प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १२६ वराहपुराणम्
अध्यायः १२७
[[लेखकः :|]]
अध्यायः १२८ →

अथ ब्राह्मणदीक्षासूत्रवर्णनम् ।।
सूत उवाच ।।
एवं धर्मांस्ततः श्रुत्वा बहुमोक्षार्थकारणात् ।।
प्रत्युवाच ततो भूमिर्लोकनाथं जनार्दनम् ।। १ ।।
अहो प्रभावः क्षेत्रस्य कथ्यमानोऽतिपुष्कलम् .।।
अहं भारभराक्रान्ता लघुर्जातास्मि धावती ।। २ ।।
विमोहा च विशुद्धा च शृण्वानाहं त्विमां प्रभो ।।
अहं लोकेषु विख्याता मुखात्तव विनिस्सृता ।। ३ ।।
पुनः पृच्छामि ते देव संशयं धर्मसंहितम् ।।
येन धर्मविधानेन दीक्षा प्राप्यते पुष्कला ।।४।।
एतन्मे परमं गुह्यं परं कौतूहलं च मे ।।
धर्मसंग्रहणार्थाय तद्भवान्वक्तुमर्हसि ।। ५ ।।
ततो महीवचः श्रुत्वा मेघदुन्दुभिनिःस्वनः ।।
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम् ।। ६ ।।
श्रीवराह उवाच ।।
शृणु तत्त्वेन मे देवि मम धर्मं सनातनम् ।।
देवा एतन्न जानन्ति ये च योगव्रते स्थिता। ।। ७ ।।
एतं धर्मं वरारोहे मङ्गल्यं मुखनिःसृतम् ।।
अहमेको विजानामि मद्भक्ता ये जना भुवि ।। ८।।
यच्च पृच्छसि मे भद्रे दीक्षां भागवतीं कथाम् ।।
तच्छृणुष्व वरारोहे कर्मसंसारमोक्षणम् ।।९।।
मयोक्तां लभते कश्चिद्दीक्षां चैव सुखावहाम् ।।
चातुर्वर्ण्यविधानेन तां दीक्षां शृणु सुन्दरि ।। 127.१० ।।
हरन्ति मनुजा येन गर्भसंसारसागरात् ।।
मयि शान्तं मनः कृत्वा तदुत्कृष्टं च सुन्दरि ।। ११ ।।
अभिगच्छेद्गुरुं देवि शाधि शिष्योऽस्मि मां गुरो ।।
तदाज्ञां तु पुरस्कृत्य दीक्षाद्रव्यानथाहरेत् ।। १२ ।।
लाजा मधु कुशाश्चैव घृतं चामृतसन्निभम् ।।
गन्धं सुमनसो धूपं दीपं प्रापणकादिकम् ।। १३ ।।
कृष्णाजिनं च पालाशं दण्डं चैव कमण्डलुम् ।।
घटं वासः पादुके च शुक्लयज्ञोपवीतकम् ।। १४ ।।
यन्त्रिकामर्घपात्रं च चरुस्थालीं सदर्विकाम् ।।
तिलव्रीहियवांश्चैव विविधं च फलोदकम् ।। १५ ।।
भक्ष्यभोज्यान्नपानं च कर्मण्यांश्चैव संचयान् ।।
दीक्षिता यदि भुञ्जन्ति मम कर्मपरायणाः ।। १६ ।।
यानि कानि च बीजानि रत्नानि विविधानि च ।।
कांचकादीनि सुश्रोणि तानिं शीघ्रमुपाहरेत् ।। १७ ।।
एतान्येवोपहार्याणि गुरुमूले ततः परम् ।।
स्नात्वा मङ्गलसंयुक्तो दीक्षाकामश्च ब्राह्मणः ।। १८ ।।
गुरोस्तु चरणौ गृह्य ब्रूहि किं करवाणि ते ।।
