पृष्ठ ३७९२

द्वन्द न० द्वन्द्व + पृषो० बलोपः । द्वन्द्वशब्दार्थे त्रिकाण्डशेषः ।

द्वन्द्व न० द्वौ द्वौ सहाभिव्यक्तौ “द्वन्द्वं रहस्यमर्य्यादावच-

नव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु” पा० द्विशब्दस्य
द्विर्वचनं पूर्वपदस्याम्भावोऽत्त्वञ्चोत्तरपदस्य नपुंसक-
त्वञ्च निपात्यते एष्वेर्थेषु” सि० कौ० उक्ते १ रहस्यादौ
“तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम् इतरे विषयभूताः ।
द्वन्द्वम्मत्त्रयते रहस्यमित्यर्थः । मर्य्यादा स्थित्यनतिक्रमः ।
आचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते माता पुत्रेण
मिथुनं गच्छति पौत्रेण प्रपौत्रेणापीति मर्य्यादार्थः ।
व्युत्क्रमणं पृथगवस्थानम् । द्वन्द्वं व्युत्क्रान्ताः द्विवर्ग
सम्बन्धेन पृथगवस्थिताः । द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति
द्वन्द्वं संकर्षणवासुदेवौ । अभिव्यक्तौ साहचर्येणेत्यर्थः ।
योगविभागादन्यत्रापि द्वन्द्व इष्यते” सि० कौ “अत्र अन्य-
त्रापि तेन द्वन्द्वयुद्धान्यवर्त्तन्तेत्यादि सिद्धं द्वयोर्द्वयोर्यु-
द्धान्यवर्तन्तेत्यर्थः वीप्सायां द्विर्वचनेऽप्यनेन तस्य रूप
निष्पत्तिः । द्वन्द्वसमाहारादौ तु द्वन्द्वशब्दप्रयोगः रूद्या
वृत्त्या अवयवार्थराहित्येनाव्युत्पन्नत्वादिति बोध्यम्”
शब्देन्दु० । तत्र रहस्यं द्वाभ्यामेव ज्ञेयम् । २ कलहे
३ मिथुने स्त्रीपुंसयोर्द्वये ४ युगले च मेदि० ५ रोगभेदे ६
समासभेदे च पु० सच द्विधा समाहारेतरेतरयोगभेदात् तत्र
सहतिप्राधान्ये समाहारद्वन्द्वः संहन्यमानप्राधान्ये
इतरेतरयोगः इति वैयाकरणाः इतरेतरयोगशब्दे ९२३
पृ० दृश्यम् शब्दश० प्र० अन्यथा निरणायि यथा
“यद्यदर्थकयन्नामव्यूहो यद्यत्प्रकारके । बोधे समर्थः
स द्वन्द्वः समासस्तावदर्थकः ।” “यद्यदर्थोपस्थापकस्य
क्रमिकयादृशनामस्तोमस्य निश्चयस्तत्तदर्थप्रकारकान्वयबोधं
प्रति तत्त्वेन समर्थस्तादृशनामनिवह एव तावदर्थको
द्वन्द्वससासः । पाणिपादं वादय धवखदिरौ छिन्धीत्यादौ
हि कर्मत्वाद्यंशे करचरणादिप्रकारकान्वयबोधं प्रत्यमादि-
धर्मिकः करचरणाद्युपस्थापकस्य पाणिपादादिक्रमिक-
नामस्तोमस्याव्यवहितोत्तरत्वसम्बन्धेन निश्चयः कारणम्
अतः पाणिपादादिसमुदायः करचरणादितत्तदर्थे द्वन्द्वः ।
यत्तु पाणिपादमित्यादौ समाहारद्वन्द्वे सर्वत्रोत्तरपदे
पाणिपादादिसाहित्ये लक्षणा अतएव नित्यं तत्रैक-
वचनं ससाहारस्यैकत्वात् पदान्तरन्तु तादृशलक्षणाया-
निरूढ़त्वसम्पादकं तथाविधसाहित्यस्य च स्वाश्रयनिष्ठ-
त्वादिसम्बन्धेमैव द्वितीयाद्यर्थकर्मत्वादौ साकाङ्क्षत्वात्
पाणिपादं वादयेग्वादेर्नायोग्यत्वमिति प्राच्यैरुक्तं तन्न
युक्तं तुल्यवदेकक्रियान्वयित्वं बुद्धिविशेषविशेष्यत्वं वा
पाणिपादयोः साहित्यं तस्य च नानात्वसम्भवेन तद्गतद्वि-
त्वादिबोधार्थं समाहारद्वन्द्वादपि द्विवचनाद्यापत्तेर्दुर्वा-
रत्वात् । साहित्यस्य द्विबहुत्वेऽपि न समाहारद्वन्द्वस्य
द्विवचनादिसाकाङ्क्षत्वं तादृशद्विगोरिवेति चेत् तर्हि
पाणिपादप्रभृतीनां नानात्वेऽपि न तदर्थकस्य द्वन्द्वस्य
द्विवचनाद्याकाङ्क्षत्वमित्येव वक्तुमुचितं कृतं साहित्य-
भक्त्या हस्त्यश्वं धनमित्यादेरयोग्यताया दुर्वारतापाताच्च
नामार्थयोर्भेदान्वयस्याव्युत्पन्नत्वेन हस्तिनामश्वानाञ्च
साहित्यस्य स्वाश्रयत्वादिसम्बन्धेन धनादावन्वयायोगात्
तादृशसाहित्ये धनादेरभेदविरहाच्च । समाहारपरिभाषा
तु क्लीवलिङ्गत्वनित्यैकवचनत्वादिपदसंस्कारोपयोगितयै-
वोपपन्ना न द्वन्द्वस्यार्थव्यवस्थापिका । एतेन धवखदि-
रावित्यादावितरेतरद्वन्द्वेऽप्युत्तरपदे धवखदिरसाहित्या-
श्रये लक्षणा अन्यथा द्विवचनादेः प्रकृत्यर्दतावच्छेदकवत्येव
पर्य्याप्तिसम्बन्धेन स्वार्थद्वित्वाद्यनुभावकत्वव्युत्पत्तेर्धवखदि-
रावित्यतो धवद्वयस्य खदिरद्वयस्य च प्रतीत्यापत्तेरिति-
मीमांसकानाम्मतमप्यपास्तं तुल्यवदेकक्रियान्वयित्वं
धवखदिरविशेष्यकधीविशेष्यत्वं वा धवखदिरयोः साहित्यं
तदाश्रयश्च धवद्वयादिरपीति तादृशसाहित्याश्रयलक्ष-
कत्वपक्षेऽपि धवखदिरावित्यतो धबद्वयादिबोधस्य दुर्वार-
तापत्तेः । न च त्रितयाविशेष्यकधवखदिरधर्मिकर्धाविशे-
ष्यत्वमेव प्रकृते धवखदिरयोः साहित्यं तच्च न धवद्वया-
देरिति वाच्यं तादृशसाहित्यान्वयस्यानुभवेनास्पर्शनात्
तस्माद्यत्र नानाधर्माणां प्रकृत्यर्थतावच्छेदकत्वं तत्र तत्त-
द्धर्मावच्छिन्ने समुदित एव पर्य्याप्तिसम्बन्धेन द्वित्वादिबो-
धने द्विवचनादिकं साकाङ्क्षं न तु तादृशैकधर्मावच्छिन्नं
परित्यज्य तथाविधापरधर्मावच्छिन्ने, यतो धवखदिरा-
वित्यादितो धवयोः खदिरयोश्च नाबोधप्रसङ्ग इति तत्त्वम् ।
घटघटेत्यादिकस्य घटकलसेत्यादिकस्य घटतद्घटेत्यादिकस्य
च क्रमिकनामस्तोमस्य निश्चयत्वेन घटादेरन्वयबोधं प्रत्य-
हेतुत्वमतो न तादृङ्नामनिवहो घटाद्यर्थे द्वन्द्बः । अतएव
समस्यमानपदार्थयोस्तत्त्वावच्छेदकयोर्वा यत्र मिथोभेदस्त-
त्रैव द्वन्द्वस्य साधुत्वसूचनाय “चार्थे द्वन्द्व” इति पाणिनिः
प्राह । अतएव भेदगर्भसमुच्चयार्थकं चशब्दमन्तर्भाव्यं-
धवश्च खदिरश्चेत्यादिकं विग्रहमस्य प्रयुञ्जते वृद्धाः,
समुपाददते च तत्र मिथोभेदप्राप्त्यर्थञ्चकारद्वयं, पीततत्पटयो-
स्तादात्म्यमित्यादो तत्पदादेः पीताद्यभिन्नत्वेऽपि पीतत्व-
पृष्ठ ३७९३
तत्पटत्वाद्योः पदार्थतावच्छेदकयोरस्त्येव भेदः सुबर्थस्तु
द्वित्वं न तत्र प्रकृत्यर्थेऽन्वेति पर्य्याप्तिसम्बन्धेन पीततत्पटे
तस्य बाधात् सुबर्थद्वित्वादेस्तादृशसम्बन्धेनैव प्रकृत्यर्थसाका-
ङ्क्षत्वात् परन्तु प्रकृत्यर्थतावच्छेदकयोः पीतत्वतत्पटत्वयो-
रेव व्युत्पत्तिवैचित्र्यात् । अतएव द्व्यणुकारम्भकसंयोगना
शेभ्यः कार्य्यद्रव्यं नश्यतीति भाष्यस्य योग्यतासम्पत्तये-
सुवर्थैकत्वस्य कार्यद्रव्यत्वेऽन्वयमभिधित्सुनाचार्येण जात्य-
भिप्रायकमेकवचनमिति गुणकिरणावल्यामभिहितम् ।
अतएव च “श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदे-
वरौ” इत्यत्र च द्विवचनमहिम्ना स्वामिनो भ्राता देवृ-
देवरोभयपदवाच्य इत्यर्थः सुभूत्यादिसिद्धः सङ्गच्छते ।
यदि च पटद्वयासत्त्वेऽपि भूतले पीतपटावित्यादिकः
प्रयोगः स्यात् पीतत्वपटत्वोभयाश्रयस्य तत्र सत्त्वादेवं
पीतपटयोरभेद इत्यादितः शुद्धपटत्वादेरबोधप्रसङ्गश्च
तदंशे सुबर्थद्वित्वस्य प्रकारत्वादित्यादिसूक्ष्ममीक्ष्यते तदा
गोदौ ग्राम इत्यादाविव साधुत्वार्थमेव तत्र द्विवचनमिति
वदन्ति । विद्यतविन्दतिविनत्तीनामनिट् इत्यत्र विद्यत
इत्यादिशब्दो न विदधातुत्वेनोपस्थापकः किन्तु सत्ता-
द्यर्थकतादृशधातुत्वेनैव । मृगपाण्डरयोः पदार्थयोर्भेदे-
ऽपि हरिणहरिणावित्यप्रयोगात् । समानशब्दथोर्द्वन्द्व-
प्रसक्तावेकशेषोव्युत्पत्तिसिद्धस्तेन हरिणावित्यत्र लुप्तश्रु-
ताभ्यामेव हरिणपदाभ्यामुपस्थितयोर्मृगपाण्डरयोर्बोधः
हरी नमस्यावित्यत्राप्युक्तरीत्यैव हरिपदाभ्यां विष्णु
चन्द्रयोरवगतिः । अन्यथा हरिहरो नमस्यावित्यपि
प्रयोगापत्तेः हरी च हरयश्चेति विग्रहस्थले यत्र हरय
इत्यादितः समस्यमानपदार्थानामवान्तरमंख्यावगमस्तत्र
तत्तत्संख्यावच्छिन्नस्वार्थलक्षकस्य लुप्तस्य हर्य्यादिपदस्यी
त्तरत्वेन प्रतिसंहितमेव हर्य्यादिपदं तथाविधस्वार्थस्य
लक्षणया बोधकं तदप्रतिसन्धाने तु श्रुतमेव हरिपदं-
विष्णुद्वयोः सिंहत्रयस्य चैकया लक्षणया शक्तिभ्रान्त्यैव
वा । नच बिग्रहस्थ सुबंर्थस्य द्वित्वादेः समसाप्रतिपाद्यत्व-
नियमात्तथाविधद्वित्वत्रित्वान्तर्भावेण द्वन्द्वस्यैवासाधुत्वा-
दुक्तक्रमेणैकशेषो न युक्तः, शलाकापरि हस्त्यश्वमित्यादौ
व्यभिचारेणोक्तनियमस्यासत्त्वात् एकत्वे चैकत्वानि चेति
विग्रहे च एकत्वानीत्येकशेषस्य गुणकिरणावल्यामाचार्य्यै-
रमिहितत्वाच्च । हंसश्च हंसी च इत्यर्थे हंसहंस्यावित्यप्र-
योगात् तत्रापि “पुंसा स्त्रियाः सारूप्ये” इत्यनुशिष्टेर्हं-
वीपदस्य लोपे हंसाबित्यत्र लुप्तमेव हसीपदमनुसन्धाय
स्त्रीपुंसयोर्बोधः तल्लोपमजानतस्तु हंसपदे स्त्रीहंसत्व-
पुरुषहंसत्वाभ्यां विभिन्नरूपाभ्यामेकस्याः शक्तेर्लक्षणया
वा ग्रहादेव । यत्तु तत्र हंसपदमेव लक्षणया हंसीत्वेन
शक्त्या च हंसत्वेन बोधकं सुबर्थस्तु पुंस्त्वं हंस
एवान्वेति न तु हंस्यामयोग्यत्वात् इति मतं तन्न तथासति
स्त्रीहंसत्वहंसत्वयोः पदार्थतावच्छेदकयोर्मिथोभेदविरहेण
द्वन्द्वाप्रसक्तावेकशेषस्य हंसश्च हंसी च इत्यस्य दुष्करत्वापत्तेः
अन्यथा घटतद्वटावित्यपि द्वन्द्वप्रसङ्गात् हंसौ च हंसा-
श्चेति विग्रहेऽपि हंसा इत्यतो हंसद्वयहंसत्रययोः प्रागु
क्तरीत्यावगमः । दुन्दुभी च दुन्दुभिश्चेति विग्रहे दुन्दुभी
सुन्दरावित्यत्राक्षभेर्य्योर्बोधनस्थले पुंलिङ्गस्यैव दुन्दुभिश-
ब्दस्य शिष्टतया तद्विशेषणत्वादेव सुन्दरादेः पुंस्त्वम् ।
युवा च युवतिश्च इत्यर्थे युवानावित्यत्राप्युक्तरीत्यैव
युवतीयौवनवतोर्बोधः वरटाहंसौ लक्षणासारसावित्यादौ तु
स्त्रीपुंसयोर्द्धन्द्वेऽपि पदसारूप्यविरहान्नैकशेषः दम्पत्य-
र्च्चनप्रकरणे ब्राह्मणावानयेदित्यत्रापि ब्राह्मणश्च ब्राह्मणी
च इति विग्रहे प्रागुक्तदिशा ब्राह्मणभार्य्यापत्योरव-
गमः । एकश्चैका चेत्यत्र एकौ, द्वौ च द्वे चेत्यत्र
द्वौ, उभे चोभौ चेत्यत्र उभौ त्रयश्च तिस्रश्च इत्यत्र
च विग्रहे त्रय इत्यादिरेकशेष इष्यत एव । ग्राम्या-
नेकशफेष्वतरुणेषु स्त्रीपुंसयोर्बहुत्वमन्तर्भाव्य सारू-
प्येण द्वन्द्वस्थले तु पुंस एव लुक् तेन मेष्यश्च मेषाश्चेद्त्यर्थे
मेष्य इत्यत्रापि लुप्तं बहुमेषाणां लक्षकं मेषपदं प्रति-
सन्दधत एव बहुमेषाणामनेकमेषीणाञ्चावगमः ।
एवं महिषाश्च महिष्यश्चेत्यर्थे महिष्य इत्यत्रापि
महिषपदं बहूनां महिषाणां, मृगाश्च मृग्यश्चेत्यर्थे मृगा
इत्यत्र तु मृगादेरग्राम्यत्वान्न पुंसो लुक् परन्तु स्त्रियाः ।
तथा गर्द्दभाश्च गर्द्दभ्यश्चेत्यर्थे गर्द्दभा इत्यत्रापि खराणा-
मेकशफत्वात् वर्कराश्च वर्कर्य्यश्च इत्यर्थे वर्करा इत्यत्रापि-
तरुणार्थकत्वात् । स्वसा च भ्राता चेत्यर्थे भ्रातरावित्यत्र
पुत्रश्च दुहिता चेत्यर्थे पुत्रावित्यत्र च विरूपैकशेषेऽपि
स्वसृपदं दुहितृपदञ्च लुप्तं प्रतिसन्धायैव भ्रातृभगिन्योः
पुत्रकन्ययोश्चावगमः । “ज्येष्ठपुत्रदुहित्रीश्च ज्यैष्ठे मासि
न कारयेत्” इत्यादिकस्तु प्रयोगः परिचिन्तनीयः । स च
मैत्रश्चेति विग्रहे त्यदादिना तदन्यस्य द्वन्द्वे लुकि
तावित्यत्रापि लुप्तं मैत्रादिपदमनुसन्दधत एव मैत्राद्यवं-
गमः स च त्वञ्चेत्यादि विग्रहेण किंपदान्यत्यदादिद्वय-
गर्भद्वन्द्वे तु पूर्वस्यैव वा लुक् अन्त्यस्यैव वा त्यदादेर्लुति
पृष्ठ ३७९४
युवामित्यत्र त्यादावप्युक्तक्रमेणैव तदर्थयुष्मदर्थयोर्बोधः स
च स चेत्यत्रापि विभिन्नार्थयोर्विग्रहे स्वपूर्वागणितोऽपि
तदादिः स्वोत्तरापठित एव “तत्तन्मानुषतुल्योऽसौ यद्य-
द्विद्यातिनिर्म्मलेत्यादौ तु न त्यदादिगणेन द्वन्द्वः परन्तु
तदाद्यव्ययेन यथा “तत्तत्तामसभूतभीतय” इत्यादौ यत्तदा
दिव्यतिरिक्तानामेवाव्ययानां सरूपैकशेषस्य व्युत्पन्नत्वात्
प्रयोगानुरोधित्वात् कल्पनायाः । कश्च त्यञ्चेत्यादिविग्रहेण
किमा तादृशद्वन्द्वे तु तदन्यस्यैव त्यदादेर्लुकि कावित्या-
दिक एव प्रयोगः चैत्रस्य पितराबित्यत्रापि विरूपैकशेषे
लुप्तस्य मातृपदस्य स्मरणान्मातुरवगमः तदस्मरतस्तु पितृ-
पदे जनकशरीरत्वेन लक्षणया मातापित्रोरवगतिरिति
प्राञ्चः । कौमारास्तु मात्रा पितुर्द्वन्द्वे माता पितृभ्यां
मातारपितराभ्यामिति प्रयोगद्वयीदर्शनाच्चैत्रस्य पितरा-
वित्यत्र नैकशेषः परन्तु पुष्पवन्तादिपदवन्मातृत्वपितृत्वाभ्यां
विभिन्नरूपाभ्यागेकशक्तिमदेव नियतद्विवचनाकाङ्खं पितृ-
पदं प्रकृत्यन्तरम् । एवं श्वश्रूश्च श्वशुरश्चेत्यर्थे श्वशुरावित्यत्र
श्वशुरपदमपि श्वश्र्वा श्वशुरस्य द्वन्द्वे श्वश्रूश्वशुरावित्येव
प्रयोगादित्याहुः” । द्वन्द्वं विभजते । “द्वौ भेदावस्य
शास्त्रौक्तौ समाहारेतरेतरौ । एकान्यवचनाकाङ्क्षा-
हीनोपादानतश्च तौ” । “अस्य द्वन्द्वस्य द्वौ भेदौ
समाहार इतरेतरश्च शास्त्रसिद्धौ तत्रैकवचनान्यसुबाकाङ्क्षा-
विहीनः समाहारः तथाविधसुबाकाङ्क्षश्चेतरेतरः पाणि-
पादं हस्त्यश्वमित्यादितो हि करचरणादीनां बहूनाम-
प्यगतावेकवचनमेव प्रमाणं धवखदिरावित्यादौ द्विवच-
नादेः पदिस्कन्दिखिदेर्दादित्यादौ तु पदिस्कन्दिभ्यां
सहितः खिदिरिति विगृह्य मध्यपदलोपी कर्म्मधारयो
यथा अव्याप्त्यतिव्याप्तेरिति मणिग्रन्थादौ” ।
केचित् पदभेदे द्वन्द्वमिच्छन्तः “अप्येकदन्तहेरम्ब
लम्बोदरगजाननाः” इत्युदाजह्रुः तन्न समीचीनम्
चोऽवधारणे इत्यादिवत् एकदन्तादिशब्दानामेवात्र पदार्थ-
त्वात् तथाभूतशब्दानाञ्च विभिन्नानुपूर्वीकत्वेन भिन्नत्वात्
एते शब्दा गणेशे वृत्तिमन्त इत्येवं कोषादायवन्वयबोधात् ।
वटकलसयोरभेद इत्यादौ तु घटपदकलसपदप्रतिपाद्यत्व-
रूपपदार्थतावच्छेदकभेदात् न द्वन्द्वानुपत्तिरिति दिक्
“देवताद्वन्ट्ने” “चार्थे द्वन्द्वः” पा० “द्वन्द्वः समासिकस्य च”
गीता । तत्र युगले “द्वन्द्वं ते मन्दचेता यदि जपति
जनोवारमेकं कदाचित्” कर्पूरस्तवः । “विरहविधुरकोकद्व-
न्तशोकं विभिन्दन्” उद्भटः । मिथुनम् स्त्रीपुंसयोर्द्वित्वम्
तत्र “द्वन्द्वानि भावं क्रियया विव्रब्रुः” कुमा० “मृगद्वन्द्वेषु
पश्यन्तौ स्यन्दनाबद्धदृष्टिषु” रघुः । “क्षुत्पिपासे
शोकमोहौ रागद्वेषौ तथैव च । लाभालाभौ च शीतोष्णे
तथा मानापमानकौ । कामक्रोधप्रभृतयोः द्वन्द्वशब्देन
वर्णिता” इत्युक्ते परस्परविरुद्धस्वभावे शीतोष्णादौ
“न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि” माघः “तितिक्षा
शीतोष्णादिद्वन्द्वसहिष्णुता” वेदान्तसा० “द्वन्द्वातोतो विमत्सरः”
गीता । आसनजये च द्वन्द्वदुःखैरनभिभवः योगसू० उक्तः
“ततो द्वन्द्वानभिघातः” “शीतोष्णादिभिर्द्वन्द्वैरासन-
जयान्नाभिभूयते” भा० ।
७ दुर्गे युक्तिकल्प० तद्विशेषादिकं तत्रोक्तं यथा
“राज्ञोबलं न हि बलं द्वन्द्वमेव बलं बलम् । अप्यल्प-
बलवान् राजा स्थिरो द्वन्द्वबलाद्भवेत्” तथा च “एकः
शतं योधयति प्राकारस्थो धनुर्धरः । शतं दशसह-
स्राणि तस्माद्दुर्गं विशिष्यते । अकृत्रिमं कृत्रिमञ्च तत्
पुनर्द्विविधं भवेत् । यद्दैवसूचितं द्वन्द्वं गिरिनद्यादि
संश्रितम् । अकृत्रिममिदं ज्ञेयं दुर्लङ्घ्यमरिभूभुजाम् ।
प्राकारपरिखारण्यसंश्रयं यद्भवेदिह । कृत्रिमं
नामविज्ञेयं लङ्घ्यालङ्घ्यन्तु वैरिणाम्” तत्राकृत्रिमद्वन्द्वमुक्तं
तत्रैव यथा “अत्युच्चविस्तीर्णशिरा दुरारोह
सकाननः । सजलाशयसम्भारभोज्यद्रव्यसमाश्रयः । सुखनिः-
सरणो द्वन्द्वः पर्वताख्यो महीभुजाम् । नद्योगभीर-
विस्तीर्णाश्चतुर्दिक्षु व्यवस्थिताः । तन्मध्ये भूप्रदेशो यो
नदीद्वन्द्वः स उच्यते । यदन्यच्चिरकालीनं दुर्लङ्घ्य
विपिनादिकम् । तन्मध्यरचिता भूमिर्द्वन्द्वत्वेनोपतिष्ठते ।
वनद्वन्द्वमिति ख्यातं यथापूर्वं महत्तरम्” कृत्रिमद्वन्द्व-
मुक्तं तत्रैव यथा “यस्मिन् राज्ये गिरिर्नास्ति नद्यो वा
गहनोदकाः । तस्य मध्ये महीपालः कृत्रिमं द्वन्द्वमार-
भेत् । गजैरलङ्घ्या विस्तीर्णा गम्भीराः पूर्णवारयः ।
द्वन्द्वत्वेन समादिष्टाः परिखा बहुयादसः । विशाल-
शालं सुघनं वहुकण्टकिसङ्कटम् । द्वन्द्वत्वेन
समादिष्टं विस्तीर्णं विषमं बलम् । अधोऽधोबध्यमानोऽपि
कन्दरोऽल्पजलं स्रवन् । द्वन्द्वत्वेन समुद्दिष्टः दुर्लङ्घ्यो
हि स भूभुजा । सर्वतः परिखां कृत्वा निवन्धोपरिक-
न्दरम् । तज्जलप्लुतदेशत्वात् जलद्वन्द्वं तदुच्यते ।
एषामभावे निम्नस्य भूप्रदेशस्य बन्धनात् । वर्षासु प्लवते
वारि जलद्वन्द्वं ततोभवेत् । एतयोरपि संमिश्रात्
संमिश्रं द्वन्द्वमाचरेत् । आश्रित्य कृत्रिमं द्वन्द्वद्वं बलवद्-
पृष्ठ ३७९५
वैरिणो दिशि । अन्यत्र कृत्रिमं द्वन्द्वं कृत्वा मरपति
र्वसेत् । रघपतिर्यदा वैरी स्थलद्वन्द्वं तदाचरेत् ।
गजाश्चनाथश्चेद्वैरी चद्वन्द्वं तदाचरेत् । गिरिद्वन्द्वं
नृपः सेवेत् यस्य स्याद् द्विविधो रिपुः । सर्वो हि त्रिविधो
युद्धः समासादुपदिश्यते । प्रतिराजस्य राज्यान्ते प्रकटे
गुप्त एव प । राज्यान्ते सैनिकान् रक्षेत् प्रकटे
निवसेत् स्वयम् । गुप्तेऽस्त्रकोषसम्भारं संरक्षेदिति
निश्चयः” । तस्य सामान्यतो गुणा नीतिशास्त्रोक्ताः यथा
“सप्रवेशापसरणं द्वन्द्वसुत्तममुच्यते । अन्यत्र वन्दिशा-
लेव न तादृग्वशमाश्रयेत् । धनुर्द्वन्द्वं महीद्वन्द्वं गिरि-
द्वन्द्वं तथैव च । मनुष्यद्वन्द्वमित्याहुर्योद्धृद्वन्द्वं प्रकी-
र्तितम् । योद्धृशून्यं हि यत् द्वन्द्वं मृतकायसमं
हि तत्” । अन्यत्र च “यावत् प्रमाणं नगर हि
राज्ञां ततो भवेदुत्तममध्यमान्तम् । त्रिंशत्तदर्द्धाश्च गुणो-
त्तरेण त्रिदेशजानां धरणीपतीनाम्” गर्गस्तु “यदन्यद्
द्विविधं द्वन्द्वं श्रयूते धरणीभुजाम् । ताभ्यामेवाति-
रिच्येत मन्त्रद्वन्द्वं विशेषतः । अन्येषु दैवात् भिन्नेषु
मन्त्रद्वन्द्वात् जनेन्नृपः । मन्त्रद्वन्द्वे हि भिन्ने हि न
चान्यत् कार्यकारकम्” । भोजः “तदैव वैरिदुर्लङ्घ्यं
विस्तीर्णविषमञ्च तत् । सप्रवेशापसरणं तद्वन्द्वमुत्तमं विदुः” ।

