← वाचस्पत्यम्/ऊ वाचस्पत्यम्/ऋ
तारानाथ भट्टाचार्य
वाचस्पत्यम्/ॠ‌ →
पृष्ठ १३९९

ऋकारः स्वरवर्ण्णभेदः मूर्द्धन्यः “ऋटुरषाणां मुर्द्धा”

इत्युक्तेः । स तु उदात्तानुदात्तस्वरितभेदात् त्रिविधः ।
अनुनासिकाननुनासिकभेदात् प्रत्येकं द्विधेति षड्विधः । स च
ह्रस्वः एकमात्राकालेनोचार्य्यत्वात् । तस्य च रुक्तविद्युल्ल-
तारूपेण ध्येयतोक्ता । “रक्तविद्युल्लताकारमृकारं प्रणमाम्य
हम्” काम० त० । तस्य च मातृकान्यासे वामनासि-
कायां न्यस्यता उक्ता तेन अभेदोपचारात् वामनासादि-
शब्दवाच्यता । स्वरूपपरत्वे ततः तकारकारप्रत्ययौ ऋत्
ऋकारः तत्कालोचार्य्ये “तपरस्तत्कालस्यैव” पा०
उक्तेः । व्यकरणशास्त्रे अननुबन्धः ऋ इत्येतत् अष्टा-
दशविधस्य ऋवर्ण्णस्य, द्वादशविधस्य ऌकारस्य संज्ञा भवति
तेन “ऋ इति त्रिंशतां संज्ञा” इति सि० कौ० । अधिकं
स्वरवर्णादिशब्दसमाप्तौ वक्ष्यते समानवर्ण्णग्रहणद्योतना-
र्थम् वर्णशब्दोत्तरः प्रयुज्यते ऋवर्णः त्रिंशतां संज्ञा ।

गतौ भ्वा० पर० सक० अनिट । शिति ऋच्छादेशः । ऋच्छति

आर्च्छत् आरत्--आर्षीत् । आर आरिथ अर्त्ता अर्य्यात्
अरिष्यति । आरिष्यन् । ऋच्छन् ऋतः ऋतिः अर्त्तव्यः
अरणीयः अर्य्यः यत् वैश्यस्वामिनोः अन्यत्र ण्यत्
आर्य्यः । अर्त्ता आरी आरिवान् अर्त्तुम् । सङ्गमा-
र्थत्वेनाकर्म्मकात् सम्पूर्ब्बकात् ततः आत्म० । समृच्छते ।
समारत समार्त्त । “सारमानवरारोहा--वनमार सा” उद्भटः ।
ऋ--णिच् अर्पयति ते । सन् अरिरिषति समरिरिषते
गत्यर्थत्वेऽपि कौटिल्ये यङ् । अरार्य्यते “किमभीरुररा-
र्य्यसे” भट्टिः । कर्मणि अर्य्यते । आरि ।

गतौ प्रापणे च जुहो० पर० सक० अनिट् । लडादौ

शपोलुक्त्वेन शित्परत्वाभावात् न ऋच्छादेशः । शतृशान-
चोस्तुतदादेशः । इयर्त्ति इयृतः इय्रति । इयृयात् ।
इयर्त्तु इयृहि इयराणि । ऐयः ऐयृताम् ऐयरुः ।
आरत्--आर्षीत् सृसाहचर्य्यात् अङ्विधौ भ्वादेरेव ग्रहण-
मित्यन्ये तन्मते आर्षीदित्येव । समारत समार्त्त इत्यन्ये
आर इत्यादि भ्वादिवत् । शित्त्वात् इयृच्छन् समृच्छा-
न इति भेदः । अयं वैदिक एवेति बहवः “बहुलं छन्द-
सीति” पा० सिद्धेः “अर्त्तिपिपार्त्त्योश्च” पा० इतीत्त्वविधा-
नसामर्थ्यादयं भाषायामपि” सि० कौ० । “शुष्म इयर्त्ति
प्रभृतो मे अद्रि” ऋ० १, १६५, ४ । “इयर्त्ति वाचमरितेव
नावम्” २, ४२, १ । अनयोर्गत्यर्थत्वात् उपसर्गभेदेनार्थभेदस्तु
इणधातुवत् स च तच्छब्दे उक्तः “अभैषुः कपयोऽन्वारत्
कुम्भकर्णं मरुत्सुतः” “सीतां जिघांसू सौमित्रे
राक्षसावारतां ध्रुवम्” भट्टिः । आ + ऋत आर्त्तः वृद्धिः
“तथार्त्तोऽपि क्रियां धर्म्याम्” भट्टिः “उदयर्षि भानुना”
ऋ०१०, १४०, २, “समुद्रादूर्मिमुदियर्त्ति वेनः” १०, १२३,
३, “यदा शसा निःशसा भिशसोपारिम जाग्रतो यत्
स्वपन्तः” ऋ०१०, १६४, ३, एवं यथायथमुपसर्गपूर्वस्य
उदाहरणं दृश्यम् ।

हिंसायां स्वा० पर० सक० अनिट् । ऋणोति । ऋणुयात

ऋणोतु ऋणु आर्णत् । आर्षीत् लिड़ादौ भ्वादिवत्
शतृ--ऋण्वन् क्त ऋणम् इतिभेदः “त्वेषस्तेधूम ऋण्वति”
ऋ०६, २, ६, “ऋणं देयमदेयञ्च येन यत्र यथा च यत्”
याज्ञ० स्मृतिः । “अपद्वारा मतीनां प्रत्ना ऋण्वन्ति का
रवः” ऋ० ९, १०, ६, ऋणोरक्षं न शचीभिः” ऋ० १, ३०,
१५, अस्य रिकारादित्वमित्यन्ये रिणोति इत्यादि ।

अव्य० ऋ--क्विप् बा० न तुक् । १ सम्बोधने २ गर्हले

३ वाक्ये च तेदि० ४ परिहासे वाक्यविकारे शब्दरत्ना०
५ देवमातरि स्त्री ।

ऋक्छस् अव्य० ऋच् + शस् । ऋचम् ऋचमित्यर्थे “ऋग्वेद-

शब्दे चरणव्यूहभाष्यधृतब्राह्मएवाक्ये उदा० दृश्यम् ।

ऋक्ण त्रि० व्रश्च--क्त पृ० वलोपः । वृक्णे छिन्ने “वाचमेव

तदाप्तां श्रान्तामृक्णवहीं वहराविणीमृच्छन्ति” ऐत० ।

ऋक्थ न० ऋच्--थक् । १ धने २ स्वर्णे स्मृतिप्रसिद्धे ३ दायरूपे

धने च “ऋक्थग्राही ऋणं दाप्यः” याज्ञ० “स्वामी ऋक्थ
क्रयसंविभागपरिग्रहाधिगमेषु” गौत० तत्र “ऋक्थमप्रतिब-
न्धोदायः यथा पुत्राणां पौत्राणाञ्च पुत्रत्वेन पौत्रत्वेन च
पितृधनं पितामहधनं च स्वं भवतीत्यप्रतिबन्धः” मिता०
क्वचित् सप्रतिबन्धदायवाचिताऽपि “पुत्रहीनस्य
ऋक्थिमः” इति याज्ञ० प्रयोगात् तथा च सम्बन्धनिमित्त
स्वत्वास्पदीभूतं द्रव्यमृक्थम् । क्कचिद्धनमात्रेऽपि प्रयोग ।
ऋक्थं गृह्णाति णिनि ६ त० । ऋक्थग्राहिन् दायहरेत्रि०
स्त्रियां ङीप् । “ऋकथग्राही ऋणं दाप्यः” या० अण्
उप० स० । ऋक्थग्राहोप्यत्र त्रि० स्त्रियां टाप् तद्धिताण्ण-
न्तस्यैव ङीप् सि० कौ० । ऋक्थ + अस्त्यर्थे इनि । ऋक्थिन्
तद्ग्राहके “पुत्रहीनस्यऋक्थिनः” याज्ञ० स्त्रियां ङीप् ।
पृष्ठ १४००

ऋक्ष पु० स्त्री ऋष--स किच्च । १ भल्लूके तज्जातिस्त्रियां

संयोगोपधत्वात् न ङीप् किन्तु टाप् । २ नक्षत्रे ।
३ मेषादिराशौ च न० ४ भल्लके वृक्षे (भेला) ५ शोना-
कवृक्ष (शोना) ६ पर्व्वतभेदे च पु० मेदि० । स च रैवताप-
रनामकः “ऋक्षोऽपि रेवताज्जज्ञे तस्य पर्व्वतमूर्द्धनि ।
ततोरैवत उत्पन्नः पर्वतः सागरान्तिके । नाम्ना
रैवतक नाम मूमौ भूमिधरःस्मृतः” हरिवं० ३२ अ० । स च
कुलाचलपर्व्वतः यथोक्तं सि० शि० । “माहेन्द्रशुक्तिमल-
यक्षकपारियात्रा सह्यः सविन्ध्य इह सप्त कुलाचला-
ख्याः” इति । ७ नृपभेदयोः तत्रैकः “आजमीढपुत्रः ।
“धुमिन्या स तया देव्या त्वजमीढः समीयिवान् । ऋक्षं
संजनयामास धूम्रवण्ण सुदर्शनम् । ऋक्षात् संवरणो
जज्ञे कुरुः संवरणात्तथा” अपरो विदूरथस्य पुत्रः
“विदूरथस्य दायाद ऋक्ष एव महारथः । ऋक्षस्य च द्विती-
यस्य भीमसेनोऽभवन्नृपः” इति हरि० ३२ अ० । भल्लूक-
श्चारण्यपशुः जरायुजश्च । “जरायुजानां प्रवराः मानवाः
पशवश्च ये । नानारूपधरा राजन्! एषां भेदाश्चतुर्द्दश ।
अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः । सिंहव्याघ्रा
वराहाश्च महिषा वारणास्तथा । ऋक्षाश्च वानराश्चैव
सप्तारण्याः स्मृता नृप ।” भा० आ० तत्र प्रवरा इति
विशेषणात् एतद्भिन्नानामारण्यत्वमस्त्येव तेनोष्ट्रस्याप्यार-
ण्यत्वं सुश्रुते उक्तम् तच्च उष्ट्रशब्दे उक्तम् । ८ अरिहपुत्रे
च “अरिहः खल्वाङ्गेयीमुपयेमे सुदेवां नाम तस्यां पुत्रमजी-
जनदृक्षम्” भा० आ० ९५ अ० । ९ उत्तर दिशि स्त्री निरु०
यद्यपि नक्षत्रस्य सामान्यतो गगनस्थिततारामात्रवा-
चकता तथापि ज्योतिषे यषामुदयास्तज्ञापनं तेषा-
मेव ऋक्षशब्देन व्यवहारः तानि च सप्तविंशतिः ।
अभिजिच्चेत्यष्टाविंशतिः । “अश्विनी भरणी चैव कृत्तिका
रोहिणी तथा । मृगशीर्षस्तथा चाद्री पुनर्वसुक-
पुष्यको । अश्लेषा च मघा पूर्वफल्गुन्युत्तरफल्गुनी ।
हस्ता चित्रा तथा स्वाती विशाखा चानुराधिका । ज्येष्ठा
मूलं तथाषाढे पूर्वोत्तरपदादिके । श्रवणा च धनिष्टा च
शतभिषगाद्यभाद्रिका । उत्तरादिभाद्रपदा रेवती भानि च
क्रमात्” ज्योति० अभिजित्तु अभिजिच्छब्दे उक्तम् । एतानि
द्वादशधाविभक्तराशिचक्रघटकत्वात् प्राधान्याच्च ऋक्षशब्देन
व्यपदिश्यन्ते एतेषां स्वरूपप्रमाणाधिष्ठातृदेवताः अश्लेषा-
शब्दे ४९७ पृ० श्रीपतिवाक्येनोक्ताः अन्यान्यपि यानि
उदयास्तभाञ्जि गगनमण्डले सन्ति तेषामपि गति र्ज्यो-
तिषे आनीता तान्यपि ऋक्षपदवाच्यानि । ऋक्षकक्षा-
प्रमाणमुक्तं सि० शि० । “अभ्रेष्विभाङ्कगजकुञ्जरगोऽ-
क्षपक्षाः (२५९८८९८५० योजनानि) कक्षां गृणन्ति
गणका भगणस्य चैताम्” । नक्षत्रकक्षाया मूमध्यादुच्छ्रितिमा
नम् “नागाक्षषड्युगरसाग्निकुवेदसंख्यो (४१३६२६५८
योजनमितः) नक्षत्रमण्डलभवः श्रवणोनिरुक्तः” ज्यो०
उक्तम् । “तेषामन्येषाञ्चोदयादिज्ञानाय” सि० शि० ।
ध्रुवकभागा उक्ता यथा “अष्टौ नखा गजगुणाः खशरास्त्रि-
षटकाः सप्तर्तवस्त्रिनव चाङ्गदिशोऽष्टकाष्ठाः । गोऽर्का-
स्तथाद्रिमनवः शरबाणचन्द्राः खात्यष्टयस्त्रिधृतयो
नवनन्दचन्द्राः । अर्काश्विनो जिनयमा नव बाहुदस्राः
क्वब्ध्यश्विनो जलधितत्त्वमिताश्च भागाः । षष्ट्यश्विनश्च
पवनोत्कृतयोऽष्टभानि खाङ्काश्विनो नखगुणा रसदन्त-
संख्याः । सप्तामराः खमिति भध्रुवका निरुक्ता दृक्कर्मणाय-
नभवेन सहाश्विधिष्ण्यात् । ब्रह्माग्निभध्रुवलवा रदलि-
प्तिकोना मैत्रैन्द्रयोर्द्व्यधिपभस्य च सेषुलिप्ताः” शि०
“अष्टौ नखा इत्यादयोऽश्वित्यादीनां साभिजितां ध्रुवभागा
वेदितव्याः । तत्रापि विशेषमाह । ब्रह्माग्निभध्रुव-
लवा इत्यादि । कृत्तिकारोहिणीनक्षत्रयोर्द्वात्रिंशत्कलो-
नाः । विशाखानुराधाज्येष्ठानां कलापञ्चकेनाधिका
ध्रुवकभागा वेदितव्याः” प्रमि० । एषां शरानाह
“दिशोऽर्काश्च सार्धाब्धयः सार्धवेदा दशेशा रसाः
खं स्वराः खं च सूर्य्याः । त्रिचन्द्राः कुचन्द्राः
विपादौ च दस्रौ तुरङ्गाग्नयः सत्रिभागं च रूपम् ।
विपादं द्वयं सार्धरामाश्च सार्धा गजाः सत्रिभागेषवो मार्ग-
णाश्च । द्विषष्टिः खरामाश्च षड्वर्गसंख्यास्त्रिभागो जिना
उत्कृतिः खं च भानाम् । निरुक्ताः स्फुटाः
योगत राशरांशास्त्रयं ब्रह्मधिष्ण्याद्विशाखादिषट्कम् । करो
वारुणं त्वाष्ट्रभं सार्पमेषां शरा दक्षिणा उत्तराः
शेषभानाम्” सि० शि० । “दिशोऽर्का इत्यादयस्तेषां भानां
शरांशा ज्ञेयाः । शेषं स्पष्टार्थम् । अत्रोपपत्तिः । तत्र
भवेधार्थं गोलबन्धोक्तविधिना विपुलं गोलयन्त्रं कार्य्यम् ।
तत्र खगोलस्यान्तर्भगोल आधारवृत्तद्वयस्योपरि विषुवद्वृ-
त्तम् । तत्र च यथोक्तं क्रान्तिवृत्तं भगणांशा ३६० ङ्कितं
च कार्य्यम् । ततस्तद्गोलयन्त्रं सम्यग्ध्रुवाभिमुखयष्टिकं
जलसमक्षितिजवलयं यथा भवति तथा स्थिरं कृत्वा रात्रौ
गोलमध्यगचिह्नगतया दृष्ट्या रेवतीतारां विलोक्य क्रान्ति-
वृत्ते यो मीनान्तस्तं रेवतीतारायां निवेश्य मध्यगतयैव
दृष्ट्याश्विन्यादेर्नक्षत्रस्य योगतारां विलोक्य तस्योपरि-
येधवलयं निवेश्यम् । एवं कृते सति वेधवलयस्य क्रान्ति-
पृष्ठ १४०१
वृत्तस्य च यः संपातः मोनान्तादग्रतोयावद्भिरंशैस्तावन्त
स्तस्य धिष्ण्यस्य ध्रुवांशा ज्ञेयाः । अथ वेधवलये
तस्यैव सपातस्य योगतारायाश्च यावन्तोऽन्तरेऽंशास्तावन्तस्तस्य
शरांशा उत्तरा दक्षिणा वा वेदितव्याः । अथ ये ध्रुव-
भागाः पठितास्ते कृतदृक्कर्मका एव । ये तु शरांशाः
पठितास्ते स्फुटा एव । यतो ध्रुवद्वयकीलयोः प्रोतं वेधवलयम् ।
तस्मिन् वेधवलये यो ज्ञातः शरः स ध्रुवाभिमुखः । ध्रुवा-
भिमुखः शरः स स्फुटः । अस्फुटस्तु कदम्बाभिमुखः । अत
एव पूर्वं भगणोत्पत्तिकथने ग्रहवेधवलयं कदम्बकी-
लयोः प्रोतं कर्त्तव्यमित्युक्तम् । अत एव कारणात्
कृतदृक्कर्मका एव भघ्रुवाः । यतो ध्रुवाद्ग्रहोपरि
नीयमानं सूत्रं यत्र क्रान्तिवृत्ते लगति तत्र कृतायनदृक्कर्मको
ग्रह इति दृक्कर्मवासनायां पूर्वं कथितमेव । अथागस्त्य
लुब्धकयोराह” प्रमि० । “अगस्त्यध्रुवः सप्तनागास्तु
भागास्तुरङ्गादयस्तस्य याम्याः शरांशाः । षड़ष्टौ लवा
लुब्धकस्य ध्रुवोऽयं नभोऽम्भोधिभागाः शरस्तस्य याम्यः”
सि० शि० । स्पष्टम् “अस्योपपत्तिः पूर्ववत् । अथेष्ट-
घटिका आह” प्रमि० । “अगस्त्यस्य नाड़ीद्वयं प्रोक्त-
मिष्टं सषद्भागनाड़ीद्वयं लुब्धकस्य । त्रिभागाधिकं
स्थूलभानामणूनां ततश्चाधिकं तारतम्येन कल्प्यम्”
सि० शि० स्पष्टार्थम् । “अत्रोपपत्तिः अगस्त्यस्य नाड़ीद्वयं
यदिष्टं तत् तस्य द्वादश कालांशा उत्पद्यन्ते । सषड्भाग-
नाड़ीद्वयं लुब्धकस्येति । तत्र त्रयीदश १३ कालांशाः त्रिभा-
गाधिकं स्थूलमानामिति । यानि स्थूलानि नक्षत्राणि तेषां
चतुर्दश कालांशाः । अणूनां ततश्चाधिकमिति केषाञ्चित् पञ्च-
द्वश केषाञ्चित् षोड़शेति कल्प्यते । अत्र ग्रहाणां भानां
वा ये कालांशास्ते स्थूल सूक्ष्मत्वतारतम्यपर्य्यालोचनया ।
याः स्थूलास्तारास्ता अर्कोदयादल्पेन कालेनान्तरिता दृश्या
भवन्ति । याः सूक्ष्मास्ता अधिकेनेत्युपपन्नम्” प्रमि०
सू० सि० रङ्गनाथाभ्यान्तु तदुदयज्ञानार्थमन्यप्रकार उक्तो
यथा “प्रोच्यन्ते लिप्तिका भानां स्वभेगोऽथ दशाहत ।
भवन्त्यतीतधिष्ण्यानां भोगलिप्त युता ध्रुवाः” सू० सि० ।
“भानामश्विन्यादिनक्षत्राणामुत्तराषाढाभिजिच्छ्रवणधनि-
ष्ठावर्जितानां लिप्तिका योगसञ्ज्ञाः कलाः प्रोच्यन्ते
समनन्तरमेव कथ्यन्ते । अथानन्तरं स्वभोगः स्वाभीष्ट-
नक्षत्रभीगः कलात्मको वक्ष्यमाणो रशभिर्गुणितः कार्यः ।
तत्र स्वाभीष्टनक्षत्रगतनक्षत्राणामश्विन्यादीनां भोगलिप्ताः ।
“भभोगोऽष्टशती लिप्ताः” इत्युक्ताष्टशतकलाः । प्रत्येकं
युताः । अश्विन्याद्यतीतनक्षत्रसङ्ख्यागुणितकलाष्टशत
युतमित्यर्थः । ध्रवा नक्षत्राणां भवन्ति” । रङ्ग० । अथ
प्रतिज्ञाता नक्षत्रभोगलिप्ता उत्तराषाढ़ाभिच्छ्रवणधनिष्ठा-
व्यतिरिक्तानां तेषां ध्रुवकान्नक्षत्रशरांश्चाष्टश्लोकैराह ।
“अष्टार्णवाः शून्यकृताः पञ्चषष्टिर्नगेषवः । अष्टार्था
अब्धयोऽष्टागा अङ्गागा मनवस्तथा । कृतेषवो युगरसाः
शून्यवाणा वियद्रसाः । खवेदाः सागरनगा गजागाः
सागरर्तवः । मनवोऽथ रसा वेदा वैश्वम प्यार्धभोगगम् ।
आप्यस्यैवाभिजित्प्रान्ते वैश्वान्ते श्रवणस्थितिः । त्रिच-
तुःपादयोः सन्धौ श्रविष्ठा श्रवणस्य तु । स्वभोगतो
वियन्नागाः षट्कृतिर्यमलाश्विनः । रन्ध्रादय क्रमाद्देया विक्षेपाः
स्वादपक्रमात् । दिङ्मासविषयाः सौम्ये याम्ये पञ्च
दिशो नव । सौम्ये रसाः खं याम्ये गाः सौम्ये खार्का-
स्त्रयोदश । दक्षिणे रुद्रयमलाः सप्तत्रिंशदथोत्तरे ।
याम्येऽध्यर्धत्रिककृता नवसार्धशरेषवः । उत्तरस्यां तथा
षष्टिस्त्रिंशत् षट्त्रिंशदेव हि । दक्षिणे त्वर्धभागस्तु
चतुर्विंशतिरुत्तरे । भागाः षड्विंशतिः खं च दस्रादीनां
यथाक्रमम्” सू० “अश्विन्यादिनक्षत्राणां क्रमाद्भोगा एते ।
तत्राश्विन्या अष्टचत्वारिंशत् कलाः । भरण्याश्चत्वारिंशत्
कृत्तिकायाः कलाः पञ्चषष्टिः । रोहिण्याः सप्तपञ्चाशत्
कलाः । मृगशिरसोऽष्टपञ्चाशत् । आर्द्रायाश्चत्वारः ।
अत्राब्धय इत्यत्र गोऽब्धयो गोऽग्नय इति वा पाठस्त्व-
युक्तः । शाकल्यसंहिताविरोधात् । एतेन “सौरोक्तरुद्र-
भस्यांशास्त्र्यद्रयोऽगाब्धयः कलाः” इति नार्मदोक्तम्
“दशकलोनपञ्चदशभागा मिथुने” सर्वजनाभिमतध्रुवको
दशकलायुतत्रयोदशभागाः पर्वताभिमतध्रुवकश्च निरस्तः ।
पुनर्वसोरष्टसप्ततिः । पुप्यस्य षट्सप्ततिः । अश्लेषाया-
श्चतुर्दश । तथेति छन्दःपूरणार्थम् । मघायाश्चतुःपञ्चा-
शत् । पूर्ब्बफाल्गु याश्चतु षष्टिः । उत्तरफाल्गुन्याः
पञ्चाशत् । हस्तस्य षष्टिः । चित्रायाश्चत्वारिंशत् ।
स्वात्याश्चतुःसप्ततिः । विशाखाया अष्टसप्ततिः । अनुरा-
धायाश्चतुःषष्टिः । ज्येष्ठायाश्चतुर्दश । अनन्तरं मूलस्य
षट् । पूर्वाषाढ़ायाश्चत्वारः । उत्तराषाढाया ध्रुवक-
माह । वैश्वमिति । उत्तराषाढायोगतारानक्षत्रम् ।
आप्यार्धभोगगम् । आप्यस्य पूर्वाषाढानक्षत्रस्यार्धभोगः ।
धनूरांशेर्विंशतिभागस्तत्र स्थितं ज्ञेयम् । अष्टौ राशयो
विंशतिभागा उत्तराषाढ़ाया ध्रुव इत्यर्थः । एतेन
पूर्वाषाढ़ायोगतारायाः सकाशादुत्तराषाढ़ायोगतारा
पृष्ठ १४०२
विंशतिकलोनसप्तभागान्तरिता । तेन पूर्वाषाढ़ाघ्रुवको-
ऽष्टराशयश्चतुर्दश भागा विंशतिकलोनसप्तभागैर्युत उत्त-
राषाढाया ध्रुवश्चत्वारिंशत्कालाधिकोक्तध्र व इति पर्व-
तोक्तमपास्तम् ब्रह्मसिद्धान्तविरोधात् । अभिजिद्ध्रुव-
कमाह । आप्यस्येति । पूर्वाषाढाया अवसाने धनूराशे-
र्विंशतिकलोनसप्तविंशतिभागेऽभिजिद्योगतारा ज्ञेया ।
चत्वारिंशत्कलाधिकषड्विंशतिभागाधिका अष्टौ राशयो-
ऽभिजितो ध्रुव इत्यर्थः । एवकारोऽन्ययोगव्यवच्छेदार्थः ।
तेन संहितासम्मतं श्रवणपञ्चदशांशस्थानं विंशतिविकला-
युतत्रयोदशकलायुतचतुर्दशभागादिकनवराशयो निरस्तम् ।
श्रवणस्य ध्रुवकमाह । वैश्वान्त इति । उत्तराषाढ़ाया
अवसाने श्रवणयोगतारायाः स्थानं ज्ञेयम् । नव राशयो
दश भागाः श्रवणध्रुवक इत्यर्थः । धनिष्ठाया ध्रवकमाह ।
त्रिचतुःपादयोरिति । श्रवणस्य तृतीयचतुर्थचरणयोः
क्रमेणन्तादिसन्धौ मकरराशेर्विंशतिभागे श्रविष्ठा धनिष्ठा
ज्ञेया । नव राशयो विंशतिभागा धनिष्ठाध्रुव इत्यर्थः ।
तुकारात् क्षेत्रान्तर्गतधनिष्ठास्थानं कुम्भस्य विंशतिकलो-
नसप्तभागा निरस्तम् । शतताराया भोगमाह । स्वभो-
गत इति । धनिष्ठाभोगात् कुम्भस्य विंशतिकलोनसप्त-
भागावधेरित्यर्थः । शतताराया अशीतिर्भोगः । अतः
प्राम्बद्ध्रुवा इति ज्ञापनार्थं स्वभोगत इत्युक्तम् ।
शततारयाः स्थानं शततारकाध्रुव इति पर्यवसन्नम् ।
अवशिष्टनक्षत्राणां भोगानाह । षट्कृतिरिति । पूर्ब्बभाद्र
पदायाः षट्त्रिंशत् कला भोगः । उत्तरभाद्रपदाया
द्बाविंशतिः । रेवत्या एकोनाशीतिः । अथ ध्रुवकानयनं
यथा । अश्विन्या भोगः । ४८ । दशगुणितः ४८० ।
अतीतनक्षत्राभावाद्भोगयोजनाभावः । अतोऽश्विन्याः
कलात्मको ध्रुवः । ४८० । राश्याद्यस्तु । ०८ । भरण्या
भोगः । ४० । दशाहतः । ४०० । अतीतनक्षत्रस्यैक-
त्वादष्टशतयुतो भरण्याः परिभाषया राश्याद्यो ध्रुवः ।
० । २० । एवमार्द्राभोगः । ४ दशाहतः ४० । अतीत-
नक्षत्राणां पञ्चतया पञ्चगुणिताष्टशतेन ४००० चतुः-
सहस्रात्मकेन युतः कलाद्यो ध्रुवः ४०४० राश्याद्यस्तु २ ।
७ । २० । एवं पूर्वाषाढाया दशगुणितो भोगः । ४० ।
एकोनविंशतिगुणिताष्टशतेन । १५२०० युतः
परिभाषया राश्याद्यो ध्रुवः । ८ । १४ । शतताराया
दशगुणितो भोगः । ८०० । त्रयोविंशतिगुणिताष्टशतेन ।
१८४०० । युतश्चतुर्विंशतिगुणिताष्टशतरूपो । १९२०० ।
जातो ध्रुवो राश्याद्यः । १० । २० । पूर्वाभाद्रपदाया-
दशगुणितो भोगः ३६० । चतुर्विंशतिगुणिताष्ट-
शतेन । १९२०० युतः । १९५६० जातो
ध्रुवो राश्याद्यः । १० । २६ । उत्तराषाढ़ाभिजि-
च्छ्रवणधनिष्ठानां स्वभोगस्थानात् पश्चात् स्थितत्वेनोक्त-
रीत्यसम्भवाद्भिन्नरोत्या ध्रुवका उक्ताः स्वादिस्थानाद्योग-
तारा यदन्तरकलाभिः स्थितास्ता लाघवाद्दशापवर्त्तिता
भोगसञ्ज्ञा उक्ताः । तथा च ब्रह्मसिद्धान्ते । “अष्टौ
विंशतिरर्धेन गजाग्निर्व्यर्धखेषवः । त्रितर्काः सत्रिभागा-
द्रिरसास्त्र्यङ्काश्च षट्शतम् । नवाशा नवसूर्य्याश्च वेदेन्द्राः
शरवाणभूः । खात्यष्टिः स्वधृतिर्गोऽतिधृतिर्विश्वाश्विन-
स्तथा । वेदाकृतिर्गोऽद्रिहस्ताः क्वब्धिहस्ता युगार्थदृक् ।
खोत्कृतिस्त्र्यंशहीनाश्च रसहस्ताः खहस्तिदृक् ।
खगोऽश्विनः खदन्ताः षड्दन्ताः शैलगुणाग्नयः । मेषाद्यश्व्या-
दिमध्यांशाः षडंशोनाः खषड्पुणाः” इति । अथ नक्ष-
त्राणां विक्षेपभागानाह । एषामिति । उक्तध्रुवक-
सम्बन्धिनामश्विन्यादिनक्षत्राणां यथाक्रमं क्रमादित्यर्थः ।
स्वात् स्वकीयापक्रमात् क्रान्त्यग्रात् क्रान्तिवृत्तस्थध्रुवक-
स्थानादित्यर्थः । विक्षेपा विक्षेपभागा दक्षिणा उत्तरा वा
भवन्ति । तत्रोत्तरदिश्यश्विन्यादित्रयाणां दिङ्मास-
विषयाः क्रमेण दश द्वादश पञ्चेत्यर्थः । दक्षिणदिशि
रोहिण्यादित्रयाणां पञ्च दश नव । उत्तरस्यां पुनर्वसोः
षद्भागाः । पुष्यस्य खं विक्षेपाभावः । अत्र पञ्चमाक्ष-
रस्य गुरुत्वेन छन्दोभङ्ग आर्षत्वान्न दोषः । दक्षिणस्या-
मश्लेषायाः सप्त । उत्तरस्यां मघादित्रयाणां शून्यं
द्वादश त्रयोदश । दक्षिणस्यां हस्तचित्रयोरेकादश द्वौ ।
अनन्तरं स्वात्या उत्तरदिशि सप्तत्रिंशत् । दक्षिणस्यां
विशाखादीनां षण्णां सार्धैकं त्रयं चत्वारः नव सार्धपञ्च
पञ्च क्रमेण उत्तरदिशि तथा विक्षेपभागाः । अभिंजितः
षष्टिः । श्रवणस्य त्रिंशत् । धनिष्ठायाः षट्त्रिंशत् ।
एवकारो न्यूनाधिकव्यवच्छेदार्थः । चकारः पूरणार्थः ।
दक्षिणस्यां तुकारस्तथा । अर्धभागः शततारायाः । तुका-
रस्तथा । उत्तरस्यां पूर्ब्बभाद्रपदायाश्चतुर्विंशतिः । तस्या-
मेव दिशि भागा विक्षेपभागा उत्तरभाद्रपदायाः
षड्विंशतिः । रेवत्या विक्षेपाभावः । चकारः पूरणार्थः ।
अथागस्त्यलुब्धकवह्निब्रह्महृदयताराणां ध्रुवकविक्षेपांस्तदुप-
पत्तिं श्लोकत्रयेणाह” रङ्ग० । “अशीतिभागैर्याम्यायामगस्त्यो
मिथुनान्तगः । विंशे च मिथुनस्यांशे मृगव्याधो व्यव-
पृष्ठ १४०३
स्थितः । विक्षेपो दक्षिणे भागैः स्वार्णवैः स्वादपक्रमात् ।
हुतभुग्ब्रह्महृदयो वृषे द्वाविंशभागगो । अष्टाभिस्त्रिंशता
चैव विक्षिप्ता उत्तरेण तौ । गोलं बध्वा परीक्षेत विक्षेपं
ध्रवकं स्फुटम् सू० “स्वकीयात् क्रान्तिविभागस्थानाद्दक्षि-
णस्यामशीत्यंशैस्तारात्मकोऽगस्त्यो मिथुनान्तगः कर्कादिभागे
स्थितः । अगस्त्यनक्षत्रस्य राशित्रयं ध्रुवकः । दक्षिण-
विक्षेपोऽशीतिरित्यर्थः । मृगव्याधो लुब्धको मिथुनराशेः
विंशतिभागे स्थितः । चकारः समुच्चये । लुब्धकनक्षत्रस्य
राशिद्वयं विंशतिभागा ध्रुवक इत्यर्थः । दक्षिणस्यां
चत्वारिंशता भागैः परिमितस्तस्य च क्रान्तिवृत्तस्थाना-
द्विक्षेपः । वृषराशौ वह्निब्रह्महृदयौ द्वाविंशभागस्थितौ
बह्निब्रक्षहृदयनक्षत्रयोर्द्वाविंशतिभागाधिकैकराशिर्ध्रुवकः ।
तौ वह्निब्रह्महृदयौ । अष्टाभिस्त्रिंशता । चकारः
क्रमार्थे । एवकारो न्यूनाधिकव्यवच्छेदार्थः । उत्तरेणो-
त्तरस्यामित्यर्थः । विक्षिप्तौ विक्षेपवन्तौ । वह्नेर्विक्षेपो-
ऽष्टभागः उत्तरः । ब्रह्महृदयस्योत्तरे विक्षेपस्त्रिंशदि-
त्यर्थः । नन्वेते ध्रुवा विक्षेपाश्च कालक्रमेण नियता
अनियता वेत्यत आह । गोलमिति । गोलं बक्ष्य-
माणं बध्वा वंशशलाकादिभिर्निबध्य स्फुटं विक्षेपं क्रा-
न्तिसंस्कारयोग्यं ध्रुवाभिमुखं ध्रुवकं स्फुटमायनदृक्कर्म-
संस्कृतं परीक्षेत । स्वस्वकाले दृग्गोचरसिद्धमङ्गीकुरुत ।
तथा च क्रान्तिमंस्कारयोग्यविक्षेपायनसंस्कृतध्रुवकयोरयनां-
शवशादस्थिरत्वादपि मयेदानीन्तनसमयानुरोधेन
लाघवार्थमायनदृक्कर्मसंस्कृता ध्रुवाः क्रान्तिसंस्कारयोग्यविक्षे-
पाश्च नियता उक्ताः । कालान्तरे गोलयन्त्रेण वेधसिद्धा
ज्ञेयाः । नैत इति भावः । गोलयन्त्रेण वेधस्तु
गोलबन्धोक्तविधिना गोलयन्त्र कार्य्यम् । तत्र खगोलस्योपरि
भगोलम्, आधारवृत्तस्योपरि विषुवद्वृत्तम् । तत्र
यथोक्तं क्रान्तिवृत्तं भगणांशाङ्कितं च बध्वा ध्रुवयष्टिकीलयोः
प्रोतमम्यच्चलं भवेधवलयम् । तच्च भगणांशाङ्कितं
कार्य्यम् । ततस्तद्गोलयन्त्रं सम्यग्ध्रु वाभिमुखयष्टिकं
जलसमक्षितिजवलयं च यथा भवति तथा स्थिरं कृत्वा
रात्रौ गोलमध्यच्छिद्रगतया दृष्ट्या रेवतीतारां विलोक्य
क्रान्तिवृत्ते मीनान्ताद्दशकलान्तरितपश्चाद्भागं रेवतीतारा-
यां निवेश्य मध्यगतयैव दृष्ट्याश्विन्यादेर्नक्षत्रस्य योगतारां
विलोक्य तस्या उपरि तद्वेधवलयं निवेश्यम् । एवं कृते
सति वेधवलयस्य क्रान्तिवृत्तस्य च यः सम्पातः स मीना-
न्तादग्रतो यावद्भिरंशैस्तावन्तस्तस्य नक्षत्रस्य ध्रुवांशा
ज्ञेयाः । वेधवलये तस्यैव सम्पातस्य योगतारायाश्च
याषन्तोऽन्तरेंऽशास्तावन्तस्तस्य विक्षेपांशा दक्षिणा उत्तरा वा
वेद्याः । अथ कदम्बप्रोतवेधवलयेन वेधे तु सदा स्थिरा
ध्रुवका आयनदृक्कर्मसंस्कृताः परन्तु कदम्बतारयोरभावाद-
शक्यमिति यथोक्तवेधेनैवायनदृक्कमसंस्कृता ध्रुवाः शराश्च
ध्रुवाभिमुखाः स्फुटाः सिद्धा भवन्तीति दिक् । अथ रोहि-
णीशकटभेदमाह” रङ्ग० । “वृषे सप्तदशे भागे यस्य याम्योंऽ-
शकद्वयात् । विक्षेपोऽभ्यधिको भिन्द्याद्राहिण्याः शकटं
तु सः” सू० । “वृषराशौ सप्तदशेऽंशे यस्य ग्रहस्य भागद्वया-
दधिको विक्षेपो दक्षिणः स ग्रहो रोहिण्याः शकटं
शकटाकारसन्निवेशं भिन्द्यात् । तन्मध्यगतो भवेदित्यर्थः ।
तुकाराद्ग्रहविक्षेपो रोहिणीविक्षेपादल्प इति विशेषा-
र्थकः । विक्षेपस्य दक्षिणस्य रोहिणीविक्षेपादधिकत्वे
शकटद्बहिर्दक्षिणभागे ग्रहस्य स्थितत्वेन तद्भ दकत्वाभा-
वात् । अत्र शकटाग्रिमनक्षत्रस्य ध्रुव एकराशिः सप्त-
दशांशाः दक्षिणः शरो भागद्वयमिति वेधसिद्धा स्पष्टा
युक्तिः । अथ ग्रहयोगसाधनार्थं ग्रहयोगसाधनरीत्यतिदेश-
माह” रङ्ग० । “ग्रहवद्द्युनिशे भानां कुर्य्याद्दृक्कर्म पूर्ववत् ।
ग्रहमेलकवच्छेषं ग्रहभुक्त्या दिनानि च” सू० । “ग्रहवद्द्यु-
निशे ग्रहाणां यया दिनरात्रिमाने आक्षदृक्कर्मार्थं कृते
तथा दिनमानरात्रिमाने भानां नक्षत्रध्रुवकाणामाक्षदृक्क-
र्मार्थं गणकः कुर्यात् । तदनन्तरं पूर्ववन्नक्षत्रनित्योदया-
स्तौ साधयित्वाभीष्टकाले दिनगतशेषाभ्यां नतं कृत्वा विषु-
वच्छाययाभ्यस्तादित्यादिनेत्यर्थः । दृक्कर्म कुर्यात् । अत्र
नक्षत्रध्रुवके पर्वतेनायनदृक्कर्माप्युदाहरणे कृतं तदयुक्तम् ।
तस्य ध्रुवके स्वतः सिद्धत्वात् । तदनन्तरं शेषं नक्षत्र-
ग्रहयुतिसाधनं ग्रहध्रुवतुल्यतारूपं ग्रहमेलकवद्ग्रहयो-
गसाधनरीत्या ग्रहान्तरकला इत्यादिना कार्य्यम् । ननु
तत्र ग्रहान्तरकलाः स्वस्वभुक्तिलिप्तासमाहताः । भुक्त्यन्तरेण
विभजेदित्युक्ते र्नक्षत्रस्य का गतिर्ग्राह्येत्यत आह । ग्रहभु-
क्त्येति । केवलया ग्रहगत्या ग्रहस्य फलं ग्रहध्रुवान्तर-
रूपग्रहे संस्कार्यं ध्रुवसमो ग्रहो भवति । नक्षत्रस्य पूर्व-
गत्यभावाद्ध्रुवो यथास्थित इत्यर्थः । ननु तथापि ग्रहन-
क्षत्रयुतिकालसाधनं भुक्त्यन्तरासम्भवात् कथं कार्यमिति
मन्दाशङ्केत्यतआह । दिनानीति । अभीष्टसमयाद्विवरमित्या-
दिना केवलया ग्रहगत्या ग्रहनक्षत्रयुतिदिनानि साध्यानि ।
चः समुच्चये । नक्षत्राणां गत्यभावात् । अथाभीष्टकालाद्ग्र-
हनक्षत्रयुतिकालस्य गतैष्यत्वमसम्भ्रमार्थं पुनराह” रङ्ग० ।
पृष्ठ १४०४
“एष्यो हीने ग्रहे योगो घ्रुवकादधिके गतः । विपर्य्य-
याद्वक्रगते ग्रहे ज्ञेयः समागमः” सू० । “नक्षत्रघ्रुवादुक्ताद्-
ग्रह आयनदृक्कर्मसंस्कृतग्रह आक्षदृक्कर्मसंस्कृतनक्षत्र-
घ्रुवकात् दृक्कर्मद्वयसंस्कृतोग्रह इति विवेकार्थः । न्यूने
सति योगो नक्षत्रग्रहयोगः स्वाभीष्टसमयाद्भावी । अधिके
सति पूर्बं जातः । वक्रगते ग्र हे विपर्ययादुक्तवैपरीत्यात्
समागमो नक्षत्रग्रहयोगो ज्ञेयः । हीने ग्रहे गतोऽधिके
ग्रह एष्यो योगः । अत्रोपपत्तिर्नक्षत्रस्य गत्यभावेन सदा
स्थिरत्वाद्ग्रहगमनेनैव योगसम्भवादिति सुगमतरा ।
अथाश्विन्यादिनक्षत्रस्य बहुतारात्मकत्वात् कस्यास्ताराया
एते ध्रुवका इत्यस्य योगताराया ध्रुवकत्वमित्युत्तरं मनसि
धृत्वाश्विन्यादिनक्षत्राणां योगतारां विवक्षुः प्रथममेषां
नक्षत्राणां योगतारामाह” रङ्ग० ।
“फाल्गुन्योर्भाद्र पदयोस्तथैवाषाढयोर्द्वयोः । विशाखाश्विनि-
सौम्यानां योगरारोत्तरा स्मृता” सू० । “एषामुक्तनक्षत्राणां
प्रत्येकं स्वतारासु योत्तरदिकस्था तारा सा योगतारा
गोलतत्त्वज्ञैरुक्ता । अथान्ययोरनयोराह” रङ्ग० । “पश्चि-
मोत्तरताराया द्वितीया पश्चिमे स्थिता । हस्तस्य
योगतारा सा श्रविष्ठायाश्च पश्चिमा” सू० ।
“हस्तनक्षत्रं पञ्चतारात्मकं हस्तपञ्चाङ्गुलिसन्निवेशा-
कारम् । तत्र नैरृत्यदिगाश्रितपश्चिमावस्थितताराया
उत्तरदिगवस्थितताराया द्वितीया पूर्वोक्तातिरिक्ता पश्चिमे
वायव्याश्रिते या स्थिता सा हस्तस्य योगतारा ज्ञेया ।
उत्तरतारासन्ना पश्चिमाश्रिता तारा हस्तस्य योगतारेति
फलितार्थः । धनिष्ठाया योगतारामाह । श्रविष्ठाया
इति । धनिष्ठायास्तारासु या पश्चिमदिक्स्था सा तस्या
योगतारा । चः समुच्चये । अथान्य षामेषामाह” रङ्ग० ।
“ज्येष्ठाश्रवणमैत्राणां वार्हस्पत्यस्य मध्यमा । भरण्याग्ने-
यपित्र्याणां रेवत्याश्चैव दक्षिणा” सू० ।
“ज्येष्ठाश्रवणानुराधानां पुष्यस्य च प्रत्येकं तारात्रयात्म-
कत्वान्मध्यमतारा योगतारा स्यात् । भरणीकृत्तिकामघा-
नां रेवत्याः । चः समुच्चये । प्रत्येकं स्वतारासु या दक्षिण-
दिक्स्था सा योगतारा । अथान्येषामवशिष्टानां चाह ।”
रङ्ग० “रोहिण्यादित्यमूलानां प्राची सार्पस्य चैव हि ।
तथा प्रत्यवशेषाणां स्थूला स्याद्योगतारका” सू० “रोहिणी-
पुनर्वसुमूलानामश्लेषायाश्च प्रत्येकं स्वतारासु या पूर्वदिक्स्था
सैव योगतारेत्येवह्योरर्थः । प्रत्यक्येवाणामवशिष्टनक्षत्रा-
णामार्द्राचित्रास्वात्यभिजिच्छतताराणां स्वतारासु यात्यन्तं
स्थूल । महती सा योगतारा स्यात् । अथ ब्रह्मस ज्ञकनक्ष-
त्रावस्थानमाह रङ्ग० । “पूर्वस्यां ब्रह्महृदयादंशकैः पञ्चभिः
स्थितः । प्रजापतिर्वृषान्तेऽसौ सौम्येऽष्टत्रिंशदंशकैः” सू०
“ब्रह्महृदयस्थानात् पूर्वभागे पञ्चभिरंशैः प्रजापतिस्तारा-
त्मको ब्रह्मा क्रान्तिवृत्ते स्थितः । कुत्रेत्यत आह । वृषा-
न्त इति । वृषान्तनिकटे । एकराशिः सप्तविंशत्यंशा
ब्रह्मध्रुवक इत्यर्थः । अस्य विक्षेपमाह । असाविति ।
ब्रह्मा उत्तरस्यामष्टत्रिंशद्भागैः स्थितः । अष्टत्रिंश-
द्भागा अस्य विक्षेप इत्यर्थः । अथापांवत्सापयोस्तारयोरव-
स्थानमाह” र० । “अपांवत्सस्तु चित्रायामुत्तरेऽंशैस्तु पञ्च-
भिः । वृहत् किञ्चिदतो भागैरापः षड्भिस्तथोत्तरे” सू०
“चित्रायाः सकाशादपांवत्ससंज्ञकस्तारात्मकः पञ्चभिर्भागै-
रुत्तरस्यां स्थितः । प्रथमतुकारश्चित्राध्रुवतुल्यध्रुवकार्थकः ।
द्वितीयतुकारश्चित्राविक्षेपस्य दक्षिणभागद्वयात्मकत्वादपां-
वत्सविक्षेव उत्तरस्त्रिभाग इति स्फुटार्थकः । अतोऽपांवत्-
सात् किञ्चिदल्पान्तरेण वृहत् स्थूलस्तारात्मक आपसंज्ञकः
तथाऽपांवत्सात् षड्भिरंशैरुत्तरस्यां स्थितश्चित्राध्रुवक
एवापस्य ध्रुवको विक्षेप उत्तरे नवांशा इत्यर्थः” रङ्ग० ।
नक्षत्राणामुदयास्तकालनिरूपणम् उदयशब्दे ११३८
पृष्ठादौ दर्शितम् ।
ॠक्षघटितत्वात् राशीनां तथात्वम् । राशिनाम
भवेत् नाम भमृक्षं गृहनाम च” ज्यो० । राशयश्च द्वादश
“पुनर्द्वादशधात्मानं व्यभजद्राशिसंज्ञकम् । नक्षत्ररू-
पिणं भूयः सप्तविंशात्मकं वशी” सू० सि० उक्तेः । ते च
मेषवृषमिथुनकर्कटसिंहाः कन्या तुलाथ वृश्चिकभम् ।
धनुरथ मकरः कुम्भोमीन इति च राशयः कथिताः”
ज्योति० उक्ताः राशिश्च “विकलानां कला षष्ट्या
तत्षष्ट्या भाग उच्यते । तत्त्रिंशता भवेद्राशिर्भगणोद्वादशैव
तु” सू० सि० उक्तः १०८००० विकलात्मकः १८०० कलात्मकः
त्रिंशत्भागात्मकः । तैर्द्वादशभिः ३६० अंशैर्भगणोराशि-
चक्रं स्यात् तत्र सप्तविंशतिनक्षत्रात्मकराशिचक्रे द्वादशधा
विभक्ते सपादनक्षत्रद्वयस्यैव प्रत्येकराशिघटकता तेन प्रत्ये-
कनक्षत्रस्य ८०० कलात्मकत्वम् । “भभोगोऽष्टशती लिप्ताः”
सू० सि० उक्तेः । राशिभेदे नक्षत्रभेदनिरूपणमुडुचक्रशब्दे
१०७१ पृ० दृश्यम् ।
“मासर्क्षादीन न शोधयेत्” “जन्मर्क्षे उपतापिते” ज्यो० ।
“दक्षिणां दिशमृक्षेषु वार्षिकेष्वथ भास्करः” रघुः
पृष्ठ १४०५