ततस्तु गुर्वनुज्ञातो वेदिं कुर्याच्च पुष्कलाम् ।। १९ ।।
ब्राह्मणो दीक्षमाणस्तु चतुरस्रां तु षोडशहस्तां कृत्वा तत्र च कलशोपरि युञ्जेत् ।। 127.२० ।।
प्रतिष्ठाप्य विधानेन धान्योपरिदृढं नवम् ।।
जलेन पूरितं मन्त्रैः पुष्पपल्लवशोभितम् ।। २१ ।।
तस्योपरि तिलैः पूर्णपात्रं स्थाप्य विधानतः ।।
पूजयेन्मां गुरुं द्रव्यैः शिष्येणैवोपकल्पितैः ।। २२ ।।
तत्रार्चनविधिं कृत्वा गुरुधर्मविनिश्चयः ।।
पूर्वोक्तानि च द्रव्याणि वेदिमध्यमुपाहरेत् ।। २३ ।।
चतुरः कलशान्दद्याच्चतुष्पार्श्वेषु सुन्दरि ।।
वारिपूर्णान्द्विजाञ्छुद्धान्सहकारविभूषितान् ।। २४ ।।
सर्वतः शुक्लसूत्रेण वेष्टयेत तथानघे ।।
पूर्ण पात्राणि चत्वारि चतुष्पार्श्वेषु स्थापयेत् ।। २५ ।।
एवं मन्त्रं ततः कृत्वा दद्याद्दीक्षाप्रयोजकः ।।
स च मन्त्रो यथान्यायं येन वा तुष्यते गुरुः ।। २६ ।।
यथान्यायं च संगृह्य गुरुकर्मविनिश्चितः ।।
प्रपद्यावसथं विष्णोर्दीक्षाणां परिकाङ्क्षिणः ।। २७ ।।
उपस्पृश्य यथान्यायं भूत्वा पूर्वमुखस्ततः ।।
सर्वांस्तु श्रावयेच्छिष्यान्दीक्षणार्थं न संशयः ।। २८ ।।
यस्तु भागवतान्दृष्ट्वा स्वयं भागवतः शुचिः ।।
अभ्युत्थानं न कुर्वीत तेनाहं तु विहिंसितः ।। २९ ।।
कन्यां दत्त्वा पुनस्तांस्तु कर्मणा नोपपादयेत् ।।
अष्टौ पितृगणास्तेन हिंसिता नात्र संशयः ।। 127.३० ।।
भार्यां प्रियसखीं यस्तु साध्वीं हिंसति निर्घृणः ।।
न तेन तां प्राप्नुवन्ति हिंसका दुष्टयोनिजाः ।। ३१ ।।
ब्रह्मघ्नश्च कृतघ्नश्च गोघ्नश्च कृतपातकाः ।।
एताञ्छिष्यान् विवर्जेत उक्ता ये चान्यपातकाः ।। ३२ ।।
बिल्ववृक्षोदुम्बरौ च तथा चान्ये कदाचन ।।
कर्मण्याश्चैव ये वृक्षा न च्छेत्तव्याः कदाचन ।। ३३ ।।
यदीच्छेत्परमां सिद्धिं मोक्षधर्मं सनातनम् ।।
भक्ष्याभक्ष्यं च तं शिष्यं वेदितव्यं तदन्तरे ।। ३४ ।।
करीरस्य वधः शस्तः फलान्यौदुम्बरस्य च ।।
सद्योभक्षा भवेत्तेन अभक्ष्या पूतिवासिका ।। ३५ ।।
न भक्षणीयं वाराहं मांसं मत्स्याश्च सर्वशः ।।
अभक्ष्या ब्राह्मणैरेते दीक्षितैश्च न संशयः ।।३६।।
परीवादं न कुर्वीत न हिंसां वा कदाचन ।।
पैशुन्यं न च कर्त्तव्यं स्तैन्यं वापि कदाचन ।। ३७ ।।
अतिथिं चागतं दृष्ट्वा दूराध्वानं गतं क्वचित् ।।
संविभागस्तु कर्त्तव्यो येन केनापि पुत्रक ।।३८।।
गुरुपत्नी राजपत्नी ब्राह्मणस्त्री कदाचन ।।
