प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ११२ वराहपुराणम्
अध्यायः ११३
[[लेखकः :|]]
अध्यायः ११४ →

अथ भगवत्स्तुतिः ।।
ॐ नमो वराहाय नमो ब्रह्मपुत्राय सनत्कुमाराय नमः ।। १ ।।
नमस्तस्मै वराहाय लीलयोद्धरते महीम् ।।
सुरमध्यगतो यस्य मेरुः खणखणायते ।। २ ।।
दंष्ट्राग्रेणोद्धृता गोरुदधिपरिवृता पर्वतैर्निम्नगाभिर्भक्तानां भीतिहानौ सुरनरकदशास्यान्तकः क्रोडरूपी ।।
विष्णुः सर्वेश्वरोऽयं यमिह हतमला लीलया प्राप्नुवन्ति
त्यक्तात्मानो न पापे प्रभु भवतु मुदितारातिपक्षक्षितीशम् ।।३ ।।
यस्मिन्काले क्षितिः पूर्वकल्पे वाराह मूर्तिना ।।
उद्धृता च यया भक्त्या पप्रच्छ परमेश्वरम् ।। ४ ।।
धरण्युवाच ।।
कल्पे कल्पे भवानेव मां समुद्धरते भवान् ।।
न बाहुश्चेष्टते मूर्तिर्मादृशीं गां च केशव।।५।।
स तेन सान्त्वितायां वै पृथिव्यां यः समागतः ।।
सनत्कुमारस्तत्क्षेत्रे दृष्ट्वा तां संस्थितां महीम् ।।६।।
स्वस्ति वाच्याह पुण्याग्रे प्रत्युवाच वसुन्धराम् ।।
सनत्कुमार उवाच ।।
यं दृष्ट्वा वर्द्धसे देवि त्वं च यस्यासि माधवि ।। ७ ।।
विष्णुना धार्यमाणा च किं त्वया दृष्टमद्भुतम् ।।
एतदाचक्ष्व तत्त्वेन यत्ते हरिमुखाच्छ्रुतम्।।८।।
ब्रह्मपुत्रवचः श्रुत्वा पृथिवी वाक्यमब्रवीत् ।।
धरण्युवाच ।।
यद्गुह्यं स मया पृष्टो यच्च मे सम्प्रभाषितम् ।।९।।
शृणु तत्त्वेन विप्रेन्द्र गुह्यं धर्मं महौजसम् ।।
भगवत्प्रोक्तधर्मेषु यद्गुह्यं कथयाम्यहम्।। 113.१० ।।
तेन मे कथितं ह्येतत्संसारात्तु विमोक्षणम् ।।
विष्णुभक्तेन यत्कार्यं यत्क्रिया परितिष्ठता ।। ११ ।।
उवाच परमं गुह्यं धर्माणां व्याप्तनिश्चयम् ।।
अयं धर्मो मया ह्येतच्छ्रुते धर्मे सनातने ।। १२।।
ततो महीवचः श्रुत्वा ब्रह्मपुत्रो महातपाः ।।
कोकामुखे मम क्षेत्रं जपन्तो ब्रह्मवादिनः ।। १३।।
तान्सर्वानानयामास यत्र देवी व्यवस्थिता ।।
सनत्कुमारः पूतात्मा प्रत्युवाच महीं प्रति ।। १४।।
सनत्कुमार उवाच ।।
यन्मया पूवर्मुक्तासि कथयस्व वरानने।।
अप्रमेयगतिं चैव धर्ममाचक्ष्व तत्त्वतः ।। १५।।
ततस्तस्य वचः श्रुत्वा प्रणम्य ऋषिपुंगवम् ।।
उवाच परमप्रीता धात्री मधुरया गिरा ।। १६ ।।
धरण्युवाच ।।
शृण्वन्तु ऋषयः सर्वे यत्तद्विष्णुमुखाच्छ्रुतम् ।।
बाढमित्येव तां देवि स्वस्ति ब्रूहीति सोऽब्रवीत् ।। १७ ।।
नष्टचन्द्रानिले लोके नष्टभास्करतारके ।।
स्तम्भिताश्च दिशः सर्वा न प्राज्ञायत किञ्चन ।। १८।।
न वाति पवनस्तत्र नैव चाग्निर्न विद्युतः ।।
न किंचित्तत्र विद्येत न तारा न च राशयः ।। १९।।
वेदेषु चैव नष्टेषु मत्स्यो भूत्वा रसातलम् ।।
प्रविश्य तानथोत्कृष्य ब्रह्मणे दत्तवानसि।।113.२० ।।