ऋक्षगन्धा स्त्री ऋक्षान् गन्धयति हिनस्ति गन्ध अच् ६ त० ।

१ जाङ्गलीवृक्षे (ऋषिजाङ्गलो) २ महाश्वेतायां, ३ क्षीरवि-
दार्याञ्च । (वीरताड़) स्वार्थे कन् तत्रैव

ऋक्षगिरि पु० कर्म० । कुलाचलभेदे ऋक्षनामके पर्वते ।

ऋक्षचक्र न० ६ त० । १ नक्षत्रेसमुदाये ऋक्षाणां चक्रमिव

गगतस्थे नक्षत्रात्मके चक्राकारे पदार्थभेदे । ऊडुचक्रशब्दे तद्वि-
वृतिः । भचक्रस्य प्रवहवायुना प्रत्यहं पश्चाद्गगनेऽपि ग्रहाणां
यथा प्राग्गतित्वं भवेत्तथा सू० सि० रङ्गनाथव्याख्ययोः
यथा “अथ ग्रहपूर्व्वगत्युत्पत्तौ कारणमाह । “पश्चाद्व्रजन्तो-
ऽतिजवान्नक्षत्रैः सततं ग्रहाः । जीयमानास्तु लम्बन्ते तुल्य-
मेव स्वमार्गगाः” सू० सि० । “पश्चादनन्तरं पुनरावृत्त्या
पश्चात् पश्चिमदिगभिमुखं नक्षत्रैस्तारकादिभिः सह
ग्रहाः सूर्यादयोऽतिजवात् प्रवहवायुसत्वरगतिवशात्
सततं निरन्तरं व्रजन्तो गच्छन्तः स्वमार्गगाः स्वकक्षावृत्तस्था
जीयमाना नक्षत्रैः पराजिता नक्षत्राणामग्रे गमनात् ।
अतएव लज्जयेव गुरुभूता इति तात्पर्यार्थः । तुल्यं
समम् । एवकारादधिकन्यूनव्यवच्छेदः । लम्बन्ते स्वस्था-
नात् पूर्वस्मिन् लम्बायमाना भवन्ति । यथा लज्जितः
पश्चाद्भवति नाग्रे । तुकारादधोऽधः कक्षाक्रमानुरोधेन
शन्यादिग्रहाणां चन्द्रान्तानां गुरुतापचयः शनिरतिगु-
रुभूतस्तस्मात् किञ्चिन्न्यूनोगुरुस्तस्मादपि भौम इत्यादि
यथोत्तरम् । यस्य कक्षा महती तस्य गुरुत्वाधिक्यं यस्य
लध्वी तस्य तदनुरोधेन गुरुताल्पत्वमिति । एतददुक्तं
भवति । ब्रह्मणा प्रवहवायौ नक्षत्राधिष्ठितो मूर्तो गोलः
स्थापितस्तदन्तर्गताः स्वस्वाकाशगोलस्थाः शन्यादयो
नक्षत्राधिष्ठितमूर्तगोलस्थक्रान्तिवृत्तस्थरेवतीयोगतारासन्नरूप-
मेषादिप्रदेशसमसूत्रस्थाः स्थापिताः । क्रान्तिवृत्तं तु
मेषतुलास्थाने विषुवद्वृत्तलग्नं सम्पातात् त्रिभान्तरितक्रा-
न्तिवृत्तप्रदेशाभ्यां चतुर्विंशत्यंशान्तरेण दक्षिणोत्तरौ
मकरकर्कादिरूपौ तदेवं द्वादशराश्यात्मकं वृत्तं ग्रहचारभू-
तम् । विषुवद्वृत्तं तु ध्रुवम ध्यस्थं निरक्षदेशोपरिगम् ।
तत्र प्रवहवायुना स्याधातेन मूर्तो नक्षत्रगोलो नाक्षत्रष-
ष्टिषटीभिः परिवर्त्यते । तदन्तर्गतवायुभिस्तदाघातेन
वा ग्रहा भ्रमन्तोऽपि नक्षत्रगोलस्थितक्रान्तिवृत्तीयमेषा-
दिप्रदेशेन समं न गच्छन्ति वायूनां स्वल्पत्वात् तदाघात-
स्याप्यल्पत्वाद्बिम्बानां गुरुत्वाच्च । अतस्तत्स्थानाद्ग्रहाणां
लम्बना दृश्यन्ते । अतएव नक्षत्रोदयकाले तेषां द्वितीय-
दिने नोदयः किन्तु ग्रहो लम्बितप्रदेशेन वायुना तदनन्त-
रमूर्द्धमागच्छतीत्यनन्तरमुदयः । लम्बनं तु शन्यादीनां
कक्षानुरोधेन गुरुत्वाद्वायूनां तद्घातानां वा कक्षानुरो-
धेन बह्वल्पत्वात् तुल्यम् । यद्यपि वायोर्ध्रुवानुरोधेन
स्वल्पत्वाद्ग्रहवल्लवम्बनं विषुवद्वृत्ते भवितुमुचितं न क्रा-
न्तिवृत्ते । तथा च वक्ष्यमाणक्रान्त्यनुपपत्तिः क्रान्तिवृ-
त्तस्थद्वादशराशिभोगेन वक्ष्यमाणानां भगणानामनुपप-
त्तिश्च । तथापि वायुनावलम्बितो ग्रहो विषुवन्मार्गगोऽपि
तद्विषुवप्रदेशासन्नक्रान्तिवृत्तप्रदेशेन ग्रहाकाशगोल एव
स्वसमसूत्रेणाकृष्यत इति नानुपपत्तिः । अतएव स्वमा-
र्गगा इति क्रान्तिवृत्तानुसृतस्वाकाशगोलस्थकक्षामार्गगता
इत्यर्थकमुक्तमिति मङ्क्षेपः” रङ्ग० । “अथात एव ग्रहाणां
लोके प्राग्गनित्वं सिद्धमित्याह । “प्रागगतित्व-
मतस्तेषां भगणैः प्रत्यहं गतिः । परिणाहवशाद्भिन्ना तद्व-
शाद्भानि भुञ्जते” सू० सि० । “अतोऽवलम्बनादेव तेषां
ग्रहाणां प्राग्गतित्वं प्राच्यां दिशि गतिर्येषां ते प्राग्ग-
तयस्तद्भावः प्रागतित्वं सिद्धम् । लम्बनस्वरूपैव ग्रहाणां
पूर्वगतिरुत्पन्ना लोकैः कारणानभिज्ञैः प्रत्यक्षावगता
तच्छक्तिजनिता कल्पितेत्यर्थः । सा कियतीत्यत आह ।
भगणैरिति । वक्ष्यमाणभगणैः प्रत्यहं प्रतिदिनं गतिः
प्राग्गमनरूपा भगणानां गत्युपन्नत्वात् भगणसम्बन्धिवक्ष्य-
माणदिनैः सूर्यसावनैर्ग्रहभगणा लभ्यन्ते तदैकेन दिनेन
केत्यमुपाताज्ज्ञेया । ननु ग्रहभगणानां तुल्यत्वामावात्
प्रतिदिन ग्रहगतिर्भिन्नेति पूर्वं लम्बनरूपा ग्रहगतिरयु-
क्तोक्ता ग्रहलम्बनस्याभिन्नत्वादित्यत आह । परिणाहव-
शादिति । परिणाहः कक्षापरिधिस्तद्वशात् तदनुरोधा-
दियं ग्रहगतिर्भिन्नाऽतुल्या । अयमभिप्रायः ग्रहाणां
लम्बनं तुल्यप्रदेशेन, परन्तु स्वस्वकक्षायां तत्तत्प्रदेशे तुल्ये
याः कलास्ता गतिकलास्तास्तु महति कक्षावृत्तेऽल्पा
लघुकक्षावृत्ते बह्व्यः सर्वकक्षापरिधीनां चक्रकलाङ्कितत्वात् ।
भगणास्तु गतिवशादेव यस्य कक्षावृत्तं महत् तस्याल्पा यस्य
च लघु कक्षावृत्तं तस्य बह्व्यस्तदुत्पन्ना गतिरपि तथेति न
विरोधः । नन्वेकरूपगतिं विहाय भिन्नरूपा गतिः
कथमङ्गीकृतेत्यत आह । तद्वशादिति । भिन्नगतिवशाद्भानि
राशीन् नक्षत्राणि भुञ्जते ग्रहा भुञ्जन्तीत्यर्थः । तथा च
ग्रहराश्यादिभोगज्ञानार्थमियमेव गतिरुपयुक्ता नैकरूपेति
भावः” रङ्ग० “अथ भभोगे विशेषं वदन् वक्ष्यमाणभ-
गणस्वरूपमाह । “शीघ्रगस्तान्यथाल्पेन कालेन महताऽ-
ल्पगः । तेषां तु परिवर्तेन पौष्णान्ते मगणः स्मृतः” सू०
सि० “अथशब्दः पूर्वोक्तेर्विशेषसूचकः । शीघ्रगतोग्रह-
पृष्ठ १४०६
स्तानि भान्यल्पेन कालेन भुनक्त्यल्पगतिग्राहो बहुकालेन
भुनक्ति तुल्यराश्यादिभोगो मन्दशीघ्रगतिग्रहयोस्तुल्य-
कालेन न भवतीति विशेषाथः । तेषां राशीनां
परिवर्तेन भ्रमणेन । तुकाराद्ग्रहादिगतिभोगजनितेन भगणः
प्राज्ञैरुक्तः । क्रान्तिवृत्ते द्वादशराशीनां सत्त्वात् तद्भो-
गेन चक्रभोगसमाप्तेर्यत् स्थानमारभ्य चलितो ग्रहः
पुनस्तत् स्थानमायाति स चक्रभोगः परिवर्तसंज्ञोऽपि द्वाद-
शराशिभोगाद्भगण इत्यर्थः । ननु क्रान्तिवृत्ते सर्वप्रदेशेभ्यः
परिवर्तसम्भवादत्र कः परिवर्तादिभूतः प्रदेश इत्या आह
पौष्णान्त इति । सृष्ट्याद्दौ ब्रह्मणा क्रान्तिवृत्ते रेवतीयो-
गतारासन्नप्रदेशे सर्वग्रहाणां निवेशितत्वात् तदवधितो
ग्रहचलनाच्च पौष्णस्य रेवतीयोगताराया अन्ते निकटे
प्रदेशे तथा च रेवतीयोगतारासन्नाग्रिमस्थानमेवाद्यन्ता-
वधिभूतमिति” रङ्ग० ।
तत्सन्निवेशप्रकारः सि० शि० उक्तो यथा “सृष्ट्वा भचक्रं
कमलोद्भवेन ग्रहैः सहैतद्भगणादिसंस्थैः । शश्वद्भ्रमे
विश्वसृजा नियुक्तं तदन्ततारे च तथा ध्रुवत्वे । ततोऽपरा-
शाभिमुखं भपञ्जरे सखेचरे शीघ्रतरे भ्रमत्यशि । तदल्पग-
त्येन्द्रदिशं नभश्चराश्चरन्ति नीचोच्चतरात्मवर्त्मसु”
“यदेतद्वचक्रं ग्रहैः समं म्रमद्दृश्यते तद्विश्वसृजा
जगदुत्पादकेन कमलोद्भवेन ब्रह्मणा सृष्ट्यादौ सृष्ट्वा ततः
शश्वत्भ्रमेऽनवरतभ्रमणे नियुक्तम् । एतदुक्तं भवति ।
भान्थश्विन्यादीन्यन्यानि विशिष्टानि ज्योतींषि तेषां समूह-
श्चक्र, ग्रहाश्च सूर्यादयस्तैः सह सृष्टम् । तानि भानि
प्राक्संस्थया समन्तान्निवेशितानि । ग्रहास्तु भगणादा-
वश्विनीसुखे निवेशितास्त उपर्य्युपरिसंस्थया । तत्रादौ
तावदधश्चन्द्रः । तदुपरि बुधः । ततः शुक्रः । ततो
रविः । तस्माद्भौमः । ततो गुरुः । ततः शनिः । सर्वे-
षामुपरि दूरे भचक्रम् । एषां कक्षाप्रमाणानि कक्षा-
ध्याये प्रतिपादयिष्यन्ते । अहो यद्यूर्ध्वोर्ध्वस्था ग्रहा-
स्तदुपरि दूरतो भगणस्तत् कथं भगणादिसंस्थैर्ग्रहैरि-
त्यच्यते । सत्यम् । अत्र भूमध्ये सूत्रस्यैकमग्रं बद्ध्वा द्वि-
तीयमग्रं भचक्रेऽश्विनीमुखे किल निबद्धम् । तस्मिन्
सूत्रे प्रोता मणय इव चन्द्रादयो ग्रहाः सृष्ट्यादौ ब्रह्मणा
निवेशिताः । भमण्डलं द्वादशधा विभज्यैवं भूमध्यात्
सूत्राणि प्रतिभागं नीत्वा किल बद्धानि तैः सूत्रै सह
ग्रहकक्षायां ये संपातास्ते तासु कक्षासु राश्यन्ताः ।
तद्वत्प्रकारा राशय इति सङ्क्षिप्तमिहोक्तम् । कक्षाध्याये
गोले च किञ्चिद्विस्तार्य्य वक्ष्यामः । एवंविधं भचक्र सृष्ट्वा
ब्रह्मणा गगने निवेशितम् । यत्र निवेशितं तत्र प्रवहो
नाम वायुः । स च नित्यं प्रत्यग्गतिः । तेन समाहगं
भचक्रं सखेचरं पश्चिमाभिमुखभ्रमे प्रवृत्तम् । यत् तस्य
प्रत्यग्भ्रमणं तच्छीघ्रतरम् । यत एकेनाह्ना भमण्डलस्य
(भूमेः) परिवर्त्तः । एवं तस्मिन् भपज्जरे सखेचरे शोध्रतरे
भ्रमत्यपि खेचरा इन्द्रदिशं चरन्ति पूर्ब्बाभिमुखं व्रजन्ति ।
नीचोच्चतरात्मवर्त्मसु । अनन्तरकथितेषु स्वस्वमार्गेषु तेषां
प्राग्भ्रमणम् । तत् तदल्पगत्या । प्रत्यग्गतेर्बहुत्वात्
प्रागल्पगत्या व्रजन्तो नोपलक्ष्यन्त इति भावः । तथा तस्य
भपञ्जरस्य यो दक्षिणोत्तरावन्तौ तत्र ये तारे ते ध
नियुक्ते” प्रमि० । राशिचक्रस्य प्रवहवायुना पश्चाद्म्रम-
णोक्तिरपि व्यक्षदेशोपरिगतत्वाभिप्रायेण देवासुरयोस्तु
सू० सि० सव्यापसव्यभ्रमणोक्तेः यथा “सव्य भ्रमति
देवानामपसव्यं सुरद्विषाम्” इति “व्यक्षे पश्चाद्गतिः सदेति”
वक्ष्यएव पश्चाद्गतेरुक्तेश्चेति द्रष्टव्यम् ।

ऋक्षर पु० ऋष--क्सरन्! १ ऋत्विजि । ऋच्छतेः कृन्ततेः

कण्टतेर्वा वा निरु० क्सरन् पृ० । २ कण्टके “स्योना
पृथिवी भवानृक्षरा निवेशनी” यजु० ३५, २१, “अनृक्षरा
अकण्टका” वेददी० ३ वारिधारायां स्त्री मेदिनिः!