मनसापि न गन्तव्या एवं विष्णुः प्रभाषते ।। ३९ ।।
कनकादीनि रत्नानि यौवनस्था च कामिनी ।।
तत्र चित्तं न कर्तव्यमेवं विष्णुः प्रभाषते ।। 127.४० ।।
दृष्ट्वा परस्य भाग्यानि आत्मनो व्यसनं तथा ।।
तत्र मन्युर्न कर्त्तव्यं एवं धर्मः सनातनः ।। ४१ ।।
एवं ततः श्रावयीत दीक्षाकामं वसुन्धरे ।।
छत्रं चोपानहं चैव मनसा चोपकल्पयेत् ।।४२।।
द्वे द्वे औदुम्बरस्य पत्रे वेदिमध्ये तु स्थापयेत् ।।
क्षुरं चैव वरारोहे जलपूर्णं च भाजनम् ।। ४३ ।।
ममावाहनपूर्वं तु मन्त्रेण विधिनार्चयेत् ।।
मन्त्रः-
ॐ सप्त सागराश्च सप्तद्वीपानि सप्त पवर्ताश्च दश स्वर्गसहस्राश्च समस्ताश्च नमोऽस्तु सर्वास्ते हृदये वसन्ति।।
यश्चैतद्वर्षति पुनरुन्नमति।।४४।।
ॐ भगवन्वासुदेव ममैतत्सारय युक्तं वराहरूपसृष्टेन पृथिव्यां तु मन्त्रानुस्मरणं च आज्ञापयानुभावनास्माकमाज्ञप्तमनुचिन्तयित्वा भगवन्नागच्छ दीक्षाकामविप्रस्त्वत्प्रसादात्तु दीक्षति ।। ४५ ।।
एतन्मन्त्रमुदाहृत्य शिरसा जानुभ्यामवनिं गतेन भवितव्यम् ।। ४६ ।।
ॐ स्वागतं स्वागतवानिति ।। ४७ ।।
तत एतेन मन्त्रेण आनयित्वा वसुन्धरे ।।
अर्घ्यं पाद्यं च दातव्यं मन्त्रेण विधिनिश्चयात् ।।४८।।
मन्त्रः-
अकृतघ्ने देवानसुराकृतघ्नरुद्रेण ब्राह्मणाय च लब्धं सर्वमिमां भगवतेऽस्तु दत्तं प्रतिगृह्णीष्व च लोकनाथ ।। ४९ ।।
एवं भूमे ततो दत्त्वा अर्घ्यं पाद्यं च कर्मणा।।
क्षुरं गृहीत्वा यथान्यायमिमं मन्त्र मुदीरयेत् ।।127.५० ।।
मन्त्रः –
एवं वरुणः पातु शिष्य ते वपतः शिरः ।।
जलेन विष्णुयुक्तेन दीक्षा संसारमोक्षणम्।।५१।।
एकस्य कलशं दद्यात्कर्मकारस्य सुन्दरि ।।
निष्कलं तु शिरः कृत्वा शोणितेन विवर्जितम् ।।५२।।
पुनः स्नानं ततः कृत्वा शीघ्रमेव न संशयः।।
एतस्य विधिवत्कृत्वा दीक्षाकामस्य सुन्दरि।।५३।।
दत्त्वा संसारमोक्षाय सर्वकामविनिश्चितः।।
जानुभ्यामवनिं गत्वा इमं मन्त्रमुदीरयेत्।। ५४।।
मन्त्रः -
ॐ वेदाम्यहं भागवतांश्च सर्वान् सुदीक्षिता ये गुरवश्च सर्वे ।।
विष्णुप्रसादेन च लब्धदीक्षा मम प्रसीदन्तु नमामि सर्वान् ।।५५।
नत्वा तु भगवद्भक्तान् प्रज्वाल्य च हुताशनम् ।।
घृतेन मधुमिश्रेण लाजाकृष्णतिलैस्तथा ।।५६।।
सप्तवारांस्ततो दत्त्वा विंशतिं च तिलोदनम् ।।
जानुभ्यामवनिं गत्वा इमं मन्त्रमुदाहरेत्।।५७।। मन्त्रः –