अन्यद्देवः कूर्मरूपस्त्वं समुद्रस्य मन्थने ।।
धृतवानसि कौर्मेण मन्दरं मधुसूदन ।। २१ ।।
पुनर्वराहरूपेण मां गच्छन्तीं रसातले ।।
उज्जहारेकदंष्ट्रेण भवानेव महार्णवात् ।।२२।।
अन्यद्धिरण्यकशिपुर्वरदानेन दर्पितः ।।
असावपि नृसिंहेण वपुरास्थाय नाशितः ।। २३ ।।
पुनर्निःक्षत्ररूपेण त्वयाऽहं विकृता पुरा ।।
जामदग्न्येन रामेण त्वया दृष्टा सकृत्प्रभो ।। २४ ।।
पुनश्च रावणो रक्षः क्षयितं स्वेन तेजसा ।।
बलिश्च बद्धो भगवन्त्वया वामनरूपिणा ।।२५।।
न च जानाम्यहं देव तव किंचिद्विचेष्टितम् ।।
उद्धृत्य मां कथं देव सृजसे किंच कारणम् ।।२६।।
सृष्ट्वा किमादिशः सर्वां न प्राज्ञायत किंचन ।।
न वाति पवनस्तत्र न चैवाग्निर्ज्वलत्यपि ।।२७।।
अंशवश्चन विद्यन्ते न नक्षत्रा न वा ग्रहाः ।।
न चैवाङ्गारकस्तत्र न शुक्रो न बृहस्पतिः।।२८।।
शनैश्चरो बुधो नात्र न चेन्द्रो धनदो यमः ।।
वरुणोऽपि न विद्येत नान्ये केचिद्दिवौकसः ।।२९।।
वर्जयित्वात्र त्रीन्देवान् ब्रह्मविष्णुमहेश्वरान् ।।
पृथिवी भारसन्तप्ता ब्रह्माणं शरणं गता ।। 113.३० ।।
गत्वा च शरणं देवी दैन्यं वदति माधवी ।।
प्रसीद मम देवेन्द्र मग्नाहं भारपीडिता ।।३१।।
सपर्वतवनैः सार्द्धं मां तारय पितामह ।।
पृथिव्या वचनं श्रुत्वा ब्रह्मा लोकपितामहः।।३२।।
मुहुर्तं ध्यानमास्थाय पृथिवीं तामुवाच ह ।।
नाहं तारयितुं शक्तो विषमस्थां वसुन्धरे ।।३३।।
लोकनाथं सुरश्रेष्ठमादिकर्त्तारमञ्जसा ।।
लोकेशं धन्विनं श्रेष्ठं याहि मायाकरण्डकम् ।।३४।।
सर्वेषामेव नः कार्यं यच्च किञ्चित्प्रवर्त्तते ।।
सर्वांस्तारयितुं शक्तः कि पुनस्त्वां वसुन्धरे ।। ३५ ।।
अनन्तशयने देवं शयानं योगशायिनम् ।।
ततः कमलपत्राक्षी नानाभरणभूषिता ।।३६ ।।
कृताञ्जलिपुटा देवी प्रसादयति माधवम् ।।
धरण्युवाच ।।
अहं भारसमायुक्ता ब्रह्माणं शरणङ्गता ।।३७।।
प्रत्याख्याता भगवता तेनाप्युक्तमिदं वचः ।।
नाहं तारयितुं शक्तः सुश्रोणि व्रज माधवम् ।।३८।।
स त्वां तारयितुं शक्तो मग्नासि यदि सागरे ।।
प्रसीद मम देवेश लोकनाथ जगत्प्रभो।।३९।।
भक्त्या त्वां शरणं यामि प्रसीद मम माधव।।
त्वमादित्यश्च चन्द्रश्च त्वं यमो धनदस्तु वै ।।113.४०।।
वासवो वरुणश्चासि ह्यग्निर्मारुत एव च ।।
अक्षरश्च क्षरश्चासि त्वं दिशो विदिशो भवान् ।। ४१।।
मत्स्यः कूर्म्मो वराहश्च नरसिंहोऽसि वामनः ।।
रामो रामश्च कृष्णश्च बुद्धः कल्की महात्मवान् ।।४२ ।।
एवं पश्यसि योगेन श्रूयते त्वं महायशाः ।।
युगायुग सहस्राणि व्यतीतान्यसि संस्थितः।।४३।।
पृथिवी वायुराकाशमापोज्योतिश्च पञ्चमम्।।
शब्दस्पर्शस्वरूपोऽसि रसो गन्धोऽसि नो भवान्।।४४।।
सग्रहाणि च ऋक्षाणि कलाकाष्ठामुहूर्त्तकाः ।। ४५ ।।