द्वन्द्वगद पु० द्वन्द्वरूपो गदः । रागद्वेषादिरूपे रोगे । “अहं

हरिः सर्वमिदं जनार्दनो नान्यं ततः कारणकार्य-
जातम । ईदृङमनो थस्य न तस्य भूयो भवोद्भवा द्वन्द्व
गदा भवन्ति” विष्णुपु० ।

द्वन्द्वचर पुंस्त्री द्वन्द्वीभूय मिथुनीभूय चरति चर--ट । चक्र-

वाके हेमच० स्त्रियां जातित्वात् ङीष् । “शशिना
पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्त्रिणम्” रघुः । णिनि
द्वन्द्वचारिन् अप्यत्र त्रिका० स्त्रियां ङीप् ।

द्वन्द्वज त्रि० द्वन्द्वात् जायते जन--ड । वातपित्तश्लेष्मणां मध्ये

द्वाभ्यां दोषाभ्यां जाते १ रोगादौ माधवनिदानम्
२ कलहात् जाते च ।

द्वन्द्वयुद्ध न० द्वयोर्द्वयोर्युद्धम् । द्वयोर्द्वयोर्युद्धे “कैराते द्वन्द्व-

युद्धे च यदिदं समबर्तत” भा० उ० १९५ अ० । “वहूनि
भुवि चित्राणि द्वन्द्वयुद्धानि सञ्जय!” भा० द्रो० १५ अ०

द्वय न० अवयवम् द्वि--अवयवे तयप् तस्य वा अयच् । १ द्वयोरव

यवे २ द्वित्वे अत्र स्त्रीत्वमपि ङीप् । “अतद्द्वयीजित्वर-
सुन्दरान्तरे” नैष० “कुसुमस्तवकस्येव द्वयी वृत्तिर्मनस्विनः”
भा० र० द्वे अवयवे यस्य अयच् । २ द्वित्वान्विते त्रि०
अयचः तयप्स्थानिकत्वात् जसि सर्वनामता “द्वयेऽप्य-
मुच्यन्त विनीतमार्गाः” माघः “व्यथां द्वयेषामपि मेदिनी
भृतामिति” माघे द्वयेषामित्यसाधु अन्ये तु द्वयं द्वित्व-
मिच्छन्ति इष--क्विप् तेषामिति समर्थन्ते । स्त्रियां
ङीप् । “द्वयीषु निःक्षेप इवार्पितं द्वयम्” कुमा० अत्र
द्वयेऽपीति पाठान्तरम् ।

द्वयाग्नि पु० द्वयः द्विरूपोऽग्निरत्र । पाठिद्रुमे चित्रके (चिता)

इति भाषा वृक्षे शब्दच० तस्य प्रचुराग्निरूपत्वात्तथात्वम् ।

द्वयातिग त्रि० द्वयं रजस्तमसो द्वित्वमतिगच्छति अति +

गम--ड । रजस्तमोभ्यामनभिभूतसत्वगुणयुक्ते अमरः ।

द्वयाविन् त्रि० द्वयमस्त्यस्य वेदे “बहुलं छन्दसि” मत्वर्थे

विनि “छन्दोविन्प्रकरणे ओष्ठामेखलाद्वयोभयरुजा
हदवानां दीर्घश्चेति वव्यक्तम्” वार्ति० विनि पूर्वपददीर्घश्च ।
द्वित्वयुक्ते स्त्रियां ङीप् ।

द्वयु पु० द्वाभ्यां प्रकाराभ्यां युक्ता द्वि + यु--ज--डु पृषो० । प्रत्य-

क्षतो हितवादिनि परोक्षतोऽहितवादिनि एवं द्विप्रका-
रयुते शत्रौ “दुर्हणा वा उपद्वयुः” ऋ० ८ । १८ । १४ माधवभा०

द्वर त्रि० द्वृ--आवृतौ अच् । आवरणकारके द्वृ--इन् ।

द्वरि तत्रार्थे “स हि द्वरो द्वरिषु वत्रे” ऋ० १ । ५२ । ३

द्वाः(द्वा)स्थ पु० द्वारि तिष्ठति स्था--क वा विसर्गलोपः ।

द्वारपाले अमरः । “ते सद्मनि गिरेर्वेगात् दुर्मुखद्वाः-
स्थवीक्षिताः” कुमा० “विद्वानपि तयोर्द्वाःस्थः समय
लक्ष्मणोऽभिनत्” रघुः ।

द्वाः(द्वा)स्थित द्वारि स्थितः वा विसर्गलोपः । द्वारपाले अमरः ।

द्वा(द्वि)चत्वारिंश त्रि० द्वा(द्वि)चत्वारिंशतः पूरणः डट् ।

येन द्वाचत्वारिंत् संख्या पूर्यते तस्मिन् । स्त्रियां ङीप् ।

द्वा(द्वि)चत्वारिंशत् स्त्री द्व्यधिका चत्वारिंशत् द्विशब्दस्य वा

आत्वम् । द्व्यधिकचत्वारिंशत्संख्यायाम् तदन्विते च ।
साप्रमाणमस्य ठत् । द्वा(द्वि)चत्वारिंशतिक तत्प्रमाणेत्रि०
पूरणे तमप् द्वा(द्वि)चत्वारिंशत्तम तत्संख्यापूरणे त्रि० ।

द्वाज पु० द्वाभ्यां जायते जन--ड पृषो० । द्वाभ्यां जाते

“नाम निर्वचनं तस्य श्लोकमेकं पुरा जगुः । मूढे!
भरद्वाजमिमं भरद्वाजं वृहस्पते! । यातौ यदुक्त्वा पितरौ
भरद्वाजमथाह्वयत्” भाग० ९ । २० । ५ “तत्र प्रथमं पुत्रं त्यक्त्वा
यान्तीं ममतां वृहस्पतिराह ह मूढे! इमं पुत्रं भर
पुषाण । भर्तुर्बिभेमीति चेत्तत्राह द्वाजम् एकस्य क्षेत्रे
अन्यस्य वीजेनेत्यादिरूपं द्वाभ्यां जातं अतस्तस्याप्ययं पुत्र
इति तस्मात् न भयशङ्केत्यर्थः । एवमुक्ता सती तं
पृष्ठ ३७९६
प्रत्याह हे वृहस्पते! त्वमिमं भर यतो द्वाजं द्वाभ्यां
आवाभ्याम् अन्यायतो जातं अतो नाहमेकाकिनी
भरामीत्यर्थः । यद्यस्मादेवमुक्त्वा पितरौ ममतावृहस्पती
विवदमानौ पुत्रं परित्यज्य यातौ ततो हेतोरयं भरद्वाज
इति” श्रीधरस्वामी ।

द्वात्रिंशत् स्त्री द्व्यधिका त्रिंशत द्वादेशः । १ द्व्यधिकत्रिंशत्

संख्यायां २ तदन्विते । तस्याः पूरणः डट् । द्वात्रिंश-
तमप् द्वात्रिंशत्तम तत्संख्यापूरणे त्रि० स्त्रियां ङीप् ।

द्वात्रिंशदपराध पु० कर्म० । भक्तानामीश्वरविषये द्वात्रिंशत्

संख्यकेषु अपराधेषु । ते च अपराधाः तन्त्रसारे दर्शिता
यथा “तन्त्रान्तरे यानैर्वा पादुकाभिर्वा यानं भगवतो
गृहे । दैवोत्सवेष्वसेवा च अप्रणामस्तदग्रतः । उच्छिष्टे
चैव चाशौचे भगवद्वन्दनादिकम् । एकहस्तप्रणामश्च
तत्पुरस्तात् प्रदक्षिणम् । पादप्रसारणञ्चाग्रे तथा
पर्य्यङ्कवन्धनम् । शयनम्भक्षणञ्चापि मिथ्याभाषणमेव
च । उच्चैर्भाषो मिथो जल्पो रोदनानि च विग्रहः ।
निग्रहानुग्रहौ चैव स्त्रीषु च क्रूरमाषणम् । कम्ब-
लावरणञ्चैव परकीर्त्तेरपहुतिः । अश्लीलभाषणञ्चैव
अधोवायुविमोक्षणम् । शक्तौ गौणोऽपचारश्च
अनिवेदितभक्षणम् । तत्तत्कालभवानाञ्च फलादीनामन-
र्पणम् । विनिजुष्टावशिष्टस्य प्रदानं व्यञ्जनस्य यत् ।
स्पष्टीकृतासनञ्चैव परनिन्दा परस्तुतिः । गुरौ मौनं
निजस्त्रोत्रं देवतानिन्दनं तथा । अपराधास्तथा
विष्णोर्द्वात्रिंशत् परिकीर्त्तिताः” ।