ऋक्षराज पु० ६ त० टच् समा० । १ नक्षत्रेशे चन्द्रे २ भल्लूकेशे

जाम्बवति च । “अथ सिंहं प्रधावन्तमृक्षराजो
महाबलः” हरिवं० ३९९ अ० “लेभे जाम्बवतीं कन्यामृ-
क्षराजस्य सम्मताम्” हरिवं० ३९ “जाम्बवानृक्षरा
जेन्द्रः” भाग० ८, २१, ४ । ऋक्षनाथादयोऽप्यत्र ।

ऋक्षला स्त्री ऋच--सल्च किच्च । गुल्फाधःस्थनाड्याम् “क्रमणं

स्थूराभ्यामृक्षलाभिः कपिञ्जलाम्” यजु० ५, ३, “ऋक्षला
गुल्फाधःस्था नाड्यः” वेददी०

ऋक्षवत् पु० ऋक्षाः बाहुल्येन सन्त्यत्र मतुप् मस्य वः । नर्म-

दातीरस्थे पर्वतभेदे “वप्रक्रियामृक्षवतस्तटेषु” रघुः “नर्मदा-
कूलमेकाकी मेकलां मृत्तिकावतीम् । ऋक्षवन्तं गिरिं
जित्वा शुक्तिमत्यासुवास सः” हरिवं० ३७ अ० उक्तेः तस्य
नर्म्मदातीरस्थत्वम् बोध्यम् “ऋक्षवन्तं गिरिवरं विन्ध्यञ्च
गिरिमुत्तमम्” हरिवं० ३९ अ० ।

ऋक्षवन्त ऋक्ष + वा० वन्त । शम्बरासुरपुरे नगरभेदे

“तमृक्षवन्ते नगरे निहत्यासुरसत्तमम् । गृह्य मायावती
देवीमागच्छन्नगरं पितुः” हरिवं० १६ अ० तं शम्बरभ् ।
पृष्ठ १४०७

ऋक्षीक त्रि० ऋक्ष इव इवार्थे ईकन् । ऋक्षतुल्ये हिंस्रके ।

“ऋक्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा
अरुण्येष्वाजायेरन्” शत० ब्रा० १३, २, ४, २, ४,
२ ऋक्षाकारपुरुषमेधीयदेवताभेदे स्त्री । “नदीभ्यः पौञ्जिष्ठ-
मृक्षीकाभ्यो नैषादम्” यजु० ३०, ८ । पुरुषमेधे उक्तम् ।

ऋक्षेष्टि स्त्री नक्षत्रविशेषविहिते इष्टिभेदे ।

ऋक्षोद पु० ऋक्षं नक्षत्रमिव खच्छम् उदकं यत्र उदादेशः ।

पर्वतभेदे । “ऋक्षोदः पर्वतोऽभिजनो येषाम् अण् ।
आर्क्षोदा द्विजाः” सि० कौ० ।

ऋक्संहिता स्त्री ६ त० । ऋग्वेदसंहितायाम् ऋग्वेदशब्दे

विवृतिः “ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः ।
साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते” मनुः वेदोहि
मन्त्रब्राह्मणभेदेन द्विविधः तत्र मन्त्रात्मको भागः संहिता ।
“अग्निमीले” इत्यादिकः ऋक्समुदायात्मकः ऋक्संहिता ।
मन्त्रेतररवेदभागो ब्राह्मणम् । संहितारूपसन्धिकार्य-
नियताश्रयतया संहितात्वं ब्राह्मणे पदग्रन्थे च न
संहितानियम इति तयोर्न संहितात्वमिति भेदः संहिता-
स्थपदविच्छेदज्ञापकोग्रन्थः पदग्रन्थः । स च ऋष्या-
दिकृतःपौरुषेय इति बोध्यम् ।

ऋक्सम न० ऋचा समम् । सामभेदे । “जगत्या ऋक्समम्

ऋक्समाच्छुक्रः” यजु० १३, ६५, “ऋक्सममृक्समसंज्ञं
यत् साम” वेददी० ।

ऋक्साम न० द्विव० । ऋक् च साम तदारूढ़गानं च

द्वयोः समाहारः अच् समा० नि० द्विव० । ऋग्रूपमन्त्र-
भेदतदारूढ़गानयोः समाहरे “ऋक्सामाभ्यां संतरन्तः”
यजु० ४, १ । “ऋक्सामयोः शिल्पे स्थस्ते” ४, ९ । ऋचश्च
सामानि चेति बहुत्वे तु नाच् । ऋक्सामन् इत्येव । “ऋक्-
सामान्यप्सरस एष्टयोनाम” यजु० १८, ४३ ।

ऋगयन न० ऋचामयनम् । ऋक्पारायणग्रन्थे पूर्व्वपदात्

णत्वं नेह गव्यवधानात् । ऋगयनस्य व्याख्यानो ग्रन्थः
ऋगयनादि० अण् । आर्गयन तद्व्याख्यान ग्रन्थे ।

ऋगयनादि पु० पाणिन्युक्ते तस्य व्याख्यान इत्यर्थे अण्प्रत्यय

निमित्तप्रकृतिभूतशब्दसमुदाये । स च गणः “ऋगयन,
पदव्याख्यान, छन्दोगान, छन्दोभाषा, चन्दोविचिति, न्याय,
पुनरुक्त, निरुक्त, व्याकरण, निगम, वास्तुविद्या, क्षत्र-
विद्या, अङ्गविद्या, विद्या, उत्पात, उत्पाद, उद्याव
संवत्सर, मुहूर्त्त, उपनिषदु, निमित्त, शिक्षा, मिक्षा”

ऋगावान न० आ + वेञ् मावे ल्युट् ऋचामावानं ग्रथनं

संहिताकार्य्येण कृतसन्धानम् । वेदपाठकाले अर्द्धर्श्रादीनां
संहितया पूर्ब्बोत्तरयोः सन्धाने “ऋचमृचमनावानमुक्त्वा
प्रणुत्यावस्येत्” आश्व० श्रौ० ४, ६, २ । “तेनार्द्धर्चाः
संहितयैव वक्तव्याः” नारा० वृ० । ऋचामन्ते तु ना
संहितया ग्रथनमित्यर्थः । “अभिष्टुयादृगावानम्” ५, ६, १ ।
“तस्योक्तमृगावानधर्मेण” ५, १३, २ । “तस्याद्यां पच्छ
ऋगावानं पच्छः शस्या चेत्” ५, २०, ३ ।

ऋग्गाथा स्त्री ऋचामिव गाथा । लौकिकगीतिवेदे । “ऋग्-

गाथापाणिकादक्षविहिताब्रह्मगीतिकाः” याज्ञ० ।

ऋग्मत् त्रि० ऋक् स्तुतिः पूजा वा अस्त्यस्य मतुप् । १ स्तोतरि

२ अर्चनोये पूजनीये । “राजानमुपतस्थुरृग्मियम्” ऋ०
६, ८, ४ श्रुतेर्निरुक्तौ ऋग्मियमृग्भन्तमर्चनीयं पूजनीयम्”
निरुक्तकारः । ऋग्मानिव स्वार्थेघ द्वितीयाचः परलोपः ।
ऋग्मियोऽप्यत्र । “नाभिगृणन्तमृग्मियम्” ऋ० १, ९, ९ ।

ऋग्मिन् त्रि० ऋच् + अस्त्यर्थे मिनि । स्तोतरि । “गिरा यदि

निर्ण्णिजमृग्मिंणो ययुः” ऋ० ९, ८६, ४६ । “ऋग्मिणः
स्तोतारः” भा० ।

ऋग्विधान न० ऋचा ऋग्वेदेन कर्मविशेषस्य विधानम् ।

ऋग्वेदोक्तमन्त्रभेदेन कर्मविशेषविधाने तच्च हेमाद्रौ व्रत-
खण्डे विस्तरेणोक्तम् । वह्निपुराणोक्तमत्र दर्श्यते
“अग्निरुवाच प्रतिवेदन्तु कर्म्माणि काम्यानि प्रवदामि
ते । प्रथमं ऋग्विधानं वै शृणु त्वं भुक्तिमुक्तिदम् ।
अन्तर्जले तथा होमे जपतो मनसेप्सितम् । कामं करोति
गायत्री प्राणायामाद्विशेषतः । गायत्र्यादशसाहस्रो
जपोनक्ताशनोद्विजः । आश्रमाद्बहिः स्नातश्च सर्व्वकल्मषना-
शनः । दशायुतानि जप्त्वाथ हविष्याशी स मुक्तिभाक् ।
प्रणवोहि परं ब्रह्म तज्जपः स च पापहा । ओङ्कार
शतजप्तस्तु नाभिमात्रोदक्रे स्थितः । जलं पिवेत् स सर्व्वैस्तु
पापैर्विप्रः प्रमुच्यते । मात्रात्रयं त्रयोवेदास्त्रयोदेवास्त्र-
योऽग्नयः । महाव्याहृतयःसप्त लोकाहोमोमला-
पहः । अन्तर्जले तथा राम! प्रोक्तश्चैवाघमर्षणः । अग्नि-
मीले पुरोहितं सूक्तोऽयं वह्निदैवतः । शिरसा धारयन्
वह्निं योजपेत् परिवत्सरम् । होमं त्रिषवणं भैक्ष्यमन-
ग्निज्वलन चरेत् । अतःपरमृचां सप्त आद्याद्या याः प्रको-
र्त्तिताः । भोजयन् प्रयतोनित्यमिष्टान् कामान् समश्नुते ।
मेधाकामोजपेन्नित्यं सदसस्पतिमित्यृचम् । अम्ब
यजन्ति याः प्रोक्ता नवर्च्चो मृत्थुनाशनः । शुनःशेफमृषिं
वद्धः सन्निरुद्धोऽथ वा जपेत् । मुच्यते सर्व्वपापेभ्यो गदी
चाप्यगदी भवेत् । यैच्छेत् शाश्वतं कामं मित्रं प्राज्ञं
पृष्ठ १४०८
पुरन्दरम् । ऋग्भिः षोड़शभिः कुर्य्यादिन्द्रस्येति दिने-
दिने । हिरण्यस्तु समिह्येतत् जपन् शत्रून् प्रवाधते ।
क्षेमी भवति चाध्माने ये ते पन्था जपन्नरः । रौद्रीति
षद्भिरीशानं स्तूयाद्योवै दिने दिने । चरुं वा कल्पयेद्रौद्रं
तस्य शान्तिः परा भवेत् । उद्यद्युदितमादित्यमुपतिष्ठन्
दिनेदिने । क्षिपेज्जलाञ्जलीन् सप्त मनोदुःखविना-
शनः । द्विषन्तमित्यथर्व्वेदं यद्विष्यान्तं जपन् स्मरेत् ।
आगम्यो सप्तरात्रेण विद्वेषमधिगच्छति । आरोग्य-
कामोयोधी च प्रज्ञश्चाम्यात्तमञ्जपेत् । उत्तमस्तस्य
चार्द्धाधोजपेद्वैरिविनाशने । उदयस्यायुरक्षय्यं तेजो
मध्यंदिने जपेत् । अस्तं प्रतिगते सूर्य्ये द्विषन्तं प्रतिबा-
धने । तव यश्चेति सूक्तानि जपन् शत्रून्नियच्छति ।
एकदेशं सुवर्ण्णस्य सर्व्वकामान् विनिर्द्दिशेत् । आध्या-
त्मिका क इत्येता जपन्मोक्षमवाप्नुयात् । आ नोभद्रा
इत्यनेन दीर्घमायुरवाप्नुयात् । त्वा सोमेति च सूक्तेन
नवं पश्यन्निशाकरम् । उपतिष्ठेत् समित्पाणिर्व्वासां-
स्याप्नोत्यसंशयम् । आयुरायूंषि समिति कोषसृक्कन्तदा-
जपेत् । अपानः शीशुचदिति स्तुत्वा मध्ये दिवाकरम् ।
यथा मुञ्चति चेषोकान्तथा पापं प्रमुञ्चति । जातवेदस
इत्येतज्जपेत् स्वस्त्ययनं पथि । भयैर्विमुच्यते सर्व्वैः स्वस्ति-
मानाप्नुयाद् गृहम् । व्युष्टायाञ्च तशा रात्र्यामेतद्दुः
स्वप्तनाशनम् । प्रमन्दिनेति भूयत्यां जपेद्गर्भविमोच-
नम् । जपन्निन्द्रमिति स्नातो वैश्यदेवं तु सप्तकम् ।
मुञ्चत्येभ्यस्तथा जुह्वत् सकलं किल्विषं नरः । इमामिति
जपन् शश्वत् कामानाप्नोत्यभीप्सितान् । मा नस्तोक इति
द्वाभ्यां त्रिरात्रोपोषितः शुचिः । औडुम्बरीश्च जुहुयात्
समिधश्चाज्यसंभृताः । छित्वा सर्व्वान् मृत्युपाशान्
जीवेद्रोगविवर्ज्जितः । ऊर्द्ध्वबाहुरनेनैव स्तुत्वा शम्भुं
तथैव च । मा नस्तोकेति च ऋचा शिखाबन्धे कृते नरः ।
अधृष्यः सर्व्वभूतानां जायते संशयं विना । चित्रमि-
त्युपतिष्ठेत त्रिसन्ध्यं भास्करं तथा । समित्पाणिर्न-
रोनित्यमीप्सितं धनमाप्नुयात् । दुःस्वप्नं नुदते कृत्स्नं
भोजनं चाप्नुयाच्छिवम् । हतेषणामीति तथा रक्षोघ्नः
परिकीर्त्तितः । यदि वासा इत्यृचेन जपन् कामान
वाप्नुयात् । नमोयवन्निति जपन् सुप्रगे तापनः शुचिः ।
कयान इति च जपन् जातिश्रैष्ठ्यमवाप्नुयात् । इमन्ते-
सोममित्येतत् सर्वान् कामानवाप्नुयात् । पितुरृक्षूपतिष्ठेत
नित्यमन्नमुपस्थितम् । अग्नेतत् पतिसूक्तेन स्निग्धमाप्नो-
त्यनुत्तमम् । योमेराजन्नित्यपान्तु दुःस्वप्रथमनीमृचम् ।
अध्वनि प्रस्थितो यस्तु पश्येच्छुभमथाशुभम् । अप्रशस्तं
प्रशस्तं वा कनिक्रदमिमं जपेत् । द्वाविंशकं जपन् सूक्तमा
ध्यात्मिकमनुत्तमम् । पूर्व्वं सुप्रयतोनित्यमिष्टान् कामान्
समश्नुते । कृणुष्वेति जपेन्मन्त्रं जुह्वदाज्यं समाहितः ।
अरातीनां हरेत् प्राणं रक्षांस्यपि च नाशयेत् । उपति-
ष्ठेत् स्वयं वह्निं परीत्यृचं दिने दिने । सुरक्षति स्ययं
वह्निर्विश्वतो विश्वतोमुखः । हंसं शुचिषदित्येत् शुचिर्वीक्षेत्
दिवाकरम् । ऋषिं प्रपद्यमानन्तु स्थालीपाकं यथाविधि ।
जुहुयात् क्षेत्रमध्ये तु स्थालीपाकांस्तु पञ्चभिः । इन्द्र
यममरुत्सूर्य्यपर्ज्जन्याय भगाय च । यथालिङ्गं तु
विहरे लाङ्गलन्तु कृषीवलः । प्रोक्तोधान्याय सीतायै
सुनासीरमथोत्तरम् । गन्धमाल्यनमस्कारैर्जपेदेताश्च
देवताः । प्रवापने प्रलवने खले स्थापनहारयोः । अमोघं
कर्म्म भवति वर्द्धते सर्व्वदा कृषिः । समुद्रादिति
सूक्तेन कामानाप्नोति पावकात् । वैश्वानर इति द्वाभ्यां
य ऋग्भ्यां वह्निमर्हति । स तरत्यापदः सर्वा यशः
प्राप्नोति चाक्षयम् । विपुलां श्रियमाप्नोति जयं प्राप्नोत्य-
नुत्तमम् । अग्ने त्वमिति च स्तुत्वा धनमाप्नोति चोच्छ्रितम् ।
प्रजाकामोजपेन्नित्यमरुणादेवमित्यृचम् दत्तात्रेयं जपेत्
प्रातः सदा स्वस्त्ययनं महत् । स्वस्ति पन्था इति प्रोच्य
स्वस्तिमान् व्रजतेऽध्वनि । विजिगीषुर्वनस्पते शत्रूणां
व्याधिदम्भवेत् । स्त्रियागर्भप्रसूताया गर्भमोक्षणमुत्त-
मम् । आ बद्धादिति सूक्तञ्च वृष्टिकामः प्रयोजयेत् ।
निराहारः क्लिन्नवासो नचिरेण प्रवर्षति । मनसः
काममित्येतां पशुकामो नरोजपेत् । कर्द्दमन इति स्नायात्
प्रजाकामः शुचिव्रतः । अग्रे पूर्व्वामिति स्नायाद्राज्यका-
मस्तु मानवः । लोहिते चर्मणि स्नायात् ब्राह्मणस्तु यथा
विधि । क्षत्रश्चर्मणि वै व्याघ्रे छागे वैश्यस्तथैव च । दशसाह-
स्रिकोहोमः प्रत्येकं परिकीर्त्तितः । आ गा वहेति सूक्तेन
गोष्ठे गां लोकमातरम् । उपतिष्टेज्जपेच्चैव यदीच्छेत्ताः
सदाऽक्षयाः । उपेते तिसृभीराज्ञो द्वन्दुभिं चाभिमन्त्रयेत् ।
तेजोबलञ्च प्राप्नोति शत्रूंश्चैव नियच्छति । तृणपाणि-
र्जपेत् सूक्तं रक्षोघ्नं दस्युभिर्वृतः । ये केचिन्नेत्यृचं
जप्त्वा दीर्घमायुरवाप्नुयात् । जीमूतस्येति सूक्तेन लाङ्ग-
लान्यभिमन्त्रयेत् । यथा छिद्रं ततो राजा विनिहन्ति
रणे रिपून् । अमीवेतित्रिभिः सूक्तैर्धनमाप्नोति चाक्षयम् ।
अमीवहेति सूक्तेन भूतानि स्नापयेन्निशि । संबाधे विषमे
पृष्ठ १४०९
दुर्गे बद्धो वा निगडैः क्वचित् । पलायन् वा गृहीतो वा
सूक्तमेतत्तदा जपेत् । त्रिरात्रमपि चोपोष्य श्रपयेत् पायसं
चरुम् । तेनाहुतिशतं पूर्णं जुहुयात् त्र्यम्बकेत्यृचा । समुद्दिश्य
महादेवं जीवेदव्दे शतं सुखम् । तच्चक्षुरित्यृचा स्नात
उपतिष्ठेद्दिवाकरम् । उद्यन्तं मध्यमं चैव दीर्घमायुर्जि-
जीविषुः । सूक्ताभ्यां परभागाभ्यां भूताभ्यां भूतिमाप्नु-
यात् । इन्द्रा सोमेति सूक्तन्तु कथितं शत्रुनाशनम् । यस्य
लुप्तं व्रतं मोहादश्रौतैः संसृजेत वा । उपोष्याज्यं
स जुहुयादग्ने व्रतपते इति । आदित्य वृक्षसाम्राज्यं
जप्त्वा वादे जयी भवेत् । नदीतीति चतुष्केण मुच्यते महतो
भयात् । ऋचं जप्त्वा यदित्येतत् सर्वान् कामानवाप्नुयात् ।
द्वाचत्वारिंशकं चैन्द्रं जप्त्वा ना शयते रिपून् । रायस्महीति
जप्त्वा च प्राप्नोत्यारोग्यमेव च । शन्नोभवेति द्वाभ्यान्तु
भुक्त्वान्नं प्रयतः शुचिः । हृदयं पाणिना स्पृष्ट्वा व्याधिभि-
र्न्नाभिभूयते । उत्तमेदमिति स्नातो भूत्वा शत्रुं प्रमापयेत् ।
त्वन्नो अग्नेति सूक्तेनं हुतेनान्नमवाप्नुयात् । कन्या-
वा मिति सूक्तेन दिग्दोषात् विप्रमुच्यते । यदभ्य कच्चेत्यु-
दिते जप्तुर्वश्यं जगद्भवेत् । यद्वागिति च जप्तेन
वाणी भवति शाश्वती । वाचोविदमितीत्येता जपन् वाचं
समश्नुते । पवित्राणां पवित्रन्तु पावमान्य ऋचां मताः ।
वैखानसा ऋचस्त्रिंशत् पवित्राः परमा मताः । ऋचोद्वि-
षष्टिः प्रोक्ताश्च यवश्चेत्यृषिसत्तम! । सर्वकल्मषनाशाय प
रिणामशिवाय च । स्वादिष्ठयेति सूक्तानां सप्तषष्टिरुदा-
हृता । दशोत्तराण्युपास्यैवाः पावमानीः शतानि षट् ।
एतज्जपंश्च जुह्वच्च घोरं मृत्युभयं जयेत् । आपोहिष्ठेति
चारिष्टौ जपेत् पापभयार्द्दने । प्रवेदनेति नियते
जपेच्च मरुधन्नसु । प्राणान्तिके भये प्राप्ते क्षिप्रं प्राणांस्तु
विन्दति । व्युष्टायामुदिते सूर्य्येये चेति जयमाप्नुयात् ।
आयुर्द्दामेति मूढ़श्च पन्थानं पथि विन्दति । क्षोणे युवति
मन्त्रेण यं कञ्चिद्धृदयप्रियम् । यत्तेयमेति सुस्नातस्तस्य
मूर्द्धानमालभेत् । सहस्रकृत्वः पञ्चाहं तेनायुर्विन्दते
महत् । इदं मेध्ये ति जुहुयाद् घृतं प्राज्ञः सहस्रशः ।
पशुकामो गवाङ्गोष्ठे अर्थकामश्चतुष्पथे । वयः सुवर्ण
इत्येतां जपन्ना विन्दते प्रियम् । हविष्यन्तीं समभ्यस्य सर्व-
पापैः प्रमुच्यते । तस्य रोगा विनश्यन्ति कायाग्निर्वर्द्धते
सदा । त्यक्तामयः स्वस्त्ययनं सर्वव्याधिविनाशनम् । वृहस्पते
अकीत्येतद्वृष्टिकामः प्रयोजयेत् । सर्वं त्वेति परा शान्ति-
र्जयाप्रतिरथस्तथा । मृतासं कश्यपन्नित्यं प्रजाकाम-
स्य कीर्त्तितम् । अहं रुद्रेभिरित्येतद्वाग्मी भवति
मानदः । न योनौ जायते विद्वान् जपंस्तिसृषु रात्रिषु ।
रात्रिसूक्तं जपन् रात्रौ रात्रिं क्षेमां नयेन्नरः । आकम्प-
यन्तीति जपेन्नित्यं कृत्याविनाशनम् । आयुष्यञ्चैव
सर्वस्य सूक्तं दाक्षायणं महत् । उत देवा इति जपेदास्वा-
पान्तं धृतव्रतः । अपमार्गे तु जनिते जपेदग्निभये सति ।
अरण्यानीत्यरण्येषु जपेत्तद्भयनाशनम् । ब्राह्मीमासाद्य
सूक्ते द्वे वरां ब्राह्मीं शतावरीम् । पृथगद्भिर्घृतेनाथ मेधां
लक्ष्मीञ्च विन्दति । मास इत्यसपत्नघ्नं संग्रामं विजि-
गीषतः । ब्रह्मणोऽग्निं संविदानं गर्भमृत्युनिवारणम् ।
अपैहीति जपेत् सूक्तं शुचिर्दुःखस्वप्ननाशनम् । येनेद-
मिति वै जप्त्वा समाधिं विन्दते परम्! मयोभूर्वात
इत्येता जपेत् स्वस्त्ययनं परम् । शामरीमिन्द्रजननम्
बाधामेतेन वारयेत् । महित्रीणामवोस्त्विति पथि स्वस्त्ययनं
जपेत् । अग्नये द्विषद्वेषं जपेच्च रिपुनाशनम् । वास्तोष्प-
तेति मन्त्रेण जपेच्च गृहदेवताः । जपस्यैष विधिः प्रोक्तो-
हुतौ ज्ञेयो विशेषतः । होमान्ते दक्षिणा देया
पापशान्तिकृतेन तु । हुतं शस्यति चान्नेन अन्नहोमप्रदा-
नतः । विप्राशिषस्त्वमोधाः स्युर्ब्बहिः स्नातं च सर्व्वतः ।
सिद्धार्थका यवा धान्यं पयोगव्यघृतं तथा । क्षीरवृक्षात्त-
थेधन्तु होमा वै सर्व्वकामदाः । समित् कण्टकिनश्चैव
राजिका रुधिरं विषम् । अभिचारे तथा शैलुमसनं
शक्तवः पयः । दधि भैक्ष्यंफलं मूलमृग्विधानमुदाहृतम्” ।

