दोषा वसन्ति दारिषु ।
मृषा प्रशंसनं निन्दा स्वायत्तीकरणश्रमाः ।।4.87.५०।।
आशापाशा नवनवा दोषा वसन्ति दारिषु ।
ग्रहपितृप्रेतपीडा कुमेलोत्थप्रपीडनम् ।।५१ ।।
रोगक्षुधातृषाजन्यबलक्षयादिदुःखिता ।
भोगयोग्योपकरणानामलाभो दरिद्रता ।।५२।।
तिरस्कारो नृपादीनां करादानं प्रसह्य वै ।
प्रसंगोत्सवमोदादावसामर्थ्यं च भिक्षुता ।।५३।।
अतिशयो निकटानां संशयो दूरवासिनाम् ।
वियोगो विप्रकृष्टानां दोषा वसन्ति दारिषु ।।५४।।
अविश्वासः स्वजनानां परेषां धनहारिता ।
समूहाऽऽवासवशता दोषा वसन्ति दारिषु ।।५५।।
ततो गृहाश्रमो भार्ये पदे पदेऽघदुःखकृत् ।
स्वर्गसंशायकश्चापि मोक्षसंशायकोऽपि च ।।।५६।।
दाराश्रमे ये दोषास्ते त्यागिनः प्रायशो गुणाः ।
त्यागाश्रमस्ततः श्रेष्ठः सवर्णवर्जितः शुभः ।।५७।।
दाराश्रमे प्रजायन्ते ऋणिनः पुत्रपुत्रिकाः ।
ऋणं दत्वा चिरमार्गं प्रयान्ति नाऽभियन्ति ते ।।५८।।
दाराश्रमेऽर्पणबुद्धिः संकोचं भजते सदा ।
आत्मविवेकविज्ञानं स्थितिं लभते वा न वा ।।५९।।
आत्मनि श्रीकृष्णनारायणोपास्तिर्भवेन्न वा ।
मोक्षो वा वृष एवापि सन्दिग्धा वै गृहाश्रमे ।।4.87.६०।।
ततः पद्मावति प्रज्ञे नारायणो नरान्वितः ।
त्यागाश्रमं प्रभजामि सर्वबन्धनवर्जितम् ।।६१।।
मायारसो गृहस्थानां त्यागिनां भगवद्रसः ।
आद्यानां सान्त एवाऽस्ति त्यागिनां शाश्वतो रसः ।।६२।
निश्चिन्तता त्यागिनां वै यात्रामात्रजुषां भुवि ।
सातिशयादिहीनत्वं सर्वभयादिशून्यता ।।६३।।
जीवने मरणे साम्या बुद्धिस्तु त्यागिनां यतः ।
समलोष्टाश्मकनकस्नेहानां चात्मवर्तिनाम् ।।६४।।
नित्यानन्दे चित्सदात्मन्यवतिष्ठन्ति ये सटा ।
व्रह्मानन्दपरास्तृप्तास्त्यागिनश्चात्ममूर्तयः ।।६५।।
अत्र देहादिमन्तोऽपि देहसेवाविवर्जिताः ।
जीवन्तोऽपि हरौ मग्ना जीवन्मुक्ता विदेहिनः ।।६६।।
दोषशून्या गुरवस्ते परमोक्षप्रदायिनः ।
लीलाप्रवृत्तिमन्तस्ते मायात्यागातिशोभनाः ।।६७।।
विशेषोऽयं त्यागिनां वै गृहस्थेभ्यो मम प्रिये ।
गृहस्थानां तु या आज्ञास्ता यदि स्वल्पखण्डिताः ।।६८।।
गृहाश्रमस्ततो न्यूनो यतः शक्तो न पालने ।
त्यागाश्रमस्तु हर्यर्थो मोक्षार्थः परमार्थकः ।।६९।।
गृहाश्रमस्तु भोगार्थश्चाज्ञाभंगपरायणः ।
कामभोगे दुष्टपाने दुष्टाशने तु जन्तवः ।।4.87.७०।।
नैसर्गात् सम्प्रवर्तन्ते विमर्यादा विशेषतः ।
मानवादींस्तादृशान् वै निवर्तयन्ति चाज्ञया ।।७१।।
वेदाद्या विधिरूपा वै ह्याज्ञाकरा निवर्तकाः ।
आज्ञामुखा निषेधन्ति विधिवत् तन्निषेधकाः ।।।७२।।।
मा कुर्वन्तु विषयाणां भोगानिति मुहुर्मुहुः ।
उपदिशन्ति तान् लोका अवमत्य पतन्ति च ।।७३।।
दारग्रहस्वभावोऽयं यत्राज्ञापि प्रहीयते ।
तस्माद् गृहाश्रमाच्छ्रेष्ठस्त्यागश्चाज्ञापरायणः ।।७४।।
शृणुतं सहचारिण्यौ श्रैष्ठ्यं गृहाश्रमस्य तु ।
दम्पती वा नरो नारी त्वेकवारम् ऋतूत्तरम् ।।७५।।
गर्भार्थं भोगमादत्ते बालजन्मोत्तरं पुनः ।
ऋतुधर्मे समापन्ने गर्भार्थं गमनं पुनः ।।७६।।
एकवारं गर्भदानं युगान्तरे समान्तरे ।
एवं तौ वर्तमानौ वै साध्वीसाधू प्रकीर्तितौ ।।७७।।