द्वात्रिशल्लक्षण पु० द्वात्रिंशत् लक्षणानि शुभलक्षणानि यस्य ।

शुभलक्षणान्विते महापुरुषलक्षणयुते नरे । काशी० स्व०
११ अ० । “पञ्चदीर्घः पञ्चसूक्ष्मः सप्तरक्तः षडुन्नतः ।
त्रिपृथुलघुगम्भीरोद्वात्रिंशलक्षणस्त्विति” “पञ्च दीर्घाणि
शस्यानि यथा दीर्घाण्यथास्य वै । भूजौ नेत्रे हनू नासा-
वक्षसी तनयस्य ते । त्वक्केशाङ्गुलिदशनाः पर्व्वाण्यङ्गुलि
जान्थपि । तस्यास्य पञ्च सूक्ष्माणि दिक्पालपदभाक्
यथा । पाण्यङ्घ्रितलनेत्रान्तं तालुजिह्वाधरौष्ठकम् ।
सप्तारुणञ्च सनखमस्मिन् राज्यसुखप्रदम् । कक्षा
कुक्ष्यलिकस्कन्धकरवक्त्रं षडुन्नतम् । तथात्र दृश्यते बाले
महदैश्चर्य्यभाग् यथा । ललाटकटिवक्षोभि स्त्रिविस्तीर्णो
यथाह्यसौ । सर्वतेजोतिगैश्वर्य्यं तथा प्राप्स्यति नान्यथा ।
ग्रीवाजङ्घामेहनैश्च त्रिभिर्ह्रस्वोऽयमीड़ितः । स्वरेण
स्वत्वनाभिभ्यां त्रिगम्भीरः शिशुः शुभः ।”