ऋग्वेद पु० ऋच्यते स्तूयते ऋक् कर्म्म० । वेदभेदे । स च मन्त्र-

ब्राह्मणोभयात्मकः । तत्र मन्त्रसमूहात्मकः ऋक्शब्दे
बक्ष्यमाणलक्षणर्गात्मकः संहितारूपो ग्रन्थः । तत्र दश
मण्डलानि तत्राद्ये मण्डले २४ अनुवाकाः “अग्नि-
मीले” इत्यादीनि आग्नेयानि १९१ सूक्तानि तानि
शतर्चिकर्षिदृष्टानि अध्यायोपाकरणोत्सर्गयोर्विनियुक्तानि ।
द्वितीये शौनकगृत्समदर्षिदृष्टे चत्वारि अनुवाकाः ।
त्वमग्न इत्यादीनि ४३ सूक्तानि आग्नेयानि उपाकरणो-
त्सर्गयोर्विनियुक्तानि । शौनक गृत्समदः ऋषिरेतन्मण्डद्रष्टा
स च पूर्ब्बमाङ्गिरसकुले शुनहोत्रस्य पुत्रः सन् यज्ञकालेऽ-
सुरैर्गृहीत इन्द्रेण मोचितः । पश्चात्तद्वचनेनैव भृगुकुले शुनक
पुत्रो गृत्समदनामाऽभूत् । “य आङ्गिरसः शौनहोत्रो
भूत्वा भार्गवः शौनकोऽभवत् स गृत्समदो द्वितीयमण्डल-
मपश्यत्” सर्वानु० उक्तेः । “त्वमग्न इति गृत्स-
मदः शौनको भृगुतां गतः । शौनहोत्रः प्रकृत्या तु य
पृष्ठ १४१०
आङ्गिरस उच्यते” इति ऋष्यनुक्रमोक्तेश्च । ऋग्वेदभाष्यम् ।
तृतीये विश्वामित्रदृष्टे पञ्चानुवाकाः
सोमस्य मेत्यादीनि ६२ सूक्तानि । तानि च आग्नेयानि
प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि विनियुक्तानि ।
चतुर्थे वामदेवर्षिदृष्टे पञ्चानुवाकाः । आग्नेयानि त्वां
ह्यग्ने इत्यादीनि ५८ सूक्तानि । आद्याध्यायोपाकरणे
मण्डलादिहोमे च विनियुक्तानि ।
पञ्चमे आत्रेयबुधगविष्ठिराद्यर्षिके षड् अनुवाकाः ८७
अबोध्यग्निरित्यादीनि सूक्तानि आग्नेयानि आग्नेगे
क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चत्वारि शिष्टानि
अध्यायोत्सर्ज्जनीपाकरणयोर्विनियुक्तानि ।
षष्ठे भरद्वाजदृष्टे षडनुवाकाः त्वं ह्यग्ने प्रथम इत्या-
दीनि ७५ सूक्तानि आग्नेयानि तत्र प्रातरनुवाके आग्नेये
क्रतौ त्रैष्टभे छन्दसि एतदादिसूक्ताष्टकं द्वितीयवर्जं
विनियुक्तम् शिष्टानि आद्योपाकरणे विनियुक्तानि ।
सप्तमे वसिष्ठदृष्टे ६ अनुवाकाः अग्निं नर इत्यादीनि १०४
सूक्तानि आग्नेयानि तेषां विशेषतो विनियोगोबाहुल्यात्
योक्त आकरे दृश्यः ।
अष्टमे मेधातिथिमेध्यातिथ्यादिनानर्षिक । दशानु-
वाकाः । इन्द्रादिदैवत्यानि “मा चिदन्यद्वीत्यादीनि
१०३ सूक्तानि महाव्रतादौ विनियुक्तानि ।
नवमे वैश्वामित्रमधुछन्दआद्यृषिके सप्तानुवाकाः
पावमानसोमादिदेवताकानि स्वादिष्ठयेत्यादीनि ११४
सूक्तानि तेषाञ्च उपाकर्म्मणि मण्डलादिग्रहणे च
यथायथं विनियोगः ।
दशमे मण्डले आप्त्यत्रिताद्यर्षिके द्वादशानुवाकाः
अश्वे वृहन्नित्यादीनि १९१ सूक्तानि आग्मेयादीनि ।
प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसी-
त्यादि कर्मसु विनियुक्तानि । इत्येवं दशसु मण्डलेषु
१ म० १९१, २ म० ४३, ३ म० ६२, ४ म० ५८, ५ म०
८७, ६ म० ७५, ७ म० १०४, ८ म० १०३, ९ म०
११४, १० म० ११९१ । इत्येवं समष्टि भूतानि १०२८
सूक्तानि । सूक्तानि च एकद्व्यादिकर्ग् घटितानि यथायथं
तत्तत्सूक्तेषु दृश्यानि । एतत्संख्या च बालखिलसहितानां
तद्व्यतिरिक्तानि तु १०१७ सूक्तानि तच्च चरणव्यूह-
भाष्ययोः स्पष्टम् । तस्य च पकारान्तरेण विभागः तस्य
अष्टाष्टकानि प्रत्येकाष्टके च अष्टौ अष्टौ अध्यायाः
इत्येवं ६४ अध्यायाः
तत्र च वर्गा २००६ संख्यकाश्चरणव्यूहोक्ताः
खिलसहितस्तु ततोऽप्यधिकाः । चरणव्यूहभाष्ययोर्दर्शित-
विभागो दर्श्यते यथा ।
“चातुर्वेद्य चत्वारोवेदा विज्ञाता भवन्ति ऋग्वेदो-
यजुर्वेदः सामवेदोऽथर्ववेदश्चेति तत्र ऋग्वेदस्या-
ष्टभेदा भवन्ति चर्चा श्रावकश्चर्चक श्रवर्णायपारः क्रमपारः
क्रमजटाः क्रमदण्डश्चेति चतुष्पारायणमेतेषां शाखाः
पञ्च भवन्त्याश्वलायनी सांख्यायनी शाकला बाष्कला
माण्डूकाश्चेति तेषामध्ययनम् । अध्यायानां चतुःषष्टिर्मण्ड-
लानि दशैव तु । वर्गाणां परिसंख्यातं द्वे सहस्रे षडुत्तरे
सहस्रमेकं सूक्तानां निर्विशङ्गं विकल्पितम् । दश सप्त च
पठ्यन्ते संख्यातं वै पदक्रमात् । एकशतसहस्रं वा द्वि-
पञ्चाशत्सहस्रार्द्धमेतानि चतुर्दश वासिष्ठानामितरेषां
पञ्चाशीतिः । ऋचां दश सहस्राणि ऋचां पञ्चशतानि
च । ऋचामशीतिः पादश्च पारायणं प्रकीर्त्तितम् ।
एकर्च एकवर्गश्च नवकश्च तथा स्मृतः । द्वौ वर्गौ द्विऋचौ
ज्ञेयौ ऋक्त्रयं शतं च स्मृतम् । चतुरृचां पञ्च-
सप्तत्यघिकञ्च शतं तथा । पञ्चऋचां तु द्विशतं
सहस्रं रुद्रसंयुतम् । पञ्चचत्वार्य्यधिकं तु षड्
ऋचां च शतत्रयम् । सप्त ऋचां शत ज्ञेयं विंशति-
श्चाधिकाः स्मृताः । अष्टऋचां तु पञ्चाशत् पञ्चाधिका-
स्तथैव च । दशाघिकद्विसहस्राः पञ्चशाखासु निश्चिताः ।
वर्ग संज्ञा न सूक्तस्य चत्वारश्चात्र कीर्त्तिताः”
चरणव्यूहः । वेदपारायणचतुर्विभागात् चरण उच्यते ।
तस्य व्यूहः समुदायः, चतुर्वेदानां समुदायं व्याख्या-
स्यामः इत्यर्थः । कथमेकोवेदः तदुक्त आरण्यके, “सर्वे
वेदाः सर्वेघोषा एकैव व्याहृतिः प्राणा एव प्राणा
ऋच इत्येता विद्यादिति” तस्य चतुर्धा भागः कृतः । तथा
चोक्तं भागवते । “तेनासौ चतुरो वेदाः चतुर्भिर्वदनैः
प्रभुः । सव्याहृतिकान्सोङ्कारांश्चतुर्होत्रविचक्षणः । पुत्रा
नध्यापयंस्तां तु ब्रह्मषिर्ब्रह्मकोविदान् । ते तु धर्म-
पदेष्टारः स्वपुत्रेभ्यः समादिशन् । ते परम्परया प्राप्ता
स्तत्तच्छिष्यैर्धृतव्रतैः । चतुर्युगेष्वप्यव्यस्ता द्वापारादौ
महर्षिभिः । क्षीणायुःक्षीणसत्यञ्च दुर्मेधा वीक्ष्य
कालतः । वेदान् ब्रह्मर्षयोव्यस्तान् हृदिस्थाऽच्युतनोदितः ।
अस्मिन्मन्वन्तरे ब्रह्मन् स्वर्गत्वा लोकभावनः । ब्रह्मेशा-
द्यैर्लोकपालैर्याचितोधर्मगुप्तये । पराशरात् सत्यवत्यामंशां-
शकलया विभुः । अवतीर्णोमहाभागो बेदं चक्रे चतु-
पृष्ठ १४११
विधम् । ऋगथर्वयजुःसाम्नोराशीनुद्धृत्य वर्गशः ।
चतस्रः संहिताश्चक्रे मन्त्रैर्मणिगणा इव । तासां स चतुरः-
शिष्यान् उपाहूय महामतिः । एकैकसंहितां ब्रह्मन्नेकेकस्मै
ददा विभः । पेलायः संहितामाद्यां बह्वृचाख्यामुवाच ह ।
शैम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् । साम्नां जैमिनये
प्रादात्तथा छन्दोगसंहिताम् । अथर्वाङ्गिरसं नाम
स्वशिष्याय सुमन्ततये । पैलः स्वसंहितामूचे इन्द्रप्रमित-
ये मुनिः । बाष्कलाय च सोऽप्याह शिष्येभ्यः संहितां
स्वकाम् । चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव! ।
पराशरायाग्निहोत्रे इन्द्रप्रमतिरात्मवान् । अध्यापयत्
संहितां स्वां माण्डूकेयमृषिङ्कविम् । तच्छिष्यो देवमित्रश्च
सौभार्यादिभ्य ऊचिवान् । (इन्द्रप्रमतिसुतो माण्डूकेयः ।
माण्डूकेयसुतः शाकल्यः । शाकल्यशिष्यो देवमित्रः) ।
शाकल्यस्तत्सुतः स्वान्तु पञ्चधा व्यस्य संहिताम् । वात्स्य
मुद्गलशालीयगोखल्यशिशिरेष्वधात् । जातूकर्णश्च तच्छिष्यः
सनिरुक्तां स्वसंहिताम् । बालाकपैङ्ग्यवेतालविरजेभ्योददौ
सुनिः । वाष्कलिः प्रतिशाखाभ्यो बालखिल्याख्यसंहि-
ताम् । चक्रे बालायनिर्भुज्यः काशारश्चैव तां दधुः ।
बह्वृचाः संहिताह्येता एतैर्ब्रह्मर्षिभिर्धृताः । श्रुत्वैव
छन्दसां व्यासं सर्वपापैः प्रमुच्यते” भाग० १२, ६ अ० ।
“ब्रह्मणा नोदितो व्यासोवेदान् व्यस्यन् प्रचक्रमे । अथ
शिष्यान् सञ्जग्राह चतुरोवेदपारगान् । ऋग्वेदश्रावकं
पैलं सञ्जग्राह महामतिः । वैशम्पायननामानं
यजुर्वेदस्य चाग्रहीत् । जैमिनिः सामवेदस्य तथैवाथर्ववेद-
वित् । सुमन्तुस्तस्य शिष्योभूद्वेदव्यासस्य धोमतः” विष्णुपु०
गृह्यसूत्रम् । “सुमन्तुजैमिनिवैशम्पायनपैलाः सूत्र-
भाष्यमहाभारतधर्माचार्या” इति । जलतिबाह-
वीत्यारभ्य माण्डूकेया इत्यन्तामाण्डूकगणाः गर्गीवाचक्न-
वीत्यारभ्य सांख्यायनमित्यन्ताः सांख्यायनगणाः । एतेषां
कौषीतकीसूत्रं ब्राह्मणम् आरण्यकं च । ऐतरेय इत्या-
रभ्य आश्वलायनान्ताः आश्वलायनगणाः एषन्तु ऐतरेय
आरण्यकं ब्राह्मणम् । आश्वलायनसूत्रम् ।
तत्र यदुक्तं चातुर्वेद्यं चत्वारोवेदाविज्ञाता भवन्ति ।
अस्मिन् ग्रन्थे चातुर्वेद्यं तेन चत्वारोवेदाविज्ञाता भवन्ति
ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदश्चेति इति स्पष्टार्थः ।
वेदा हि यज्ञार्थम् अभिप्रवृत्ताः । ते यज्ञाः द्विविधाः ।
अग्नौ हूयमाना, अनग्नौ प्रहुताः । अग्नौ हूयमाना
वैताविकाः । अनग्नौ प्रहुता नित्याभ्यासो ब्रह्मयज्ञः पारा-
यणं च । अत्र गृह्यसूत्रे ब्रह्मयज्ञखण्डे “यद्वचोऽधीतेप-
यआहुतिभिरेव तद्देवतास्तर्पयति, यद्यजूंषि घृताहुतिभिः,
यत्सामानि मध्वाहुतिभिः, यदथर्वाङ्गिरसः सोमाहुतिभिः,
यत् ब्राह्मणानि कल्पान् गाथानाराशंसीरितिहासपुरा-
णानीत्यमृताहुतिभिर्यदृचोऽधीते स्वधा अस्य पितॄन्
उपक्षरन्ति” इति । तत्र ऋग्वेदस्याष्टभेदा भवन्ति । स्थानानि
भवन्तीति पाठान्तरम् । शाकलबाष्कलौ २ ऐतरेयब्राह्म-
णारण्यकौ ४ साङ्खायनमाण्डूकौ ६ । कौषीतकीय
ब्राह्मणारण्मकाविति८ अष्टभेदाः । अन्यच्च “वेदाश्च
विकृतिः शाखाभेदस्तु त्रिविधस्ततः । पृथग्नामाभिधानेन
व्यासेन कथितं पुरा” इति । अत्राष्टभेदेनाष्टस्थानेन वा
प्रकृतिर्ग्राह्या विकृतिस्तु अग्रे वक्ष्यामः । तस्मात् ब्रह्म-
यज्ञार्थे पारायणार्थे च ऋग्वेदस्याध्ययनं कर्त्तव्यम् । ततश्चतु-
ष्पदेन वक्ष्यति । चर्चेत्यादि चर्चाध्ययनम् । ताल्वोष्टपुट-
व्यापारेण शब्दस्योच्चारणं क्रियते सा चर्चा । तस्याध्ययनस्य
गुरुः श्रावकः । तस्य चर्चकः शिष्यः श्रवणीयपारः । श्रवणीयो
वेदः । तस्य पारं समाप्तिः । इति चतुष्पदेन अध्ययनं
सूचितम् । अग्रे चतुष्पदेन चत्वारि पारायणानि
सूचयढि । तत्पारायणं द्विविषम् । प्रकृतिविकृतिरूपम्
का प्रकृतिः? । प्रकृतिः संहिता । सा द्विविधा रूढा
योगा च रूढा यथा! “अग्निमीले पुरोहितमिति । योगा
यथा । अग्निम् ईले पुरोहितमिति । प्रातिशाख्ये
द्वितीयपटले भाष्यकारेण व्याख्यातम् । अथ चतुष्पारा-
यणं यथा । क्रमपारः क्रमपदः क्रमजटाः क्रमद-
ण्डश्चेति चतुष्पारायणम् । क्रमशब्देन उभयसंहिता
बाच्या स कथम्? । “अनुलोमविलोमाभ्यां द्विवारं
हि पठेत् क्रमम् । विलोमे पदवत्सन्धिरनुलोमे यथाक्र-
मम्” । यथाक्रमं यथा संहिता इत्यर्थः । अन्यच्च वर्ण-
क्रमः । अक्षरसमाम्नाय एवेत्यारण्यके । “कथमभिष्टुयादि-
त्यक्षरशः चतुरक्षरशः पच्छः अर्द्ध्वर्चशः ऋक्शः” ।
इति ब्राह्मणम् । क्रमः संहितावाची कथम्? । पद
प्रकृतिः संहिता इति नैरुक्तवचनात् । सा क्रमरूपा
इत्यर्थः । क्रमपदः । क्रमः संहिता तस्याः पदानि इति
प्रकृतिपारायणे द्वेप्रकृतिरूपे । विकृतिस्तु अष्टधा भवति ।
तच्च “जटा माला शिस्वा लेखा ध्वजो दण्डोरथोघनः ।
अष्टौ विकृतयः प्रोक्ताः क्रमपूर्बा महर्षिभिः” इति आसां मध्ये
जटदण्डयोः प्राधान्यं तत्कथम्? । जटानुसारिणी शिखा
दण्डानुसारिणो मालालेखाध्वजोरथश्च । घनस्तु उभयो-
पृष्ठ १४१२
रेवात्तुसारी । तत्र जटापटले जटावाक्यम् । “क्रमे यथोक्ते
पदजातमेव द्विरभ्यसेदुत्तरमेव पूर्ब्बम् । अभ्यस्य पूर्ब्बं
च तथातरे पदेऽवसानमेवं हि जटाभिधीयते” अस्यार्थः । क्रमे
यथोक्ते सति क्रमोत्क्रमाभ्यामित्युक्ते क्रमप्रकारे
पदजातं पदद्वयं वा पदत्रयं वा द्विवारमभ्यसेत् । द्वि-
वारम्पठेत् । अभ्यासप्रक रः । उत्तरमेव पूर्ब्बम् ।
क्रमवतपदद्वयं गृहीत्वा पूर्ब्बेण समं प्रथमम् उत्तरपदम-
भ्यसेत् । ततः उत्तरपूर्ब्बपदयोः सन्धानद्वारा पूर्ब्बम्
द्विरभ्यस्योत्तरपदे अवसानम् एवंप्रकारेण अध्ययनं
जटा अभिधीयते उदाहरणेन दर्श्यते । अग्निसील
ईलेऽग्निमग्निमीले ईले पुरोहितं पुरोहितमील ईले
पुरोहितमित्यादि ज्ञेयम् । अथ दण्डलक्षणम् । “क्रम-
मुक्तं विपर्य्यस्य पुनश्च क्रममुत्तरम् । अद्धर्चादेव मुक्त्योक्तः
क्रमदण्डोऽभिधीयते । उदाहरणम् । अग्निमीले ईलेऽ-
ग्निम् अग्निमालईलेपुरोहितम् पुरोहितमीलेऽग्नि मत्यादि
ज्ञेयम् । अथ मालालक्षणम् । “ब्रूयात् क्रमविपर्य्यासा-
बर्घर्चस्यादिवोऽन्ततः । अन्तं चादिन्नयेदेवं क्रममालेति
गीयते । माला मालेव पुष्पाणां पदानाङ्ग्रथिनी हिता ।
आवर्त्तने क्रमस्तस्यां क्रमव्युत्क्रममंव मा० । अथ शिखा-
लक्षणम् । “पदोत्तराञ्जटामेव शिखामार्य्याः प्रचक्षते ।
अथ लेखालक्षणम् । क्रमद्वित्रिचतुःपञ्चपदक्रममुदाहरेत् ।
पृथक् पृथक् विपर्य्यस्य लेखामाहुः पुनः क्रमात्” । अथ
ध्वजलक्षणम् । “ब्रूयादादेः क्रमं सम्यगान्तादुत्तारये-
द्यदि । वर्गे च ऋचि यत्र स्यात् पठनं स ध्वजः स्मृतः” ।
अथ रथलक्षणम् । “पादशोर्द्धर्चशो वापि सहोक्त्या दण्ड-
वद्रथः” । अथ घनलक्षणम् । “जटमुक्त्वा विपर्यस्य घनमाहु
र्मनोषिणः” । अन्यच्च । “जटाशिखाघनाः प्रोक्ता क्रमपूर्ब्बा
मतोषिभिः” । इति विकृतिलक्षणान्यूक्तानि । अध्ययने
संहितापारायणम् पदपारायणम् जटापारायणम्
क्रमदण्डपारायणं चतुष्पारायणमिन्यर्थः! एतेषां शाखाः
पञ्च भवन्ति । एतेषां वेदपारायणानां पञ्च शाखा भवन्ती-
त्यर्थः । ताः काः? । आश्वलायनी सांख्यायनी शाकला
बाष्कला माण्डूका चेति इति प्रसिद्धाः । तेषामसध्ययनम् ।
तेषाम् आश्वलायनादिशाखानां समानाध्ययनं सूचयति ।
अध्यायाश्चतुःषष्टिः । अग्निमीले अयं देवायेत्यादि ।
चतुःषष्टिरध्याया इत्यर्थः । मण्डलानि दशैव तु । अग्नि-
मीले--कुषुम्भकम् इत्यादि उपाकम्मणि प्रसिद्धानि इत्यर्थः!
वर्गाणां परिसंख्यातन्द्वे सहस्रे षड्त्तरे । वर्गादिः आऋ-
चान्ताः संख्या बालखिल्यैर्विना ज्ञेया । षडुत्तरसहस्र-
द्वयं वर्गा इत्यर्थः । सहस्रमेकं सूक्तानां निर्विशङ्कं
विकल्पितम् । दश सप्त च पठ्यन्ते । सप्तदशाधिकसहस्रं सूक्ता-
नीत्यर्थः । संख्यातं वै पदक्रमम् । एकं शतसहस्रं च
द्विपञ्चाशत्सहस्रकम् सार्द्धम् चतुर्दश वासिष्ठानामि-
तरेषां पञ्चाशीतिः । एकलक्षद्विपञ्चाशत्सहस्रपञ्चशतं
चतुर्दश वाशिष्टानां वसिष्ठगोत्रिणाम् इन्द्रोभिरेकसप्तति-
पदात्मकोवर्गोनास्ति । एतद्गोत्रीयाणां पञ्चाशीत्यधिकपदा-
लीत्यर्थः । अथ बालखिल्यसहितपदसंख्या उच्यते ।
लक्षैकन्तु त्रिपञ्चाशत्सहस्रं शतसप्तकम् । पदानि च द्विन-
वतिः प्रमाणं शाकलस्य च । एकलक्षत्रिपञ्चाशत्सहस्रसप्त-
शतं द्विनवति श्चाधिकानि पदानि इत्यर्थः । पदानि
बालखिल्यस्य अर्कसंख्याशतानि च । अधिकानि तु सप्तैव वर्गा
अष्टादश स्मृताः सप्ताधिकद्वादशशतानि पदानीत्यर्थः ।
इत्याश्वलक्षायनानाम् सांख्यायनानान्तु बालखिल्यसहित
पदसंख्या उच्यते । शाकल्यदृष्टे पदलक्षपेकं सार्द्धं तथैव
त्रिसहस्रयुक्तम् । शतानि सप्तैव तथाधिकानि चत्वारि-
त्रिंशच्च पदानि चर्चा । शाकल्योमाण्डूकगणस्थस्तत्-
संहितापदानि एकलक्षत्रिपञ्चाशत्सहस्रसप्तशतचतुस्त्रिं-
शदघिकानि पदानीत्यर्थः । पदानि बालखिल्यस्य रुद्रसं ख्या
शतानि च षड़शीत्यधिकानि वर्गाः सप्तदशापि च ।
एकादशशतषट्पञ्चाशदधिकानि बालखिल्य पदानीत्यर्थः ।
अष्टपञ्चाशत्पदात्मकर्क्त्रयस्य यमृत्विजो वर्गोनास्ति
आश्वलायनानाञ्चतुरृचात्मको वर्गः । इत्याश्वलायन-
साख्यायनशाख्योरध्ययनयोर्भेद इत्यर्थः । अथ पारायणे
ऋक्परिमाणमुच्यते । ऋचां दश सहस्राणि ऋचां पञ्च-
शतानि च । ऋचामशीतिः पादस्य पारायणं प्रकीर्त्तितम्
एतत्पारायणं बालखिल्मैर्विना संख्यातम् । बालखि-
ल्यानि पारायणे न सन्ति । तदुच्यते । ऋग्वेदान्तर्गत-
बालखिल्यमेकादशसूक्तम् सूक्तसहस्रसप्तदशाधिकमित्यत्र
ऋचां दशसहस्राणीत्येतत्संख्या व्यतिरिक्तानि वालखिल्या-
नीति प्रसिद्धिः” भाष्यम् । अत्र प्रधान शाखाभेदाभि-
प्रायेण पञ्चविधत्वमुक्तम् “ऋग्वेदस्य तु शाखाः स्यरेक-
विंशतिसंख्यकाः” मुक्तिकोपनिषदि एकोनविंशतिभे-
दोक्तिः प्रशाखाभिप्रायेण अत एव प्रशाखाभ्य इति
प्रागुक्तभाग० वाक्ये तथोक्तम् । षस्य उपनिषद्भेदस्तु
उपनिषच्छब्दे उक्तः । “ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु
मानुषः । सामवेदः स्मृतः पैत्रस्तस्मात्तस्याशुचिर्ध्वनिः
पृष्ठ १४१३
मनुः । “ऋग्वेदाधिपतिर्जीवः” ज्यो० उक्तेः जीवस्य ऋग्वे-
दाधिपत्वं तेन तस्य वारे तद्बले च तत्तत्कर्म ऋग्वेदिभिः
करणीयम् “शाखाधिपे बलिनि वीर्य्ययुतेऽथवाम्मिन्” ।
ज्यो० त० तद्ध्यानं तु “ऋग्वेदः पद्मपत्राक्षो गायत्राः
सोमदैवतः । आत्रेयगोत्रः” इति विधा० पा० उक्तम् ।
ऋग्वेदोऽध्येयत्वेनास्त्यस्य इनि । ऋग्वेदिन् तत्पाठके ।

ऋघा स्त्री ऋ--बा० घन् किच्च । हिंसायाम् । “कविशस्त

ऋघावान्” ऋ० १, १५२, २, “ऋघावान् हिंसकः” भा० ।
“महाव्रातस्तुवि कूर्मिरृघावान्” ऋ० ३, ३०, ३ ।

ऋच् स्तुतौ तुदा० पर० सक० सेट् । ऋचति आर्चीत् ।

आनर्च । कर्मणि ऋच्यते आर्चि । “याभ्यां गायत्रमृच्यते”
ऋ० ८, ३८, १० “ब्रह्माण्यृच्यन्ते युवभ्याम्” ७, ७०, ६,

ऋच् स्त्री ऋच्यते स्तूयतेऽनया ऋच--करण क्विप् । वेदमन्त्र

भेदे “यत्रार्थवशेन पादव्यवस्थितिः सा ऋक्” जै० ।
“ऋचो यजूषि सामानि निगदामन्त्राः” कात्या० १, २, १, ।
“ऋगादयो निगदान्ताश्चत्वारोमन्त्राः । तत्रार्थवशेन वृत्त-
वशेन बा यत्र पादव्यवस्था, सा ऋक् तत्र “समिधाग्निं
दुवस्पत” इत्यादी यत्र प्रत्यक्षेण समाप्तोऽर्थोदृश्यते तत्रार्थ
वशेन पादव्यवस्था यत्र च क्रियापदानुपादानात् “सुस-
सिद्धाय शोचिषे तं त्वा समिद्भिरङ्गिरः” इत्यादौ अपर्य-
बसितोऽर्थस्तत्र वृत्तवशेन पादव्यवस्था भवति अतश्च यत्र
नियताक्षराणि नियताश्च पादानियतानि वावसानानि सा
ऋगित्युच्यते । अनियताक्षरपादावसानं यजुः यद्यपि
व्रगीतं मन्त्रवाक्यं सामेत्यभियुक्तप्रयोगः तथापि तत्र विशे-
षणं गोतिः विशेष्याण्यृगक्षराणि नागृहीतविशेषणा
विशेष्ये वुद्धिरिति प्रथमं प्रतीयमानत्वात् गीतिरेव सामे-
त्युच्यते तथा च “कवतीषु रथन्तरं गायति” “यद्योन्यां
तदुत्तरयोर्गायति” “ऋच्यध्यूढ़ साम गायति” प्रजापतेर्हृ-
दयमनृच गायतीत्याद्युपपन्नं भवति अत ऋगक्षरातिरिक्तं
यद्गीतिशब्दवाच्यं तत् सामशब्दे नोच्यते । ननु यदि
रथन्तरादिशब्दा गीतेरेव वाचकाः तदा “रथन्तरेण स्तुवीतेति”
कथं स्तुतिसाधनत्वम् गुणगुणिसम्बन्धकीर्त्तनं हि स्तुतिः
सा च गीतिरूपेण साम्ना न सम्भवति । उच्यते गीतेः
स्वयंस्तुतिवाचकत्वाभावादृगक्षरप्रकटनद्वारा स्तुतिसाधनत्वं
भवतीति नोक्तदोषः । निगदाः प्रैषाः परसम्बोधनार्थाः
“प्रोक्षणीरासादय” “अग्नीदग्नीन्विहर” इत्येवमादयः । ननु
निगदा अपि यजूंष्येव ततः किमर्थं पृथगुक्ताः । उच्यते
“उपाशु यजुषा ऊच्चैर्निगदेनेति” धर्म्मभेदेन यजुःष्वनन्त-
र्भावशङ्कया पृथग्वचनम् । वस्तुतस्तु निगदानां यजुष्ट्वमेव
परसम्बोधनार्थत्वात्तु उच्चैर्निगदेनेति धर्म्मभेदः न च धर्म्म-
भेदाद्भेदः ऋकसामयोरपि क्वचिदुपांशुप्रयोगविधानात्
अतस्त्रैविध्यमेव मन्त्राणाम् । तथाचोक्तम् “अहेर्बुध्न्यमन्त्रं
मे गोपाय यमृषयस्त्रैविदा विदुः” ऋचः सामानि यजूं-
षीति त्रीन्वेदान्विदन्तीति त्रिविदः त्रिविदां सम्बन्धि-
नोऽध्येतारस्त्रैविदाः ते च यं मन्त्रभागमृगादिरूपेण
त्रिविधमाहुस्तं गोपायेति योजना । ऋग्यजःसामा-
त्मको मन्त्रभेदोऽभिहितः तदबान्तरभेदाकाङ्क्षायामृचां च
साम्नां चाध्येतृप्रसिद्ध्यैव भेदे सिद्धे लक्षणं न क्रियते”
कर्कः । “ऋचैव हौत्रमकरोद्यजुषाध्वर्यवं साम्नीद्गीथम्”
ऐत० “त्रिधा विहिता वागृचो यजूंषि सामानि”
शत० ब्रा० ६, ६, ३, ४ । “ऋचः सामानि जज्ञिरे पुरुष-
सू० । “तदेतदृचाभ्यनूक्तम्” छा० उ० । २ विश उत्तरे निरु० ।
समासे तदन्तात् अच् । अर्द्धर्चः एकर्चम् द्व्यृचं षडृचम्
इत्यादि । बहु० । अध्येतर्य्येव अच् । अनृचः बह्वृचः
इत्यादि ग्रन्थे तु न अच् । अनृक् साम । प्राचुर्य्ये मयट् ।
ऋङ्मय तत्प्रचुरे त्रि० स्त्रियां ङीप् । “एतं यज्ञमृङ्-
मयं यजुर्मयम् साममयमाहुतिमयम्” शत० ब्रा० ४,
३, ४, ५ । भावे क्विप् । ३ स्तुतौ ४ पूजायाञ्च ।

ऋचस् त्रि० ऋच--वा० कसुन् । स्त्रोतरि । “गा अर्वतो-

र्नॄनृचसे रिरीहि” ऋ० ६, ३९, ५ । “ऋचसे स्तोत्रे” भा०

ऋचसे अव्य० ऋच--तुमर्थे कसेन् । स्तोतुमित्यर्थे । “प्र वां

मन्मान्यृचसेन वानि” ऋ० ७, ६१, ६ ।

ऋचीक पु० ऋच--ईकक् । १ दिवःपुत्रे सवितृभेदे । “दिवः पुत्रो

वृहद्भानुश्चक्षुरात्मा विभावसुः । सविता स ऋचीकोऽर्कोभानु-
राशावहोरविः” भा० आ० १ अ० । भृगुवंश्ये २ जमदग्नि-
पितरि ऋषिभेदे । “तस्मिन्नियुक्ते विघिना योगक्षेमाय-
भार्गवे । अन्यमुत्पादयास पुत्रं भृगुरनिन्दितम् । च्यवनं
दीप्ततपसं धर्म्मात्मानं यशस्विनम् । यः सरोषाच्च्युतोगर्भा
न्मातुर्मोक्षाथ भारत! । आरुषी तु मनोः कन्या तस्य
पत्नी मनीषिणः । और्वस्तस्यां समभवदूरुं भित्त्वा
महायशाः । महातेजाः महावीर्य्योबाल एव गुणैर्युतः ।
ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत्” भा० आ०
६६ अ० । तस्य चरितम् । भा० अनु० प० ४ अ० विस्त-
रेण वर्ण्णितम् संक्षेपतस्तु हरिवंशे २८ अ० यथा
“गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा । तां
गाधिर्भृगुपुत्त्राय ऋचीकाय ददौ प्रभः । तस्याः प्रीतोऽभव-
पृष्ठ १४१४
द्भर्त्ता भार्गवो भृगुनन्दनः । पुत्त्रार्थं कल्पयामास चरुं
गाधेस्तथैव च । उवाचाहूय तां भर्त्ता ऋचीकी भार्गव-
स्तदा । उपयोज्यश्चरुरयं त्वया मात्रा त्वयंतव । तस्यां
जनिष्यते पुत्त्रो दीप्तिमान् क्षत्त्रियर्षभः । अजेयः क्ष
त्त्रियैर्लोके क्षत्त्रियर्षभसूदनः । तवापि पुत्त्रं कल्याणि!
धृतिमन्तं तपोधनम् । शमात्मकं द्विजश्रेष्ठं चरुरेष
विधास्यति । एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः ।
तपस्यभिरतो नित्यमरण्य प्रविवेश ह । गाधिः
सदारस्तु तदा ऋचीकाश्रममभ्यगात् । तीर्थयात्राप्रसङ्गेन
सुतां द्रष्टुं नरेश्वरः । चरुद्वयं गृहीत्वा तदृषेः सत्यवती
तदा । चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत् । माता
व्यत्यस्य दैवेन दुहित्रे स्वं चरुं ददौ । तस्याश्चरुमथा-
ज्ञानादात्मसंस्थं चकार ह । अथ सत्यवती गर्भं क्षत्त्रि-
यान्तकरं तदा । धारयामास दीप्तेन वपुषा घोरदर्श-
मम् । तामृचीकस्ततो दृष्ट्वा योगेनाभ्यनुसृत्य च । तामब्र-
वीद्द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् । मात्राऽसि
वञ्चिता भद्रे! चरुव्यत्यासहेतुना । जनिष्यते हि पुत्रस्ते
कूरकर्माऽतिदारुणः । भ्राता जनिष्यते चापि ब्रह्मभू-
तस्तपोधनः । विश्वं हि ब्रह्म तपसा मया तस्मिन्
समर्पितम् । एवमुक्ता महाभागा भर्त्त्रा सत्यवती तदा ।
प्रसादयामास पतिं पुत्त्रो मे नेदृशो भवेत् । ब्राह्मणा-
पसदःक्षात्र इत्युक्तो मुनिरब्रवीत् । नैष सङ्कल्पितः कामो
मया भद्रे! तथाऽस्त्विति । उग्रकर्मा भवेत् पुत्त्रः पितुर्मा-
तुश्च कारणात् । पुनः सत्यवती वाक्यमेवमुक्ताऽब्रवीदिदम् ।
इच्छन् लोकानपि मुने! सृजेथाः किं पुनः सुतम् ।
शमात्मकमृजुं त्वं मे पुत्त्रं दातुमिहार्हसि । काममेवं-
विधः पौत्त्रो मम स्यात्तव च प्रभो! । यद्यन्यथा न
शक्यं वै कर्त्तुमेतद्द्विजोत्तम । । ततः प्रसादमकरोत् स
तस्यास्तपसो बलात् । भद्रे! नास्ति विशेषो मे पौत्त्रे च
वरवर्णिनि । त्वया यथोक्तं वचनं तथा भद्रे! भविष्यति ।
ततः सत्यवती पुत्त्रं जनयामास भार्गवम् । तपस्यभिरतं
दान्तं जमदग्निं शमात्मकम् । भृगोश्चरुविपर्यासे
रौद्रवैष्णवयोः पुरा । यजनाद्वैष्णवेऽथांशे जमदग्निरजा-
यत । सा हि सत्यवती पुण्या सत्यधर्मपरायणा । कौशि-
कीर्ति समाख्याता प्रवृत्तेयं महानदी । इक्ष्वाकुवंशप्रभवो
रेणुर्नाम नराधिपः । तस्य कन्था महाभागा कामली
नाम रेणुका । रेणुकायान्तु कामल्यां तपोविद्यासम-
न्वितः । आर्च्चीको जनयामास जामदग्न्यं सुदारुणम् ।
सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् । रामं क्षत्त्रिय-
हन्तारं प्रदीप्तमिव पावकम् और्वस्येवमृचीकस्य सत्य-
वत्यां महायशाः । जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां-
वरः । मध्यमश्च शुनः शेफः शुनःपुच्छः कनिष्ठकः ।
विश्वामित्रन्तु दायादं गाधिः कुशिकनन्दनः । जनयामास
पुत्त्रन्तु तपोविद्याशमात्मकम् । प्राप्य ब्रह्मर्षिसमतां योऽयं
सप्तर्षितां गतः । विश्वामित्रस्तु धर्मत्मा नाम्ना विश्वरथः
स्मृतः । जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्द्धनः” ।
“अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन् । राम!
राम! महाभाग! प्रीताःस्म तव भार्गव!” भा० आ० ३ अ०
३ भरतसुतभुमन्युसुते नृपभेदे । “ततोमहद्भिः क्रतुभिरीजा
नो भरतस्तदा । लेभे पुत्रं भरद्वाजाद् भूमन्युं नाम
भारत! इत्युपक्रम्य “पुष्करिण्यामृचीकश्च भूमन्योरभवत्
सुतः” भा० आ० ९४ अ० ।