सग्रहा ये च नक्षत्रा कला कालमुहूर्त्तकाः ।।
ज्योतिश्चक्रं ध्रुवश्चाऽसि सर्वेषु द्योतते भवान् ।। ४६ ।।
मासः पक्षमहोरात्रमृतुः संवत्सराण्यपि ।। ४७ ।।
कला काष्ठापि षण्मासाः षड्रसाश्चापि संयमः ।।
सरितः सागराश्च त्वं पर्वताश्च महोरगाः ।। ४८ ।।
त्वं मेरुर्मन्दरो विन्ध्यो मलयो दर्दुरो भवान् ।।
हिमवान्निषधश्चासि सचक्रोऽसि वरायुधः।।४९।।
धनुषां च पिनाकोऽसि सांख्ययोगोऽसि चोत्तमः ।।
परम्परोऽसि लोकानां नारायणः परायणः।।113.५०।।
संक्षिप्तश्चैव विस्तारो गोप्ता यज्ञश्च शश्वतः।।
यज्ञानां च महायज्ञो यूपानामसि संस्थितः ।।५१।।
वेदानां सामवेदोऽसि साङ्गोपाङ्गो महाव्रतः ।।
गर्जनं वर्षणं चासि त्वं वेधा अनृतानृते।।५२।।
अमृतं सृजसे विष्णो येन लोकानधारयत् ।।
त्वं प्रीतिस्त्वं परा प्रीतिः पुराणः पुरुषो भवान् ।। ५३ ।।
धेयाधेयं जगत्सर्वं यच्च किंचित् प्रवर्त्तते ।।
सप्तानामपि लोकानां त्वं नाथस्त्वमसंग्रहः।।५४।।
त्वं च कालश्च मृत्युश्च त्वं भूतो भूतभावनः।।
आदिमध्यान्तरूपोऽसि मेधा बुद्धिः स्मृतिर्भवान् ।।५२।।
आदित्यस्त्वं युगावर्त्तास्त्वं तपस्वी महातपाः ।।
अप्रमाणः प्रमेयोऽसि ऋषीणां च महानृषिः ।। ५६ ।।
अनन्तश्चासि नागानां सर्पाणामसि तक्षकः ।।
उद्वहः प्रवहश्चासि वरुणो वारुणो भवान् ।। ५७ ।।
क्रीडाविक्षेपणश्चासि गृहेषु गृहदेवताः ।।
सर्वात्मकः सर्वगतो वर्द्धनो मन एव च ।। ५८ ।।
साङ्गस्त्वं विद्युतीनां च वैद्युतानां महाद्युतिः ।।
युगे मन्वन्तरे चापि वृक्षाणां च वनस्पतिः ।। ५९।।
श्रद्धासि त्वं च देवेश दोषहन्तासि माधव ।।
अण्डजोद्भिज्जस्वेदानां जरायूनां च माधव ।। 113.६० ।।
गरुडोऽसि महात्मानं वहसि त्वं परायणः ।।
दुन्दुभिर्नेमिघोषैश्च आकाशममलो भवान् ।। ६१ ।।
जयश्च विजयश्चासि गृहेषु गृहदेवताः ।।
सर्वात्मकः सर्वगतश्चेतनो मन एव च ।। ६२ ।।
भगस्त्वं विषलिङ्गश्च परस्त्वं परमात्मकः ।।
सर्वभूतनमस्कार्यो नमो देव नमो नमः ।। ६३ ।।
मां त्वं मग्नामसि त्रातुं लोकनाथ इहार्हसि ।।
आदिकालात्मकः कृष्णः सर्वलोकात्मको विभुः ।। ६४ ।।
य इदं पठते स्तोत्रं केशवस्य दृढव्रतः ।।
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।। ६५ ।।
अपुत्रो लभते पुत्रं दरिद्रो धनमाप्नुयात् ।।
अभार्यो लभते भार्यामपतिः पतिमाप्नुयात् ।। ६६ ।।
उभे सन्ध्ये पठेत्स्तोत्रं माधवस्य महात्मनः ।।
स गच्छेद्विष्णुलोकं च नात्र कार्या विचारणा ।। ६७ ।।
एवं तु अक्षरोक्तोऽपि भवेत्तु परिकल्पना ।।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।। ६८ ।।
इति श्रीवराहपुराणे विष्णुस्तवनं नाम त्रयोदशाधिकशततमोऽध्यायः ।। ११३ ।।