द्वादश त्रि० द्वादशानां पूरणः द्वादशन् + उट् । द्वादशसंख्यापूरणे

स्त्रियां ङीप् । सा च द्वादश्याः चन्द्रकलायाः सूर्यकिरण-
प्रवेशनिर्गमयोग्यायां क्रियारूपायां तद्पलक्षित कालरू-
पायां वा तिथौ तस्यां व्रतकालनिर्णयः कालमा० उक्तो यथा
“अथ द्वादशी निर्णीयते । सा च युग्मादिशास्त्रेण पूर्व-
विद्धा ग्राह्या । स्कन्दपुराणेऽपि “द्वादशी च प्रकर्त्तव्या
एकादश्या युता विभो! । सदा कार्य्या च बिद्वद्भिर्विष्णु
भक्तैश्च मानवैः” इति । उत्तरविद्धां प्रतिषेधति वृहद्व-
सिष्ठः । “द्वितीया पञ्चमी वेधाद्दशमी च त्रयोदशी ।
चतुर्द्दशी चोपवासे हन्युः पूर्वोत्तरे तिथी” इति । नन्वेवं
सत्यमेकादश्युपवासो द्वादश्युपवासश्चेत्युभयमेकस्मिन्दिने
प्राप्नोति सत्यम् तथापि चोभयस्यान्योऽन्यं विरोधा-
भावात् सहैवानुष्ठानं भविष्यति । नन्वेकं व्रतमसमाप्य
व्रतान्तरमनुष्ठातुमशक्यम् । असमाप्ते व्रते पूर्वे नैव
कुर्याद्व्रतान्तरम्” इति शास्त्रात् मैवम् इदं हि शास्त्र-
मेकव्रतस्य मध्ये व्रतान्तरोपक्रमं निषेधति प्रकृते तु
व्रतद्वयस्यापि सहैवीपक्रम इति तन्त्रेणानुष्ठानं
भविष्यति । नन्वस्त्वेवं खण्डतिथौ, सम्पूर्णतिथौ त्वेकादशी
द्वादग्यु पवासौ द्वौ नैरन्तर्येण प्राप्नुतः । तत्र पारण-
मन्तरेण प्रथमोपवासस्यासमाप्तत्वात् । द्वितीयोपवासस्य
प्रक्रमो न सम्भवतीति चेत् मैवम् अद्भिः पारणं कृत्वा
द्वितीयोपवासस्य प्रक्रमयितुं । शक्यत्वात् । तादृशं तु
पारणमशितानशितोभयात्मकम् । तत्राशितरूपत्वात्
पूर्वोपवासं परिसमापयति । अनशितरूपत्वेनोत्तरोप-
वासं न विहन्ति । एतच्च द्व्यात्मकत्वं दर्शपूर्णमासप्रक-
रणे याजमानव्राह्मणे श्रूयते “यदानश्ननुपवसेत्
क्षौधुकःस्याद्यदश्नीयात् रुद्रोस्य पशूनभिमन्येतापोऽश्नाति
तन्नैवाशितं न क्षौधुको भवति नास्य रुद्रः पशृनभिम-
न्यते” इति । तस्मादुदकपारणेनोपवासद्वयनिर्वाहः ।
एतच्च सर्वतिथिसाधारणम् । प्रकृते ह्येकादशीद्वादश्योर्दै-
वतैक्यादुदकपारणमन्तरेणापि न कश्चिद्दोषः । अतएव
स्मर्यते “एकादशीमुपोष्यैव द्वादशीं समुपीषयेत् ।
न तत्र विधिलोपः स्यादुभयोर्दैवतं हरिः” इति ।
उपवासद्वयाशक्तो केवलद्वादश्युपवासेनोभयोः फलं
सिध्यति तथा च स्मृतिः “एवमेकादशीं मुक्त्वा
द्वादशीं समुपोषयेत् । पूर्वोपवासजं पुण्यं सर्वं प्राप्तो-
त्यसंशयम्” इति । द्वादश्यां तु काम्योपवासो मार्कण्डे-
येन दर्शितः “द्वादश्यामुपवासेन सिद्धार्था मूप! सर्वशः ।
पृष्ठ ३७९७
चक्रवर्तित्वमतुलं संप्राप्ता अतुलाः श्रियः” इति ।
अथाष्टौ महाद्वादश्यः, शुद्धैकादशीयुता द्वादशी उन्मी-
लिनोसंज्ञा १ द्वादश्येव शुद्धाधिका वर्द्धते चेत् सा वञ्जु-
ली २ वासरत्रयस्पर्शिनी त्रिस्पृशा ३ अग्रे पर्वणः सम्पू-
र्णाधिकत्वे पक्षवर्द्धिनी ४ । जयादयश्चतस्र इत्यष्टौ निर्ण०
सि० उक्ता जयादिकाश्चतस्रश्च हेमा० व्र० उक्ता यथा
“जया १ च विजया २ चैव जयन्ती ३ पापनाशिनी ४ । सर्व-
पापहरा चैषा कर्तव्या फलकाङ्क्षिभिः । एकादश्यां
शुक्लपक्षे यदा ऋक्षं पुनर्वसुः । सा नाम्ना च जया १
ख्याता तिथोनामुत्तमा तिथिः । समुपोष्य व्रती पापात्
मुच्यते नात्र संशयः । अग्निष्टोमस्य यज्ञस्य फलमाप्नोति
मानवः १ । यदा शुक्ले तु द्वादश्यां नक्षत्रं श्रवणं भवेत् ।
विजया २ सा तथा प्रोक्ता तिथीनामुत्तमा तिथिः । तस्यां
स्वातः सर्वतीर्थे स्नातो भवति मानवः । दानं सहस्र-
गुणितं तथा चैव पयोव्रतम् । होमजपोववासैश्च
सहस्राणां फलं लभेत् । यदा च शुक्लद्वादश्यां रोहिणी च
प्रजायते । जयन्ती ३ नाम सा प्रोक्ता सर्वपापहरा-
तिथिः । सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ।
तत् क्षालयति गोविन्दस्तस्थामभ्यर्चितस्तथा । यदा च
शुकृद्बादश्या पुष्यं भवति कर्हिचित् । तदा साऽतिमहा-
पुण्या कथिता पापनाशिनी ४ । यो ददाति च
यत्पुण्यं नित्यं संवत्सरे नरः । उपवासन्तु तस्यां च यः
करोति महत्फलम् । तस्यां जगत्पर्तिदेवः सर्वलोकेश्वरो
हरिः । प्रत्यक्षतां प्रयात्याशु तदनन्तफलं स्मृतम्”
एकादशीव्रतयोः साङ्कर्य्यादौ पारणे च विशेषः नि० सि०
उक्तो यथा
“एकादशीद्वादश्योरेकत्वे तन्त्रेणोपवासः पार्थक्ये तु
शक्तस्योपवासद्वयम् “एकादशीमुपोष्यैव द्वादशीं समुपो-
षयेत्” इति विष्णुरहस्यात् अशक्तौ तु द्वादश्यामेव
“एवमेकादशीं त्यक्त्वा द्वादशीं समुपोषयेत् । पूर्ववासरजं
पुण्यं सर्वं प्राप्नोत्यसंशयम्” इति तत्रैवोक्तेः यदात्व-
ल्पा द्वादशी तदोक्तं मात्स्ये “यदा भवति अल्पापि
द्वादशी पारणादिने । ऊषःकाले द्वयं कूर्य्यात् प्रातर्मा-
व्याह्निकं तदा” नारदीयेऽपि “अल्पायामथ विप्रेन्द्र!
द्वादश्यामरुणोदये । स्नानार्चनक्रियाः कार्य्या दानहो-
नादि संयुताः” इति सङ्कटे तु माधवीये देवलः “संकटे
विषमे प्राप्तं द्वादश्यां पारवेत्कथम् । अद्भिस्तु पारणं
कुर्य्यात् पुनर्भक्तं न दोषकृत्” इति सङ्कटे त्रयोदशीश्राद्ध-
प्रदोषादौ अत्र केचिदाहुः “अपकर्षवाक्यान्यनाहि-
ताग्निविषयाणि अग्निहोत्रादीनां श्रौतत्वेनापकर्षा-
योगादिति । द्वादश्यां च प्रथमपादमतिक्रम्य पारणं
कार्यम् “द्वादश्याः प्रथमः पादो हरिवासरसंज्ञि-
तः । तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः” इति
निर्णयामृते मदनरत्ने च विष्णुधर्मोक्तेः । अत्र केचित्
सङ्गिरन्ते “यदा भूयसी द्वादशी तदापि प्रातर्मुहूर्त्त-
त्रये पारणं कार्यम् “सर्वेषामुपवासासां प्रातरेव हि
पारणमिति वचनादिति” । अस्मद्गुरवस्तु बहूनां कर्म-
कालानां विना कारणं बाधापत्तेः प्रागुदग्वचनैश्च अल्प-
द्वादश्यामेवापकर्षविधानादपराह्व एव कार्यम् प्रातः
शब्दस्तु “सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितमिति”
वदपराह्णषाचित्वेऽप्युपपन्नः न च वाक्यवैयर्थ्यं पुनर्भो-
जनसायंपारणनिवृत्त्यर्थत्वात्तस्येत्याहुः । प्रमादेन
एकादश्युपवासातिक्रमे अपरार्के वाराहे “एकादशी विप्लुता
चेद्द्वादशी परतःस्थिता । उपोष्या द्वादशी तत्र
यदीच्छेत्परमं पदम्” । नि० सि० स्थानान्तरे
भाद्रपदशुक्लद्वादश्यां श्रवणयोगरहितायां पारणं कुर्य्यात्
आभाकासितपक्षेष्विति दिवोदासोदाहृतवचनात् ।
“उपोष्येकादशीं मोहात् पारणं श्रवणे यदि । करोति
हन्ति तत्पुण्यं द्वादशद्वादशीभवम्” इति तत्रैव स्का-
न्दाच्च । अस्य तत्रैव प्रतिप्रसवः मार्कण्डेयोक्तः “विशेषेण
महीपाल! श्रवणं वर्द्धते यदि । तिथिक्षयेण भोक्तव्यं
द्वादशीं लङ्घयेन्न हि” इति । केचित्तु यदा त्वपरिहार्य्यो-
योगस्तदा श्रवणनक्षत्रे त्रेधाविभक्ते मध्यमविंशतिघटि-
कायोगं त्यक्त्वा पारणं कार्यं तदुक्तं विष्णुधर्मे “श्रुतेश्च
मध्ये परिवर्तमेति सुप्तिप्रबोधपरिवर्तनमम्बुवर्ज्यमिति” ।
केचिच्चतुर्धा विभज्य मध्यपादद्वयं वर्ज्यमाहुः अत्र
मूलं चिन्त्यम् । अत्रैव विष्णुपरिवर्तनोत्सवं कुर्य्यात् ।
सन्ध्यायां विष्णुं संपूज्य प्रार्थयेत मन्त्रस्तु तिथितत्त्वे उक्तः ।
ॐ “वासुदेव! जगन्नाथ! प्राप्तेयं द्वादशी तव । प्रार्श्वेन
परिवर्तस्व सुखं स्वपिहि माधव!” इति अत्रैव शक्रध्व-
जोत्थापनमुक्तमपरार्के गर्गेण “द्वादश्यां तु सिते पक्षे
मासि प्रौष्ठपदे तथा । शक्रमुत्थापयेद्राजा विश्वश्रवणवा-
सवे” इयमेव श्रवणद्वादशी तत्रैकादश्यां द्वादशीश्र-
वणयोगे सैवोपाष्या “एकादशी द्वादशी च वैष्णव्यमपि
तत्र चेत् । तद्विष्णुशृङलं नाम विष्णुसायुज्यकृद्भ-
वेत्” इति विष्णुधर्मोक्तेः नारदीयेऽपि “संस्पृश्यै-
पृष्ठ ३७९८
कादशीं राजन् द्वादशीं यदि संस्पृशेत् । श्रवणं ज्यो-
तिषां श्रेष्ठं ब्रह्महत्यां व्यपोहति । द्वादशी श्रवणस्पृष्टा
स्पृशेदेकादशीं यदि । स एव वैष्णवोयोगो विष्णुशृ-
ङ्कलसंज्ञितः” इति हेमाद्रौ दिनद्वये द्वादशीश्रवणयोगे-
ऽपि पूर्वा, निर्णयामृते त्वस्य पूर्वार्द्धमन्यथा पठितम् ।
“द्वादशी श्रवणर्क्षं च स्पृशेदेकादशीं यदि” इति तेन
हेमाद्रिमते एकादश्याः श्रवणयोगाभावेऽपि तद्युक्त द्वा-
दशीयोगमात्रेण विष्णुशृङ्खलं भवति निर्णयामृतमते
तु श्रवणस्यैकादशीद्वादशीभ्यां योग एव विष्णुशृङ्गलं
नान्यथेति । यदा निशीथानन्तरं सूर्योदयावधि द्विकला-
मात्रमपि श्रवणर्क्षं भवति तदापि पूर्वैव तदुक्तं तत्रैव
नारदीये इमां प्रकृत्य “तिथिनक्षपयोर्योगोयोगश्चैव
नराधिप! । द्विकलो यदि मभ्येत स ज्ञेयो ह्यष्टया-
मिकः” इति “द्वादशी श्रवणस्पृष्टा कृत्स्ना पुण्यतमा
तिथिः । न तु सा तेन संयुक्ता तावत्येव प्रशस्यते” इति
मदनरत्ने मात्स्याच्च । दिवदोसीये तु “रात्रेः प्रथमपादे
चेच्छ्रवणं हरिवासरे । तदा पूर्वामुपवसेत्प्रातर्भान्ते च
पारणम्” इत्युक्तम् । इदं तु निर्मूलत्वात् पूर्वविरोधाच्चो-
पेक्ष्यं इयं बुधवारेऽतिप्रशस्ता “बुधश्रवणसंयुक्ता सैव चेद्-
द्वादशी भवेत् । अत्यन्तमहती सा स्याद्दत्तं भवति
चाक्षयम्” इति हेमाद्रौ स्कान्दात् । यानि तु पठन्ति
“उत्तराषाढसंयुक्ता श्रोणामध्याह्नगापि वा । आसुरी
सैव तारा स्याद्धन्ति पुण्यं पुराकृतम् । उदयव्यापिनी
ग्राह्या श्रोणाद्वादशिका युता । विश्वर्क्षसंयुता सा च
नैवोपोष्या शुभेप्शुभिः” इत्यादीनि विष्णुधर्मस्कान्द
मविष्यादीनि वचनानि तानि निर्मूलानि । यदपि स्मृ-
त्यर्थसारे उदयव्यापिनी ग्राह्येत्युक्तं यच्च वृहन्नारदीये
“उदयव्यापिनी ग्राह्या श्रवणद्वादशीव्रते” इति तद्यदा
शुद्धाधिका द्वादशी परदिन एवोदये श्रवणयोगः पूर्वेऽह्नि
च तद्भिन्ने काले योगस्तत्परम् । दिनद्वये उदययोगे
पूर्वैव बहुकर्मकालव्याप्तेरित्युक्तं मदनरत्ने । यदा त्वे-
कादश्येव श्रवणयुता न द्वादशी तदापि पूर्वैव “यदा न
प्राप्यत ऋक्षं द्वादश्यां वैष्णवं क्वचित् । एकादशी
तदोपोष्या पापघ्नी श्रवणान्विता” इति मदनरत्नेनारदीयोक्तेः
यदा परैवर्क्षयुता तदा परा तत्र शक्तेनोपवासद्वयं
कार्यम् “एकादशीमुपोष्यैव द्वादशीं समुपोषयेत् । न
चात्र विधिलोपः स्यादुभयोर्दैवतं हरिः” इति
भविष्योक्तेः यत्तु विष्णुधर्मे “पारणान्तं व्रतं ज्ञेयं व्र-
तान्ते विप्रभोजनम् । असमाप्ते व्रते पूर्वे नैव कुर्याद्-
व्रतान्तरम्” इति तदेतद्भिन्नपरम् अत्र गौडाः “शृणु
राजन् परं काम्य श्रवणद्वादशीव्रतम्” इति स्थूल-
शीर्षवचनात् काम्यमेवेदम् तेनाशक्तस्य नित्यैकाद-
शीव्रतमेवेति मन्यन्ते “द्वादश्यामुषवासेन शुद्धात्मा नृप
सर्वशः । चक्रवर्तित्वसतुलं संप्राप्नोत्युत्तमां श्रियम्”
इति गौडनिबन्धे मार्कण्डेयोक्तेश्च । दाक्षिणात्यास्तु
“एकादश्यां नरो भुक्त्वा द्वादश्यां समुपोषणात् । व्रत-
द्वयकृतं पुण्यं सर्वं प्राप्तोत्यसंशयम्” इति वराहवामन
पुराणोक्तेः श्रवणद्वादशीव्रतमेवेत्याहुः भुक्त्वेति
फलाद्याहारपरम् नत्वन्नपरम् “अन्नाश्रितानि पापानीति”
निषेधात् “उपवासद्वयं कर्तुं न शक्नोति नरो यदि ।
प्रथमेऽह्नि फलाहारी निराहारी परेऽहनि” इति
दिबोदासीये भविष्योक्तेश्च अशक्तौ तु गृहीतैकादशी-
व्रतोयस्तं प्रत्युक्तं मात्स्ये “द्वादश्यां शुक्लपक्षे तु
नक्षत्रं श्रवणं यदि । उपोष्यैकादशीं तत्र द्वादश्यां
पूजयेद्धरिम्” इति पूजयेन्न तूपवसेदित्यर्थः । अगृहीतैका-
दशीव्रतश्चेदेकादश्यां भुक्त्वा द्वादश्यामुपवसेत् “एवमेका-
दशीं भुक्त्वा द्वादशीं समुपोषयेत् । पूर्ववासरजं पुण्य
सर्वं प्राप्नोत्यसंशयम्” इति नारदीयोक्तेः । पारणं
तूभयान्तेऽन्यतरगते वा कुर्यात् “तिथिनक्षत्रनियमे तिथि-
भान्ते च पारणमिति” स्कान्दात् “तिथिनक्षत्रसंयोगे
उपवासो यदा भवेत् । पारणं तु न कर्तव्यं यावन्नैकस्य
संक्षयः” इति नारदीयादिति हेमाद्रिः । यद्यप्यत्र नक्षत्र-
मात्रान्तेऽपि पारणं प्रतिभाति तथापि तिथिमात्रान्ते
ज्ञेयम् नत्वृक्षान्ते तिथिमध्येऽपि “याः काश्चित्तिथयः
प्रोक्ताः पुण्या नक्षत्रयोगतः । ऋक्षान्ते पारणं कुर्य्याद्
विना श्रवणरोहिणीम्” इति विष्णुधर्मे श्रवणान्तमात्रे
पारणनिषेधात् “रोहिण्यान्तु भान्ते कुर्यात्तिथेर्वापि”
इति वह्निपुराणात् तदन्तेऽप्यस्तु न त्वत्रैवमस्तीति न,
ऋक्षान्तोऽनुकल्प इति मदनरत्ने । असम्भवे तु “तिथ्यन्ते
तिथिभान्ते वा पारणं यत्र चोदितम् । यामत्रयोर्द्धगा-
मिन्यां प्रातरेव हि पारणम्” इति ज्ञेयम् । यत्तु
मदनरत्ने द्वादशीवृद्धौ श्रवणवृद्धौ वा श्रवणान्त एव पारणं
कुर्यात् “पारणं तिथिवृद्धौ तु द्वादश्यामुडुसंक्षयात् ।
वृद्धौ कुर्य्यात्त्रयोदश्यां तत्र दोषो न विद्यते” इति
वह्निपुराणादित्युक्तम् तत्प्रकरणादेतस्यामेव श्रवण-
युक्तैकादश्यां विहितविजयैकादशीव्रतप्ररं न तु श्रवण-
पृष्ठ ३७९९
द्वादशीपरमिति मदनरत्ने । गौडास्तु श्रवणद्वादशीपर-
माहुः अत्रविधिर्मदनरत्ने विष्णुधर्मे “तस्मिन् दिने तथा
स्नानं यत्र क्वचन सङ्गमे । दध्योदनयुतं तस्यां
जलपूर्णं घटं द्विजे । वस्त्रसंवेष्टितं दत्त्वा छत्रोपान
हमेव च । न दुर्गतिमवाप्नोति गतिमग्र्यां च विन्दति” ।
दशावतारद्वादश्यो हेमा० व्र० उक्तो यथा विष्णुपु०
“मार्गशीर्षे सिते पक्षे द्वादश्यां समजायत । मत्स्यो
विष्णुः समाहात्म्यः तस्येष्टेयं सदा तिथिः । एकादश्या-
मुपोष्यादौ पठन् मत्स्यावतारकम् । शृण्वन् सौपर्ण
मन्त्रं च कारयित्वा वदेदिदम् ।” विष्णुर्मे
प्रीयतां मत्स्य इत्युक्त्वा ब्राह्मणाय तम् । यो दद्यात्
स सुखी भूत्वा विष्णुलोकं व्रजेच्छुभम् । पौषे
मासि सिते पक्षे द्वादश्यां समजायत । कूर्मरूपी स
भगवान् तस्येष्टेयं सदा तिथिः । एकादश्यामुपोष्यादौ
पठन् कूर्मञ्च तारकम् । शृण्वन् सौवर्णं कूर्मञ्च
कारयित्वा वदेदिदम् । विष्णुर्मे प्रीयतां कूर्म इत्युक्त्वा ब्राह्म-
णाय तम् । यो दद्यात्स सुखी भूत्वा विष्णुलोके
महीयते । यो मर्त्यो माघशुक्लस्य द्वादश्यां तु विशेषतः ।
उपोष्प भक्त्या वाभ्यर्च्य वराहं रुक्मनिर्मितम् । दद्या-
त्पठेच्च चरितं बाराहं हरिमुत्तमम् । वराहजन्मदिबसे
विप्राय श्रद्धयान्वितः । सुरमेतं समासाद्य मोदते
कालमक्षयम् । वराहविष्णुपीतिञ्च कूर्मदेवं यथातथम् ।
नारसिंहं काल्गुने तु एकादश्यां सिते शुचिः ।
उपोष्याभ्यर्चयेद्भक्त्या नारसिंहभवे दिने । सौवर्णं
नारसिंहं च कृत्वा शक्त्या द्विजाय तु । दद्यान्नृसिंहचरि-
तमिदं शृण्वन् पठंश्च वा । शत्रून् विजित्येह लक्ष्मीं
प्राप्य नित्यं नरोत्तमः । पातालस्वर्गमाप्नोति
नागदैत्याङ्गनायुतम् । चैत्रे मासि सिते पक्षे एकादश्यामु-
पोषितः । वामनस्य दिनेऽभ्यर्च्य वामनं पुरुषोत्तमम् ।
सौवर्णं वामनं दद्यात् पठेद्भक्त्या च यो नरः । स चिरं
वामनस्येदं शृणुयाद्वाप्युपोषितः । स धनैरन्वितो भुक्त्वा
भोगानिह च मानुषान् । ब्रह्मलोकमवाप्नोति विद्वान्ना-
मानुतत्परः । वैशाखशुक्लैकादश्यामुपोष्याभ्यर्चयेच्छुचिः ।
जामदग्न्यं तथा रामं दद्याद्विप्राय रुक्मजम् । ज्यैष्ठ-
शुक्लैकादश्यामुपोष्य द्वादशीदिने । रामं दाशरथिं
रौक्मं पूजयेद्भक्तिभावतः । इदं च रामचरितं शृणु-
याद्वा पठेन्नरः । रामस्य जन्मदिवसे (कल्पभेदादवि-
रुद्धम्) तथा दाशरथेर्द्विजः । सीतारामन्तु सौवर्णं
यो विप्राय प्रयच्छति । द्वादश्यां रामचरितमिदं
शृण्वन् पठंश्च वा । स इन्द्रलोकं लभते रामस्यैव प्रसा-
दतः । इह कीर्त्तिमवाप्नोति धनं पुत्रांश्च जीवितम् ।
आषाढ़मासि शुक्लां य उपोष्यैकादशीं द्विजः । द्वाद-
श्यामर्च्चयेद्रामं रौहिणेयं महाबलम् । रौहिणेयस्य
रामस्य तिथौ जन्मनि सूत्तमे । सौवर्णं ब्राह्मणायापि
रामं दद्यात्सपात्रकम् । स नागलोकमाप्नोति योवदिन्द्रा-
श्चतुर्दश । इह स्त्रीभोगमाप्नोति वलवान्नीरुजो भवेत् ।
श्रावणे मासि शुक्लां य उपोष्यैकादशीं द्विजः । द्वाद-
श्यामर्चयेत् कृष्णं रुक्मिणीसहितं शुचिः । रुक्मप्रतिकृति
कृत्वा दद्याच्च ब्राह्मणाय च । पठेच्च कृष्णचरितं कृष्ण-
जन्मदिने (कल्पभेदादविरुद्धम्) शुचिः । श्रावणे शृणु-
याद्वापि य इदं पुरुषोत्तमः । स मुच्यतेऽस्मात् संसारात्
भुक्त्वा भोगमनुत्तमम् । यस्तु भाद्रपदे मासि एकादश्यामु-
पीषितः । शुक्लायामर्चयेत् कल्किं विष्णुं सौवर्णम-
च्युयम् । द्वादश्यां जन्मदिवसे कल्किविष्णुः सुरेश्वरः ।
दद्याद्विप्राय तं वापि भक्त्यानुष्ठानती मुदा । पठेदिदं
कल्किविष्णोश्चरितं शृणुयात्ततः । जनलोकमवाप्नोति
कृते जन्म लभेद्युगे । तस्मिँस्तस्मिंस्तु दिवसे दत्तं बिष्ण्व-
वतारकम् । अर्चयन्तु सुराः सर्वे भवेयुः सर्वदार्चिताः” । ति०
त० नारदीये ‘वैशाखशुक्लपक्षे तु द्वादशी वैष्णवी तिथिः ।
तस्यां शीतलतोयेन स्नापयेत् केशवं शुचिः’ । इयं पिपी-
तकी द्वादशी । अत्र ‘षष्ठीसमेता कर्तव्या सप्तमी नाष्टमीयु
ता । पतङ्गोपासनायेह षष्ठ्यामाहुरुपोषणम् । एकादश्यां
प्रकुर्वन्ति उपवामं मनीषिणः । उपासनाय द्वादश्यां
विष्णोर्यद्वदियं तथा’ । इति भविष्यपुराणेन एकाद-
श्युपवासानन्तरं द्वादश्यां विष्णूपासनाया उक्तत्वादत्रापि
तथा व्यवहरन्तीति नात्र युग्मादरः । द्वादशीक्षयेतूप-
वामानन्तर्य्यं विनापि पूजेति । इयं पूर्ववचनोक्तषष्ठीयुता
सप्तमीवत् । आषाढ़द्वादश्यादिषु शयनादिकं प्रागुक्तवचनात्
भविष्यांत्तरे ‘द्वादशी श्रवणोपेता सर्वपापहरा तिथिः ।
वुधवारसमायुक्ता ततः शतगुणा भवेत् । तामुपोष्य
समाप्नोति द्वादशद्वादशीफलम्’ । उभयदिने तल्लाभे तु
एकादशीयुता ग्राह्या । ‘द्वादशी च प्रकर्तव्या एकादश्या-
युता विभो । सदा कार्य्या च विद्वद्भिर्विष्णुभक्तैश्च
मानवैः” इति स्कान्दात् । यदा त्वकादश्यामेव श्रवणा
तदा तामुपवसेत् तथाच नारदः “याः काश्चित्तिथयः
प्रोक्ताः पुण्या नक्षत्रयोगतः । तास्वेव तद्वतं कुर्य्यात्
पृष्ठ ३८००
श्रवणद्वादशीं विना” । भविष्योत्तरे ‘एकादशी यदा तु
स्यात् श्रवणेन समन्विता । विजया सा तदा प्रोक्ता
भक्तानां विजयप्रदा । तिथिनक्षत्रसंयोगे उपवासो यदा
भवेत् । तावदेव न भोक्तव्यं यावन्नैकस्यसंक्षयः । विशेषेण
महीपाल! श्रवणं वर्द्धते यदि । तिथिक्षयेण नोक्तव्यं
प्तादशीं नैव लङ्घग्येत्’ । तिथिक्षयेण एकादशीक्षयेण
भोक्तव्यं द्वादश्यां पारयेदित्यर्थः । अत्र हेतुः द्वादशी-
मित्यादिः । यदा त्वेकादश्युपवासदिने श्रवणं नास्ति
परदिने द्वादश्यां तत् तदोपवासद्वयमाह ब्रह्मवैवर्त्तः
‘एकादशीमुपोष्यैव द्वादशी समुपोषयेत् । न चात्र विधि-
लोपः स्यादुभयोर्देवता हरिः’ । अत्र च ‘असमाप्ते व्रते
पूर्वे नैव कुर्यात् व्रतान्तरम्’ सति स्मृतेः वारणस्याकरणेन
पूर्वोपवासासमाप्तावुपवासान्तरारम्भे विधिलोपेन
भवेदित्यर्थः । हेतुमाह उभयोरित्यादिः । उभयोपवाला-
सामर्थ्ये तु श्रवणद्वादश्येवोपोष्या तथाच स्मृतिः
‘वरमेकादशीं भुक्ता द्वादशीं समुपोषयेत् । पूर्वोपवासजं पुण्यं
सर्कं प्राप्नोत्यसंशयः’ । तथा ‘उपोष्य दादशीं पुण्यां
विष्णुऋक्षेण संयुताम् । एकादश्युद्भवं पुण्यं नरः
प्राप्नोत्यसंशयम्” । द्वादश्युपवासःवाम्यः । तथाह मार्क-
ण्डेयः “द्वादश्यामुपवासेन सिद्धात्मा नृप सर्वशः ।
चक्रवर्त्तित्वमतुलं संप्राप्नोत्यतुलां श्रियम्” तिथित०
कश्चिद्विशेषोऽनयोर्देशभेदाद्व्यवस्था ।
मासभेदे द्वादशद्वादशीव्रतभेदा अग्निपु० १८८ अ० उक्ता यथा
अग्निरुवाच । द्वादशीव्रतकं वक्ष्ये भुक्तिनुक्तिप्रदायकम् ।
एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन
भैक्ष्येण चैवं द्वादशिकव्रती । चैत्रे मासि सिते पक्षे
द्वादश्यां मदनं हरिम् । पूजयेद् भुक्तिमुक्त्यर्थी
मदनद्वादशीव्रती १ । माघशुक्ले तु द्वादश्यां भीमद्वादशिक-
व्रती । नमो नारायणायेति यजेद्विष्णुं स सर्वभाक् २ ।
फाल्गुने च लिते पक्षे गोविन्दद्वादशीव्रती ३ । विशोक-
द्वादशीकारी यजेदाश्वयुजे हरिम् ४ । सगणं मार्ग-
शीर्षे ५ तु कृष्णमम्पर्च्च्य यो नरः । ददाति शुक्ल-
द्वादश्यां स सर्वरसदायकः । गोवत्सं पूजयेद् भाद्रे
गोवत्सद्वादशीव्रती ६ । माध्यान्तु समतीतायां श्रवणेन
तु संयुता । द्वादशी ७ या भनेस् कृष्णा प्रोक्ता सा
तिलद्वादशी । तिलैः स्नानन्तिलैर्होमो नैवेद्यन्तिलमोद-
कम् । दीपश्च तिलतैलेन तथा देयं तिलोदकम् ।
तिलाश्च देया विप्रेभ्यः फलं होमोपवासतः । ॐ
नमो भगवतेऽथो वासुदेवाय वै यजेत् । सकुलः
स्वर्नमाप्नोति षट्तिलद्वादशीव्रती । मनोरथद्वादशीकृत्
फाल्गुने तु सितेऽर्च्चयेत् ८ । नामद्वादशीव्रतकृत्
केशवाद्यैश्च नामभिः । वर्षं यजेद्धरिं स्वर्गी न भवेन्
नारकी नरः । फाल्गुनस्य सितेऽभ्यर्च्च्य सुमतिद्वा-
दशीव्रती ९ । मासि भाद्रपदे शुक्ले १० अनन्तद्वादशीव्रती ।
अश्लेषर्क्षे तु मूले वा माघे ११ कृष्णाय वै नमः ।
यजेत्तिलांश्च जुहुयात्तिलद्वादशीकृन्नरः । सुगतिद्वाद-
शीकारी फाल्गुने तु सिते यजेत् । जय कृष्ण
नमस्तुभ्यं वर्षं स्याद् भुक्तिमुक्तिगः । पौषशुक्ले तु
द्वादश्यां १२ सम्प्राप्तिद्वादशीव्रती” ।
द्वादशीनियमा तद्धर्मभेदनिषेधाश्च एका० त० उक्ता यथा
“द्वादशीनियमाः । द्वादश्यामपि विष्णुपूजनम्
“एकादश्यां प्रकुर्वन्ति उपवासं मनीषिणः ।
उपालनाय द्वादश्यां विष्णोर्यद्वदियन्तथा” इति भविष्य-
पुराणात् । यद्वत् यथा द्वादश्यां विष्णूपासनाय
एकादश्यामुपवासं प्रकुर्वन्ति तथा इयमपि षष्ठीयुक्ता
सप्तमी उपोष्या सप्तम्यां सूर्य्योपासनायेत्यर्थः । तत्र
ब्रह्माण्डपुराणम् । “कांस्यं मांसं सुरां क्षौरं
लोभं वितथमाषणम् । व्यायामञ्च व्यवायञ्च दिवास्वप्नं
तथाञ्जनम् । शिलापिष्टं मसूरांश्च द्वादशैतानि
वैष्णवः । द्वादश्यां वर्ज्जयेन्नित्यं सर्वपापैः प्रमुच्यते ।
पुनर्भोजनमध्यानं यानमायालमैथुने, उपवासफलं हन्यु-
र्दिवा निद्रा च पञ्चमी” । वृद्धशातातपः
“उपवासं द्विजः कृत्वा ततोब्राह्मणभोजनम् । कुर्य्यात्त-
थास्य सगुण उपवासो हि जायते” । सगुणः साङ्गः ।
नारायणमन्त्रजपश्च पाश्चात्यनिर्णयामृते कात्यायनः
“मिथ्यावादे दिवास्वप्ने वहुशोजलसेवने । अष्टाक्षरं
वती जत्सा शतमष्टोत्तरं शुचिः” तथा “मन्त्रं निवेद्य
हरये निवेद्योपोषणं व्रती । द्वादश्यां पारणं कुर्य्याद्वर्ज-
यित्वा प्युपोदकीम्” । उपोदकीम् पूतिकाशाकम् ।
कूर्मपुराणे “कांस्यं मांसं सुरां क्षौद्रं हिंसां तैल
मसत्यताम् । द्यूतक्रीड़ां दिवानिद्रां व्यायामं क्रोघ
मैथुनम् । द्बादश्यां द्वादशैतानि वैष्णवः परिवर्जयेत्”
सवत्सरप्रदीपे “अभ्यङ्गञ्च परान्नञ्च तैलं निर्माल्य-
लङ्घनम् । तुलसीचयनं द्यूतं पुनर्भोजनमेव च ।
वस्त्रपीड़ां तथा क्षारं द्वादश्यां वर्जयेद्बुधः” । अभ्यङ्गोयेन
केनापि, तैलं तिलतैलं मार्ष्टावपि निषिद्धम् । स्मृतिः
पृष्ठ ३८०१
“घृतञ्च सार्षपं तैलं यत्तैलं पुष्पवासितम् । अदुष्टं
पक्वतैलञ्च स्नानाभ्यङ्गेषु नित्यशः” इति अभ्यङ्गो द्वादशी-
तरपरः । नित्यश इति पर्ववारादाबपि । वारे द्रव्यदा-
नेनापि प्रतिप्रसवमाह स्मृतिः “रवौ पुष्पं गुरौ दूर्वां
भूभिं भूमिजवासरे । भार्गवे गोमयं दद्यात्तैलदोषोप-
शान्तये” । दद्यात्तैले इति शेषः । सूरिसन्तोषे
“कांस्यं मांसं मसूरञ्च चणकं कोरदूषकम् । शाकं
मधु परान्नञ्च त्यजेदुपवसन् स्त्रियम्” । निर्माल्यलङ्घन-
मन्यत्रापि निषिद्धमत्राधिकदोषकरं व्रतहानिकरं वा ।
क्षारं वस्त्रस्य । “मन्दमङ्गलषष्ठीषु द्वादश्यां श्राद्ध-
वासरे! वस्त्राणां आरसंयोमोदहत्यासप्तमं कुलम्” ।
इति यमवचनात्” ।