ऋचीष न० ऋच्--कीषन् । पिष्टपचनपात्रे हेम० ।

ऋचीषम पु० ऋचा स्तुत्या समः वेदे नि० ईत्त्वं षत्वञ्च ।

ऋग्वशेषेण समानगुणे । “इह श्रुत इन्द्रो अस्मे अद्य स्तवे
वज्र्यृचीषमः” ऋ० १०, २२, २ । ऋचीषमः ।
“यद्व्याव इन्द्र! ते शतं भूमीरुत स्युः । न त्वा वज्रिन्”
इत्यादिकया ऋ० ८, ७०, ५ । स्तुत्या समानगुणकः” भा०
“परोमात्रमृचीषममिन्द्रमुग्रम्” ऋ० ८, ६८, ६ ।
ऋचीषमम् ऋचा स्तुत्या समम् यद्यप्यपरिच्छिन्नस्तथापि स्तुति-
र्यावन्मात्रं विषयीकरोति तत्समम्” इत्यर्थः भा० ।
“अवचष्ट ऋचीषमः” ऋ० ८, ६२, ६ । “वृत्रहा परमज्या
ऋचीषमः” ८, ९०, १ । “२ दीप्त्या समे च “अहन् वृत्त-
मृचीषमः ऋचा दीप्त्या समः” भा० ।

ऋचेयु च० राजभेदे । पूरुवंशवर्णने “रौद्राश्वस्य

महेष्वासा दशाप्सरसि सूनवः” इत्युपक्रम्य “ऋचेयुरथ काक्षेयुः
कृकणेयुश्च वीर्य्यवान्” भा० आ० ९४ अ० ।

ऋच्छ मोहे मूर्त्तौ (कठिनीभावे) अक० गमने सक० तुदा० पर०

सेट् । ऋच्छति आर्च्छीत् आनर्च्छ । उपसर्गात् अस्यादे
र्वृद्धिः प्रार्च्छति अपार्च्छति । “उपसर्गाः क्रियायोगे”
पा० इत्युक्तेः यत्क्रियया योगस्तत्व्रियायामेवोपसर्गत्वम् तेन
प्रगतः ऋच्छकोऽस्मात् वाक्ये प्रादि० ब० । प्रर्च्छकः इत्यादौ न
वृद्धिः अत्र प्रस्य गमेरुपसर्गत्वेन ऋच्छोपसर्गत्वाभावात् ।

ऋच्छरा स्त्री ऋच्छ--कर्मणि करणे वा घञ् । वेश्यायाम् ।

उज्ज्वल० साधारणत्वेन सर्वैर्गम्यत्वात् इन्द्रियभोहजनन-
साधनत्वाच्च तस्यास्तथात्वम् ।
पृष्ठ १४१५

ऋज गतौ ऊर्जने (बलाधाने) अर्ज्जुने च भ्वा० आत्म०

मक० स्थैर्य्ये अक० सेट् । ऊर्ज्जते आर्ज्जिष्ट आनृजे ।

ऋज भर्ज्जने इदित् भ्वा० आ० सक० सेट् । ऋञ्जते

आर्ञ्जिष्ट । ऋञ्जां बभूव आस चक्रे । ऋञ्जसानः ।

ऋजिप्य त्रि० ऋजु आप्नोति गच्छति आप--यत् पृ० ।

ऋजुगामिनि “ऋजिप्यं श्येनं प्रुषितप्सुम्” ऋ० ४,
३८, २ । “ऋजु आप्नोति गच्छतीत्यृजिप्यः” भा० ।
“ऋजिप्य इमिन्द्रावतः” ४, २७, ४ ।

ऋजिश्वन् पु० राजभेदे “अपमृष्यमृजिश्वने दात्रं दाशुषे”

ऋ० ६, २०, ७ । ऋजिश्वने एतन्नामकाय राज्ञे” भा० ।

ऋजीक त्रि० ऋज--गतौ ईकन् किच्च । १ इन्द्रे २ धूमे च

उज्ज्व० । उपार्जीकशब्दे उदा० करणे ईकन् । ३ साधने
च “आविरृजीको विदथा” ऋ० ४, ३८, ४ । “आवि-
रृजीका आविर्भूतसाधना” भा० ।

ऋजीति पु० ऋजु गच्छति ई--गतौ क्तिच् पृ० । ऋजुगामिनि

वाणे “ऋजीते! परि वृन्धि नोऽश्मा” ऋ० ६, ७५, १२ ।
“ऋजु गच्छति ऋजीतिरिषुः” भा० ।

ऋजीष न० अर्ज्यते रसोऽस्मिन् अर्ज्ज आधारे कीषन्

ऋजादेशः । १ पिष्टपचनपात्रे २ नरकभेदे पिष्टपचनाकार-
पात्रभेदेन पापिनां पचनहेतुत्वेन तस्य तथात्वम् ।
नरकगणनायाम मनुः । “लोहशङ्कुमृजीषञ्च”
नरकशब्दे विवृतिः । ३ नीरसे सोमलताचूर्ण्णे “सोमो-
राजामृतं सुत ऋजीषेणाजहान्मृत्युम्” यजु० १९, ७२
“ऋजीषं नीरसं सोमलताचूर्ण्णम्” वेददी० । ४ गतसारे
सोमे पु० । “समुद्रे त इति ऋजीषकुम्भं प्लावयति” कात्या०
१०, ९, १ । “गतसारः सोमः ऋजीषस्तेन पूर्णकुम्भम्”
कर्कः । यथा मादकद्रव्यस्याभिषवणेन सारांशे गृहीते
अवशिष्टः नीरसभागः (सिटि) अवतिष्ठते एवं मोमस्याभि-
षवणे निःमारांश ऋजीष इत्युच्यते । कर्मणि कीषन् ।
५ अभिषुते सोमे च “कुविद्राजानं मघवन्नृजीषिन्”!
ऋ० ३, ४३, ५ । “ऋजीषिन्! सोमवन्!” भा० । “अन्तरिक्षा-
दृजीषी” ३, ४६, ३ । “ॠजीषी सोमवान्” भा० । तैत्ति०
अस्य निरुक्तिर्दर्शिता “तेनांशुमद्यद्यभिषुणोति तेनेर्जीषि”
ततः जातार्थे तारका० इतच् । ऋजीषित नीरसतया जाते
त्रि० । ऋजीषं द्रव्यं देयत्वेनास्त्यस्य इनि । ऋजीषिन्
गतसारसोमद्रव्यसम्प्रदाने देवे “इन्द्र! सोमं सोमपते पिबेमं
माध्यन्दिनं सवनं चारु यत्ते । प्रप्रुथ्या शिप्रे
मघयन्नृजीषिन्! विमुच्या हरी इह मादयस्व” ऋ० ३, ३२
१, ऋजीषशब्देन गतसारं सोमद्रव्यमुच्यते” भा० ।

ऋजु त्रि० अर्जयति गुणान् अर्ज्ज--कु नि० ऋजादेशः ।

१ प्रगुणे २ सरले अवक्रे । सरलस्य बहुगुणार्ज्जकत्वात तथा
त्वम् । स्त्रियां गुणवचनत्वात् वा ङीष् । “ऋज्वीर्दधा-
नैरवतत्य कन्धराः” माघः । “ऋज्वायताः स्नेहमिव
स्रवन्तीः” भट्टिः “उमां स पश्यन् ऋजुनैव चक्षुषा”
कुमा० “ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः” मनुः ते
दण्डाः । “ऋजवोदर्भाः” गोभि० सू० । नान्दीमुखादौ दैवे
पैत्रे च दर्भा ऋजवः कार्य्याः । “धर्मप्रधाना ऋजवः
पुत्रवन्तो धनान्विताः” या० । ततः वेदे बा० प्रकारे
धाच । ऋजुधा सरलप्रकारे अव्य० “यज्ञमेव तदृजुधा
प्रतिष्ठापयति” ऐत० । भावे पृथ्वा० इमनिच् ।
ॠजिमन् सारल्ये अकौटिल्ये पु० । भावे तल् । ऋजुता
तदर्थे स्त्री “ऋजुतां नयतः स्मरामि ते” कमा० । त्व ।
ऋजुत्व न० गुणवचनत्वात् अण् आर्ज्जव न० तत्रार्थे ।
४ अनुकूले ५ कल्याणे । “ऋजुहस्ता ऋजुवनिः” ऋ०
५, ४१, १५ । “ऋजुहस्तास्तदनुकूलहस्ता ऋजुवनिः कल्या-
णदाना” भा० । ६ शोभने च “धारवाकेष्वृजुगाथः” । ऋ० ५,
४४, ५ “ऋजुगाथ! शोभनस्तुतिकः” भा० । ७ वसुदेवपुत्रभेदे
पु० । “वसुदेवस्तु देवक्यामष्ट पुत्रानजीजनत् । कीर्त्तिमन्तं
सुघेणञ्च भद्रसेनमुदारधीः । ऋजुं संमर्द्दनं भद्रं सङ्कर्षणम-
हीश्वरम् । अष्टमस्तु तयोरासीत् स्वयमेव हरिः किल ।
सुभद्रा च महाभागा तव राजन्! पितामही” भाग०
९, २४, अ० २५, २६ । अजुत्वञ्च आर्ज्जवशब्दे ८०६ पृष्ठे
व्याख्यातम् वाक्यस्य तत्त्वञ्च स्पष्टार्थत्वम । “धर्मशास्त्र-
मृजुभिर्मिताक्षरैः” मिता० ।

ऋजुकाय पृ० ऋजुः कायोऽस्य । १ कश्यपमुनौ त्रिका०

२ अकुटिलदेहमात्रे त्रि० । “तस्मिन् स्वस्तिकमासीन
ऋजुकायः समभ्यसेत्” भाग० ३, २८, ९ ।

ऋजुग त्रि० ऋजु यथा तथा गच्छति गम ड । १ सरलव्यव-

ऋजुरोहित न० कर्म्म० । सरले इन्द्रधनुषीति केचित् वस्तुतः

“रोहितं रुधिरे प्रीक्तमृजुशक्रशरासने” विश्वोक्तेः
उतपातसूचके सरले इन्द्रधनुषि रोहितशब्दस्यैव वृत्तिः तेन
“इन्द्रायुधं शक्रधनस्तदेव ऋजु रोहितम्” अमरे “सन्तानश्च
धनुर्देवायुध तदृजु रोहितम्” हेमचन्द्रे च तदेव ऋजु
लेत रोहितमिति व्याख्यानात न बिशिष्टनामेत्यवधेयम् ।

ऋजुसर्प पु० कृष्णपर्पवत् नित्यसमा० । सुश्रुतोक्ते दर्व्वी-

करविशेषे सर्पभेदे । “तत्र दव्वींकरा इत्युपक्रम्य ऋजुसर्पः
श्वेतोदरो महाशिरा अलगर्द्दआशीविव” इति उक्तम् ।
पृष्ठ १४१६

ऋजूक पु० ऋज--बा० ऊकङ् । देशभेदे विपाशानदी-

जन्मभूमौ । ऋजूके भवा छण्--पृषो० । आर्जीकीया
तत्प्रभवायां विपाशायाम् “इमं मे गङ्गे! यमुने! सरस्वति!
शतद्रि! स्तोमं सचतां परुष्णया । आसिक्न्यामरुद्वृधे
“वितस्तयार्जीकीये! शृणुह्या सुषोमया” ऋ० १०, ७५, ५,
इमामुदाहृत्य निरुक्ते आह । “आर्जकीयां विपाड़ित्याहुः
अजूकप्रभवा ऋजगामिनी वा” तेन विपाशानद्युत्-
पत्तिस्थानमृजूक इति गम्यते ।

ऋजूकरण न० अनृजुः क्रियतेऽनेन ऋजु + अभूततद्भावे

च्वि + कृ--करणे ल्युट् । १ सरलतासम्पादनसाधने सुश्रु-
तोक्ते १ यन्त्रव्यापारभेदे । “यन्त्रकर्म्माणि तु निर्घातनपूरण-
बन्धनव्यपवर्त्तनचालनविवर्त्तनविवरणपीड़नमार्गविशोधन
विकर्षणाहरणोञ्छनोन्नमनविनमनभञ्जनोन्मथनाचूषणैषण
दारणर्ज्जूकरणप्रक्षालनप्रधावनप्रमार्जनानि चतुर्विंशतिः”
सुश्रु० । २ तथाभूतव्यापारमात्रे च ।

ऋजूयत् त्रि० अजु गच्छति ऋतुं गच्छति वा ऋजु +

अतु + -बा क्यच् ऋजूय--पृषो० तस्य जो वा शतृ । १
ऋजुगामिनि २ ऋतुगामिनि च “देवानां भद्रा सुमतिरृजूयतां
देवानां रातिरभि नो निवर्त्तताम्” ऋ० १, ८९, १, श्रुतिमा-
श्रित्य “ऋजूयतामृजुगामिनामृतुगामिनां वेति” निरुक्तम् ।

ऋज्र पु० ऋज--गत्यादिषु रन् नि० । १ नायके उज्ज्वल० ।

२ ऋजुगामिनि त्रि० । “स्यू मन्थू ऋज्रा वातस्याश्वा” ऋ० १,
१७४, ५ । “ऋज्रा ऋजुगामिनौ” भा० । “ऋज्रा वाजं
न गध्यम्” ऋ० ४, १६, ११ ।

ऋज्वी स्त्री ऋजु + स्त्रियां वा ङीष् । १ आर्ज्यववत्यां स्त्रियाम्

ऋजुशब्दे उदा० । सू० सि० उक्ते ग्रहाणां २ गतिभेदे ।
“वक्रानुवक्रा कुटिला मन्दा मन्दतरा समा । तथा
शीघ्रा शीघ्रतरा ग्रहाणामष्टधा गतिः । तत्रातिशीघ्रा
शीघ्राख्या मन्दा मन्दतरा समा । अज्वीति पञ्चधा
ज्ञेया या वक्रा सानुवक्रगा” सू० । “तत्राष्टविधगतिषु
अतिशोघ्रेत्यादिः समेत्यन्ता इत्येवं पञ्चधा गतिः ऋज्वी-
मार्गी गतिर्ज्ञेया या गतिः सानुवक्रगा अनुवक्रगमनेन
सह वर्त्तमाना पूर्ब्बश्लोकेऽऽनुवक्रगतेर्वक्रकुटिलमध्येऽभिधा-
नात् उभयासन्नत्वाच्च सानुवक्रा कुटिलेति गतिर्वक्रा
ज्ञेया तथा च ग्रहाणां मार्गी वक्रेति गतिद्वयम्” रङ्ग० ।

ऋञ्जसान पु० ऋजि--असानच् । मेघे उज्ज्वल० ।

ऋण गतौ तना० उभ० सक० सेट् । अर्ण्णोति ऋणोति, ऋणुते

आर्णीत् आर्णिष्ट । आनर्ण्ण आनृणतुः आनृणे । ऋणः ।

ऋण त्रि० ऋण--क । १ गन्तरि । “धवीयानृणो न तायुरति

धन्वा राट्” ऋ० ६, १२, ५ “ॠणः शीघ्रगन्ता” भा० “उष
ऋणेव यातय” १०, १२७, ७ । ऋ--क्त नि० । २ अवश्यदेये
(धार) अर्द्धर्चा० पुंन० । “ऋतावानश्चयमाना
ऋणानि” ऋ० २, २७, ४ । “ऋणानि स्तोतृभिरन्येभ्यो
देयानि” भा० । “पर ऋणा सावीरध मत्कृतानि” ऋ० २, २८
९ । “ऋणानि पित्रादिभिः कृतानि अस्माभिर्देयानि ।
अथ मत्कृतानि ऋणानि” भा० तच्च अवश्यशोध्यत्वेन
लौकिकमलौकिकञ्च । तत्र देवादित्रयाणां चतुर्ण्णां पञ्चानां
वा अवश्यशोध्यत्वादलौकिकर्णत्वम् अशोधने पापहेतु-
त्वात्तस्य तथात्वम् । ऋणानपक्रियाया उपपातकशब्दे उक्त-
शास्त्रेण पापहेतुत्वम् । “देवानाञ्च पितॄणाञ्च ऋषीणाञ्च
तथा नरः । ऋणवान् जायते यस्मात् तन्मोक्षे प्रयतेत्
सदा । देवानामनृणो जन्तुर्यज्ञैर्भवति मानवः । अल्प-
वित्तश्च पूजाभिरुपवासव्रतैस्तथा । श्राद्धेन प्रजया चैव
पितॄणामनृणो भवेत् । अषीणां व्रह्मचर्य्येण श्रुतेन तपसा
तथा” विष्णु धर्म्मो० पु० । “जायमानो वै ब्राह्म-
णस्त्रिभिरृणैरृणी भवति ब्रह्मचर्य्येण ऋषिभ्यो,
यज्ञेन देवेभ्यः, प्रजया पितृभ्यः” मिता० श्रुतिः । “न
च जातमात्रोऽकृतदाराग्निपरिग्रहोयज्ञादिष्वधिक्रियते ।
तस्मादधिकारी जायमानो ब्राह्मणादिर्यज्ञादीननुतिष्ठेत्”
मिता० । “ऋणानि त्रीण्यपाकृत्य मनोमोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानः पतत्यधः” ।
“महर्षिपितृदेवानां गत्वानृण्यं यथाविधि । पुत्रे सर्व्वं
समासज्य वसेन्माध्यस्थ्यमाश्रितः” मनुना क्रमेण चातु-
राश्रम्यपक्षमाश्रित्योक्तम् । यथा च ब्रह्मचर्य्यादेव प्रव्र-
ज्याधिकारस्तथा आश्रमशब्दे ८३९ पृ० उक्तम् ।
अवश्यदेयत्वेन चतुर्विधं पञ्चविधञ्चर्ण्णं दर्शितं भा०
आ० १२० अ० । “ऋणैश्चतुर्भिः संयुक्ता जायन्ते मानवा
भुवि । पितृदेवर्षिमनुजैर्देयं तेभ्यश्च धर्म्मतः” इत्युपक्रम्य
“यज्ञैस्तु देवान् प्रीणाति स्वाध्यायतपसा मुनीन् । पुत्रैः
श्वाद्धैः पितॄंश्चापि आनृशंस्येन मानवान्” “ऋणमु-
न्मुच्य देवानामृषीणाञ्च तथैव च । पितॄणामथ विप्राणाम-
तिथीनाञ्च पञ्चमम्” अनु० ३७ अ० । “ऋणाभिधानात्
स्वयमेव केवलं तदा पितॄणां मुमुचे स बन्धनात्”
“असह्यपीडं भगवन्नृणमन्त्यमवेहि मे” “नचोपलेभे पूर्वेषामृण
निर्मोक्षसाधनम्” रघुः । लोकिकमृणम् (धार) (कर्ज्ज)
पृष्ठ १४१७
ऋणादानशब्दे वक्ष्यते । ३ दुर्गे ४ भूमौ ५ जले च सि०
कौ० प्रवत्सरकम्बलवसनर्ण्णदशपूर्वकात् अस्यादेर्वृद्धिः
प्रार्णम् वत्सरार्ण्णं कम्बलार्ण्णं वसनार्ण्णम् दशार्ण्णो-
देशो दशार्ण्णा नदी । ऋणशोधनार्थमृणमृणार्ण्णम् । अङ्क-
शास्त्रोक्ते कुतश्चित् राश्यन्तरादवश्यं वियोज्यसंख्यान्विते
पदार्थे । तत्सूचकसंख्यायाः सजातीयेन विजातातीयेन
धनेन च योगवियोगादिक्रियादिकं वीजग० उक्तं यथा ।
“धनर्णसङ्कलने करणसूत्रं वृत्तार्द्धम् । योगे युतिः
स्यात् क्षययोःस्वयोर्वा धनर्णयोरन्तरमेव योगः । उदा० ।
रूपत्रयं रूपचतुष्टयं च क्षयं धनं वा सहितं वदाशु ।
स्वर्णं क्षयं स्वं च पृथक् पृथङ्मे धनर्णयोः सङ्कलनाम-
वैषि । अत्र रूपाणामव्यक्तानां चाद्याक्षराण्युपलक्षणार्थं
लेख्यानि । यानि ऋणगतानि तान्यूर्द्धविन्दूनि । न्यासः
रू ३ं रू ४ं योगे जातं रू ७ं न्यासः रू ३ रू ४ योगे
जातं रू ७ । न्यासः रू ३ रू ४ं योगे जातं रू १ं ।
न्यासः रू ३ं सू ४ योगे जातं रू १ । एवं विभिन्नेष्वपि ।
धतर्णव्यवकलने करणसूत्रं वृत्तार्द्धम् । संशोध्यमानं
स्वमृणत्वमेति स्वत्वं क्षयस्तद्युतिरुक्तवच्च । उदा० त्रयाद्द्वयं
स्वात् स्वमृणादृणं च व्यस्तं च संशोध्य वदाशु शेषम् । न्यासः
रू ३ रू २ अन्तरे जातं रू १ । न्यासः रू ३ं रू २ं
अन्तरे जातं रू १ं । न्यासः रू ३ रू २ं अन्तरे जातं
रू ५ न्यासः रू ३ं रू २ अन्तरे जातं रू ५ं ।
गुणनभागे करणसूत्रं वृत्तार्द्धम् । स्वयोरस्वयोःखं बधः
स्वर्ण्णधाते क्षयोभागहारेऽपि चैवं निरुक्तम् । उदा० ।
धनं धनेनर्णमृणेन निघ्नं द्वयं त्रयेण स्वमृणेन किं स्यात् ।
न्यासः रू २ रू ३ धनं धनघ्नं धनं स्यादिति । रू ६ ।
न्यासः रू २ं रू ३ं ऋणमृणघ्नं धनं स्यादिति जातं
रू ६ । न्यासः रू २ रू ३ं धनमृणगुणमृणं स्यादिति
जातं रू ६ं । न्यासः रू २ं रू ३ ऋणं धनगुणमृणं स्या-
दिति जातं रू ६ं । इति धनर्णगुणनम् ।
भागहारेऽपि चैवं निरुक्तमिति । उदा० । रूपा-
ष्टकं रूपचतुष्टयेन धनं धनेनर्णमृणेन भक्तम् । ऋणं
धनेन स्वमृणेन किं स्याद्द्रुतं वदेदं यदि बोबुधीषि ।
न्यासः रू ८ रू ४ धनं धनहृतं धनं स्यादिति जातं
रू २ । न्यासः रू ८ं रू ४ं ऋणमृणहृतं धनं स्यादिति
जातं रू २ । न्यासः रू ८ं रू ४ ऋणं धनहृतम् ऋणं
स्यादिति जातं रू २ं । न्यासः रू ८ रू ४ं धनमृण-
हतमृणं स्यादिति जातं रू २ं । इति धनर्णभागहारः ।
वर्गमूलयोः करणसूत्रं वृत्तार्द्धम् । कृतिः स्वर्णयौःस्वं स्वमूले
धनर्णे न मूलं क्षयस्यास्ति तस्याकृतित्वात् । उदा० ।
धनस्य रूपत्रितयस्य वर्गः क्षयस्य च ब्रूहि सखे ममाशु ।
न्यासः रू ३ रू ३ं जातौ वर्गौ रू ९ रू ९ । धनात्मका-
नामधनात्मकानां मूलं नवानां च पृथग्वदाशु । न्यासः रू
९ मूलं रू ३ वा रू ३ं । न्यासः रू ९ं एषामवर्गत्वा-
न्मूलं नास्ति । इति धनर्णवर्गमूले ।
खसङ्कलव्यवकलने करणसूत्रं वृत्तार्द्धम् । खयोगे
वियोगे धनर्णं तथैव च्युतं शून्यतस्तद्विपर्य्यासमेति । उदा०
रूपत्रयं स्वं क्षयगं च खं च किं स्यात् खयुक्तं वद
खाच्च्युतं च । न्यासः रू ३ रू ३ं रू० एतानि खयुतान्य-
विकृतान्येव । रू ३ रू ३ं रू० एतानि खाच्च्युतानि रू
३ं रू ३ विप्रर्य्यस्तानि” ।
“छेदं गुणं गुणं छेदं वर्गं मूलं पदं कृतिम् । ऋणं स्वं
स्वमृणं कुर्य्याद्दृश्ये राशिप्रसिद्धये” लीला० ।

ऋणकाति त्रि० ऋणवदवश्यफलप्रदा कातिः स्तुतिर्यस्य ।

अवश्यफलदायकस्तुतिशालिनि “सासहिमृणकातिमदा-
भ्यम्” ऋ० ८, ६१, १२ । ऋणकातिः ऋणवदवश्यफल-
प्रदस्तुतिकः भा० ।

ऋणञ्चय पु० नृ पभेदे “ऋणञ्चयस्य प्रयता मघानि” ऋ० ५,

३०, १२, “ऋणञ्चयस्यैतन्नामकस्य राज्ञः” भा० ऋणञ्चये
राजनि रुशमानाम्” ऋ० ५, ३०, १४ ।

ऋणचित् पु० ऋणमिव चिनोति चि--क्विप् । ऋणस्येव

स्तोतृकामस्याधायके यजमाने । “स ऋणचिदृणया ब्रह्मण-
स्पतिः” ऋ० २, २३, १७ । ऋणचित् स्तोतृकाममृणमिव
चिनोति” भा० ।

ऋणदास पु० ऋणात् मोचनेन कृतोदासः । दासभेदे ।

“गृहजातस्तथा क्रीतो लब्धोदायादुपागतः । अनाकाल-
मृतस्तद्वदाहितः स्वामिना च यः । मोक्षितो महतश्च-
र्णाद्युद्धे प्राप्तः पणे जितः । तवाहमित्युपगतः प्रब्रज्या-
वसितः कृतः । भक्तदासश्च विज्ञेयस्तथैव बडवाहृतः ।
विक्रेता चात्मनःशास्त्रे दासाःपञ्चदश स्मृताः” नारदः ।
“गृहे दास्याञ्जातो गृहजातः । क्रीतोमूल्येन, लब्धः प्रति-
ग्रहादिना । दायादुपागतः पित्रादिदासः । अनाका-
लभृतोदुर्भिक्षे यो दासत्वाय मरणाद्रक्षितः । आहितः
खामिना धनग्रहणेनाधितां नीतः । ऋणमोचनेन
दासत्वमभ्युपगतः ऋणदासः” मिता० ।
पृष्ठ १४१८

ऋणमत्कुण पु० ऋणं परकृतर्णं ममैवेति कुणति कुण--क

सुप्सुपेति स० । प्रतिभुवि (जामिन्) शब्दर० । स हि
परकीयर्णस्य मदीयत्वेन ख्यापयतीति तस्य तथात्वम् ।