अश्विनौ दिशः सोमसूर्यौ साक्षिमात्रं वयं प्रसन्नाः शृण्वन्तु मे सत्यवाक्यं वदामि ।।५८।।
सत्येन धार्यते भूमिर्भूमिः सत्येन तिष्ठति ।।
सत्येन गच्छते सूर्यो वायुः सत्येन वाति च।।५९ ।।
एवं सत्यं ततः कृत्वा ब्राह्मणा वीक्षणं पुनः।।
गुरुं प्रसादेयत्तत्र मन्त्रेण विधिनार्च्चयन् ।। 127.६० ।।
तिस्रः प्रदक्षिणाः कृत्वा देवं भागवतं गुरुम् ।।
गुरुपादौ तु संगृह्य इमं मन्त्रमुदीरयेत् ।। ६१ ।।
मन्त्रः –
गुरुदेवप्रसादेन लब्धा दीक्षा यदृच्छया ।।
यच्चैवापकृतं किंचिद्गुरुर्मर्षयतां मम ।। ६२ ।।
एवं प्रसादयित्वा तु शिष्यो मन्त्रेण सुन्दरि ।।
वेदिमध्ये स्थापयित्वा भूत्वा पूर्वमुखस्ततः ।। ६३ ।।
शिष्यमेव यतो दृष्ट्वा गृहीत्वा च कमण्डलुम् ।।
शुक्लयज्ञोपवीतं च इमं मन्त्रमुदाहरेत् ।। ६४ ।।
मन्त्रः –
विष्णुप्रसादेन गतोऽसि सिद्धिं प्राप्ता च दीक्षा सकमण्डलुश्च ।।
गृहीत्वा तु कराभ्यां युक्तोऽसि कर्मणा क्रियायां चैव ।। ६५ ।।
ततो मुखपदं कृत्वा दीक्षितो गुरुणा तथा ।।
सर्वप्रदक्षिणं कृत्वा इमं मन्त्रमुदाहरेत् ।। ६६ ।।
अधोऽधो भूत्वा यद्यहं भ्राम्यल्लँब्धो गुरुर्विष्णुदीक्षा च लब्धा ।।
तव प्रसादाच्च गुरो यथा च ।। ६७ ।।
एतेन मन्त्रेण मुखपदं कारयेत् ।।
शौचसेके वै कुर्याद्देवान्तन्तुवाससम् ।। ६८ ।।
एवं वै वास आदत्ते गृह्ण वत्स कमण्डलुम् ।।
इमं लोकेषु विख्यातं शोधनं सर्वकर्मसु ।। ६९ ।।
मन्त्रः –
गृह्णीष्व गन्धपात्राणि सर्वगन्धं सुखोचितम् ।।
सर्ववैष्णवकं शुद्धं सर्वसंसारमोक्षणम् ।। 127.७० ।।
मधुपर्कं गृहीत्वा च त्विमं मन्त्रमुदीरयेत् ।।
मन्त्रः –
गृहाण मधुपर्कं च प्रार्थकाय विशोधनम् ।। ७१ ।।
ततो गृहीत्वा चरणौ गुरोर्यत्नात्सुतोषयेत् ।।
शिरसा चाञ्जलिं कृत्वा मनश्चैव सुसंयतम् ।।
गुरूपदिष्टं सन्धार्य इमं मन्त्रमुदीरयेत् ।। ७२ ।।
मन्त्रः –
शृण्वन्तु मे भागवतास्तु सर्वे गुरुश्च मे सर्वकामक्षयं चकार ।।
अहं शिष्यो दासभूतस्तथैव देवसमो गुरुश्च मे तथोपपन्नम् ।। ७३ ।।
एषागमे ब्राह्मणस्य दीक्षा भूमे ह्युदाहृता ।।
त्रयाणामथ वर्णानां मम दीक्षाविधीञ्छृणु ।। ७४ ।।
एतेनैव विधानेन दीक्षयेत वसुन्धरे ।।
उभौ च प्राप्नुतां सिद्धिमाचार्यः शिष्य एव च ।। ७९ ।।
इति श्रीवराहपुराणे ब्राह्मणदीक्षासूत्रं नाम सप्तविंशत्यधिकशततमोऽध्यायः ।। १२७ ।।