द्वादशक त्रि० द्वादश संख्याऽस्य कन् । १ द्वादशसंख्यान्विते

पणरूपे दण्डादौ “वैश्ये स्यादर्द्धपञ्चाशच्छूद्रे द्वाद-
शकोदमः” मनुः द्वादशानां संख्या कन् । २ द्वादशसंख्या-
याञ्च “ब्राह्मणस्य परित्राणाम् गबां द्वादशकस्य च” मनुः

द्वादशकर पु० द्वादश करा भुजा यस्य । १ कार्तिकेये त्रिका०

“स्वामी शाखी विशास्वश्च द्विभुजो बालरूप धृक् । दक्षे
शक्तिः कुक्कुटोऽथ एकवक्त्रोऽथ षण्मुखः । षड़भुजो
वा द्वादशभिर्ग्रामेऽरण्ये द्विबाहुकः । शक्तीषुपाशनि
स्त्रिंशतोत्रदीस्तर्जनीयुतः । शक्त्या दक्षिणहस्तेषु,
षट्सु, वामे करे तथा । शिखिपिच्छं धनुः स्वेटं
पताकाभयकुक्कुटे । कप्रालकर्तरीशूलपाशभृद्याम्य
सौम्ययोः” हेमा० व्र० । २ शूलयोगे ३ हर्षणयोगे च तयोर्द्वा-
दशहस्तत्वम् ३७९ पृ० दृश्यम् । द्वादशभुजादयोऽप्यत्र ।
४ कुमारानुचरगणभेदे “अनन्तो द्वादशभुजस्तघा कृष्णो-
पकृष्णकौ” भा० शल्य० ४६ अ० तद्गणोक्तौ । द्वादश-
कराः किरणा यस्य । ५ द्वादशार्चिषि जीवे “ध्यात्वा
पीताम्बरं पीतं सरोजस्यं चतुर्भुजम्” इत्युक्तेश्चतुर्भुज-
त्वस्यैव प्रतीतेर्नात्रकरस्य हस्तपरता “भैरवीरूपविद्या
च भुजैर्द्वादशभिर्युताः” हेमा० व्र० उक्ते ६ भैरवीभेदे स्त्री ।

द्वादशन् त्रि० द्वौ च दश च द्व्यधिका वा दश । १ द्व्यधिकायां

द्वियुतायां वा दशसंख्यायां २ तद्युते च “द्वादश प्रति-
मास्यानि आद्यं षाण्माषिके तथा” ति० त०

द्वादशपत्र न० द्वादशाक्षराणि पत्राणीव यस्य । “वैशाखादि-

रूपतया कल्पित द्वादशाक्षरयुक्ते भगवतो मन्त्रभेदे स च
मन्त्रः ॐ नमो भगवते वासुदेवाय” यथोक्तं बामनपु०
“पितामहोऽपि तं पुत्रं साध्यं सद्विनये रतम् । सनत्-
कुमारं प्रोवाच योगं द्वादशपत्रकम् । शिखासंज्ञस्तु
ओंकारो मेषोऽस्य शिरसि स्थितः । मासो वैशाखनामा
च प्रथमं पत्रकं स्मृतम् । नकारः शिरसि प्रोक्तो वृषो-
सस्य शिरसि स्थितः ज्यैष्ठमासश्चन्तत्पत्रं द्वितीयं परिकी-
र्तितम् । मोकारो भुजयोर्युग्मं मिथुनं तत्र संस्थितम् ।
मास आषाड्नामा च तृतीयं प्यत्रकं स्मृतम् । भकारं
नेत्रयुगलं कर्कटस्तत्र संस्थितः । मासः श्रावण इत्युक्तश्च
तुर्थं पत्रकं स्मृतम् । कारं दयं प्रोक्तं सिंहो
बसति तत्र च । गासो भाद्रस्तथा प्रोक्तः पञ्चमं पत्रकं
स्मृतम् । वकारं कवचं विद्यात् कन्या तत्र प्रतिष्ठिता ।
मासश्चाश्वयुजो नाम षष्ठं तत्पत्रकं स्मृतम् । तेकार-
मन्त्रग्रामश्च तुलाराशिकृताश्रयः । मासश्च कार्तिको
नाम सप्तमं पत्रकं स्मृतम् । वाकारं नाभिसंयुक्तं स्थितं
तत्र च वृश्चिकः । मासो मार्गशिरा नाम त्वष्टकं पत्रकं
स्मृतम् । सुकारं जघनं प्रोक्तं तत्रस्थश्च धनुर्धरः । पुष्येति
गदितो मासो नवमं परिकीर्त्तितम् । देकारश्चोरुयुगलं
मकरस्तत्र संस्थितः । माघो निगदितो मासः पत्रकं
दशमं स्मृतम् । बाकारो जानुयुगलं कुम्भस्तत्रापि
संस्थितः । पत्रकं फाल्गुनं प्रोक्तं तदेकादशमुत्तमम् ।
पादौ अकारो मीनो हि स मैत्रे च वसेत् मुने! ।
इदन्तु द्वादशं प्रौक्तं पत्रं वै केशवस्य हि । द्वादशार-
न्यथा चक्रं यन्नाभि द्विभुजन्तथा । त्रिव्यूहस्त्वेकमूर्त्तिश्च
तथोक्तः परमेश्वरः । एतत्तवोक्तं देवस्य रूपं द्वादशप-
त्रकम् । यस्मिन् ज्ञाते मुनिश्रेष्ठ! न भूयो मरणं भवेत्”

द्वादशपुत्र पु० ब० । संज्ञात्वात् कर्म० । औरसादिद्वादशविधेषु

पुत्रेषु यथाह विष्णुस०
“अथ द्वादश पुत्राभवन्ति । स्वे क्षेत्ने संस्कृताया-
मुत्पादितः स्वयमौरसः प्रथमः १ । नियुक्तायां सपिण्ड-
नोत्तमवर्णेन वोत्पादितः क्षेत्रजोद्वितीयः २ । पुत्रिका-
पुत्रस्तृतीयः ३ । यस्त्वस्याः पुत्रः स मे पुत्रोजवेदिति या
पित्रा दत्ता सा पुत्रिका । पुत्रिकाविधिगा प्रतिपादिता
पितृभ्रातृविहीना पुत्रिकैव । पौगर्भवश्चतुर्थः ४ । अक्षता
भूयःसंस्कृता, पुनर्भूः भूयण्यसंस्कृतापि परपूर्वा । कानीनः
पञ्चमः ५ । पितृगृहेऽणंस्कृतयैवोत्पादितः । स च
पाणिग्राहस्य । गृहे च गूढोत्पन्नः षष्ठः ६ । यस्य तल्प-
जस्तस्यासौ । सहोष्टः सप्तमः ७ । गर्भिणी या संस्क्रियते
तस्याः पुत्रः । स च पाणिग्राहस्य । दत्तकश्चाष्टमः ८ ।
स च मातापितृभ्यां यस्य दत्तः । क्रीतश्च नवमः ९ ।
पृष्ठ ३८०२
स च येन क्रीतः । स्वयमुपगतोदशमः १० । स च यस्यो-
पगतः । अपविद्धस्त्वेकादशः ११ । पित्रा मात्रा च
परित्यक्तः । स च येन गृहीतः । यत्र क्वचनोत्पादितश्च
द्वादशः १२ । एतेषां पूर्वः पूर्वः श्रेयान् । स एव दायहरः” ।
‘वह्वीनां द्वादश ह्येव पुत्राः पुराणदृष्टाः । स्वयमुत्
पादितः स्वक्षेत्रे संस्कृतायां प्रथमः १ तदलाभे नियुक्तायां
क्षेत्रजो द्वितीयः २ । तृतीयः ३ पुत्रिका विज्ञायते अभ्रांवृका
पुंसः पितृलभ्येति प्रतीचीनं गच्छति पुत्रत्वम् । श्लोकः ।
अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलङ्कृताम् । अस्यां
यो जायते पुत्रः स मे पुत्रोभवेदिति । पौनर्भवश्चतुर्थः ४
पुनर्भूः कौमारं भर्त्तारमुत्सृज्यान्यैः सह चरित्वा
तस्यैव कुटुम्बमाश्रयति सा पुनर्भू र्भवति । या च क्लीवं
पतितमुन्मत्तं वा भर्त्तारसुत्सृज्यान्यं पतिं विन्दति
मृते वा, सा पुनर्भूर्भवति । कानीनः पञ्चमो या पितु
र्गृहेऽसंस्कृता कामाटुत्पादयेन्मातामहस्य पुत्रोभवती-
त्याहुः । अथाप्युदाहरन्ति । अप्रत्ता दुहिता यस्य
पुत्रं विन्दति तुल्यतः । पुत्री मातामहस्तेन दद्यात्
पिण्डं हरेद्धनमिति । गूढ़े च गूढोत्पन्नः षष्ठ इत्येते
दायादा बान्घवास्त्रातारोमहतोभयादित्याहुः ।
अथादायादास्तत्र सहोढएव प्रथमो या गर्भिणी संस्क्रियते
तस्यां जातः सहोढः पुत्रोभवति । दत्तकोद्वितीयो यं
मातापितरौ दद्याताम् । क्रीतस्तृतीयस्तच्छुनःशेफेन
व्याख्यातं हरिश्चन्द्रोह वै राजा सोऽजीगर्त्तस्य
सोपवत्सैः पुत्रं विक्राय्य स्वयं क्रीतवान् । स्वयमुपागतश्चतुर्थः
तच्छुनःशेफेन व्याख्यातं शुनःशेफो ह वै यूपे नियुक्तो
देवतास्तुष्टाव तस्येह देवताः पाशं बिमुमुचुन्तमृत्विज-
ऊचुर्ममैवायं पुत्रोऽस्त्विति तानाह न सम्पदे ते सम्पा-
दयामासुरेष एव वं कामयेत तस्य पुत्रोऽस्त्विति तस्येह
विश्वामित्रोहोतासीत्तस्य पुत्रत्वमियाय । अपविद्धः
पञ्चमो यं मातापितृभ्यामपास्तं प्रतिगृह्णीयात् । शूदा-
पुत्रएव षष्ठोभवतीत्याहुरित्येतेऽदायादा बान्धवाः ।
अथाप्युदाहरन्ति । यस्य पूर्वेषां वर्णानां न कश्चिद्दायादः
स्यादेते तस्यापहरन्ति’ वसिष्ठसंहिता १७ अ० । अत्र
कानीनस्य मातामहसुतत्वमुक्तं विष्णु० सूत्रे च
पाणिग्राहस्य पुत्रत्वं मिथःसमयभेदेनात्र व्यवस्था

द्वादशप्रसृत त्रि० द्वादश प्रसृतयः सन्त्यत्र अच् । द्वादशप्रसृ-

तियुक्ते सुश्रुतोक्ते वस्तिभेदे यथा “दत्त्वादौ सैन्धवस्याक्षं
मधुनः प्रसृतिद्वयम् । विनिर्मथ्य ततो दद्यात्स्नेहस्य
प्रसृतित्रयम् । एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं
क्षिपेत् । संमूर्च्छिते कषायन्तु चतुःप्रसृतिसम्पितम् ।
वितरेच्च तदावापमन्ते द्विप्रसृतोन्मितम् । एवं प्रकल्पितो
वस्तिर्द्वादशप्रसृतो भवेत् । ज्येष्ठायाः खलु मात्रायाः
प्रमाणमिदमीरितम् । अपह्रासे भिषक्कुर्य्यात्तद्वत्प्रसृ-
तिहापनम् । यथावयो निरूहाणां कल्पनेयमुदाहृता ।
सैभ्रयादिद्रवान्तानां सिद्धिकामैर्मिषग्वरैः” ।

द्वादशभाव पु० द्वादशगुणितो भावः । ज्यो० उक्तेषु तन्वादिषु

द्वादशसु भावेषु तदानयनाटि तत्रस्थितग्रहफलञ्च
नी० ता० उक्तं यथा “पूर्वं नतं स्याद्दिनरात्रिखण्डं
दिवानिशोरिष्टघटीविहीनम् । दिवानिशोरिष्टघटीषु
शुद्धं द्युरात्रिखण्डं त्वपरं नतं स्यात् । तत्काले
सायनार्कस्य भुक्तभोग्याऽंशसंगुणात् । स्वोदयात् खाग्निलब्धं
यत् भुक्तं भोग्यं रवेस्त्यजेत् । इष्टनाड़ीपलेभ्यश्च
गतगम्यान्निजोदयात् । शेषं खत्र्याहतं भक्तमशुद्धेन
लवादिकम् । अशुद्धशुद्धभे हीनयुक् तनुर्व्ययनांशकम् ।
एवं लङ्कोदयैर्भुक्तं भोग्यं शोध्यं पलीकृतात् ।
पूर्वपश्चान्नतादन्यत् प्राग्वत्तद्दशमं भवेत् । सषड्भे
लग्नखे जायातुर्य्यौ लग्नोनतुर्य्यतः । षष्ठांशयुक् तनुः
सन्धिरग्रे षष्ठांशयोजनात् । त्रयः ससन्धयोभावाः
षष्ठांशेनैकयुक सुखात् । अग्रे त्रयः षडेवं ते भार्द्ध-
युक्ताः परेऽपि षट् । खेटे भावसमे पूर्ण्णं फलं सन्धिसमे
तु खम् । हीनेऽधिके द्विसन्धिभ्यां भावे पूर्वापरे फलम् ।
मुक्तं भोग्यं स्वेष्टकालान्न शुद्ध्येत् त्रिंशन्निघ्नाद्भोदयाप्तं
लवाद्यम् । हीनं युक्तं भास्करे तत्तनुः स्याद्रात्रौ
लग्नं भार्द्धयुक्ताद्रवेस्तु । खेटे सन्घिद्वयान्तःस्थे फलं
तद्भावजं भवेत् । हीनेऽधिके द्विसन्धिभ्यां भावे पूर्वा-
परे फलम् । ग्रहसन्ध्यन्तरं कार्य्यं विंशत्या गुणितं
भवेत् । भावसन्ध्यन्तरेणाप्तं फलं विंशोपकाः स्मृताः” ।
अयमर्थः । मेषादिराशीनामुदयकालोलग्नं तस्य च
त्रिंशदंशरूपतया जन्मकाले मेषादीनां यतमोऽंशो गतः
तदारभ्य तदुत्तरराशेस्ततोर्वाचीनाशान्तः तनुभावः एवं
धनभावादि एवं तन्वादिद्वादशभावास्तेषां सन्धयोऽपि तथैव
ज्ञेयाः । राशिमात्रगणनया फलं स्थूलं भावगणनया तु
सूक्ष्मं फलादिकं भवतीति ज्ञेयम् । ते च तनुभावः,
धनरावः, सहजभावः, बन्धुभावः, पुत्रभावः, रिपुभावः,
कलत्रभावः, मृत्युभावः, धर्मभावः, कर्मभावः, आयभावः,
व्यवभावश्चेति द्वादश । तेषां सन्धयश्च द्वादशेत्यवधेयम् ।
पृष्ठ ३८०३

द्वादशमद्य न० द्वादशविधं मद्यम् । “पानसं द्राक्षमाधूकं

खार्जुरं तालमैक्षवम् । माध्वीकं टङ्कमाध्वीकं मैरेयं
नारिकेलजम् । समानानि विकाराय मद्यान्येका-
दशैव तु । द्वादशं तु सुरामद्यं सर्वेषामधमं स्मृतम्”
पुलस्त्योक्ते द्वादशविधे मद्ये ।

द्वादशमल पु० द्वादशगुणितो मलः । “वसाशुक्रमसृङ्-

मज्जं मूत्रविट्कर्णविड्नखाः । श्लेष्मास्थि दूषिका
स्वेदो द्वादशैते नृणां मलाः” अत्रिसंहितोक्ते नृणां
द्वादशविधे मले । तत्र “षण्णां षण्णां क्रमेणैव शुद्धिरुक्ता
मनीषिनिः । मृद्वारिभिश्च पूर्तेषामुत्तरेषान्तु वारिभिः”
शुद्धिप्रकारमाह तत्रैवं ।

द्वादशमास पु० द्वादशगुणितो मासः । १ चैत्रवैशाखज्यैष्ठा-

षाढश्रावणभाद्राश्विनकार्तिकमार्गशीर्षपौषमाघफाल्गुन-
संज्ञकेषु द्वादशसु मासेषु “क्वचित् द्वादश मासाः संवत्सरः
क्वचित् त्रयोदश मासाः” श्रुतिः ६ ब० । २ वर्षे पु०