ऋणमार्गण पु० ऋणं मार्गयते परर्णं स्वगतत्वेन प्रार्थयते

मार्ग--ल्यु ६ त० । (जामिन) प्रतिभुवि हारा० ।

ऋणमुक्ति स्त्री ऋणान्मुच्यतेऽनया मुच--करणे क्तिन् ।

ऋणशोधने त्रिका० । ॠणमोक्षोऽप्यत्र हारा० ।

ऋणमोचन न० ऋणात् मोचयति मुच--णिच्--ल्यु ५ त० ।

काशीस्थे तीर्थभेदे काशीखण्डे प्रसिद्धम् ।

ऋणलेख्य न० ऋणसूचकं लेख्यं लेखपत्रम् । ऋणग्रहण-

सूचके व्यवहारोपयोगिनि (स्वत) (तमःसुक) इत्यादि
प्रसिद्धे पत्रभेदे । तल्लेखनप्रकारादि मिता० दर्शितं
यथा “तत्र लेख्यं द्विबिधं शासनं जानपदं चेति ।
शासनं निरूपितं जानपदमभिधीयते । तच्च द्विविधम्
स्वहस्तकृतमन्यकृतं चेति । तत्र स्वहस्तकृतमसाक्षिकम्,
अन्यकृत ससाक्षिकम् । अनयोश्च देशाचारानुसारेण
प्रामाण्यम् यदाह नारदः । “लेख्यन्तु द्विविधं
ज्ञेयं स्वहस्तान्यकृतं तथा । असाक्षिमत्साक्षिमच्च सिद्धि-
र्द्देशस्थितेस्तयोरिति” तत्रान्यकृतमाह । “यः कश्चिद-
र्थोनिष्णातः स्वरुच्या तु परस्परम् । लेख्यन्तु साक्षिमत्
कार्यं तस्मिन् धनिकपूर्वकम्” या० । धनिकाधमर्णयोर्योऽर्थो
हिरण्यादिः परस्परं स्वरुच्या इयता कालेनैतावद्देयमि-
तीयती च प्रतिमासं वृद्धिरिति निष्णातो व्यवस्थितः
तस्मिन्नर्थे कालान्तरे विप्रतिपत्तौ वस्तुतत्त्वनिर्णयार्थं लेख्यम्
साक्षिमदुक्तलक्षणसाक्षियुक्तम् धनिकं पूर्वो यस्मिन्
तद्धनिकपूर्वकम् धनिकनामलेखनपूर्वकमिति यावत्
कार्यं कर्त्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्त्तव्याः
“कर्त्रा तु यत्कृतं कार्यं सिद्ध्यर्थन्तस्य साक्षिणः । प्रवर्त्तन्ते
विवादेषु स्वकृतं वाप्यलेखकमिति” स्मरणात् । अपि च
“समामासतदर्द्धाहर्नामजातिस्वगोत्रकैः । सब्रह्मचारिका-
त्मीयपितृनामादिचिह्नितम्” या० समा संवत्सरः मासः
चैत्रादिस्तदर्द्धः पक्षः शुक्लः कृष्णी वा अहस्तिथिः प्रति-
पदादिः । नाम धनिकाधमर्णयोः । जातिः ब्राह्मणादिः
स्वगोत्रं वाशिष्ठादिगोत्रमेतैः समादिभिश्चिह्नितम् । तथा
सब्रह्मचारिकं बह्वृचादिशाखाप्रयुक्तं गुणनाम बह्वृचः
कठ इति । आत्मीयपितृनाम धनिकर्णिकपितृनाम ।
आदिग्रहणाद्द्रव्य जाति संख्याचारादेर्ग्रहणम् । एतेश्चि-
ह्नितं लेख्यं कार्यमिति गतेन सम्बन्धः । किञ्च “समाप्तेऽर्थे
ऋणी नाम स्वहस्तेन निवेशयेत् । मतं मेऽसुकपुत्रस्य यद-
त्रोपरि लेखितम्” या० धनिकाधमर्णयोर्योऽर्थः स्वरुच्या
व्यवस्थितः तस्मिन्नर्थे समाप्ते लिखिते ऋणी अधमर्णोना-
मात्मीयं स्वहस्तेनास्मिँल्लेख्ये यदुपरि लेखितं तन्ममामुक-
पुत्रस्य मतमभिप्रेतमिति निवेशयेत् पत्रे विलिखेत् ।
तथा “साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् । अत्राहम-
मुकः साक्षी लिखेयुरिति ते समाः” या० । तस्मिन् लेख्ये ये
साक्षिणो लिखिताः तेऽप्यात्मीयपितृनामलेखनपूर्वकमस्मि-
न्नर्थे अहममुको देवदत्तः साक्षीति स्वहस्तेनैकैकशो
लिखेयुस्ते च समाः संख्यातो गुणतश्च कर्त्तव्याः । यद्यधमर्णः
साक्षी वा लिपिज्ञो न भवति तदाऽधमर्णोऽन्येन साक्षी च
साक्ष्यन्तरेण सर्वसाक्षिसन्निधौ स्वमतं लेखयेत् ।
यथाह नारदः “अलिपिज्ञ ऋणी यः स्यात् स्वमतं तु स
लेखयेत् । साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः”
इति अपि च “उभयाभ्यर्थितेनैतन्मयाह्यमुकसूनुना ।
लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत्” या० । ततो
लेखको धनिकाधमर्णिकाभ्यामुभाभ्यां प्रार्थितेन मयाऽ-
मुकेन देवदत्तेन विष्णुमित्रसूनुना एतल्लेख्यं लिखित-
मित्यन्ते लिखेत्” साम्प्रतं स्वकृतं लेख्यमाह । “विनापि
साक्षिभिर्ल्लेख्यं स्वहस्तलिखितं तु यत् । तत्प्रमाणं स्मृतं
लेख्यं बलोपधिकृतादृते” या० । यल्लेख्यं स्वहस्तेन लिखितं
अधमर्णेन तत् साक्षिभिर्विनापि प्रमाणं स्मृतं मन्वा-
दिभिः । बलोपधिकृतादृते । बलेन बलात्कारेण,
उपधिना छललोभक्तोधभयमदादिलक्षणेन यत्कृतं तस्माद्वि-
ना । नारदोऽप्याह “मत्ताभियुक्तस्त्रीबालबलात्कार-
कृतं च यत् । तदप्रमाणं लिखितं भयोपधिकृतन्तथेति” ।
तच्चैतत् स्वहस्तकृतं परहस्तकृतञ्च यल्लेख्यं देशाचारानु-
सारेण सबन्धकव्यवहारे बन्धकव्यवहारयुक्तमर्थक्रमापरि-
लोपेन लिप्यक्षरापरिलोपेन च लेख्यमित्येतावन्न पुनः
साधुशब्दैरेव प्रातिस्विकदेशभाषयापि लेखनीयम्
यथाह नारदः “देशाचाराविरुद्धं यद्व्यक्ताधिविधिलक्ष-
णम् । तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरमिति” ।
विधानं विधिराधेर्विधिराधीकरणन्तस्य लक्षणम्
गोप्याधिभोग्याधिकालकृतमित्यादि तद्व्यक्तं विस्पष्ट
यस्मिंस्तद्व्यक्ताधिविधिलक्षणम् । अविलुप्तक्र माक्षरम्
अर्थानां क्रमः क्रमश्चाक्षराणि च क्रमाक्षराणि अविलुप्ता-
नि क्रमाक्षराणि यस्मिंस्तटविलुप्तक्रमाक्षरम् । तदेवं
भूतं लिखितं प्रमाणम् । राजशासंनवन्न साधुशब्दनिय-
मोऽत्रेत्यभिप्रायः । लेख्यप्रसङ्गेन लेख्यारूढमप्यृणं त्रिभि-
पृष्ठ १४१९
रेव देयमित्याह “ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु ।
यथा साक्ष्यादिकृतमृणं त्रिभिरेव देयम् तथा लेख्यकृ-
तमप्याहर्तृपुत्रतत्पुत्रैस्त्रिभिरेव देयम् । न चतुर्थादि-
भिरिति नियम्यते । ननु पुत्रपौत्रैरृणन्देयमित्यविशे-
षेणर्ण्णमात्रं त्रिभिरेव देयमिति नियतमेव । बाढम-
स्यैवोत्सर्गस्य पत्रारूढर्णविषये स्मृत्यन्तरप्रभबामपवाद
शङ्कामपनेतुमिदं वचनमारब्धम् । तथा हि पत्रलक्षण-
मभिधाय कात्यायनेनाभिहितम् “एवं कालमतिक्रान्तं
पितॄणां दाप्यते ऋणमिति” । इत्थं पत्रारूढमतिक्रान्त-
कालमपि पितॄणां सम्बन्धि दाप्यते । अत्र पितॄणा-
मिति बहुवचननिदशात् कालमतिक्रान्तमिति वचना-
च्चतुर्थादिर्दाप्यत इति प्रतीयते । तथा हारीतेनापि
“लेख्यं यस्य भवेद्धस्ते लाभन्तस्य विनिर्दिशेदिति” । अत्रापि
यस्य हस्ते पत्रमस्ति तस्यर्ण्णलाभ इति साभान्येन चतुर्था-
दिभ्योप्यृणलाभोऽस्तीति प्रतीयते । अतश्चैतदाशङ्कानि
वृत्त्यर्थम् एतद्वचनमिति युक्तम् । वचनद्वयन्तु योगीश्वरवच-
नानुसारेण योजनीयम् । अस्यापवादमाह “आधिस्तु
भुज्यते तावद्यावत्तन्न प्रदीयते” । सबन्धकेऽपि पत्रारूढे
ऋणे त्रिभिरेव देयमिति नियमादृणापकरणानधिकारेणा-
ऽऽध्याहरणेऽप्यनधिकारप्राप्ताविदमुच्यते । यावच्चतुर्थेन
पञ्चमेन वा ऋणं न दीयते तावदेवाधिर्भुज्यत इति वदता
सबन्धकर्ण्णापाकरणे चतुर्थादेरप्यधिकारो दर्शितः । नन्वे-
तदप्ययुक्तमेव । “फलभोग्यो न नश्यतीति” सत्थम् । तदप्ये
तस्मिन्नसत्यपवादवचने पुरुषत्रयविषयमेव स्यादिति
सर्वमनवद्यम् । प्रसिङ्गिकं परिसमाप्य प्रकृतमेवानुसरति ।
“देशान्तरस्थे दुर्ल्लेख्ये नष्टोन्मृष्टे हृते तथा । भिन्ने दग्धे-
ऽथवा छिन्नेलेख्यमन्यत्तु कारयेत्” या० । व्यवहाराक्षमे पत्रे
पत्रान्तरं कुर्यादिति विधीयते । व्यवहाराक्षमत्वं
चात्यन्तव्यवहितदेशान्तरस्थे पत्रे दुर्ल्लेख्ये दुष्टानि सन्दि-
ह्यमानानि अवाचकानि वा लेख्यानि लिप्यक्षराणि
पदानि वा यस्मिंस्तस्मिन् दुर्ल्लेख्ये नष्टे कालवशेन, उन्मृष्टे
मसीदौर्बल्यादिना, मृदिते लिप्यक्षरे, हृते तस्करादिभिः,
भिन्ने विदलिते, दग्धे अग्निना, छिन्ने द्विधाभूते सति द्वि-
र्भवति । एतच्चार्थिप्रत्यर्थिनोः परस्परानुमतौ सत्यां विमत्या-
न्तु व्यवहारप्राप्तौ देशान्तरस्थपत्रानयनाध्वापेक्षया
कालोदातव्यः दुर्देशावस्थिते नष्टे वा पत्रे साक्षिभि-
रेव व्यवहारनिर्ण्णयः कार्यः । यथा ह नारदः “लेख्ये
देशान्तरन्यस्ते शीर्ण्णेदुर्ल्लिखिते हृते । सतस्तत्कालक-
रणमसतोद्रष्टृदर्शनमिति” । सतो विद्यमानपत्रस्य देशान्तर-
स्थस्यानयनाय कालकरणं कालावधिर्दातव्यः असतः
पुनरविद्यमानस्य पत्रस्य पूर्वं ये द्रष्टारः साक्षिणस्तैर्दर्शनं
व्यवहारपरिसमापनं कार्यम् । यदा तु साक्षिणो न
सन्ति तदा दिव्येन निर्ण्णयः कार्यः । “अलेख्यसाक्षिके
दैवीं व्यवहारे विनिर्दिशेदिति” स्मरणात् । एतच्च
जानपदं व्यवस्थापत्रं सन्दिग्धं चेत् स्वहस्तलिखितादिभिः
शोधनीयम् “सन्दिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखितादिभिः
क्तिप्राप्तिक्रियाचिह्न संबन्धागमहेतुभिः” या० उक्तेः ।