पुत्रपुत्रीयुतौ दाराश्रमौ श्रेष्ठौ सदा मतौ ।
ब्रह्मचर्यव्रतस्थौ च ब्रह्मशीलनतत्परौ ।।७८।।
अध्यात्मचिन्तकौ हिंसास्तेयादिदोषवर्जितौ ।
यथाप्तिलाभसन्तुष्टौ यात्रामात्रपरायणौ ।।७९।।
स्वल्पसर्वोपकरणावेतौ श्रेष्ठौ गृहाश्रमौ ।
पत्रैः पुष्पैः फलैरन्नैब्रह्मयज्ञपरायणौ ।।4.87.८०।।
देवयज्ञपितृयज्ञपरौ चातिथिपूजकौ ।
साधुसाध्वीयतियोगिसेवासत्संगशीलिनौ ।।८ १ ।।
शौचव्रततपस्तुष्टिपरौ क्लेशविवर्जितौ ।
ब्रह्माऽर्पितक्रियाकाण्डौ कर्तव्यवृत्तियोजितौ ।।८२।।
आज्ञामात्रानुसन्धानौ भोगवृत्तिविवर्जितौ ।
जपकीर्तनमग्नौ च नवधाभक्तिशोभितौ ।।८३।।
आत्मज्ञानपरावात्मसंशीलनपरायणौ ।
ध्यानमग्नौ कृष्णनारायणस्मरणजीवनौ ।।८४।।
सर्वाऽचिच्चित्कृष्णबोधौ कृष्णदृष्टिप्रकाशनौ ।
उपार्जनपरौ योग्ययत्नकौ सक्तिवर्जितौ ।।८५।।
रागशून्यौ द्वेषशून्यौ त्र्यवस्थागुणवर्जितौ ।
एतादृशौ नरो नारी श्रेष्ठौ दारगृहाश्रमौ ।।८६।।
यद्गृहे बालका बालाः सत्यः साध्व्यश्च साधवः ।
भिक्षुका यतयः सिद्धा भुञ्जते दीनकिंकराः ।।८७।।
अनाथाश्च महीमाना आगन्तुकाश्च वैष्णवाः ।
अभ्यागताश्चातिथयो यात्रालवो वनस्थिताः ।।८८।।
राजानो राजवर्गाश्च प्रजावर्गा नराः स्त्रियः ।
सूतमागधचाराश्च दासवर्गाश्चतुर्थकाः ।।८९।।
पशवः पक्षिणश्चापि यादांसि जन्तवस्तथा ।
भुञ्जते यत्प्रदत्तं वै सर्वाधारो गृहाश्रमः ।।4.87.९० ।।
दाराश्रमे महादानं श्रेष्ठं सुरार्पणादिकम् ।
भूवस्त्रस्वर्णपात्रान्नकन्यागोगृहदानकम् ।।९१।।
सर्ववस्तुप्रदानं च श्रेष्ठं दाराश्रमे सदा ।
साधूनां देवतानां च ऋषीणां पितृयोगिनाम् ।।९२।।
पूजनं भोजनं यत्र श्रेष्ठो दाराश्रमस्ततः ।
वंशविस्तारसन्तानो दारगृहैः प्रवर्तते ।।९३।।
वंशे सन्तो मोक्षगाश्च साध्व्यो भवन्ति भाविनि ।
तद्योगेन गृहस्थानामुद्धारः श्रेष्ठता ततः ।।९४।।
विनावंशं न वै सृष्टिस्थितिः सा स्त्रीसमुद्भवा ।
तस्मान्नारी वंशदा वै गृहिणः श्रेष्ठता ततः ।।९५।।
नारी चाज्ञामयी यस्य तस्य मोक्षः करे स्थितः ।
श्रेष्ठो दाराश्रमो नित्यं यद्याज्ञासृपिणी प्रिया ।।९६।।
कृष्णनारायणो यस्य दाराऽर्पणं धनार्पणम् ।
देहगृहाद्यर्पणं च सर्वार्पणं नरायणे ।।९७।।
सम्पदामर्पणं सर्वसाधनार्पणमित्यपि ।
क्रियार्पणं तथेन्द्रियकृत्यर्पणं हरौ मयि ।।९८।।
मनश्चित्तमतीनां चार्पणं निजात्मना मयि ।
प्रत्यर्पणं हरौ यस्या आज्ञार्पणं तथा मयि ।।९२ ।।
कामरत्यर्पणं कृष्णे पुत्रपुत्र्यर्पणं हरौ ।
यस्याः सर्वार्पणं श्रीशे श्रेष्ठौ दाराश्रमौ हि तौ ।। 4.87.१० ०।।
एवं दाराश्रमः श्रेष्ठः सर्वेच्छापूरकोऽस्म्यहम् ।
पूरयित्वा समस्तेच्छानिवर्तकश्च शान्तिदः ।। १०१ ।।
कृष्णो नारायणः स्वामी भवाम्यैश्वर्यदस्तथा ।
प्रज्ञे पद्मावति चाहं तत्र निर्गुणताप्रदः ।। १ ०२।।
भुक्तिर्मुक्तिप्रदः श्रेष्ठो वैष्णवः स गृहाश्रमः ।
कान्ते द्वे! तत्पथासक्ता यान्ति धामाऽक्षरं परम् ।। १० ३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने गृहगीतायां गृहाश्रमस्य निकृष्टतोत्कृष्टते त्यागाश्रमस्योत्कृष्टता चेत्यादिनिरूपणनामा सप्ताशीतितमोऽध्यायः ।। ८७ ।।