द्वादशमासकर्म्मन् न० द्वादशसु मासेषु कर्तव्यं कर्म । विष्णुस०

उक्ते मार्गादिमासेषु तिथिभेदे दानहोमादिकर्मभेदे यथा
“मार्गशीर्षशुक्लपञ्चदश्यां मृगशिरःसंयुक्तायां चूर्णित
लबणस्य सुवर्णनाभं प्रस्थमेकं चन्द्रोदये ब्राह्मणाय
प्रदापयेत् । अनेन कर्मणा रूपसौभाग्यवानभिजायते ।
पोषी चेत् पुष्ययुक्ता स्यात्तस्यां गौरसर्षपकल्कोद्वर्त्तित-
शरीरो गव्यघृतपूर्णकुम्भेनाभिषिक्तः सर्वौषधीभिः सर्व-
गन्धैः सर्ववीजैश्च स्नाती घृतेन भगवन्तं वासुदेवं स्नाप-
यित्वा गन्धपुष्पधूपदीपनैवेद्यादिभिश्चाभ्यर्च्य वैष्णवैः
शाक्रैर्वाहस्पत्यैश्च मन्त्रैः पावके हुत्वा ससुवर्णेन घृतेन
ब्राह्मणान् स्वस्ति वाचयेत् । वासोयुगं कर्त्रे दद्यात् ।
अनेन कर्मणा पुष्यते । माघी मघायुता चेत्तस्यां तिलैः
श्राद्धं कृत्वा पूतोमवति । फाल्गुनी फल्गुनीयुता
चेत्स्यात्तस्यां ब्राह्मणाय सुसंस्कृतं स्वास्तीर्णं शयनं
निवेद्य भार्य्यां मनोज्ञां रूपवतीं द्रविणवतीञ्चाप्नोति ।
नार्यपि भर्त्तारम् । चैत्री चित्रायुता स्यात्तस्यां चित्रवस्त्र-
प्रदानेन सौभाग्यमाप्नोति । वैशाखी विशाखायुता
चेत्तस्यां ब्राह्मणसप्तकं क्षौद्रयुक्तैस्तिलैः सन्तर्प्य धर्म-
राजानं प्रीणयित्वा पापेभ्यः पूतोभवति । ज्यैष्ठी
ज्येष्ठायुता चेत्तस्यां छत्रीपानंहप्रदानेन गवामाधिपत्यं
प्राप्नोति । आषाद्यामाषाढायुक्तायामन्नपानदानेन
तदेवाक्षव्यमाप्नोति । श्रावण्यां श्रवणयुक्ताया जलधेनुं
सान्नां वासोयुगाच्छादितां दत्त्वा स्वर्गमाप्नोति । प्रौष्ठ-
पद्यां प्रौष्ठपदायुक्तायां गोदानेन सर्वपापविनिर्मुक्तो-
भवति । आश्वयुज्यामश्विनीगते चन्द्रमसि घृतपूर्णं
भाजनं सुवर्णयुतं विप्राय दत्त्वा दीप्ताग्निर्भवति ।
कार्त्तिकी कृत्तिकायुता चेत्तस्यां सितमुक्षाणमन्यवर्णं वा
शशाङ्कोदये “सर्वशस्यरत्नगन्धोपेतं दीपमध्ये ब्राह्मणाय
दत्त्वा कान्तारभयं नश्यति । वैशाखशुक्लतृतीयायामुपो-
षितोऽक्षतैर्वासुदेवमभ्यर्च्य तानेव हुत्वा दत्त्वा च सर्व-
पापेभ्यः पूतोभवति । यच्च तस्मिन्नहनि प्रयच्छति
तदक्षय्यमाप्नोति । पौष्यां समतीतायां कृष्णपक्षद्वादश्यां
सोपवासस्तिलैः स्नातस्तिलोदकं दत्त्वा तिलैर्वासुदेवम-
भ्यर्च्य तानेव हुत्त्वा दत्त्वा भुक्त्वा च पापेभ्यः पूतोभवति ।
माघ्यां समतीतायां कृष्णद्वादश्यां सोपवासः श्रवणं
प्राप्य वासुदेवाग्रतोमहावर्त्तिद्वयेन दीपद्वयं दद्यात् ।
दक्षिणपार्श्वे महारजतरक्तेन समग्रेण वाससा वृततुला-
मष्टाधिकां दत्त्वा वामपार्श्वे तिलतैलतुलां साष्टां दत्त्वा
श्वेतेन सनग्रेण वाससा एतत्कृत्वा कृतकृत्योयस्मिन्
राष्ट्रेऽभिजायते यस्मिन् देशे यस्मिन् कुले स तत्रोज्ज्वलो-
भवति । आश्विनं सकलं मासं ब्राह्मणेभ्यः प्रत्यहं घृतं
प्रदद्यादश्विनौ प्रीणयित्वा रूपभाग्भवति । तस्मिन्नेव
मासि प्रत्यहं गोरसैर्ब्राह्मणान् भोजयित्वा राज्यभाग्-
भवति । प्रतिमासं रेवतीयुते चन्द्रमसि मधुघृतयुतं
रेवतीप्रीत्यै परमान्नं ब्राह्मणान् भोजयित्वा रेवतीं
प्रीणयित्वा रूपभाग्भवति । माघे मासेऽग्निं प्रत्यहं
तिलैर्हुत्वा सघृतं कुल्माषं ब्राह्मणान् भोजयित्वा
दीप्ताग्निर्भवति । सर्वां चतुर्दशीं नदीजले स्नात्वा धर्म-
राजानं पूजयित्वा सर्वपापेभ्यः पूतोभवति । यदिच्छेद्वि-
पुलान् भोगान् चन्द्रसूर्यग्रहोपमान् । प्रातःस्नायी
भवेन्नित्यं द्वौ मासौ माघफाल्गुनौ” । कृत्यतत्त्वे दर्शितानि
अन्यानि च मासभेदकार्य्याणि दृश्यानि ।

द्वादशमासिक न० मासिभवं ठञ् मासिकम् कर्म० ।

मृतदिनावधिद्वादशसंख्यापूरणे मासे कर्तव्ये प्रेतोद्देश्यके
श्राद्धभेदे ।

द्वादशयात्रा स्त्री द्वादशसु मासेषु द्वादशविधा यात्रा ।

यात्रातत्त्वे स्कन्दपुराणोक्ते मासभेदे देवोत्सवे यात्राभेदे
ताश्च तत्र दर्शिता यथा
“इन्द्रद्युम्न उवाच वैशाखादिषु मासेषु यात्रापूजाविधिं
मुने! । श्रोतुमिच्छामि देवेशे यथावद्वक्तुमर्हसि ।
जैमिनिरुवाच । वैशाखादिषु भासेषु देवदेवम्य शार्ङ्गिणः ।
पृष्ठ ३८०४
या या द्वादश यात्राः स्युस्ता हि वक्ष्यामि ते शृणु ।
वैशाखे चान्दनी यात्रा ज्यैष्ठे स्नापन्युदीरिता ।
आषाढे रथयात्रा स्यात् श्रावणे शयनी तथा । भाद्रे
दक्षिणपार्श्वी सा आश्विने वामपार्श्विका । उत्थानी
कार्तिके मासि छादनी मार्गशीर्षके । पौषे पुष्याभिषेकः
स्यान्माघे शाल्योदनी तथा । फाल्गुने दोलयात्रा स्यात्
चैत्रे मदनभञ्जिका । एकैका मुक्तिदा सर्वा धर्मकामार्थ-
साधनाः” । तद्विधिस्तु तत्रैव दृश्यः ।

द्वादशराजमण्डल न० द्वादशानां राज्ञां मण्डलम् उत्तर-

पदद्विगुः । द्वादशानां राज्ञां मण्डले तच्च अग्निपु०
२३९ अ० उक्तं यथा
“राम उवाच । मण्डलं चिन्तयेत् मुख्यं राजा
द्वादशराजकम् । अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम् ।
तथारिमित्रमित्रञ्च विजिगीषोः पुरः स्मृताः । पाष्णि-
ग्राहः स्मृतः पश्चादाक्रन्दस्तदनन्तरम् । आसाराव-
नयोश्चैवं विजिगीषोश्च मण्डलम् । अरेश्च विजिगीषोश्च
मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोर्न्निग्रहे
व्यस्तयोः प्रभुः । मण्डलाद्बहिरेतेषामुदासीनो
बलाधिकः । अनुग्रहे संहतानां व्यस्तानां च बधे प्रभुः” ।

द्वादशरात्र पु० द्वादशभिः रात्रिभिः निर्वृत्तः तद्धितार्थद्विगुः

अच् समा० । द्वादशदिनसाध्ये १ द्वादशाहनामके
अहीनयागभेदे २ रात्रिसत्रभेदे स च यागः कात्यायनेनोक्तः
“ज्योतिष्टोमधर्मा एकाहद्वादशाहयोस्तद्गुणदर्शनात्”
कात्या० श्रौ० १२ १ । १ “द्वादशाहः सत्रमहीनश्च” ४ सू०
“अत्र विशेषमाह द्वादशाहमृद्धिकामा उपेयुरिति” ।
“तथा त्रयोदशरात्रमासीरन्निति सत्रलिङ्गम् द्वादशाहेन
प्रजाकामं याजयेदित्यहीनलिङ्गम् । अखानुकथनप्रयो-
जनम्, सत्रे सत्रात्मको धर्मो दातृत्वेन प्रवर्तते, अहीने
चाहीनात्मकः” कर्कः “उक्ता अहीनाः इदानीं सत्राण्य-
भिधीयन्ते” कर्कः “द्वादशरात्रादीनि रात्रिसत्राणि”
कात्या० श्रौ० २४ । १ । ३ “रात्रिसत्राणि इति नाम तच्च द्वाद-
शरात्रप्रभृतीनाम् पूर्वपदप्रधानोऽयं बहुव्रीहिः एकोच्चयेन
चत्वारिंशदन्तानि । तत्र द्वादशरात्रं द्वादशाह एव
मत्रात्मकः स च पूर्वमुक्त एव ततो द्वादशरात्रादारभ्य
एकैकाहर्वृद्ध्या चत्वारिंशद्रात्रान्तानि सत्राणि भवन्ति”
कर्कः । द्वादशानां रात्रीणां समा० द्वि० अच् समा० ।
३ समाहृतासु द्वादशरात्रिषु न० “अत ऊर्द्ध्वं त्रिरात्रं द्वा-
दशरात्रं वा” आश्व० गृ० ११ । ८ । ११ “अतः गृहप्रवेश-
नीयहोमादूर्द्ध्वं त्रिरात्रं द्वादशरात्रं वा नियतौ” नारा०
द्वादश रात्रयः साधनकालत्वेन सन्त्यस्य अर्श आद्यच् ।
४ द्वादशरात्रिसाध्ये सत्रभेदे उदा० पूर्वमुक्तम् ।

द्वादशलोचन पु० द्वादश लोचनान्यस्य । कार्तिकेये त्रिका०

तस्य षड्वक्त्रत्वात् तथात्वम् ।

द्वादशवर्गी स्त्री द्वादशानां वर्गाणां समाहारः समा० द्वि०

ङीप् । नीलकण्ठताजकोक्ते वर्षकाले ग्रहाणां
बलसाधने द्वादशमिते वर्गे सा च
“क्षेत्रं होरा त्र्यब्धिपञ्चाङ्गसप्तवस्वङ्काशेशार्कभागाः
सुधीभिः । विज्ञातव्या लग्नसंस्थाः शुभानां वर्गाः
श्रेष्ठाः पापवर्गा अनिष्टाः । ओजे रवीन्द्वोः सम
इन्दुरव्योर्होरे गृहार्द्धप्रमिते विचिन्त्ये । द्रेष्काणपाः
स्वेषुनवर्क्षनाथास्तुर्यांशपाः स्वर्क्षजकेन्द्रनाथाः । ओजर्क्षे
पञ्चमांशेशाः कुजार्कीज्यज्ञभार्गवाः । समभे व्यत्ययाज्
ज्ञेया द्वादशांशाः स्वभात् स्मृताः । लवीकृतो व्योम-
चरोऽङ्गशैलवस्वङ्कदिग्रुद्रगुणः खरामैः । भक्तो
गतास्तर्कनगाष्टनन्ददिग्रुद्रभागाः कुयुतात् क्रियात् स्युः ।
एवं द्वादशवर्गी स्यात् ग्रहाणां बलसिद्धये । स्वोच्च-
“मत्रशुभाः श्रेष्ठाः नीचारिक्रूरिणोऽशुभाः । एवं
ग्रहाणां शुभपापवर्गपङ्क्तिद्वयं वीक्ष्य शुभाधि-
कत्वे । दशाफलं भावफल च वाच्यं शुभं त्वनिष्टं
त्वशुभाधिकत्वे । क्रूरोऽपि सौम्याधिकवर्गशाली शुभो-
ऽतिसौम्यः शुभखेचरश्चेत् । सौम्योऽपि पापा-
धिकवर्गयोगान्नेष्टोऽतिनिन्द्यः खलु पापखेटः । राशी-
शमित्रोच्चरिपुक्रमेण चिन्त्यं तनोरप्यनयैव रीत्या ।
भावेषु सर्वेष्वपि वर्गचक्रं विलोक्य तत्तत् फलमूहनी-
यम्” इति द्वादशवर्गी ।

द्वादशवार्षिक त्रि० द्वादश वर्षान् अधीष्टः भृतो भूतो वा

उत्तरपदवृद्धिः । द्वादश वर्षान् व्याप्य १ अधीष्टे सत्कृत्य-
नियोजिते २ भृते कर्मकरे ३ भूते स्वसत्तयाव्यापके
ब्रह्महत्यानोदके व्रतभेदे च तच्च प्रा० वि० दर्शितं यथा
तत्र मनुः “ब्रह्महा द्वादशाव्दानि कुटीं कृत्वा वने
वसेत् । भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम्” ।
संवर्त्तः “ब्रह्महा तु वनं गत्वा वनवासो जटी ध्वजी ।
वन्थान्येव फलान्यंश्नन् सर्वकामविवर्जितः । भिक्षार्थी
विचरेद्ग्रामं वन्यैर्यदि न जीवति । चातुर्वर्ण्यं
चरेद्भैक्ष्यं खट्वाङ्गी संयतः पुमान् । भिक्षित्वैवं समादाय
वनं गच्छेत्ततः पुनः । वनवासी स पापात्मा सदाकाल
पृष्ठ ३८०५
मतन्द्रितः । ख्यापयन्नेव तत् पापं ब्रह्मघ्नः
पापकृत्तमः । अनेनैव विधानेन द्वादशाव्दं समाचरेत्” ।
“तस्मादुक्तनिष्कृतिकेष्वपि प्राजापत्यादयो योजनीयाः ।
तत्र द्वादशवार्षिकव्रते द्वादशदिनान्येकैकं प्राजापत्यम्प-
रिकल्प्य गण्यमाने प्राजापत्यानां षष्ठ्यधिकशतत्रयं द्वाद-
शवार्षिकवैकल्पिकमनुष्ठेयं भवति । तदशक्तौ तावत्यो वा
धेनवोदातव्याः” मिता० । रघु० मते तदर्द्धमिति भेदः ।
भाविनि तु “वर्षस्याभविष्यति” पा० नीत्तरपदवृद्धिः ।
द्वादशवर्षिक द्वादशवर्षान् भाविनि ज्वरादौ

द्वादशशुद्धि स्त्री द्वादशगुणिता शुद्धिः । तन्त्रसारोक्ते वैष्ण-

वानां कायिकादिद्वादशशुद्धिभेदे “अथ द्वादशशुद्धिर्वै वैष्ण-
वानामिहोच्यते । गृहोपसर्पणञ्चैव तथा चागमनं
हरेः । भक्त्या प्रदक्षिणञ्चैव पादयोः शोधनं पुनः ।
पूजार्थं पत्रपुष्पाणां भक्त्यैवोत्तोलनं हरेः । करयोः
सर्वशुद्धीनामियं शुद्धिर्विशिष्यते । तन्नामकीर्त्तन-
ञ्चैव गुणानामपि कीर्त्तनम् । भक्त्या श्रीकृष्ण
देवस्य वचसः शुद्धिरिष्यते । तत्कथाश्रवणञ्चैव तस्योत्-
सवनिरीक्षणम् । श्रोत्रयोर्नेत्रयोश्चैव शुद्धिः सम्यगि-
होच्यते । पादोदकस्य निर्माल्यमालानामपि
धारणम् । उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुरः ।
आघ्राणङ्गन्घपुष्पादेनिर्माल्यस्य तपोधन! । विशुद्धिः
स्यादनन्तस्य घ्राणस्यापि विधीयते । पत्रपुष्पादिकं यच्च
कृष्णपादयुगार्पितम् । तदेकं पावनं लोके तद्धि सर्वं
विशोधयेत् । ललाटे च गदा कार्य्या मूर्घ्नि चापं शरां-
स्तथा । नन्दकञ्चैव हृन्मध्ये शङ्खं चक्रं भुजद्वये ।
शङ्खचक्रान्वितो विप्रः श्मशाने म्रियते यदि । प्रयागे
या गतिः प्रोक्ता सा गतिस्तस्य गौतम!” ।

द्वादशशोधित न० द्वादशं व्ययस्थानं ग्रहराहित्येन

शोधितम् । व्ययस्थाने ग्रहराहित्येन शुद्धियुक्ते लग्ने
“गुरुशुक्रोदये शुद्धलग्ने द्वादशशोधिते” दीक्षातत्त्वम् ।

द्वादशसंग्राम द्वादशविधः संग्रामः । देवानामसुरैः सह

द्वादशविधे युद्धे ते च संग्रामभेदा अग्निपु० २७५ अ०
उक्ता यथा “देवासुराणा सङ्ग्रामा दायार्थं द्वादशा-
ऽभवन् । प्रथमो नारसिंहस्तु द्वितीयो वामनो रणः ।
सङ्ग्रामस्त्वथ वाराहश्चतुर्थोऽमृतमन्थनः । तारकामय-
सङ्ग्रामः ५ षष्ठो ह्याजीवको ६ रणः । त्रैपुर ७ श्चान्ध-
कवधो ८ नबमी वृत्रघातकः । जितो १० हालाहल ११
श्चाथ घोरः कोलाहलो १२ रणः । हिरण्य-
कशिपोश्चोरोवि दार्य्य च नखैः पुरा । नारसिंहो १
देवपालः प्रह्लादं कृतवान् नृपम् । देवासुरे २ वामनश्च
छलित्वा बलिमूर्जितम् । महेन्द्राय ददौ राज्यं पुरु-
षोऽदितिसम्भवः । वराहस्तु ३ हिरण्याक्षं हत्वा
देवानपालयत् । उज्जहार भुवं मग्नां देवदेवैरभि-
ष्टुतः । मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासु-
किम् । सुरासुरैश्च मथितं देवेभ्यश्चामृतं ददौ ४ । तारका-
मयसङ्ग्रामे ५ तदा देवाश्च पालिताः । निवार्येन्द्रं गुरून्
देवान् दानवान् सोमवंशकृत् । विश्वामित्रवशिष्ठात्रिक-
वयश्च रणे सुरान् । अपालयन्त निर्वार्य रागद्वेषादि-
दानवान् ६ । पृघ्वीरथे ब्रह्मयन्तुरीशस्य शरणो हरिः ।
ददाह त्रिपुरं देवपालको दैत्यमर्दनः ७ । गौरीं जिही-
र्षुणा रुद्रमन्धकेनार्दितं हरिः । अनुरक्तश्च रेवत्यां
चक्रे चान्धासुरार्दनम् ८ । अपां फेनमयो भूत्वा देवासुर-
रणे हरन् । वृत्रं देवहरं विष्णुर्देवधर्मानपालयत् ९ ।
शाल्वादीन् दानवान् जित्वा हरिः परशुरामकः ।
अपालयत् सुरादींश्च दुष्टक्षत्रं निहत्य च १० । हालाहलं ११
विषं दैत्यं निराकृत्य महेश्वरात् । भयं निर्णाशयामास
देवानां मघुसूदनः । देवासुरे रणे यश्च दैत्यः कोला-
हलो जितः १२ । पालिताश्च सुराः सर्वे विष्णुना धर्म-
पालनात् । राजानो राजपुत्राश्च मुनयो देवता हरिः ।
यदुक्तं यच्च नैवोक्तमवतारा हरेरिमे” ।