ऋणादान न० ऋणमादीयते यत्र । स्मृत्युक्ते अष्टादशविवा-

दान्तर्गते व्यवहारभेदे “तेषामाद्यमृणादानमित्यादीनि
अष्टादश व्यवहारपदानि मनुना दर्शितानि । तल्लक्ष-
णादि नारदादिवाक्येन मिता० दर्शितं यथा
“अधुनाष्टादशानां व्यवहारपदानामाद्यमृणादानपदं
दर्शयति । “अशीतिभागो वृद्धिः स्यादित्यादिना मोच्य
आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने” इत्येवमन्तेन । तच्चार्णा-
दानं सप्तबिधम् । ईदृशमृणन्देयमीदृशमदेयमनेनाधि-
कारिणा देयमस्मिन् समये देयमनेन प्रकारेण देयमित्यध-
मर्णे पञ्चविधमुत्तमर्णे दानविघिरादानविधिश्चेति द्विवि-
धमिति । एतच्च नारदेन स्यष्टीकृतम् “ऋणन्देयमदेयञ्च
येन यत्र यथा च यत् । दानग्रहणधर्मश्च ऋणादान-
मिति स्मृतमिति” तत्र प्रथममुत्तमर्णस्य दानबिधिमाह
तत्पूर्वकत्वादितरेषाम् । “अशीतिभागो वृद्धिः स्यान्मा-
सिमासि सबन्धके । वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकम-
न्यथा” या० “मासिमासि प्रतिमासं विश्वासार्थं यदाधीयते
आधिरिति यावत् बन्धकेन सह वर्त्तत इति सबन्धकः
प्रयोगस्तस्मिन् सबन्धके प्रयोगे प्रयुक्तस्य द्रव्यस्याशीतित-
मोभागो वृद्धिर्द्धर्म्या भवति । अन्यथा बन्धकरहिते
प्रयोगे वर्णानां ब्राह्मणादीनां क्रमेण द्वित्रिचतुःपञ्चकं शतं
धर्म्यं भवति । ब्राह्मणेऽधमर्णे द्विकं शतम्, क्षत्रिये त्रिकं,
वैश्ये चतुष्कं, शूद्रे पञ्चकं, मासिमासीत्येव । द्वौ वा त्रयो
वा चत्वारो वा पञ्च वा द्वित्रिचतुःपञ्चाः द्वित्रिचतुःपञ्चा
अस्मिन् शते वृद्धिर्द्दीयते इति द्वित्रिःचतुपञ्चकं शतम् ।
“तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते इति (पा०) कन् ।
इयं वृद्धिर्मासिमासि गृह्यत इति कालिका । इयमेव
वृद्धिर्द्दिवसगणनया विभज्य प्रतिदिवसं गृह्यमाणा कायिका-
भवति तथा च नारदेन । “कायिका कालिका चैव कारिता
च तथाऽपरा । चक्रवृद्धिश्च शास्त्रेषु तस्य वृद्धिश्चतुर्विधा”
पृष्ठ १४२०
इत्युक्त्वोत्तम् “कायाविरोधिनी शश्वतणपादादिः कायिका ।
प्रतिमासं स्रवन्ती या वृद्धिस्सा कालिका मता । वृद्धिःसा
कारिता नाम यर्णिकेन स्वयं कृता । वृद्धेरपि पुनर्वृद्धि-
श्चक्रवृद्धिरुदाहृतेति” । गृहीतृविशेषेण वृद्धेः प्रकारा-
न्तरमाह । “कान्तारगास्तु दशकं सामुद्रा विंशकं शतम्”
या० । कान्तारमरण्यन्तत्र गच्छन्तीति कान्तारगाः ये
वृद्ध्या धनं गृहीत्वाधिकलाभार्थमतिगहनं प्राणधनवि-
नाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दद्युः । ये च
समुद्रगास्ते विंशकं शतं मासिमासीत्येव । एतदुक्तम्भवति
कान्तारगेभ्यो दशकं शतं सामुद्रेभ्यश्च विंशकं शतम् उत्त-
मर्ण आदद्यात् मूलविनाशस्यापि शङ्कितत्वात् इति ।
इदानीं कारितां वृद्धिमाह । “दद्युर्वा स्वाकृतां वृद्धिं
सर्वे सर्वासु जातिषु” या० । “सर्व्वे ब्राह्मणादयोऽधमर्णा
अबन्धके सबन्धके वा स्वकृतां स्वाभ्युपगतां वृद्धिं सर्वासु
जातिषु दद्युः । क्वचिदकृतापि वृद्धिर्भवति यथाह
नारदः “न वृद्धिः प्रीतिदत्तानां स्यादनाकारिता
क्वचित् । अनाकारितमप्यूर्द्धं वत्सरार्द्धाद्विवर्द्धत” इति । यस्तु
याचितकं गृहीत्वा देशान्तरं गतस्तं प्रति कात्यायनेनो-
क्तम् । “यो याचितकमादाय तददत्त्वा दिशं व्रजेत् । ऊर्द्ध्वं
संवत्सरात्तस्य तद्धकं वृद्धिमाप्नुयादिति” यश्च याचितक-
मादाय याचितोऽप्यदत्त्वा देशान्तरं याति तम् प्रति
तेनैवोक्तम् । “कृतोद्धारमदत्त्वा यो याचितस्तु दिशं व्रजेत् ।
ऊर्द्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिमाप्नुयादिति” यः पुनः
स्वदेशे स्थित एव याचितो याचितकं न ददाति तं याच
नकालादारभ्य वृद्धिं दाषयेद्राजा । यथा ह “स्वदे-
शेऽपि स्थितो यस्तु न दद्याद्याचितः क्वचित् । तन्ततोऽ-
कारितां वृद्धिमनिच्छन्तं च दापयेदिति” । अनाकारित
वृद्धेरपवादो नारदेनोक्तः “षण्यमूल्यम्भृतिर्न्यासोद-
ण्डोयश्च प्रकल्पितः । वृथादानाक्षिकपणा वर्द्धन्ते नाविव-
क्षिताः” । अविवक्षिता अनाकारिता इति । अधुना
द्रव्यविशेषे वृद्धिविशेषमाह । “सन्ततिस्तु पशुस्त्रीणाम्” या०
“पशूनां स्त्रीणां सन्ततिरेव वृद्धिः पशूनां स्त्रीणा म्पोषणा-
समर्थस्य तत्पुष्टिसन्ततिकामस्य प्रयोगः सम्भवति ।
ग्रहणञ्च क्षीरपरिचर्यार्थिनः । अधुना प्रयुक्तस्य द्रव्यस्य
वृद्धिग्रहणमन्तरेण चिरकालावस्थितस्यकस्य द्रव्यस्य
कियती परा वृद्धिरित्यपेक्षिते आह “रसस्याष्टगुणा परा ।
वस्त्रधान्यहिरण्यानाञ्चतुस्त्रिद्विगुणा परा” या० । “रसस्य
तैलघृतादेर्वृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य स्वकृतया
वृद्ध्या वर्द्धमानस्याष्टगुणा वृद्धिः परा नातः परं वर्द्धते ।
तथा वस्त्रधान्यहिरण्यानां यथासंख्यं चतुर्गुणाः त्रिगुणा-
द्विगुणा च वृद्धिः परा । वसिष्ठेन तु रसस्य त्रैगुण्यमुक्तम्
“द्विगुणं हिरण्यं त्रिगुणं धान्यम् धान्येनैव रसा व्या-
ख्याताः पुष्पमूलफलानि च तुलाधृतं त्रितयमष्टगु-
णमिति” । मनुना तु धान्यस्य पुष्पमूलफलादीनाञ्च पञ्च-
गुणत्वमुक्तम् । “धान्ये शदे लवे वाह्ये नातिक्रामति पञ्च-
तामिति” शदः क्षेत्रफलं पुष्पमूलफलादि । लवोमेषोर्णा
चमरीकेशादि । वाह्योवलीवर्दतुरगादिः । धान्यशदलव-
वाह्यविषया वृद्धिः पञ्चगुणत्वन्नातिक्रामतीति । तत्राधमर्ण-
योग्यतावशेन दुर्भिक्षादिकालवशेन च व्यवस्था द्रष्टव्या ।
एतच्च सकृत्प्रयोगे सकृदाहरणे च वेदितव्यम् । पुरु-
षान्तरसङ्क्रमणेन प्रयोगान्तरकरणे तस्मिन्नेव वा पुरुषे
अनेकशः प्रयोगान्तरकरणे सुवर्णादिकं द्वेगुण्याद्यतिक्रम्य
पूर्ववद्वर्द्धते । सकृत्प्रयोगेऽपि प्रतिदिनम् प्रतिमासम्प्रति
वत्सरं वा वृद्ध्याहरणेऽधमर्णदेयस्य द्वैगुण्यसम्भवात्
पूर्वाहृतवृद्ध्या सह द्वैगुण्यमतिक्रम्य वर्द्धत एव यथाह
मनुः “कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता” ।
सकृदाहितेत्यपि पाठोऽस्ति । उपचयार्थं प्रयुक्तं द्रव्यं कुसी-
दन्तस्य वृद्धिः कुसीदवृद्धिर्द्वैगुण्यं नात्येति नातिक्रा-
मति यदि सकृदाहिता सकृत्प्रयुक्ता पुरुषान्तरसंक्रम-
णादिना प्रयोगान्तरकरणे द्वैगुण्यमत्येति । सकृदाहृते
ति पाठे शनैः प्रतिदिनम्प्रतिमासं प्रतिवत्सरं वाऽधम-
र्णादाहृता द्वैगुण्यमत्येतीति व्याख्येयम् । तथा
गौतमेनाप्युक्तम् “चिरस्थाने द्वैगुण्यम् प्रयोगस्येति”
प्रयोगस्येत्येकवचननिर्देशात् प्रयोगान्तरकरणे द्बैगुण्याति-
क्रमोऽभिप्रेतः । चिरस्थान इति निर्देशाच्छनैः शनैर्वृद्धे-
र्ग्रहणे द्वैगुण्यातिक्रमोदर्शितः । ऋणप्रयोगधर्मा उक्ताः
साम्प्रतम् प्रयुक्तस्य धनस्य ग्रहणधर्मा उच्यन्ते । “प्रपन्नं
साधयन्नर्थं न वाच्यो नृपतेर्भवेत् । साध्यमानोनृपङ्गच्छन्
दण्ड्योदाप्यञ्च तद्धनम्” या० । प्रपन्नमभ्युपगतमधमर्णेन धनं
साक्ष्यादिभिर्भावितं साधयन् प्रत्याहरन् धर्मादिभिरुपायैः
उत्तमर्णी नरपतेर्न वाच्योनिवारणीयो न भवति । धर्मा-
दयश्चोपाया मनुना दर्शिताः । “धर्मेण व्यवहारेण, छलेना-
चरितेन च । प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन चेति”
धर्मेण प्रीतियुक्तेन सामवचनेन, व्यवहारेण साक्षिलेखाद्यु-
पायेन, छलेन उत्सवादिव्याजेन भूषणादेर्ग्रहणेन, आचरि-
तेन अभोजनेन । पञ्चमेनोपायेन बलेन निगटबन्धबादिना
पृष्ठ १४२१
उपचयार्थं प्रयुक्तं द्रव्यमेतैरुपायैरात्मसात्कुर्य्यादिति ।
प्रपन्नं साधयन्नथं न वाच्य इति वदन्नप्रतिपन्नं साधयन्
राज्ञा निवारणीय इति दर्शयति । एतदेव स्पष्टीकृतङ्कात्या-
यनेन “पीड़येद्योधनी कञ्चिदृणिकं न्यायवादिनम् । तस्मा-
दर्थात् स हीयेत तत्समं प्राप्नुयाद्दममिति” । यस्तु धर्मादि-
भिरुपाथैः प्रपन्नमर्थं साध्यमानो याच्यमानो नृपं गच्छेत् ।
राजानमभिगम्य साधयन्तमभियुङ्क्ते स दण्ड्यो भवति
शक्त्यनुसारेण । धनिने तद्धनन्दाप्यञ्च । राज्ञा दापने च
प्रकारादर्शिताः “राजा तु स्वामिने विप्रं सान्त्वेनैव प्रदा-
पयेत् । देशाचारेण चान्यांस्तु दुष्टान् सम्पीड्य दापयेत् ।
रिक्थिनं सुहृदं वापि छलेनैव प्रदापयेदिति” या० ।
साध्यमानो नृपङ्गच्छेदित्येतत् स्मृत्याचारव्यपेतेनेत्यस्य
प्रत्युदाहरणं बोद्धव्यम् । बहुषूत्तमर्णिकेषु युगपत्प्राप्ते-
म्बेकोऽधमर्णिकः केन क्रमेण दाप्योराज्ञेत्यपेक्षित आह!
“गृहीतानुक्रमाद्दाप्योधनिनामधमर्णिकः । दत्त्वा तु
ब्राह्मणायैव नृपतेस्तदनन्तरम्” या० । समानजातीयेषु येनैव
क्रमेण धनं गृहीतन्तेनैव क्रमेणाधमर्णिको दाप्योराज्ञा,
भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण । यदा तु पुनरुत्त-
मर्णो दुर्बलः प्रतिपन्नमर्थन्धर्मादिभिरुपायैः साधयितु
मशक्नुवन् राज्ञा साधितार्थोभवति तदाऽधमर्णस्य दण्ड-
सुत्तमर्ण्णस्य च भृतिदानमाह “राज्ञाऽधमर्णिकोदाप्यः
साधिताद्दशकं शतम् । पञ्चकञ्च शतन्दाप्यः प्राप्तार्थोह्यु-
त्तमर्णिकः” या० । “अधमर्णिकोराज्ञा प्रतिपन्नार्थात्साधि-
ताद्दशकं शतं दाप्यः” पतिपन्नस्य साधितस्यार्थस्य
दशमगंशं राजाधमर्णिकाद्दण्डरूपेण गृह्णीयादित्यर्थः ।
उत्तमर्णिकस्तु प्राप्तार्थः पञ्चकं शतं भृतिरूपेण दाप्यः
साधितस्यार्थस्य विंशतितमम्भागम् उत्तमर्ण्णाद्राजा-
भृत्यर्थं गृह्णीयादित्यर्थः । अप्रतिपन्नार्थसाधने तु दण्ड-
विभागो दर्शितः “निह्नवे भावितोदद्यात्” इत्यादिना ।
सधनमधमर्णिकम्प्रत्युक्तमधुना निर्द्धनमधमर्णिकम्प्रत्याह ।
“हीनजातिम्परिक्षीणमृणार्थं कर्म कारयेत् । ब्राह्मणस्तु
षरिक्षीणः शनैर्द्दाप्यो यथोदयम्” या० । ब्राह्मणादिजाति-
रुत्तमर्ण्णो हींनजातिं क्षत्रियादिम्परिक्षीणं निर्द्धनमृ-
णार्थमृणनिवृत्त्यर्थं कर्म्म स्वजात्यनुरूपं कारयेत्तत्कुदु-
म्बाविरोधेन । ब्राह्मणः पुनः परिक्षीणो निर्द्धनः
शनैर्यथोदयं यथासम्भवमृणन्दाप्यः । अत्र हीनजाति-
ग्रहणं समजातेरप्युपलक्षणमतश्च समजातिमपि परिक्षीणं
यथोचितं कर्म्म कारबेत् । ब्राह्मणग्रहणं च श्रेयोजाते
रुपलक्षणमतश्च क्षत्रियादिरपि क्षीणो वैश्यादेःशनैःशनै
र्द्दाप्योयथोदयम् एतदेव स्पष्टीकृतं मनुना “कर्म्मणापि
समङ्कुर्य्याद्धनिकेनाधमर्ण्णिकः । समाऽपकृष्टजातिश्च दद्य-
च्छ्रेयांस्तु तच्छनैरिति” । उत्तमर्ण्णेन समं निवृत्तोत्त-
मर्ण्णाधमर्ण्णव्यपदेशमात्मानमधमर्णः कर्म्मणा कुर्य्या-
दित्यर्थः । किञ्च “दीयमानं न गृह्णाति प्रयुक्तं यः
स्वकन्धनम् । मध्यस्थस्थापितं तत्स्याद्वर्द्धते न ततः परम्” या०
उपचयार्थं दत्तं धनमधमर्ण्णेन दीयमानमुत्तमर्णोवृद्धिलो-
भाद्यदि न गृह्णाति तदाऽधमर्ण्णेन मध्यस्थहस्ते स्थापित
स्यात्तदा ततःस्थापनादूर्द्धन्न वर्द्धते । अथ स्थापितमपि
याच्यमानो न ददाति ततः पूर्ब्बवद्वर्द्धत एव ।
इदानीन्देयमृणं यदा येन च देयन्तदाह । “अविभक्तै
कुटुम्बार्थे यदृणन्तु कृतम्भवेत् । दद्युस्तद्वक्थिनः प्रेते
प्रोषिते वा कुटुम्बिनि” या० अविभक्तैर्बहुभिः कुटु-
म्बार्थमेकैकेन वा यदृणं कृतन्तदृणं कुटुम्बी दद्यात्तस्मिन्
प्रेते प्रोषिते वा तदृक्थिनः सर्वे दद्युः । येन देय
मित्यत्र प्रत्युदाहरणमाह । “न योषित् पतिपुत्राभ्यान्न
पुत्रेण कृतम्पिता । दद्यादृते कुटुम्बार्थान्न पतिः स्त्री-
कृतन्तथा” या० । पत्या कृतमृणं योषिद्भार्य्या नैव
दद्यात् । पुत्रेण कृतं योषित् माता न दद्यात् । तथा
पुत्रेण कृतम्पिता न दद्यात्तथा भार्य्याकृतम्पतिर्न दद्यात्कु-
टुम्बार्थादृत इति सर्व्वशेषमतश्च कुदुम्बार्थं येन केनापि
कृतं तत्कुटुम्बिना देयम् “कुटुम्बार्थेऽध्यधीनोऽपि व्यव-
हारं समाचरेत् । स्वदेशे वा विदेशे वा तन्न विद्वान् विचा-
लयेत्” इति मनु (अध्यधीनः दासः) । तदभावेतद्दायहरै-
र्देयमिति उक्तमेव । पुत्रपौत्रैरृणन्देयमिति वक्ष्यति तस्य
पुरस्तादपवादमाह “सुराकामद्यूतकृतन्दण्डशुल्कावशिष्टकम् ।
वृथादानन्तथैवेह पुत्रोदद्यान्न पैतृकम्” या० । सुरापाणेन
यत् कृतमृणं कामकृतं स्त्रीव्यसनेन कृतम् । द्यूते
पराजयनिर्वृत्तं दण्डशुल्कयोरवशिष्टं वृथादानं धूर्त्तवन्दि-
मल्लादिभ्यो यत् प्रतिज्ञातम् “धूर्त्ते वन्दिनि मल्ले च
कुवैद्ये कितवे शठे चाटचारणचौरेषु दत्तं भवति
नि फलमिति” स्मरणात् । एतदृणम् पित्रा कृतं पुत्रादिः
शौण्डिकादिभ्यो न दद्यात् । अत्र दण्डशुल्कावशिष्टक-
मित्यवशिष्टग्रहणात् सर्वं दातव्यमिति न मन्तव्यम् “दण्डं
वा दण्डशेषं वा शुल्कन्तच्छेषमेव वा । न दातव्यन्तु
पुत्रेण यच्च न व्यवहारिकम्” इत्यौशनः स्मरणात् । गौतमे-
नाप्युक्तम् “मद्यशुल्कद्यूतदण्डा न पुत्रामध्यावहेयुरिति” ।
पृष्ठ १४२२
न पुत्रस्योपरि भवन्तीत्यर्थः । अनेनादेयमृणमुक्तम् । न
पतिः स्त्रीकृतं तथेत्यस्यापवादमाह । “गोपशौण्डिकशैलू-
षरजकव्याधयोषिताम् । ऋणं दद्यात् पतिस्तासां यस्मा-
द्वृत्तिस्तदाश्रया” या० । गोपो गोपालः शौण्डिकः
सुराकारः शैलूषोनटः रजकोवस्त्राणां रञ्जकः । व्याधो-
मृगयुः एषां योषिद्भिर्यदृणं कृतन्तत्पतिभिर्देयं यस्मात्तेषां
वृत्तिर्जीवनं तदाश्रया योषिदधीना । यस्माद्वृत्ति-
स्तदाश्रयेति हेतुव्यवदेशादन्येऽपि ये योषिदधीनजीवि-
नस्तेऽपि योषित्कृतमृणं दद्युरिति गम्यते । पतिकृत-
म्भार्या न दद्यादित्यस्यापवादमाह “प्रतिपन्नं स्त्रिया
देयं पत्या वा सह यत् कृतम् । स्वयंकृतं वा यदृणं
नान्यत स्त्री दातुमर्हति” या० । “मुमूर्षुणा प्रवत्स्यता वा
पत्या नियुक्तया ऋणदाने यत्प्रतिपन्नन्तत्पतिकृतमृणन्देयं
यच्च पत्या सह भार्यया कृतन्तदपि भर्त्रभावे भार्यया
अपुत्रया देयम् । यच्च स्वयमेव कृतमृणं तदपि देयम् । ननु
प्रतिपन्नादित्रयं स्त्रिया देयमिति न वक्तव्यम् सन्देहा
भावात् उच्यते । “भार्या पुत्रश्च दासश्च त्रय एवाधनाः
स्मृताः । यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनमिति”
वचनान्निर्धनत्वेन प्रतिपन्नादिष्वदानशङ्कायामिदमुच्यते ।
प्रतिपन्नं स्त्रिया देयमित्यादि । न चानेन वचनेन स्त्र्या-
दीनां निर्धनत्वमभिधीयते पारतन्त्र्यमात्रप्रतिपादन-
परत्वात् । एतच्च विभागप्रकरणे स्पष्टीकरिष्यते । नान्यत्
स्त्रीदातुमर्हतीत्येतत्तर्हि न वक्तव्यम् विधानेनैवान्यत्र प्रति-
षेधसिद्धेः । उच्यते “प्रतिपन्नं स्त्रिया देय पत्या वा मह
यत् कृतम्” इत्यनयोरपवादार्थमुच्यते । अन्यच्च सुराकामादि-
वचनोपात्तं प्रतिपन्नमपि पत्या सहकृतमपि न देयमिति ।
पुनरपि यदृणं दातव्यं येन च दातव्यं यत्र च काले
दातव्यं तत्त्रितयमाह “पितरि प्रोषिते प्रेते व्यसनाभि-
परिप्लुते । पुत्रपौत्रैरृणन्देयं निह्नवे साक्षिभावितम्” या० ।
पिता यदि दातव्यमृणमदत्त्वा प्रेतो दूरदेशङ्गतोऽचिकित्स-
नीयव्याध्याद्यभिभूतो वा तदा ततकृतमृणमवश्यन्देयं पुत्रेण
पौत्रेण वा पितृधनाभावेऽपि पुत्रत्वेन पौत्रत्वेन च । तत्र
क्रमोऽप्ययमेव पित्रभावे पुत्रः पुत्राभावे पौत्र इति । पुत्रेण
पौत्रेण वा निह्नवे कृतेऽर्थिना साक्ष्यादिभिर्भावितमृणन्देयं
पुत्रपौत्रैरित्यन्वयः । अत्र पितरि प्रोषित इत्येतावदुक्तं
कालविशेषस्तु नारदेनोक्तो द्रष्टव्यः । “नार्वाक् संवत्स-
राद्विंशात् पितरि प्रीषिते सुतः । ऋणं दद्यात् पितृव्ये
वा ज्येष्ठे भ्रातर्य्यथापि वेति” प्रेतेऽप्यप्राप्तव्यवहारकालस्तु
न दद्यात् प्राप्तव्यवहारकालस्तु दद्यात् स च कालस्ते-
नैव दर्शितः । “गर्भस्थैः सदृशो ज्ञेय आष्टमाद्वत्सरा-
च्छिशुः । बाल आषोडशाद्वर्षात् पौगण्डश्चेति शब्द्यते ।
परतो व्यवहारज्ञः स्वतन्त्रः पितरावृत इति” । यद्यपि
पितृमरणादूर्द्धं बालोऽपि स्वतन्त्रोजातस्तथापि न ऋणभाग्
भवति । यथा ह “अप्राप्तव्यवहारश्चेत् स्वतन्त्रोऽपि हि
नर्णभाक् । स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृत-
मिति” । तथा आसेधाह्वाननिषेधश्च दृश्यते । “अप्राप्त-
व्यवहारश्च दूतोदानोन्मुखो व्रती । विषमस्थश्च नासेध्यो
न चैतानाह्वयेन्नृपः” इति तस्मात् । “अतः पुत्रेण जातेन
स्वार्थमुत्सृज्य यत्नतः । ऋणात् पिता मोचनीयोयथा
नोनरकं व्रजेदिति” । पुत्रेण व्यवहारज्ञतया जातेन
निष्पन्नेनेति व्याख्येयम् । श्राद्धे तु बालस्यापि अधिकारः
“न ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनादिति” गौतम-
स्मरणात् । पुत्रपौत्रैरिति बहुवचननिर्देशाद्बहवः पुत्रा यदि
विभक्ताः, स्वांशानुरूपेणर्णं दद्युः । अविभक्ताश्चेत् सम्भूय
समुत्थानेन गुणप्रधानभावेन वर्त्तमानानां प्रधानभूतएव
दद्यादिति गम्यते यथाह नारदः “अत ऊर्द्धं पितुः
पुत्रा ऋणं दद्युर्यथांशतः । अविभक्ता विभक्ता वा यस्तां
चोद्वहते धुरमिति” । अत्र च यद्यपि पुत्रपौत्रैरृणं
देयमित्यविशेषेणोक्तम् । तथापि पुत्रेण यथा पिता सवृद्धिकन्द
दाति तथैव देयं पौत्रेण तु समं मूलमेव दातव्यं न वृद्धिंरिति
विशेषोऽवगन्तव्यः । “ऋणमात्मीयवत् पित्र्यं पुत्रैर्देयं
विभावितम् । पैतामहं समं देयमदेयं तत्सुतस्य तु”
इतिवृहस्पतिवचनात् । अत्र विभावितमित्यविशेषोपादानात्
साक्षिभावितमित्यत्र साक्षिग्रहणं प्रमाणोपलक्षणम् । समं
यावद्गृहीतं तावदेव देयं न वृद्धिः तत्सुतस्य प्रपौत्रस्या-
देयमगृहीतधनस्य । एतच्चोत्तरश्लोके स्पष्टयिष्यते ।
ऋणापकरणे ऋणी तत्पुत्रः पौत्र इति त्रयः कर्त्तारोद-
र्शिताः तेषाञ्च समवाये क्रमोऽपि दर्शितः ।
इदानीं कर्त्रन्तरसमवाये च क्रममाह । “ऋक्थग्राह
ऋणं दाप्योयोषिद्ग्राहस्तथैव च । पुत्रोऽनन्याश्रितद्रव्यः
पुत्रहीनस्य ऋक्थिनः” या० । अन्यदीयं द्रव्यमन्यस्य
क्रयादिव्यतिरेकेण यत् स्वीयं भवति तदृक्थं विभागद्वारेण
ऋक्थं गृह्णातीति ऋक्थग्राहः स ऋणं दाप्यः । एतदुक्तम्
भवति यो यदीयन्द्रव्यं रिक्थरूपेण गृह्णाति स तत्कृतम्
ऋणं दाप्यो न चौरादिरिति । योषितं भार्यां गृह्णातीति
योषिद्ग्राहः स तथैव ऋणं दाप्यः । यो यदीयां योषितं
पृष्ठ १४२३
गृह्णाति स तत्कृतमृणं दाप्यः योषितोऽविमाज्यद्रव्यत्वेन
ऋक्थव्यपदेशानर्हत्वाद्भेदेन निर्देशः । पुत्रश्चानन्याश्रितद्रव्य
ऋणं दाप्यः अन्यमाश्रितमन्याश्रितम् मातृपितृसम्बन्धि-
द्रव्यं यस्यासावन्याश्रितद्रव्यः न अन्याश्रितद्रव्योऽनन्याश्रित
द्रव्यः पुत्रहीनस्य ऋक्थिन ऋणं दाप्य इति सम्बन्धः ।
एतेषां समवाये क्रमश्च पाठक्रमएव ऋक्थग्राह ऋणं दाप्य-
स्तदभावे योषिद्ग्राहस्तदभावे (तथाभूतः) पुत्र इति ।
नन्वेतेषां समवाय एव नोपपद्यते । “न भ्रातरो न
पितरः, पुत्रा ऋक्थहराः पितुरिति” पुत्रे सत्यन्यस्य
ऋक्थग्रहणासम्भवात् । योषिद्ग्राहोऽपि नोपपद्यते
“न द्वितीयश्च साध्वीनां क्वचिद्भर्त्तोपदिश्यते” इति स्मर-
णात् । तदर्णं पुत्रो दाप्य इत्यप्ययुक्तं पुत्रपौर्त्रैरृणं
देयमित्युक्तत्वात् । अनन्याश्रितधन इति विशेषणमप्यनर्थ-
कम् पुत्रे सति द्रव्यस्यान्याश्रयणासम्भवात् सम्भवे च
ऋक्थग्राह इत्यनेनैव गतार्थत्वात् पुत्रहीनस्य ऋक्थिन
इत्येतदपि न वक्तव्यम् । पुत्रे सत्यपि ऋक्थग्राह ऋणं
दाप्य इति स्थितमसति पुत्रे ऋक्थग्राहः सुतरां दाप्यः
इति सिद्धमेवेति । अत्रोच्यते । पुत्रे सत्यप्यन्य ऋक्थ-
ग्राही सम्भवति क्लीवान्धबधिरादीनां पुत्रत्वेऽपि ऋक्थ-
हरत्वाभावात् । तथा च क्लीवादीननुक्रम्य “भर्त्तव्यास्तु
निरंशकः” इति वक्ष्यति तथा “सवर्णापुत्रोऽप्यन्यायवृत्तो
न लभेतेति केषामिति” गौतमवचनात् । अतश्च क्लीवादिषु
पुत्रेषु सत्स्वन्यायवृत्ते च सवर्णापुत्रे सति ऋक्थग्राही
पितृव्यतत्पुत्रादिः । योषिद्ग्राहो यद्यपि शास्त्रविरोधेन
न सम्भवति तथाप्यतिक्रान्तनिषेधः पूर्वपतिकृतर्णापक-
रणाधिकारी भवत्येव । योषिद्ग्राहोयश्चतसृणां स्वैरिणी-
नामन्तिमां गृह्णाति, यश्च पुनर्भ्वान्तिसृणां प्रथमाम्,
यथाह नारदः “परपूर्वास्त्रियस्त्वन्याः सप्त प्रोक्ता
यथाक्रमम् । पुनर्भूस्त्यिविधा तासां स्वैरिणी तु चतुर्विधा ।
कन्यैवाऽक्षतयोनिर्या पाणिग्रहणदूषिता । पुनर्भूः प्रथमा
प्रोक्ता पुनःसंस्कारकर्मणा । देशधर्मानपेक्ष्य स्त्री गुरु-
भिर्या प्रदीयते । उत्पन्नसाहसाऽन्यस्मै सा द्वितीया
प्रकीर्त्तिता” । उत्पन्नसाहसा उत्पन्नव्यभिचारा । “असत्सु
देवरेषु स्त्री बान्धवैर्या प्रदीयते । सवर्णाय सपिण्डाय
सा तृतीया प्रकीर्त्तिता । स्त्री प्रसूताऽप्रसूता वा पत्या-
वेव तु जीवति । कामात् समाश्रयेदन्यं प्रथमा स्वैरिणी
तु सा । कौमारं पतिमुत्सृज्य या त्वन्यं पुरुषाश्रिता ।
पुनःपत्युर्गृहं यायात् सा द्वितीया प्रकीर्त्तिता । मृते
भर्त्तरि तु प्राप्तान् देवरादीनपास्य या । उपगच्छेत् परं
कामात् सा तृतीया प्रकीर्त्तिता । प्राप्ता देशाद्धनक्रीता क्षु-
त्पिपासातुरा तु या । तवाहमित्युपगता सा चतुर्थी
प्रकीर्त्तिता । अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भुषाम् ।
ऋणन्तयोः प्रतिकृतं दद्याद्यस्ते उपाश्रितः” इति ।
तथान्योऽपि योषिद्ग्राहः ऋणापाकरणाधिकारी तेनैव
दर्शितः “या तु सप्रधनैव स्त्री सापत्या वात्यमायेत् ।
सोऽस्या दद्यादृणं भर्त्तुरुत्सृजेद्वा तथैव ताम्” । प्रकृष्टेन
धनेन सह वर्त्तत इति सप्रधना बहुधनेति यावत् । तथा
“अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम् । ऋणं वोढुः
स भजते सैव चास्य धनं स्मृतमिति” । पुत्रस्य पुनर्वचनं
क्रमार्थम् । अनन्याश्रितद्रव्य इति बहुपुत्रेषु ऋक्था-
भावेऽप्यंशग्रहणयोग्यस्यैवर्णापाकरणाधिकारोनायोग्यस्या-
न्धादेरित्येवमर्थम् । “पुत्रहीनस्य ऋक्थिन” इत्येतदपि
पुत्रपौत्रहीनस्य प्रपौत्रादयो यदि ऋक्थं गृह्णन्ति तदर्णं
दाप्यानान्यथेत्येवमर्थम् । पुत्रपौत्रौ तु ऋक्थग्रहणा
भावेऽपि दाप्यावित्युक्तम् यथाह नारदः “क्रमाद-
भ्यागतं प्राप्तं पुत्रैर्यन्नर्णमुद्धृतम् । दद्युः पैतामहं पौत्रा-
स्तच्चतुर्थान्निवर्त्तते” इति सर्वं निरवद्यम् । यद्वा योषि-
द्ग्राहाभावे पुत्रोदाप्य इत्युक्तन्तस्याभावे योषिद्ग्राहो
दाप्य इत्युच्यते । पुत्रहीनस्य ऋक्थिशब्देन योषिदेवो-
च्यते “सैव चास्य धनं स्मृतमिति” स्मरणात् “यो यस्य
हरते दारान् स तस्य हरते धनमिति” च । ननु
योषिद्ग्राहाभावे पुत्र ऋणं दाप्यः पुत्राभावे योषिद्ग्रा-
ह इति, परस्परं विरुद्धम् उभयसद्भावे न कश्चिद्दाप्य
इति, नैष दोषः अन्तिमस्वैरिणीग्राहिणः प्रथमपुनर्भू-
ग्राहिणः सप्रधनस्त्रीहारिणश्चाभावे पुत्रोदाप्यः । पुत्रा-
भावे तु निर्द्धननिरपत्ययोषिद्ग्राहो दाप्य इति । एतदे-
बोक्तं नारदेन “धनस्त्रीहारिपुत्राणामृणभाग् यो धनं
हरेत् । पुत्रोऽसतोः स्त्रीधनिनोः स्त्रीहारी
धनिपुत्रयोः” । धनस्त्रीहारिपुत्राणां समवाये यो धनं हरेत्
स ऋणभाक् । पुत्रोऽसतोः स्त्रीधनिनोः स्त्री च धनञ्च
स्त्रीधने ते विद्येते ययोः तौ स्त्रीधनिनौ तयोः स्त्रीध-
निनोः असतोः पुत्र एवर्णभाक् । धनिपुत्रयोरसताः
स्त्रीहार्य्येवर्णभाक् स्त्रीहार्य्यभावे पुत्र ऋणभाक् ।
पुत्रभावे स्त्रीहारीति विरोधप्रतिभासपरिहारः पूर्ववत् ।
पुत्रहीनस्य ऋकथिनः इत्यस्यान्या व्याख्या, एते धन
स्त्रीहारिपुत्रा ऋणं कस्य दाप्याः? इति विवक्षायामुत्तम-
पृष्ठ १४२४
र्णस्य दातुस्तदभावे तत्पुत्रादेः पुत्राद्यभावे कस्य दाप्या
इत्यपेक्षायामिदमुपतिष्ठते । पुत्रहीनस्य ऋक्थिन इति
पुत्राद्यन्वयहीनस्योत्तमर्णस्य य ऋक्थी ऋक्थग्रहण-
योग्यः सपिण्डादिस्तस्य ऋक्थिनो दाप्याः । तथा च
नारदेन “ब्राह्मणस्य तु यद्देयं सान्वयस्य न चास्ति सः ।
निर्वापयेत् सकुल्येषु तदभावेऽस्य बन्धुषु” इत्यभिधायाभिहि-
तम् “यदा तु न सकुल्याः स्युर्न्न च सम्बन्धिबान्धवाः ।
तदा दद्याद्द्विजेभ्यस्तु तेष्वसत्स्वप्सु विनिक्षिपेदिति” ।
अधुना पुरुषविशेषे ऋणग्र हणप्रतिषेधनप्रसङ्गादन्यदपि
पतिषे धति । “भ्रातॄणामथ दम्पत्योः पितुः पुत्रस्य चैव
हि । प्रातिभाव्यमृणं साक्ष्यमविभक्ते न तु स्मृतम्” या० ।
प्रतिभुवो भावः प्रातिभाव्यम् । भ्रातॄणां दम्पत्योः पितापु-
त्रयोश्च । अविभक्ते द्रव्येद्रव्यविभागात् प्राक् प्रातिभाब्य-
मृणं साक्ष्यञ्च न स्मृतं मन्वादिभिः । अपि तु प्रतिषिद्धं
साधारणघनत्वात् प्रातिभाव्यसाक्षित्वयोः पक्षे द्रव्यव्ययाव-
सानत्वात् ऋणस्य चावश्यप्रतिदेयत्वात् । एतच्च परस्पराऽन-
नुमत्या अनुमत्या त्वविभक्तानामपि प्रातिभाव्यादि भवत्येव ।
विभागादूर्द्धन्तु परस्परानुमतिव्यतिरेकेणापि भवति ।
ननुदसात्योर्विभागात् प्राक् प्रातिभाव्यादिप्रतिषेधो न युज्यते
तयोर्विभागाभावेन विशेषणानर्थक्याद्विभागाभावश्च
आपस्तम्बेन दर्शितः “जायापत्योर्न्न विभागो विद्यत” इति ।
सत्यं श्रौतस्मार्त्ताग्निसाध्येषु कर्म्मसु तत्फलेषु च
विभागाभावो न पुनः सर्वकर्मसु द्रव्येषु च । तथा हि
“जायापत्योर्न विभागो विद्यते” इत्युक्त्वा किमिति न विद्यत
इत्यपेक्षायां हेतुमुक्तवान् “पाणिग्रहणाद्धि सहत्वङ्कर्म-
सु तथा पुण्यफलेषु चेति” हि यस्मात् पाणिग्रहणा-
दारभ्य कर्मसु सहत्वं श्रूयते “जायापती अग्निमादधी-
यातामिति” । तस्मादाधाने सहाधिकारादाधानसिद्धाग्नि-
साध्येषु कर्मसु सहाधिकारः । तथा “कर्म स्मार्त्तं विवा-
हाग्नावित्यादि” स्मरणात् विवाहसिद्धाग्निसाध्येष्वपि कर्मसु
सहाधिकार एव । अतश्चोभयविधाग्निनिरपेक्षेषु कर्मसु
पूर्त्तेषु जायापत्योः पृथगेवाधिकारः सम्पद्यते । तथा
पुण्यानां फलेषु स्वर्गादिषु जायापत्योः सहत्वं श्रूयते
“दिवि ज्योतिरजरमारभेतामित्यादि” । येषु पुण्यकर्मसु
सहाधिकारस्तेषां फलेषु सहत्वमिति बोद्धव्यम् । न पुनः
पूर्त्तानां भर्त्तुनुज्ञयानुष्ठितानां फलेष्वपि । ननु द्रव्यस्वामि-
त्वेऽपि सहत्वमुक्तम् “द्रव्यपरिग्रहेषु च न हि मर्त्तु-
र्विप्रवासे नैमित्तिकदाने स्तेयसुपदिशन्तीति” सत्यं द्रव्य-
स्वामित्वं पत्न्या दर्शितमनेन न पुनर्विभागाभावः यस्मा-
द्द्रव्यपरिग्रहेषु चेत्युक्त्वा तत्र कारणमुक्तम्भर्त्तुर्विप्रवा
से नैमित्तिकेऽवश्यकर्त्तव्यदानेऽतिथिभोजनभिक्षादानादौ
हि यस्मान्न स्तेयमुपदिशन्ति मन्वादयः तस्माद्भार्य्याया
अपि द्रव्यस्वामित्वमस्ति अन्यथा स्तेयं स्यादिति तस्मा-
द्भर्त्तुरिच्छया भार्य्याया अपि द्रव्यविभागोभवत्येव न
स्वेच्छया यथा वक्ष्यति “यदि कुर्य्यात् समानांशान्
पत्न्यः कार्य्याः समांशिकाः” इति । अधुना प्रातिभाव्यं
नि रूपयितुमाह । “दर्शने प्रत्यये दाने प्रातिभाव्यं विधी-
यते । आद्यौ तु वितथे दाप्यावितरस्य सुता अपि” या०
प्रातिभाव्यं तिश्वासार्थं पुरुषान्तरेण सह समयः, तच्च
विषयभेदात् त्रिधा भिद्यते । यथा दर्शने दर्शना-
पेक्षायामेनं दर्शयिष्यामीति, प्रत्यये विश्वासे मत्प्र-
त्ययेनास्य धनं प्रयच्छ नायं त्वां वञ्चयिष्यते यतो
ऽमुकस्य पुत्रोऽयमुर्वराप्रायभूरस्य ग्रामवरोऽस्तीति, दाने
यद्ययं न ददाति तदानीमहमेव धनं दास्यामीति, प्राति-
भाव्यं विधीयत इति प्रत्येकं सम्बन्धः । आद्यौ तु दर्शन-
प्रत्ययप्रतिभुवौ वितथे अन्यथाभावे अदर्शने विश्वासव्यभि-
चारे च दाप्यौ राज्ञा प्रस्तुतं (अवृद्धिकम्) धनमुत्तमर्णस्य ।
इतरस्य दानप्रतिभुवः सुता अपि दाप्याः । वितथे इत्येव
शाठ्येन निर्द्ध्वनत्वेन वा अधमर्णेऽप्रतिकुर्व्वति । इतरस्य
सुता अपीति वदता पूर्व्वयोः सुता न दाप्याः इत्युक्तम् ।
सुता इति वदता न पौत्रा दाप्या इति दर्शितम् । एतदेव
स्पष्टीकर्त्तुमाह । “दर्शनप्रतिभूर्य्यन्त्र मृतः प्रात्ययिकोऽपि
वा । न तत्पुत्रा ऋणं दद्युर्द्दद्युर्दानाय यः स्थितः” या०
यदा दर्शनप्रतिभूः प्रात्ययिको वा प्रतिभूर्दिवंगतः
तदातयोः पुत्राः प्रातिव्यायातं पैतृकम् ऋणं न दद्युः । यस्तु
दानाय स्थितः प्रतिभूर्दिवं गतस्तस्य पुत्रा दद्युर्न पौत्राः ।
ते च मूलमेव दद्युर्न्न वृद्धिम् । “ऋणं पैतामहं पौत्राः
प्रातिभाव्यागतं सुतः । समं दद्यात् तत्सुतौ तु न दाप्या-
विति निश्चयः” इति व्यासवचनात् । प्रातिभाव्यव्यतिरिक्तं
पैतामहमृणं पौत्रः समं यावद्गृहीतं तावदेव दद्यान्न
वृद्धिम् । तथा तत्सुतोऽपि प्रातिभाव्यागतं पित्र्यमृणं
सममेव दद्यात्तयोः पौत्रपुत्रयोः सुतौ प्रपौत्रपौत्रौ च
प्रातिभाव्यायातमप्रातिभाव्यायातं चर्णं यथाक्रममगृहीत-
वित्तौ न दाप्याविति । यदपि स्मरणम् “स्वादकोवित्त-
हीनः स्याल्लग्नकोवित्तवान् यदि । मूलं तस्य भवेत्देयं न
वृद्धिं दातुमर्हतीति” तदपि लग्नकः प्रतिभूः खादकोऽध-
पृष्ठ १४२५
मर्णः, लग्नको यदि वित्तवान् मृतस्तदास्य पुत्रेण मूलमेव
दातव्यं न वृद्धिरिति व्याख्येयम् । यत्र दर्शनप्रतिभूः प्र
त्ययप्रतिभूर्वा बन्धकपर्याप्तं गृहीत्वा प्रतिभूर्जातः
तत्पुत्रा अपि तस्मादेव बन्धकात् प्रातिभाव्यायातमृण दद्यु-
रेव । यथा ह कात्यायनः “गृहीत्वा बन्धकं यत्र दर्श-
नेऽस्य स्थितो भवेत् । विना पित्रा धनात्तस्मात् दाप्यः
स्यात् तदृणं सुतः” इति । दर्शनग्रहणं प्रत्ययोपलक्षणम् विना
पित्रा पितरि प्रेते दूरदेशङ्गते वेति । यस्मिन्ननेकप्रतिभू
सम्भवस्तत्र कथं दातव्यमित्याह । “बहवः स्युर्य्यदि स्वांशै-
र्दद्युः प्रतिभुवोधनम् । एकच्छायाश्रितेष्वेषु धनिकस्य
यथारुचि” या० । यद्येकस्मिन् प्रयोगे द्वौ बहवो वा
प्रतिभुवस्तदर्णं विभज्य स्वांशेन दद्युः । एकच्छायाश्रितेषु
प्रतिभूषु एकस्याधमर्णस्य छाया सादृश्यं तामाश्रिताः
एकच्छायाश्रिताः अधमर्णो यथा कृत्स्नद्रव्यदानाय-
स्थितस्तथा दानप्रतिभुवोऽषि प्रत्येकं कृत्स्नदानाय
स्थिताः एवं दर्शनप्रत्यये च तेष्वेकच्छायाश्रितेषु प्रतिभूषु
सत्सु धनिकस्योत्तमर्ण्णस्य यथारुचि यथाकामम् ।
अतश्च धनिको वित्ताद्यपेक्षया स्वाथं यं प्रार्थयते स
एव कृत्स्नं दद्यान्नांशतः । एकच्छायाश्रितेषु यदि कश्चि-
द्देशान्तरं गतस्तत्पुत्रश्च सन्निहितस्तदा धनिकेच्छया स
सर्वं दाप्यः मृते तु कस्मिंश्चित् स्वपित्र्यमंशमवृद्धिकं दाप्यः ।
यथाह कात्यायनः “एकच्छायाप्रविष्टानां दाप्योयस्तत्र
दृश्यते । प्रोषिते तत्सुतः सर्वं पित्र्यमंशं मृते सति”
प्रातिभाव्यर्णदानविधिमुक्त्वा प्रतिभूदत्तस्य प्रतिक्रियाविधि
माह । “प्रतिभूर्दापिती यत्तु प्रकाशं धनिनो धनम् ।
द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत्” या० । यदृणं प्रति-
भूस्तत्पूत्रो वा धनिकेनोपपीड़ितः प्रकाशं सर्वजनसमक्षं
राज्ञा धनिनो दापितो न गनर्द्वैगुण्यलोभेन स्वयमुपेत्य
दत्तम् । यथाह नारदः यच्चर्णं प्रतिभूर्दद्याद्धनिके-
नोपपीड़ितः । ऋणिकन्तं प्रतिभुवे द्विगुणं प्रतिदापये-
दिति” । ऋणिकैरधमर्ण्णैस्तस्य प्रतिभुवस्तद्द्रव्यं द्विगुणं
प्रतिदातव्यं स्यात् । तच्च कालविशेषमनपेक्ष्य सद्य एव
द्विगुणं दातव्यम् वचनारम्भसामर्थ्यात् । एतच्च हिरण्य-
विषयम् । नन्विदं वचनं द्वैगुण्यमात्रं प्रतिपादयति
तच्च पूर्वोक्तकालकलाक्रमाबाधेनाप्युपपद्यते यथा जाते
ष्टिविधानं शुचित्वाबाधेन । अपि च सद्यः सवृद्धि-
कदानपक्षे पशुस्त्रीणां सद्यःसन्तत्य भावान्मूलदानमेव
प्राप्नोतीति तदसत् “वस्त्रधान्यहिरण्यानां चतुस्त्रिद्वि-
गुणा परा” इत्यनेनैव कालकलाक्रमेण द्वैगुण्यसिद्धेर्द्वैगुण्य-
मात्रविधान इदं वचनमनर्थकं स्यात् । पशुस्त्रीणान्तु
कालक्रमपक्षे सन्तत्यभावे स्वरूपदानमेव । यदा प्रतिभू-
रपि द्रव्यदानानन्तरं कियता कालेनाधमर्णेन संघटते तदा
संततिरपि सम्भवत्येव यद्वा पूर्ब्बसिद्धसन्तत्या सह पशुस्त्रि-
योदास्यतीति न किञ्चिदेतत् । अथ प्रातिभाव्यं प्रीतिकृत-
मतश्च प्रतिभुवा दत्तं प्रीतिदत्तमेव न च प्रीतिदत्तस्य
याचनात् प्राक्वृद्धिरस्ति यथाह “प्रीतिदत्तं तु यत्कि-
ञ्चिद्वर्द्धते न त्वयाचितम् । याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं
शतमिति” । अतश्च प्रीतिदत्तस्यायाचितस्यापि दानदिव-
सादारभ्य यावत् द्विगुणं कालक्रमेण वृद्धिरित्यनेन वचने-
नोच्यत इति । तदप्यसत् अस्यार्थस्यास्माद्वचनादप्रतीतेः
द्विगुणं प्रतिदातव्य मित्येतावदिह प्रतोयते तस्मात्
कालक्रमनपेक्ष्यैव द्विगुणं प्रतिदातव्यं वचनारम्भसामर्थ्यादिति
सुष्ठूक्तम् । प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्तेऽपवाद-
माह “सन्ततिः स्त्रीपशुष्वेव धान्यं त्रिगुणमेव च । वस्त्रं
चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा” या० । हिरण्यद्वैगुण्य-
वत् कालानादरेणैव स्त्रीपश्वादयः प्रतिपादितवृद्ध्या दाप्याः
श्लोकस्तु व्याख्यातएव यस्य द्रव्यस्य यावती वृद्धिः
पराकाष्ठोक्ता तत्द्रव्यं प्रतिभूदत्तं खादकेन तया वृद्ध्या सह
कालविशेषमनपेक्ष्य सद्यो दातव्यमिति तात्पर्य्यार्थः । यदा
तु दर्शनप्रतिमूः सं प्रतिपन्ने कालेऽधमर्णं दर्शयितुमसमर्थ-
स्तदा तदन्वेषणाय तस्य पक्षत्रयं (अवधिभूतम्) दातव्यम् ।
तत्र यदि दर्शयति तदा मोक्तव्योऽन्यथा प्रस्तुतं धनं
दाप्यः “नष्टस्यान्वेषणार्थन्तु देयं पक्षत्रयं परम् । यद्यसौ
दर्शयेत् तत्र मोक्तव्यः प्रतिभूर्भवेत् । काले व्यतीते प्रति-
भूर्य्यदि तं नैव दर्शयेत् । निबन्धं दापयेत्तन्तु प्रेते चैष
विधिः स्मृतः” इति कात्यायनवचनात् । लग्नके विशेष-
निषेधश्च तेनैवोक्तः । “न स्वामी न च वै शत्रुः स्वामि-
नाधिकृतस्तथा । निरुद्धो दण्डितश्चैव संदिग्धश्चैव न
क्वचित् । नैव ऋक्थी न मित्रञ्च नचैवात्यन्तवासिनः ।
राजकार्य्यनियुक्तश्च ये च प्रव्रजिता नराः । न शक्तो
धनिने दातुं दण्डं राज्ञेच तत्समम् । जीवन्वापि पिता
यस्य तथैवेच्छाप्रवर्त्तकः । नाविज्ञातो ग्रहीतव्यः प्रतिभूः
स्वक्रियां प्रतीति” सन्दिग्धोऽभिशस्त्रः । अत्यन्तवासिनी-
नैष्ठिकब्रह्मचारिणः । इति प्रतिभूविधिः । धनप्रयोगे द्वौ
“विश्वासहेतू प्रतिभूराधिश्च यथाह नारदः । विश्रम्भहेतू
द्वावत्र प्रतिभूराधिरेव चेति” । प्रतिभूर्निरूपितः” मिता०
पृष्ठ १४२६
आधिस्तु विस्तरेक्षाधिशब्दे ७११ पृष्ठादौ निरूपितः ।
अत्र विशेषः वीरमि० व्यासः “सबन्धे भाग आशीतः
षष्टोभागः सलग्नके । निराधाने द्विकशतं मासलाभ
उदाहृतः” अत्र आधानपदं प्रतिभुवोऽभ्युपलक्षणम् ।
तत्रैव नारदः । “स्थानलाभनिमित्तं यद्दानग्रहणमिष्यते ।
तत्कुसीदमिति ज्ञेयम् तेन वृत्तिः कुसीदिनाम्” स्थानं
मूलधनस्यावस्थानं लाभो वृद्धिः तन्निमित्त ततप्रयोज-
नम् । कुसीदशब्दार्थ माह वृह० । “कुत्सितात् सीदतश्चैव
निर्विशङ्कैः प्रगृह्यते । चतुर्गुणं वाष्टगुणं कुसीदाख्यमृणा-
त्ततः” । कतमितात सीदतश्च अधमर्ण्णात् इत्यर्थः । वृद्धौ
विशेषमाह स एव । “वृद्धिश्चतुर्विधा प्रोक्ता पञ्चधान्यैः प्रकी-
र्त्तिता । षड्विधान्यैः समाख्याता तत्त्वतस्ता निबोधत ।
कायिका कालिका चैव चक्रवृद्धिरतीऽपरा । कारिता
सशिखा वृद्धिर्भोगलाभस्तथैव च । कायिका कर्म्मसंयुक्ता
मासग्राह्या तु कालिका । वृद्धेर्वृद्धिश्चक्रवृद्धिः कारिता ऋणिना
कृता । प्रत्यहं गृह्यते या तु शिखा वृद्धिस्तु सा स्मृता ।
गृहात्तोषः फलं क्षेत्रात् भोगलाभः प्रकीर्त्तितः” कर्म्म-
संयुक्ता कायिका यत्र बन्धकीकृतस्य गवाश्वादेर्दोहनवहना-
दिकं कर्म्म वृद्धित्वेन स्थापितं तत्र सा कायिका । यथाह
व्यासः “दोह्यवाह्यकर्मयुता कायिका समुदाहृता” प्रत्यहं
गृह्यते या तु शिखा वृद्धिस्तु सा स्मृता । शिखेव वर्द्धते
नित्यं शिरश्छेदान्निवर्त्तते । मूले दत्ते तथैवैषा शिखा-
वृद्ध्विर्निवर्त्तते” । परमवृद्धौ विशेषस्तत्रैव वृह० “हिरण्ये
द्विगुणा वृद्ध्विस्त्रिगुणा वस्त्रकुप्यके । धान्ये चतुर्गुणा प्रोक्ता
शदवाह्यलवेषु च । उक्ता पञ्चगुणा शाके वीजेक्षौ षड़्-
गुणा स्मृता । लवणस्नेहमद्येषु वृद्धिरष्टगुणा मता ।
गुडे मधुनि चैवोक्ता प्रयुक्ते चिरकालिके” कुप्यं त्रपुसी-
सादि शदः क्षेत्रफलं धान्यस्य पृथग्ग्रहणात्तद्व्यतिरिक्तं
पुष्पफलादि । कात्या० “तैलानाञ्चैव सर्वेषां मद्यानामथ
सर्थिषाम् । वृद्धिरष्टगुणा ज्ञेया गुड़स्य लवणस्य च” ।
सर्वेषां सर्वप्रकाराणां सर्वत्रान्वयः । गुडादौ विभक्तिव्यत्ययेन
सर्वस्येत्यन्वयः । वसिष्ठः “वज्रशुक्तिप्रवालानां हेम्नश्च रजतस्य
च । द्विगुणा त्विष्यते दृद्धिः कृतकालानुसारिणी” कात्या०
“मणिमुक्ताप्रवालानां सुवर्ण्णरजतस्य च । तिष्ठतो द्वि-
गुणा वृद्धिः फलकैटाविकस्य च” फलं फलजं कार्पासादि
आविकसाहचर्य्यात् कैटं कीटोद्भवं पट्टसूत्रादि आविकं
कम्बलादि । वसिष्ठः “ताम्रायःकांस्यरीतीनां त्रपुणः
सीसकस्य च । त्रिगुणा तिष्ठतो वृद्धिः कालात् चिरकृतस्य तु”
विष्णुः “अनुक्तानां त्रिगुणा” । देशाचारभेदादुक्तायाः
सवप्रकारवृद्धेरन्यथात्वमाह नारदः “ऋणानां सार्वभौमो-
ऽवं विधिर्वृद्धिकरः स्मृतः । देशाचारस्थितिस्त्वन्या यत्रर्ण्ण-
मवतिष्ठते । द्विगुणं त्रिगुणञ्चैव तथात्यस्मिंश्चतुर्गुणम् ।
तथाष्टगुणमन्यस्मिन् तत्र देशेऽवतिष्ठते” । द्रव्यभेदेऽक्षयवृ-
द्धिमाह वृह० “तृणकाष्ठेष्टकासूत्रकिण्वचर्मास्थिवर्म्म-
णाम् । हेतिपुष्पफलानाञ्च वृद्धिस्तु न निवर्त्तते ।
किण्वं सुराद्रव्योपकरणं द्रव्यविशेषः । वसिष्ठः
“दन्तचर्मास्थिशृङ्गाणां मृण्मयानां तथैव च । अक्षयावृद्धि-
रेतेषां पुष्पमूलफलस्य च” पुष्पादौ पूर्वापरविरोधः अधमर्ण्ण-
शक्त्यपेक्षानपेक्षाभ्यां समाधानीयः । शिखावृद्ध्यादौ वृद्धेर-
रक्षयमाह वृह० “शिखावृद्धिं कालिकाञ्च फलभोगं
तथैव च । धनी तावत् समादद्यात् यावन्मूलं न शोधि-
तम्” “क्वचिदनङ्गीकृताऽपि वृद्धिर्भवतीत्याह” विष्णुः
“यो गृहीत्वा ऋणं पूर्वं श्वोदास्यामीति सामकम् । न द
द्याल्लोभतः पश्चात् तदहाद्वृद्धिमाप्नुयात्” सामकं
सममेवावृद्धिकं श्वोदास्यामीति प्रतिश्रुत्येर्थः श्व इति पदं
दानकालोपलक्षणम् । अङ्गीकाराभावे क्वचित् विषये वृद्ध्य-
भावमाह संव० “न वृद्धिः स्त्रीधने लाभे निःक्षिप्ते च
यथास्थिते । सन्दिग्धे प्रतिभावो च यदि न स्यात् स्वयं
कृता” स्त्रीधने “अधिविन्नस्त्रियै देयमाधिवेदनिकं समम्”
इत्युत्याद्युक्तेः स्त्रियै दातव्ये धने स्त्रीशुल्कधने च लाभे
कृष्याद्याये बाणिज्याद्युत्पन्ने आये च कालातिक्रमेऽपि न
बृद्धिः । कात्या० “धर्म्मकृत्यासवद्यूते पण्यमूल्ये च सर्वदा ।
स्त्रीशुल्केषु न वृद्धिः स्यात् प्रातिभाव्यागतेषु च” धर्म्म-
कृत्ये प्रतिश्रुत्यादत्ते, द्यूते कृतर्ण्णे पराजितर्णे च सुरा-
पाणार्थमृणे क्रीतद्रव्यस्य पण्यस्य मूल्ये प्रातिभाव्या-
गतेषु सन्दिग्धप्रातिभाव्यागतेषु प्रागुक्तसंवर्त्तवाक्यैवाक्यत्वात्
अत्र सर्वदेति विशेषणम् याचनेऽपि न वृद्धिरिति
सूचनार्थमं । व्यासः “न वर्द्धते चिरस्थं च मद्यशुल्कप्रतिश्रु-
तम्” । शुल्कं घट्टादिदेयं राजकरादि । पूर्ण्णावधौ ऋण
दानासामर्थ्ये विशेषमाह मनुः “ऋणं दातुमशक्तोयः
कर्त्तुमिच्छेत् पुनः क्रियाम् । स दत्त्वा निर्जितां वृद्धिं
करणं परिवर्त्तयेत् । अदर्शयित्वा तत्रैव हिरण्यं
परिवर्त्तयेत् । यावती, सम्भवेद्वृद्धिस्तावतीं दातुमर्हति । चक्र-
वृद्धिं समारूढो देशकालव्यवस्थितः । अतिक्रामन् देशका-
लौ न तत्फलमयाप्नुयात्” । निर्जितां लभ्यत्वेनात्माधी-
नत्वं नीताम् । करणमन्यदृणलेख्यं कुर्यात् । अदर्शयित्वा
पृष्ठ १४२७
साक्षिभ्यो देयद्रव्यमदर्शयित्वैव अधमर्ण्णेन मया
एतावती वृद्धिरियन्मूलमित्येवमङ्गीकारणेन देयमृणं
परिवर्त्तयेत् सवृद्धिकत्वेनाधिकतया अन्यथाभावभापादयेत्
तदेव पत्रे साक्षिमल्लेख्यम् एतच्च यावर्ती वृद्धिं तदा
दातु शक्नोति तावतीं दत्त्वा लेख्यं कार्यं
तथाकृते सति द्विगुणातिक्रमेण वृद्धिर्भवतीत्यर्थः तथाकृते च
वृद्धेरपि वृद्धिः तस्य सवृद्धिकस्य मूलस्थानीयत्वात्
यथाह वृह० “पूर्ण्णावधौ शान्तलाभमृणमुद्ग्राहये-
द्वनी । कारयेद्वा ऋणी लेख्यं चक्रवृद्धिव्यवस्थया । द्विगुण-
स्योपरि यथा चक्रवृद्धिः प्रगृह्यते । भोगलाभस्तथा तत्र
सूलं स्यत् सोदयमृणम्” ऋणग्रहणोपायाश्च मिता०
उक्ताः उपायशब्दे च १३५५ पृ० विस्तरेण दर्शिताः ।
अवधिमध्ये सवृद्धिकसर्वर्णदानासम्भवे क्रमेण दाने
सलेख्यप्रयोगे लेख्यपृष्ठे लिखित्वैव दानप्रकारमाह याज्ञ० ।
“लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वादत्त्वर्ण्णिको घनम् । धनी
वोपगतं दद्यात् स्वहस्तपरिचिह्नितम्” उपगतशब्दे १२०१ पृ०
व्याख्यातम् । विष्णुः “असमग्रदाने लेख्यासन्निधाने
चोत्तमर्ण्णः स्वलिखितं दद्यात्” (रसिंद) प्रवेशपत्रादाने विशेष
माह नारदः । “गृहीत्वोपगतं दद्यादृणिकायोदयं
धनी । अददद्याच्यमानश्च शेषहानिमवाप्नुयात्” “उदयं
प्राप्तम् । सर्वर्ण्णदाने तु ऋणलेख्यच्छेदनमाह “दत्त्वर्ण्णं
पाटयेल्लेख्यं शुद्ध्यै वान्यत्तुकारयेत् । साक्षिमच्च
भवेद्यद्वा तद्दातव्यं ससाक्षिकम्” या० ।
तत्राशक्तौ विशेषमाह कात्या० “धनदानासहं वुद्ध्वा
स्वाधीनं कर्म्म कारयेत् । अशक्तौ बन्धनागारे प्रवंश्यो
ब्राह्मणादृते” । अशुभकर्मकारणं बन्धनागारप्रवेशनञ्च
राजावेदनपूर्वकमेव कार्य्यमन्यथा दण्डमाह कात्या० । “यदि
ह्यादावनादिष्टमशुभं कर्म कारयेत् । प्राप्नुयात् साहसं
पूर्बमृणान्मुच्येत चर्ण्णिकः” अनादिष्टम् राज्ञाऽनिवेदितम् ।
ऋणदातृपुत्रं विशेषयति कात्या० “ऋणं तु दापयेत्
पुत्रम् यदि स्यान्निरुपद्रवः । द्रविणार्हश्च धुर्यश्च नान्यथा
दापयेत् सुतम् । व्यसनाभिप्लुते पुत्रे बाले वा यत्
प्रदृश्य ते । द्रव्यहृद्दापयेत्तं तु तस्याभावे पुरन्ध्रीहृत्”
कुटम्बार्थे कृतर्ण्णे विशेषमाह वृह० “पितृव्यभ्नातृ-
पुत्रस्त्रीदासशिष्यानुजीविभिः । यत् गृहीतं कुटुम्बार्थे तद्
गृही दातुमर्हति” । नारदः “शिष्यान्तेवासिदासस्त्रीप्रैष्य
कृत्यकरैश्च यत् । कुटुम्बहेतोर्यत् क्षिप्तं दातव्यं तत् कुटु-
म्बिना” शिष्यः वेदशिष्यः अन्तेवासी शिल्पशिष्यः ।