द्वादशसप्तमीव्रत न० हेमा० व्र० भविष्यपुराणोक्ते माघादि-

पौषान्तेषु द्वादशसु मासेषु सप्तम्योः कर्तव्ये सूर्यव्रतभेदे
“अथान्यन्ते प्रवक्ष्यामि सप्तमीकल्पमुत्तमम् । माघमा-
सात् समारभ्य शुक्लपक्षे युधिष्ठिर! । सप्तम्यां कृतस-
ङ्कल्पो वर्षमेकं व्रती भवेत् । वरुणं माघमासे तु भानुं
संपूज्य कारयेत् । ब्रह्मकूर्चविधानेन यथा शक्त्या नृपो-
त्तम! । अष्टम्यां भोजयेद्विप्रान् तिलपिष्टगुडोदनैः ।
अग्निष्टोमस्य यज्ञस्य फलं कृत्स्नमवाप्यते । तपनं फाल्-
गुने मासि सूर्यमित्यभिपूजयेत् । वाजपेयस्य यज्ञस्य
फलं प्राप्नोति दुर्लभम् । सप्तम्यां चैत्रमासे तु वेदांशु-
रिति पूजयेत् । उञ्छाध्वरसमं पुण्य नरः प्राप्नोत्य-
संशयम् । वैशाखस्य तु सप्तम्यां धाता इत्यभिपूजयेत् ।
पशुबन्धाध्वरं पुण्यं सम्यक् प्राप्नोति मानवः । सप्तम्यां
ज्यैष्ठमासस्य इन्द्रमित्यभिपूजयेत् । अश्वमेधफलावाप्ति-
र्जायते नात्र संशयः । तथाषाढस्य सप्तम्यां पूजयित्वा
दिवाकरम् । बहुस्वर्णस्य यज्ञस्य फलं प्राप्नोति पुष्क-
पृष्ठ ३८०६
लम् । श्रावणे मासि सप्तम्यामर्यमाणं प्रपूजयेत् ।
सौत्रामणीफलं पार्थ! नरः प्राप्नोति भक्तितः । रविं
भाद्रपदे मासि सप्तम्यार्चयेच्छुचिः । तुलापुरुषदानस्य
गुड़ेन फलमाप्नुयात् । अश्वयुक्शुक्लसप्तम्यां सवितारं
पपूजयेत् । गोसहस्रप्रदानस्य फलमाप्नोति भक्तितः ।
कार्तिके शुक्लसप्तम्यां सप्ताश्वं नाम पूजयेत् । योऽभ्यर्च-
यति पुण्यात्मा पौण्डरीकं फलं लभेत् । मार्गशीर्षे
तथा भानुं पूजयित्वा विधानतः । राजसूयस्य यज्ञस्य
फलमाप्नोति वै नरः । भास्करं पुष्पमासे तु पूजयित्वा
विधानतः । चतुर्णामपि वेदानां स्वाध्यायस्य फलं
लभेत् । तथैव कृष्णसप्तम्यां नामपूजादिकन्तु यो ।
सोपवासः प्रयत्नेन वर्षमेकं समाचरेत् । पारिते नियमे चाथ
सूर्ययागं समारभेत्” ।

द्वादशसाहस्र त्रि० द्वादश सहस्राणि परिमाणमस्य अण्

उत्तरपदवृद्धिः । द्वादशसहस्रसंख्यायुक्ते “एतद् द्वादशसा-
हस्रं देवानां युगमुच्यते” । “यत् प्राक् द्वादशसाहस्रमु
दितं दैविकं युगम्” इति च मनुः । स्त्रियां ङीप् ।
द्वादशसाहस्री संहिता । अत्र पक्षे ठञ् । द्वादशसाह-
स्रिक तत्रार्थे ।

द्वादशांशु पु० द्वादश अंशवोऽस्य । वृहस्पतौ “शुक्रः

षोडशरश्मिस्तु यस्तु देवो ह्यपोमयः । लोहितो नवरश्मिस्तु
स्थानमाप्यन्तु तस्य वै । वृहद्द्वादशरश्मीकं हरिद्राभन्तु
वेधसः । अष्टरश्मिः शनिस्तत्तु कृष्णं वृद्धमयस्मयम्”
मत्स्यपु० १२७ अ० । द्वादशरश्मिप्रभृतयोऽप्यत्र त्रिका० ।

द्वादशाक्ष पु० द्वादशाक्षीणि यस्य षच् समा० । १ कार्तिकेये ।

द्वादश मनोबुद्धिसहितज्ञानेन्द्रियादीनि अक्षिणीव यस्य ।
२ बुद्धे च हेमच० । “एकाक्षो द्वादशाक्षश्च तथा
चैकजटः प्रभुः” भा० ग० ४६ अ० उक्ते ३ कुमारानुचरभेदे च ।

द्वादशाक्षर पु० द्वादश अक्षराणि अस्य । द्वादशाक्षरयुक्ते

मन्त्रभेदे यथा विष्णोः ॐ नमो भगवते बासुदेवाय”
“नमो भगवते वासुदेवायोङ्कारपूर्वकम् । महामन्त्रमिदं
प्राहुस्तत्त्वज्ञा द्वादशाक्षरमित” पद्म० पु० क्रिया० । कृष्णस्य
ॐ क्लींगोपीजनवल्लभाय स्वाहा” इत्येवं ३ तावत्यां
शक्तिविषयविद्यायां स्त्री गौरा० ङीष् । ४ द्वादशाक्षरयुक्त-
पादके जगतीच्छन्दसि न० “विश्वे देवा द्वादशाक्षरेण
जगतीमुदजयंस्तामुज्जेषम्” यजु० ९ । ३३

द्वादशाख्य पु० द्वादश ज्ञानकर्मेन्द्रियनमोबुद्धिरूपाः पदार्थाः

पूजनीयत्वेनाख्याति आ + ख्या--क । बुद्धे हेमच० ।
वौद्धशब्दे द्वादशायतनशब्दे च विस्तरतो दृश्यम् ।

द्वादशाङ्गी स्त्री द्वादशानामङ्गानां समाहारः ङीप् ।

१ जिनाभिमते आचाराङ्गाद्येकादशोपाङ्गसहिते दृष्टिवा-
दरूपे द्वादशानामङ्गानां समाहारे “आचाराङ्गं सूत्रकृतं
स्थानाङ्गं समवाययुक् । पञ्चमं भगवत्यङ्गं ज्ञाता
धर्मकथापि च । उपासकाऽन्तकृदनुत्तरोपपातिका
दश । प्रश्नव्याकरणं चैव विपाकश्रुतमेव च । इत्ये-
कादश सोपाङ्गान्यङ्गानि द्वादशं पुनः । दृष्टिवादो द्वाद-
शाङ्गी स्याद्गणिपिटकाह्वया” हेमच० । दृष्टिवादश्च पञ्च-
विधः दृष्टिवादशब्दे दर्शितः । द्वादशाङ्गान्यस्य । २
धूपभेदे पु० “गुग्गुलुश्चन्दनं पत्रं कुष्ठञ्चागुरु कुङ्कुमम् ।
जातीकोषञ्च कर्पूरं जटामांसी च बालकम् । त्वगुशीरञ्च
धूपोऽसौ द्वादशाङ्गः प्रकीर्तितः” तन्त्रम् ।

द्वादशाङ्गुल पु० द्वादश अङ्गुलयः प्रमाणमस्य तद्धितार्थे द्वि०

“द्विगोर्नित्यम्” मात्रचो लुक् अच् समा० । वितस्तौ
परिमाणभेदे अमरः ।

द्वादशात्मन् पु० द्वादशात्मानो मूर्त्तयो यस्य । सूर्ये ।

आदित्यशब्दे ६९६ पृ० धात्रादयो विष्णुपर्यन्ताः तस्य मूर्तय
उक्ताः । द्वादशमेषादिराशयश्चास्य मूर्तयः सू० सि० उक्ता
यथा सूर्य इत्युपक्रमे “पुनर्द्वादशधात्मानं विभजन् राशि-
संज्ञकम्” । २ अर्कवृक्षे च ।

द्वादशादित्य पु० संज्ञात्वात् कर्म० । १ धात्रादिषु

विष्णुपर्यन्तेषु द्वादशसु आदित्येषु २ काशीस्थेषु द्वादशसु
लोलार्कादिषु च “इति काशीप्रभावज्ञोजगच्चक्षुस्तमोनुदः ।
कृत्वा द्वादशधात्मानं काशीपुर्यां व्यवस्थितः । लोलार्क
उत्तरार्कश्च शाम्बादित्यस्तथैव च । चतुर्थो द्रुपदादित्यो
मयूखादित्य एव च । खखोल्कश्चारुणादित्यो वृद्धकेशव-
सङ्गकौ । दशमो विमलादित्यो गङ्गादित्यस्तथैव च ।
द्वादशश्च रमादित्यः काशीपुर्य्यां घटोद्भव! । तमोऽधि-
केभ्योदुष्टेभ्यः क्षेत्रं रक्षन्त्यमी सदा” काशी० ख० ४६ अ०

द्वादशाध्यायी स्त्री द्वादशानामध्यायानां समाहारः ङीप् ।

जैमिनीयसूत्ररूपायां द्वादशलक्षण्याम् “घर्मो द्वादश-
लक्षण्यां व्युत्पाद्यस्तत्र लक्षणैः । प्रमाणभेदशेषत्वप्रयुक्ति
क्रमसंज्ञकाः । अधिकारोऽतिदेशश्च सामान्येन विशेषतः ।
ऊहोऽबाधश्च तन्त्रं च प्रसङ्गश्चोदिताः क्रमात्” जैमिनीय
न्थायमाला जैमिनिशब्दे ३१४६ पृ० दृश्यम् । द्वादशलक्ष-
ण्यप्यत्र । २ मन्वादिसंहितायाञ्च तयोर्द्वादशाध्या-
यात्मकत्वात्तथात्वम् ।
पृष्ठ ३८०७

द्वादशान्यिक त्रि० द्वादश अन्ये अन्यथाभूता अपपाठा

जाता अस्य “कर्मण्यध्ययने वृत्तम्” इत्युपक्रमे “बह्वृच्
पूर्वपदाट्ठञ्” पा० ठञ् । जातद्वादशापपाठके कुत्सि-
ताध्ययन कर्तृभेदे ।

द्वादशायतन न० द्वादशविधमायतनम् । बौद्धमतसिद्धेषु

द्वादशसु पूजास्थानेषु मनोबुद्ध्यादिषु यथा “अर्थानुपा-
र्ज्य बहुशो द्वादशायतनानि वै । परितः पूजनीयानि
किमन्यैरिह पूजितैः । ज्ञानेन्द्रियाणि पञ्चैव तथा
कर्मेन्द्रियाणि च । मनो बुद्धिरिति प्रोक्तं द्वादशायतनं
बुधैरिति” ।

द्वादशायुस् पु० द्वादश वर्षाः आयुःकालोऽस्य । कुक्कुरे शब्द-

माला । आयुस्शब्दे ७९३ पृ० शुनः त्रयोदशवर्षा-
युष्कालत्वोक्तावपि प्रायिकत्वादत्र द्वादशवर्षोक्तिरिति
विवेच्यम् ।

द्वादशार न० द्वादश अरा रथाङ्गावयवभेदा इव यस्य ।

१ द्वादशकोणे राशिचक्रादौ “द्वादशारं न हि तज्जराय
वर्वत्ति चक्रं परि द्यामृतस्म” ऋ० १ । १६३ । ११ “ऋतस्यो-
दकस्य सत्यात्मकस्य वादित्यस्य चक्रं पुनःपुनः क्रमण-
शीलं मण्डलाख्यं रथचक्रं वर्वर्ति पुनःपुनर्वर्तते ।
सञ्चरति । कुत्र । द्यां परि । द्युलीकस्यान्तरिक्षस्य
परितः । कीदृशं तत् । द्वादशारम् । द्वादशसंख्याकै०
र्मेषादिराश्यात्मकैर्वाऽरै रथाङ्गावयबैर्युक्तम्” भा०
२ तन्त्राक्ते सुषुम्णानाडीमध्ये हृदयस्थे ककारादिठान्त
द्वादशवर्णयुक्ते द्वादशदलकमले च द्वादशदलादयोऽप्यत्र ।

द्वादशाशन न० द्वादशविधमशनम् शाक० त० । सुश्रुतोक्ते

अधिकारिभेदेन द्वादशविधे अशनभेदे यथोक्तं तत्र उत्तरतन्त्रे ।
“अत ऊर्द्ध्वं द्वादशाशनप्रविमागान्वक्ष्यामः । तत्र
शीतोष्णस्निग्धरूक्षद्रवशुष्कैककालिकद्विकालिकौषधयुक्त-
मात्राहीनदोषप्रशमनवृत्त्यर्थाः । तृष्णोष्णमददाहार्त्तान्
रक्तपित्तविषातुरान् । मूर्च्छार्त्तान् स्त्रीषु च क्षीणान्
शीतै १ रन्नैरुपाचरेत् । कफवातामयाविष्टान् विरिक्तान्
स्नेहपायिनः । प्रक्लिन्नदेहांश्च नरानुष्णै २ रन्नैरुपाचरेत् ।
वातिकान् रूक्षदेहांश्च व्यायामोपहतांस्तथा । व्यवा-
यिनश्चापि नरान् स्निग्धै ३ रन्नैरुपाचरेत् । मेदसाभि-
परीतांस्तु स्थूलान्मेहातुरानपि । कफाभिपन्नदेहांश्च
रूक्षै ४ रन्नैरुपाचरेत् । शुष्कदेहान् पिपासार्त्तान् दुर्ब-
लानपि च द्रवैः ५ । प्रक्लिन्नकायान् व्रणिनः शुष्कै
६र्म्मेहिनमेव च । एककालं ७ भवेद्देयो दुर्बलाग्नि-
विवृद्धये । समाग्नये तथाहारो देयः कालमथो-
भयम् ८ । औषधद्वेषिणे देयस्तथौषधसमायुतः ९ ।
मन्दाग्नये रोगिणे च मात्राहीनः १० प्रशस्यते ।
यथार्थदत्तश्चाहारो दोषप्रशमनः ११ स्मृतः । अतःपरन्तु
स्वस्थानां वृत्त्यर्थं १२ सर्वमेव च । द्वादशान्नप्रविचारा-
नेतानेव प्रचक्षते” ।

द्वादशाह पु० द्वादशभिरहोभिर्निर्वृत्तः ठञ् तस्य लुक्,

द्वादशमहः कर्म०, द्वादशानामह्नां समाहारो वा टच्
समा० अह्नाहान्तत्वात् पुंस्त्वम् । १ द्वादशभिरहोभिः
साध्ये यागभेदे द्वादशरात्रशब्दे दृश्यम् । २ द्वादशे
दिने “द्वादशाहः प्रशस्यते” स्मृतिः । ३ द्वादशदिनसमा-
हारे “मुख्यं श्राद्धं मासि मासि अपर्य्याप्तावृतुं प्रति ।
द्वादशाहेन वा कुर्य्यादेकाहे द्वादशाथ वा” ति० त० ।
अत्र अपवर्गे तृतीया द्वादशानां श्राद्धाणां मध्ये प्रत्य-
हमेकैककरणेन द्वादशदिनव्यापकता बोध्या” द्वादश
दिनानि च आद्यमाससम्बन्धीनि ग्राह्याणीति बोध्यम् ।
द्वादशाहम् अधीष्टो भूतोभूतो भावी वा” पा० ठञ् तस्य
लुक् । द्वादशदिनं व्याप्य ४ सत्कृत्यनियोजिते ५ भृते
कर्मकरे स्वसत्तया तद्व्यापके ६ यागादौ ७ तत्र भाविनि
ज्वरादौ च “ऐकाहिकेषु विकारेषु द्वादशाहिकेषु
च यथार्थं प्रयोगः” कात्या० श्रौ० १२ । ६ । २५ सूत्रे कर्कः ।

द्वापर पु० द्वौ परौ प्रकारौ विषयौ यस्य पृषो० । १ संशये ।

द्वाभ्यां सत्यत्रेताभ्यां परः पृषो० । २ सत्यत्रेतायुगानन्तरे
युगभेदे च । ३ द्व्यङ्कसंख्यान्वितपार्श्वकपाशके न०
अयशब्दे ३३४ पृ० दृश्यम् । द्वापरयुगमानञ्च “अष्टौ
शतसहस्राणि वर्षाणां मानुषाणि तु । चतुःषष्टिः
सहस्राणि वर्षाणां द्वापरं युगय्” मत्स्यपु० १४१ अ० ।
तद्धर्मभेदश्च तत्र १४३ अ० उक्तो यथा
“अत ऊर्द्ध्वं प्रवक्ष्यामि द्वापरस्य विधिं पुनः ।
तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते । द्वापरादौ
प्रजानान्तु सिद्धिस्त्रेतायुगे तु या । परिवृत्ते युगे
तस्मिंस्ततः सा वै प्रणश्यति । ततः प्रवर्त्तिते तासां
प्रजानां द्वापरे पुनः । लोभोधृतिर्बणिग्युद्धं तत्त्वा-
नामविनिश्चयः । प्रध्वंसश्चैव वर्णानां कर्मणान्तु
विपर्य्ययः । यात्रा बधः परोदण्डोमानोदर्पोऽक्षमा बलम् ।
तथा रजस्तमोभूतः प्रवृत्ते द्वापरे पुनः । आद्ये कृते
नाधर्मोऽस्ति स त्रेतायां प्रवर्त्तितः । द्वापरे व्याकुलोभूत्वा
कलौ धर्मः प्रणश्यति । वर्णानां द्वापरे धर्माः सङ्कीर्यन्ते
पृष्ठ ३८०८
तथाऽऽश्रमाः । द्वैधमुत्पद्यते चैव युगे तस्मिन् श्रुतिस्मृतौ ।
द्विधा श्रुतिः स्मृतिश्चैव निश्चयो नाधिगम्यते । अनिश्च-
यावगमनाद्धर्मतत्त्वं न विद्यते । धर्मतत्त्वे ह्यविज्ञाते
मतिभेदस्तु जायते । परस्परं विभिन्नास्ते दृष्टीनां
विभ्रमेण तु । अतो दृष्टिविभिन्नैस्तैः कृतमत्याकुलन्त्रि-
दम् । एको वेदश्चतुष्पादः संहृत्य तु पुनः पुनः । संक्षे
पादायुषश्चैव व्यस्यते द्वापरेत्विह । वेदश्चैकश्चतुर्द्धा तु
व्यस्यते द्वापरादिषु । ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टि-
विभ्रमैः । ते तु ब्राह्मणविन्यासैः स्वरक्रमविपर्ययैः ।
संहिता ऋग्यजुःसाम्नां संहृतास्तैर्महर्षिभिः । सामा-
न्याद्वैकृताच्चैव दृष्टिभिन्नैः क्वचित् क्वचित् । ब्राह्मणं
कल्पसूत्राणि भाष्यविद्यास्तथैव च । अन्ये तु प्रस्थिता-
स्तान्वै केचित्तान् प्रत्यवस्थिताः । द्वापरेषु प्रवर्तन्ते
भिन्नार्थैस्तैः स्वदर्शनैः । एकमाध्वर्यवं पूर्वमासीद्द्वै-
धन्तु तत् पुनः । सामान्यविपरीतार्थैः कृतं शास्त्राकुल-
न्त्विदम् । आध्वर्यवञ्च प्रस्थानैर्बहुधा व्याकुलीकृतम् ।
तथैवाथर्वणां साम्नां विकल्पैः स्वस्य संक्षयैः । व्याकुलो
द्वापरेष्वर्थः क्रियते भिन्नदर्शनैः । द्वापरे सन्निवृत्ते ते
वेदा नश्यन्ति वै कलौ । तेषां विपर्ययोत्पन्ना भवन्ति
द्वापरे पुनः । अवृष्टिर्भरणं चैव तथैव व्याध्युपद्रवाः ।
वाङमनःकर्मभिर्दुःखैर्निर्वेदो जायते ततः । निर्वेदा-
ज्जायते तेषां दुःखमोक्षविचारणा । विचारणायां
वैराग्यं वैराग्याद्दोषदर्शनम् । दोषाणां दर्शनाच्चैव
ज्ञानोत्पत्तिस्तु जायते । तेषां मायाविनां पूर्वं मर्त्ये
स्वायम्भुवेऽन्तरे । उत्पत्स्यन्तीह शास्त्राणां द्वापरे
परिपन्थिनः । आयुर्वेदविकल्पाश्च अङ्गानां ज्योतिषस्य
च । अर्थशास्त्रविकल्पाश्च हेतुशास्त्रविकल्पनम् ।
प्रक्रिया कल्पसूत्राणां भाष्यविद्याविकल्पनम् । स्मृति-
शास्त्रप्रभेदाश्च प्रस्थानानि पृथक् पृथक् । द्वापरेष्वभि-
वर्त्तन्ते मतिभेदास्तथा नृणाम् । मनसा कर्मणा वाचा
कृच्छाद्वार्त्ता प्रसिध्यति । द्वापरे सर्वभूतानां कालः
क्लेशपरः स्मृतः । लोभो धृतिर्बणिग्युद्धन्तत्त्वानामवि-
निश्चयः । वेदशास्त्रप्रणयनं वर्णानां सङ्करस्तथा । वर्णा-
ऽऽश्रमपरिध्वंसः कामद्वेषौ तथैव च” ।
“कारिष्यते परिभवः कलिना नलस्य । तां द्वापरस्तु
मतनूमदुनोत् पुरस्तात् । भैमीनलोपयमनं पिशुनौ
सहेते न द्वापरः किल कलिश्च युगे जगत्याम्” नैष०