“कुटुम्बार्थमृणं दर्शयति” कात्या० “कुटुम्बार्थ-
मशक्ते तु गृहीतं व्याधिते तथा । उपप्लवनिमित्तं
च विद्यादापत्कृतन्तु तत् । कन्यावैवाहिके चैव प्रेत-
कार्य्येषु यत् कृतम् । एतत् सर्वं प्रदातव्यं कुटुम्बेन कृतं
प्रभोः” । पुत्रकृते विशेषमाह नार० “पितुरेव नियो-
गाद्वा कुटुम्बभरणाय वा । कृतं वा यदृणं कृच्छ्रे दद्यात्
पुत्रस्य तत्पिता” । स्त्रियाः पतिकृ तर्ण्णदाने विशेषमाह
कात्या० “मर्त्तुकामेन या भर्त्त्रा उक्ता देयमृणं त्वया ।
प्रतिप्रन्ना च सा दाप्या धनं यद्याश्रितं स्त्रियाम्” । नार०
“दद्यादपुत्रा विधवा नियुक्ता या मुसूर्षुणा । या वा तद्रि-
क्थमादद्यात् यतोरिक्थमृणं ततः” । मातुर्निर्धनत्वे-
ऽपि तत्कृतर्ण्णं पुत्रेण देयमाह” नारदः “पुत्रिणी तु
समुत्सृज्य पुत्रंस्त्री यान्यमाश्रयेत् । तस्य ऋणं हरेत् सर्वं
निःस्वाया पुत्रएव तु” । सधनत्वे तामद्वोढैव दद्यात”
यथाह कात्या० “बालपुत्राधिकार्था स्यात् भर्त्त्रारं यान्यमा-
श्रिता । आश्रितस्तमृणं दद्यात् बालपुत्राविधिः स्मृतः” ।
अविभक्तर्ण्णे विशेषमाह विष्णुः अविभक्तैः कृतमृणं यस्तिष्ठति
स दद्यात्” । नारदः “पितृव्येणाविभक्तेन भ्रात्रा वा
यदृणं कृतम् । मात्रा वा यत् कुटुम्बार्थे दद्युस्तत् सर्व
ऋक्थिनः” अविभ्रक्तकाले कुटुम्बार्थे कृतमृण विभक्तैरपि
देयमह मनुः । “ग्रहीता यदि नष्टः स्यात् कुटुम्बार्थे
कृतोव्ययः । दातव्यं बान्धवैस्तत् स्यात् प्रविभक्तैरपि स्वतः” ।
कामकृतर्ण्णमाह कात्या० । “लिखितं मुक्तकं वापि देयं
यत्तु प्रतिश्रुतम् । परपूर्वस्त्रियै तत्तु विद्यात् कामकृतं
नृणाम्” मुक्तकं लेखरहितम् । अनेकधनिसमवाये
विशेषमाह कात्या० । “नानर्ण्णसमवाये तु यद्यत् पूर्बकृतं
भवेत् । तत्तदेवाग्रतो देयं राज्ञः स्याच्छ्रोत्रियात् परम् ।
एकाहे लिखितं यत्र तत्र कुर्यादृणं समम् । ग्रहणं
रक्षणं लाभमन्यथा तु यथाक्रमम्” । भिन्नदिवसे कृतं
श्रोत्रियपूर्वकं देयम् । एकदिनकृतननर्ण्ण समवाये
युगपद्देयम् धनाल्पत्वबहुत्वयोस्तु तदनुसारेण भागं परिकल्प्य
देयमित्यर्थः । अत्र विशेषमाह कात्या “यस्य द्रव्येण
यत्पण्यं साधितं यो विभायेत् । तद्द्रव्यमृणिकेनैव
दातव्यं तस्य नान्यथा” यदुत्तमर्ण्णात् द्रव्यं गृहीत्वा
वाणिज्यादिकं करोति तस्मात् लब्धधनं तस्मै एव
देयं तत्सत्त्वे नान्यस्मै इत्यर्थः । पैतामहपित्रर्ण्ण-
योरग्रे देयतामाह वृह० “पित्र्यं पूर्वमृणं देयं
पश्चादात्मीयमेव च । तयोः पैतामहं पूर्वं देयमेवमृणं
पृष्ठ १४२८
सदा । पित्रर्ण्णे विद्यमाने तु न च पुत्रो धनं हरेत् ।
देयं तद्धनिके द्रव्यं मृते पौत्रैस्तु दाप्यते” । एवं मातृक-
र्णेऽपि “मातुर्दुहितरः शेषमृणात्ताभ्य ऋतेऽन्वयः” या०
उक्तेः । पुत्रपौत्रादिभिर्देय ऋणे विशेषमाह विष्णुः
“धनग्राहिणि प्रेते प्रव्रजिते वा द्विदशाः समाः प्रोषिते
वा तत्पुत्रपौत्रैर्देयं नातः परमनीप्लुभिः” प्रेते अप्राप्त
व्यवहारस्य विंशतिवर्षोत्तरं, संन्यस्ते प्रोषिते च सर्वस्यैव तत्
कालोत्तरं देयम् । एतच्च अप्राप्तधनस्य गृहीतधनस्य तु तत्
क्षणाद्देयता ऋणावशेषधनग्रहणस्यैव प्रागुक्तशास्त्रसिद्धेः ।
ऋणापकरणाभावे दोषमाह व्यासः “तपस्वी वाग्नि-
होत्री वा ऋणवान् म्रियते यदि । तपर्श्चवाग्निहोत्रञ्च
सर्वं तद्धनिनो भवेत्” । अन्यकृतपुण्यस्यान्यत्र संक्रमाप्रस-
प्तोरस्य चिन्दार्थवादता तेन तत्तत्पुण्यनाशकतेति
पर्य्यवमितोऽर्थः । कात्या० “उद्धारादिकमादाय स्वामिने
न ददाति यः । कन्तस्य दासो भृत्यः स्त्री पशुर्वा जायते
गृहे” तथा नारदः “याच्यमानं न दद्याद्य ऋणं
वापि प्रतिग्रहम् । तद्द्रव्यं वर्द्धते तस्य यावत् कोटिशतं
भवेत् । ततः कोटिशते पूर्ण्णे वेष्टितस्तेन कर्म्मणा । अश्वः
स्वरो वृषो दासो भवेज्जन्मनि जन्मनि” तेनर्ण्णानपक्रियाया
उक्तपश्वादियोनिप्राप्तिहेतुदुरदृष्टजनकत्वम् । ऋणग्रहण-
मेव पापहेतुः तच्छोधनस्य तन्नाशकतेति गदाधर आह स्म ।

ऋणावन् त्रि० ऋण--वनिप् दीर्घश्च । ऋणवात । “ऋणा-

वानं न पतयन्त सर्गैः” ऋ० १, १६९, ७ । ऋणावानमृण-
वन्तम्” भा० । “ऋणावा बिभ्यद्धनम्” ऋ० १०, ३४, १० ।

ऋणान्तक पु० ऋणमन्तयति अन्ति--नामधा० ण्वुल् । मङ्ग-

लग्रहे शब्दरत्ना० तत्सेवने ऋणमोचनात्तस्य तथात्वम् ।

ऋणापकरण न० ६ त० । ऋणशोधने ऋणापनयनादयोऽप्यत्र ।

ऋणिक त्रि० ऋणमस्त्य स्य ठन् । ऋणयुक्ते (खातक) “द्बि-

गुणं प्रतिदातव्यमृणिकैस्तस्य तद्धनम्” या० ।

ऋणिन् त्रि० ऋणमस्त्य स्य इनि स्त्रियां ङीप् । ऋणयुक्ते

(खातक) “ऋणी न स्यात् यथा पिता” स्मृ० । “समा-
प्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेद्” । “जाय-
मानोवै ब्राह्मणस्त्रिभिरृणैरृणी भवति” श्रुतिः ।

ऋणिधनिचक्र न० तन्त्रोक्ते ग्राह्यमन्त्रशु भाशुभज्ञानार्थे चक्र

भेदे तच्चक्रलेखनप्रकार उक्तः तन्त्रसारे “अथ
ऋणिधनिचक्रम् । तद्यथा रुद्रया० “कोष्ठन्येकादशैवेह वेदेन
पूरितानि च । अकारादिहकारान्तं लिखेत् कोष्ठेषु तन्त्र-
वित् । प्रममं पञ्चकोष्ठेषु ह्रस्वदीर्घक्रमेण तु । द्वयं द्वयं
लिखेत् तत्र विचारे खलु साधकः । शेषेष्वेकैकशोवर्णान्
क्रमतस्तु लिखेत् सुधीः । षट्कालकालवियदग्निसमुद्र
वेदखाकाशशून्यदहनाः खलु साध्यवर्णाः । युग्मद्विप
ञ्चवियदम्बरयुक्शशाङ्कव्योमाब्धि वेदशशिनः खलु साध्य-
कार्णाः । नामाज्झलादकठबाद्गजभक्तशेषं ज्ञात्वोभयोरधि-
कशेषमृणं धनं स्यात्” । अस्यार्थः साध्यवर्णान् स्वरव्यञ्जन-
रूपेण पृथक्कृतान् षट्कालाद्यङ्कैर्गणितान् (मिलितान्) तथा
साधकनामाक्षराणि स्वरव्यञ्जनरूपेण पृथक्कृतानि युन्माद्यै-
रङ्कैर्गणयित्वा (सकङ्कलय्य) अष्टसंख्याभिर्हृत्वा उभयोः साध्य-
साधकयोश्चाधिकम् ॠणंशेषं धनं ज्ञात्वा मन्त्रं दद्यात् ।
मन्त्रश्चेदृणी भवति तदा मन्त्रः शुभदायको भवति धनी
चेन्न । तन्त्रान्तरे “मन्त्रस्त्वृणी शुभफलोऽप्यशुभो धनी च
तुल्यो यदा समफलः कथितो मुनीन्द्रैः” । अन्यच्च “शून्ये
मृत्युमवाप्नोति धने च विफलोभवत् । ऋणे तु प्राप्ति-
मात्रेण सर्वसिद्धिस्तु जायते” तथा रुद्रयामले “मन्त्रे
यद्यधिकाङ्कः स्यात्तदा मन्त्रं जपेत् सुधीः । समेऽपि
जपेन्मन्त्रं न जपेत् तु ऋणाधिके । शून्ये मृत्युं विजा-
नीयात् तस्मात् शून्यं विवर्ज्जयेत् । “तथा इन्द्रर्क्षनेत्र रविप-
ञ्चदशर्त्तुवेदवह्न्यायुधाष्टनवभिर्गुणितानथ साध्यवर्णान् ।
दिग्सूगिरिश्रुतिगजाग्निमुनीषुवेदैः षड्वह्निभिस्तु गुणितानथ
साधकार्णान्” इदन्तु वचनं विष्णुविषयम् रामार्चनचन्द्रिका
धृतत्वादिति केचित् । वस्तुतस्तु पूर्वस्यैव विवरणं तथा
हि इन्द्रर्क्षनेत्रेत्याद्यनन्तरं “नामार्णकोष्ठाङ्मथाभि-
हन्यात् एकादिरुद्राङ्कगतक्रमेण” । व्यक्तं रुद्रयामसे
“साध्याङ्कान् साधकाङ्कांश्च पूरयेद्ग्रहसंख्यया । गुणिते तु
हृतेऽष्टाभिर्यच्छेषं जायते स्फुटम् । तदङ्कं कथयाम्यत्र
एकादशगृहस्थितम्” इत्युक्त्वा षट्कालेत्याद्युक्तम् ।
प्रकारान्तरं यथा “नामाद्यक्षरमारभ्य यावत् मन्त्रादिमा-
क्षरम् । त्रिधाकृत्वा स्वरैर्भिन्नं तदन्यद्विपरीतकम्” । अस्यार्थः
साधकनामाद्यक्षरतोगणनया यावत् मन्त्रादिमाक्षरम्
तत्संख्यां त्रिधा कृत्वा सप्तभिर्हृत्वा अधिकम् ऋणं शेफंधनं
स्यात् । तदन्यदिति मन्त्राद्यक्षरमारभ्य यावत् साधकाद्य-
क्षरं भवेत् तावत् संख्यां सप्तगुणां कृत्वा त्रिभिर्हरेत् ।
अन्यच्च “साध्यनाम द्विगुणितं साधकेन समन्वितम् ।
अष्टभिश्च हरेच्छेषं तदन्यद्विपरीतकम्” । अस्यार्थः साध्य-
नामस्वरव्यञ्जनभेदेन द्विगुणीकृत्य साधकनाम्ना स्वरव्यञ्ज-
नभेदेन मिलितं कृत्वा अष्टभिर्हरेत् अधिकम् ऋणं
शेषं धनम् । तदन्यदिति साधमनाम खण्व्यंञ्जनभेदेन
पृष्ठ १४२९
द्विगुणीकृत्य साध्यं न युक्तं कृत्वा अष्टभिर्हरेत् । नामग्र-
हणप्रकारमाह पिङ्गलामते । “प्रसिद्धं यद्भवेन्नाम किं
वास्य जन्मनामतः । यवीनां पुष्पपातेन गुरुणा यत्
कृतं भवेत् । लोकप्रसिद्धमथ वा मात्रा पित्रा तथा
कृतम्” । यामले “सुप्तोजागर्त्तियेनासौ दूरस्थश्च प्रभाषते ।
वदत्यन्यमनमस्कोऽपि तन्नाम ग्राह्यमत्र तु” । सनत्कु-
मारीये “पितृमातृकृतं नाम त्यक्त्वा शर्मादिदेवकान् ।
श्रीवर्ण्णञ्च ततो विद्वान् चक्रेषु योजयेत् क्रमात्”

ऋत गतौजुप्सायाञ्च सौत्रः सक० सेट् सार्वधातुके ईयङ् आत्म०

आर्द्धधातुके वा ईयङ् ईयङभावे पर० । ऋतीयते
ऋतीयीत ऋतीयताम् आर्त्तीयत । आर्त्तीयिष्ट आर्त्तीत् ।
ऋतीयाम्--बभूव आस चक्रे आनर्त्त । ऋतीयिता-
अर्त्तिता । ऋतीयिषीष्ट ऋत्यात् । ऋतीयिष्यते अर्त्ति-
ष्यति । आर्त्तीयिष्यत आर्त्तिष्यत् । ऋतीयमानः भावे अ ।
ऋतीया । “तस्मान्नर्तीयेरन् स योहैवं विद्वान् नर्त्ती-
यतेऽप्रियं द्विषतां करोति” शत० ३, ४, २, ३ । ते हर्त्ती-
यमाने ऊचतुः ३, ६, २, ३ । यद्वै सेनायां च समितौ
चर्त्तीयन्ते” ८, ६, १, १६ ।

ऋत न० ऋ--क्त । “ऋतमुञ्छशिल ज्ञेय” मित्युक्ते ब्राह्म-

णस्य १ उपजीव्यवृत्तिभेदे २ मोक्षे, ३ जले, “तन्म ऋतं पातु
शतशारदाय” ऋ० ७, १०१, ६ । “ऋतमुदकम्” भा० ।
“न गावो नक्षन्नृतं जरितारस्त इन्द्र!” ऋ० ७, २३, ४ ।
“ॠतमुदकम्” भा० “ऋतस्य धाराः सुदुघा दुहानाः” ऋ०
७, ४३, ४ “गोजा ऋतजा अद्रिजा ऋतम्” ऋ० ४, ४०, ५ ।
४ कर्मफले “ऋतं पिवन्तौ सुकृतस्य लोके” श्रुतिः ५ सुप्रिये
षाक्ये ६ मानसादिसत्ये च । ७ दीप्ते, ८ पूजिते च त्रि० ।
९ यज्ञे पु० “पीताये चारुरृताय पीतये” ऋ० १, १,
३७, २ । “ऋताय यज्ञाय” भा० । “चारु ऋताय
पीतये ९, १७, ८ । “ऋताय यज्ञाय” भा० १० सूर्य्ये पु० ।
“एष ते योनिरृतायुभ्याम्” यजु० ७, १० “ऋतायुभ्यां
मित्रावरुणाभ्याम् । ऋतशब्देन मित्रः आयुशब्देन
वरुणः” वेददी० । “ब्रह्म वा ऋतं ब्रह्म हि मित्रो ब्रह्म-
हृयतं वरुण एवायुः” शत० ब्रा० ४, १, ४, १० । ११ आदित्ये
न० । “ऋतं सत्यमृतं सत्यम्” यजु० ११, ४७, “ऋतमा-
दित्यः” वेददी० । ऋतमिति मन्ताव्ययमिति तु न्याय्यम्
“ऋतञ्च सत्यञ्चाभीद्धात्” अघमर्षणोक्तेः १२ परब्रह्मणि ।
“ऋतमकाक्षरं ब्रह्म सत्यं स्थानमनन्तकम्” स्मृ० १३ सत्ये
त वाक्यादौ । “सतीं वाचमृतां कर्त्तुमर्हसि त्वमरि-
न्दम!” भा० आश्व० ६७ । “तस्मात् साक्ष्यं वदेदृतम्”
“साक्ष्यं पृच्छेदृतं द्विजान्” मनुः । “सर्वमेतदृतं मन्ये यन्मां
वदसि केशव!” गीता १४ तद्वति च त्रि० । १५ ऋतदेवना-
मके देवभेदे पु० । “ऋतस्य हि शुरुधः सन्ति” ऋ० ४, २३, ८
“ऋतस्य ऋतदेवस्य” भा० । “गर्भमृतस्पतिः” ऋ० ६,
४ ८, ५ । “ऋतस्य यज्ञस्योदकस्य वा पतिः” भा० पृषो०
सुडागमः “ऋतचिद्धि सत्यः” ऋ० १, १४५, ५ । “ऋतस्य
यज्ञस्य जलस्य वा चित् चेतयिता ज्ञाता” भा० । १६ वह्ने-
रृषिभेदे “ऋतश्च सत्यश्च ध्रुवश्च वरुणश्च” यजु० १७, ८२ ।

ऋतजित् पु० ऋतं जयति जि--क्विप् ६ त० । १ यक्षभेदे ।

“त्वष्टा च जमदग्निश्च कम्बलोऽथ तिलोत्तमा । ब्रह्मापेतो-
ऽथ ऋतजित् धृतराष्ट्रश्च सत्तमः । माघमासे वसन्त्येते सप्त
मैत्रेय! भास्करे” विष्णु० १० अ० । “ब्रह्मापेतो ब्रह्मराक्षसः
ऋतजित् यक्षभेदः” श्रीधरः । २ यज्ञजयिनि त्रि० “ऋतजिच्च
सत्यजिच्च सेनजिच्च सुषेणश्च अन्तिमित्रश्च दूरेऽमित्रश्च गणः”
यजु० १७, ८३ । अयञ्चाग्नेर्धामप्रियभेदः “सप्त तेऽग्ने!
समिधः, सप्त जिह्वाः, सप्तऋपयः, सप्तधामप्रियाणि ।
सप्त होत्राः सप्तधा ता यजन्ति । सप्त योनीरापृणस्व घृतेन
स्वाहा” यजु० १७, ७९ इत्युपक्रम्य “अग्नेः समिधादिसप्त-
सप्तकोपक्रमेणु धामप्रियरूपमध्ये तस्याभिधानात् ।

ऋतद्युम्न त्रि० ऋतं द्युम्नं कीर्त्तिदीप्तिर्वाऽस्य । १ सत्येन दीप्य-

माने २ सत्ययशस्के च । “ऋतं वदन्नृतद्युम्न! सत्यं वदन्त
सत्यकर्मन्!” ऋ० ९, ११३, ४ । हे ऋतद्युम्न! ऋतेन
दीप्यमान! सत्ययशस्क! वा” भा० ।

ऋतधामन् पु० ऋतं धामास्य । १ विष्णौ त्रिका० । “ऋतं

प्रियवाक्यं सामगानं धाम स्थानमस्य । २ सामगानस्थानयुक्ते
त्रि० “ऋतधामासि स्वर्ज्योतिः” यजु० ५, ३२ । “ऋतं
सामगानं धाम स्थानमस्याः औदुम्बर्य्यः” वेददी० ऋतं सत्यम-
विनश्वरं स्थानमस्य । ३ अविनश्वरस्थानयुक्ते त्रि० । “ऋता-
षाड़्ऋतधामाग्निः” यजु० १८, ३८ । ४ इन्द्रभेदे स च
द्वादशमन्वन्तरीयः इन्द्रभेदः । “भविता रुद्रसावर्ण्णी
राजन् द्वादशमो मनुः । ऋतधामा च देबेन्द्रोदेवाश्च
हरितादयः” भाग० ८, १३, १३ । ५ यदुवंश्ये नृपभेदे ।
“कङ्कश्च कर्पिकायां वैऋतधामाजयावपि” भाग० ९, २, २३ ।

ऋतध्वज पु० १ ब्रह्मर्षिभेदे । “कुमारोनारद ऋभुरित्युपक्रम्य”

“हिरण्यनाभः कौशल्यः श्रुतदैव ऋतध्वजः । एते परे च
सिद्धेशाश्चरन्ति ज्ञानहेतवः” भाग० ६, १५, ११ । २ शिवे च
तन्नाम कथने “मन्युर्मनुर्महिनसोमहान् शिव ऋतध्वजः
उग्ररेता भवःकालो वामदेवो धृतव्रतः” भाग० ३, १२, १० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/ऋ&oldid=85286" इत्यस्माद् प्रतिप्राप्तम्