द्वापराय पु० पाशकस्य द्व्यङ्कसंख्यान्वितं पार्श्वं द्वापरं तस्य

अय उत्तानतया पतनम् । द्यूतभेदे द्व्यङ्कान्वितपार्श्वक-
पाशकस्योत्तानतया पतने अयशब्दे ३३४ पृ० दृश्यम् ।

द्वामुष्यायण पु० द्व्यामुष्यायण + पृषो० । १ द्वयोः पुत्रे द्व्यामुष्याय

णशब्दे दृश्यम् २ उद्दालके गौतमे मुनौ च शब्दार्थचि० ।

द्वार् स्त्री द्वारयति क्विब्वचीत्या० उणा० क्विप् । १ गृहनिर्ग-

मनस्थाने अमरः । २ उपाये च “आद्यहेतुता तद्द्वारा”
सां० सू० “मरुद्भ्य इति तु द्वारि” मनुः “विदश्य निम्बप-
त्राणि नियता द्वारि वेश्मनः” याज्ञ० “वि श्रयन्तामृता-
वृधो द्वारो देवीरसश्चतः” ऋ० १ । १३ । ६ “यथाविवृतायां
द्वारि द्वारा प्रपद्येत” शत० ब्रा० ११ । १ । १२२ द्वाःस्थ द्वाःस्थितः
अमरः । उपाये ज्ञानद्वारा भवेन्मुक्तिः” ज्ञानशास्त्रम् ।

द्वार न० द्वृ--णिच् अच् । १ गृहनिर्गमस्थाने । गृहभेदे

द्वारभेदास्तत्फलभेदाश्च गृहशब्दे २६३७ पृ० उक्ताः
“मनोनवद्वारनिषिद्धवृत्ति” कुमा० “उटजद्वाररोधिभिः”
रघुः । ३ मुखे च “भुजङ्गपिहितद्वारं पातालमधितिष्ठति”
रघुः । ४ शेषे अङ्गे च “सान्तःकरणा बुद्धिः सर्वं
विषयमवगाहते यस्मात् । तस्मात् त्रिविधं करणं द्वारि
द्वाराणि शेषाणि” सां० का० “द्वारि प्रधानं, शेषाणि
करणानि बाह्येन्द्रियाणि तैरुपनीतं सर्वं विषयं समनोह-
ङ्कारा बुद्धिर्यस्मादवगाहतेऽध्यवस्यति तस्माद् बाह्येन्द्रि-
याणि द्वाराणि द्वारवती च सान्तःकरणा बुद्धिरिति”
त० कौ० । “तद् (व्याकरणम्) द्वारमपवर्गस्य वाङ्म-
लानां चिकित्सितम्” हरिः ।

द्वारक न० द्वारेण प्रशस्तेन कायति कै--क । द्वारकापुर्य्याम् त्रिका० ।

द्वारकण्टक पु० न० । द्वारस्य कण्टक इव । कपाटे त्रिका०

द्वारका स्त्री प्रशस्तेन द्वारेण कायते कै--क टाप् धातुस्थक

पूर्बत्वात् न अत इत्त्वम् । द्वारवत्याम् पुर्य्या द्वारवतीशब्दे
दृश्यम् “पैवृकी तीर्थतुल्या सा किं तीर्थं द्वारका
परम् । सर्वतीर्थपरा श्रेष्ठा द्वारका बहुपुण्यदा । यस्याः
प्रवेशमात्रेण नराणां जन्मखण्डनम् । दानञ्च द्वारका
याञ्च श्राद्धञ्च देवपूजनम् । चतुर्गुणञ्च तीर्थानां गङ्गा-
दीनाञ्च भूमिप!” ब्रह्मवै० श्रीकृष्णजन्मखण्डे ।

द्वारगोप पु० द्वारं गोपायति गुप--अण् । द्वारपाले

द्वारकेश पु० ६ त० । वासदेवे शब्दच, द्वारकानाथादयोऽप्यत्र

द्वारदातु द्वारं ददाति दा--तुन् । भूमीसहवृक्षे भावप्र०

द्वारप पु० द्वारं पाति पा--क । १ द्वारपाले “स्वर्गस्य लोकस्य

द्वारपाः” छा० उ०२ विष्णौ पु० “विष्णुर्वैदेवानां द्वारपः”
इति श्रुतिः ।
पृष्ठ ३८०९

द्वारपाल त्रि० द्वारं पालयति पालि--अण् । १ द्वाररक्षके

दौवारिकशब्दे ३७७१ पृ० अस्य लक्षणम् “ततो मङ्कणकं गत्वा
द्वारपालं महाबलम् । तं यक्षमभिवाद्यैव गोसहस्रं फलं
लभेत्” भा० व० ८३ अ० । ततोऽर्घपात्रं विन्यस्य द्वारपालान्
समर्चयेत्” तन्त्रसा० देवताभेदे द्वारपालभेदाः तत्र तत्र
प्रकरणे तन्त्रोक्ता ज्ञेयाः । २ तीर्थभेदे च “ततो गच्छेत
राजेन्द्र! द्वारपालं तरण्डकम् । तच्च तीर्थं सरस्वत्यां
यक्षेन्द्रस्य महात्मनः । तत्र स्नात्वा नरो राजन्नग्निष्टोम-
फलं लभेत्” भा० व० ८३ अ० स्त्रियां ङीप् । अस्या अपत्यं
रेबत्या० ठक् न ढक् । द्वारपालिक द्वारपाल्या अपत्ये
पुंस्त्री० । स्त्रियां ङीत्

द्वारपालक त्रि० द्वारं पालयति ण्वुल् । दौवारिके स्त्रियां टाप् ।

द्वारपिण्डी स्त्री द्वारस्य पिण्डीव । देहल्यां जटा० ।

द्वारबलिभुज् पु० द्वारदत्तं बलिं भुङ्क्ते भुज--क्विप् । वक

खगे त्रिका० ।

द्वारयन्त्रं द्वारे स्थितं यन्त्रम् । (ताला) (कुलुप) ख्याते पदार्थे हेमच० ।

द्वार(रा)वती स्त्री द्वाराणि चतुर्वर्णमोक्षद्वाराणि प्रश-

स्तान्यत्र मतुप् मस्य वः संज्ञात्वेन वा पूर्वपददीर्घः ।
सवद्रोपान्तिके श्रीवासुदेवनिर्मिते पुरीभेदे तत्पुरी
निर्माणप्रकारस्थानादिकं हरिवं० विस्तरती वर्णितं दिङ्-
मात्रमत्रोच्यते ।
“आनूपं सिन्धुराजस्य प्रपेदुर्यदुपुङ्गवाः । ते तत्र
रमणीयेषु विषयेषु सुखप्रियाः । मुसुदुर्यादवाः सर्वे
देवाः स्वर्गगता यथा । पुरवास्तु विचिन्वन् स कृष्ण-
स्तु परवीरहा । ददर्श विपुलं देशं सागरानूपशोभि-
तम् । वाहनानां हितञ्चैव सिकताताम्रमृत्तिकम् ।
पुरलक्षणसम्पन्नं कृतास्पदमिव श्रिया । सागरानिल-
संवीजं सागराम्बुनिषेवितम् । विषयं सिन्धुराजस्य
शोभितं पुरलक्षणैः । तत्र रैवतकोनाम पर्वतोनाति-
दूरतः । मन्दरोदारशिखरः सर्वतोऽभिविराजते ।
तत्रैकलव्यसंवासो द्रोणेनाध्युषितश्चिरम् । प्रभूत-
पुरुषोपेतः सर्वरत्नसमाकुलः । विहारभूमिस्तत्रैव
तस्य राज्ञः सुनिर्मिता । नाम्ना द्वारवती नाम स्वाय
ताऽष्टापदोपमा । केशवेन मतिस्तत्र पुर्य्यर्थे विनि-
वेशिता । निवेशं तत्र सैन्यानां रोचयन्ति स्म यादवाः ।
तै रक्तसूर्य्ये दिवमे तत्र यादवपुङ्गवाः । सेनापालाश्च
सञ्चक्रुः स्कन्धावारनिवेशनम् । ध्रुवाय तत्र न्यवसत्
केशवः सह यादवैः । देशे पुरनिवेशाय स यदु
प्रवरो विभुः । तस्यास्तु विविधं नाम वास्तूनि च
गदाग्रजः । निर्ममे पुरुषश्रेष्ठो मनसा यादवोत्तमः ।
एवं द्वारावतीञ्चैव पुरीं प्राप्य सवान्धवाः” । हरिवं०
११४ अ० । “इयं द्वारावती नाम पृथिव्यां निर्मिता
मया । भविष्यति पुरी रम्या शक्रस्येवामरावती ।
तान्येवास्याः कारयिष्ये चिह्नान्यायतनानि च । चत्व-
रान् राजमार्गांश्च समानन्तःपुराणि च । देवा
इवात्र मोदन्तां वसन्तो विगतज्वराः । बाधमाना
रिपूनुग्रानुग्रसेनपुरोगमाः । गृह्यन्तां गृहवास्तूनि
कार्य्यन्तां त्रिकचत्वराः । मीयन्तां राजमार्गाश्च प्राका-
रस्य च या गतिः । प्रेष्यन्तां शिल्पिमुख्या वै नियुक्ता
वेश्मकर्मसु । नियुज्यन्ताञ्च देशेषु प्रेष्यकर्मकराजनाः ।
एवमुक्तास्तु यदवो गृहसंग्रहतत्पराः ।
यथानिवेशं संहृष्टाश्चक्रुर्वास्तुपरिग्रहम् । सूत्रहस्तास्ततो-
मानं चक्रुर्यादवपुङ्गवाः । पुण्येऽहनि महाराज!
द्विजातीन् प्रतिपूज्य च । वास्तुदैवतकर्माणि विधि-
नाऽकारयंस्ततः । स्थपतीनथ गोविन्दस्तत्रोवाच
महामतिः । अस्मदर्थे सुविहितं क्रियतामत्र मन्दिरम् ।
विभक्तचत्वरपथं सुनिविष्टेष्टदैवतम् । ते तथेति
महाबाहुमुक्त्वा स्थपतयस्तदा । दुर्गकर्मणि सम्भारानुप-
लभ्य यथाविधि । यथान्यायं निर्ममिरे द्वाराण्यायत-
नानि च । स्थानानि विदधुस्तस्यां ब्रह्मादीनां
यथाक्रमम् । अपामग्नेः सुरेशस्य वृषदोलूखलस्य च ।
चातुर्द्देवानि चत्वारि द्वाराणि विदधुश्च ते । शुद्धाक्ष-
मैन्द्रं भल्लाटं पुष्पदन्तं तथैव च । ते वेश्मसु युक्तेषु
यादवेषु महात्मसु । पुर्य्याः क्षिप्रं प्रवेशार्थं चिन्तयामास
माधवः । तस्य दैवोत्थिता बुद्धिर्विमला क्षिप्रकारिणी ।
पुर्य्याः सा वै प्रियकरी यदूनामभिवर्द्धिनी । शिल्पि-
मुख्यस्तु देवानां प्रजापतिसुतः प्रभुः । विश्वकर्मा
खमत्या वै पुरीं संस्थापयिष्यति । मनसा समनुध्याय
तस्यागमनकारणात् । त्रिदशाभिसुखः कृष्णो विविक्ते
समपद्यत । तस्मिन्नेव ततः काले शिल्प्याचार्य्यो
महामतिः । विश्वकर्मा सुरश्रेष्ठः कृष्णस्य प्रमुखे स्थितः ।
यदीच्छेत् सागरः किञ्चिदुत्स्रष्टुमिह तोयराट् ।
ततः स्वायतलक्षण्या पुरी स्यात् पुरुषोत्तम! ।
एवमुक्तस्ततः कृष्णः प्रागेव कृतनिश्चयः । सागरं सरितां
नाथमुवाच वदतां वरः । समुद्र! दश च द्वे च
योजनानि जलाशये । प्रतिसंह्रियतामात्मा यद्यस्ति मयि
पृष्ठ ३८१०
मान्यता । अवकाशे त्वया दत्ते पुरीयं मामके बले ।
पर्य्याप्तविषयारामा समग्रं विषहिष्यते । ततः कृष्णस्य
वचनं श्रुत्वा नदनदीपतिः । समारुतेन योगेन
उत्ससर्ज्ज जलाशयम् । विश्वकर्मा ततः प्रीतः पुर्य्याः
संदृश्य वास्तु तत् । गीविन्दे चैव सम्मानं सागरः कृतवां
स्तदा” हरिव० ११६ अ० ततो देवस्य लीलासंवरणा-
नन्तरं तत्कलत्रादीनां ततोऽपगमने समुद्रेण तत्पुर्य्याः
प्लावनं कृतम् तत्कथा भा० मौ० ७ अ० । “निर्याते
तु जने तस्मिन् सागरो मकरालयः । द्वारकां रत्न-
सम्पूर्णां जलेनाप्लावयत्तदा । यद्यद्धि पुरुषव्याघ्रो
भूमेस्तस्या व्यमुञ्चत । तत्तत् संप्लावयामास सलिलेन स
सागरः । तदद्भुतमभिप्रेक्ष्य द्वारकावासिनो जनाः ।
तूर्णात्तूर्णतरं जग्मुरहो दैवमथाब्रुवन्” “काशी
काञ्ची च मायाख्या त्वयोध्या द्वारवत्यपि । मथुरा-
ऽवन्तिका चैव सप्त पुर्य्योऽत्र मोक्षदाः । श्रीशैलः
मोक्षदः सर्वः केदारोऽपि ततोऽधिकः । श्रीशैलाच्चापि
केदारात् प्रयागं मोक्षदं परम् । प्रयागादपि तीर्था-
ग्र्यादविमुक्तं विशिष्यते । यथाऽविमुक्ते निर्वाणं न
तथान्यत्र कुत्रचित् । अन्यानि मुक्तिक्षेत्राणि काशीप्राप्ति
कराणि च । काशीं प्राप्य विमुच्येत नान्यथा तीर्थको-
टिभिः” काशी० ७ अ० निषिद्धमपि तप्तमुद्रादिधार-
णञ्च तन्माहात्म्यकथनात् तत्र विहितं तन्नाम निर्व-
चनञ्चोक्तं काशीख० ७ अ०
“सप्तरात्रमुषित्वा तु ययौ द्वारावतीं प्रति । चतुर्णामपि
वर्ण्णानां यत्र द्वाराणि सर्वतः । अतो द्वारवती-
त्युक्ता विद्वद्भितत्त्ववेदिभिः । अस्थीन्यपि च जन्तूनां
यत्र चक्राङ्कितान्यहो । किं चित्रं यत्र तत्र स्युः
शङ्खचक्राङ्किताः करैः । अन्तकः शिक्षयत्येवं
निजदूतान् मुहुर्मुहुः । ते त्याज्या यैर्द्वारवत्या नामापि
परिगृह्यते । श्रीखण्डे क्व स आमोदः स्वर्णे वर्ण्णः क्व
तादृशः । तत् पावित्रं क्व वै तीर्थे, तद्गोपीचन्दने यथा ।
दूताः! शृणुत यद्भालं गोपीचन्दनलाञ्छितम् । ज्वल-
दिन्धनवत् सोऽपि दूरे त्याज्यः प्रयत्नतः । तुलस्य
लङ्कृताये ये तुलसीनामजापकाः । तुलसीवनमाला-
ये ते त्याज्या दूरतोभटाः । पवित्राणां च सर्वेषां
सुपवित्रा बलाधिका । तुलां स्यति यतस्तस्मात्तुलसीति
निरुच्यते । युगे युगे द्वारवत्यारत्नानि परितोमूषन् ।
अब्धीरत्नाकरोऽद्यापि लोकेषु परिगीयते । द्वारवत्यां
म्रियन्तोये जन्तवः कालचोदिताः । चतुर्भुजाः स्युर्वैकुण्ठे
ते पीताम्बरधारिणः । तत्रापि सन्तर्प्य पितॄन् सहदेवर्षि
मानवान् । तत्र तेषु च तीर्थेषु सस्नौ सर्वेषु तन्त्रितः”
दीर्घे द्वारावती तत्रार्थे “अयोध्या मथुरा माया काशी
काञ्ची अवन्तिका । पुरी द्वारावती चैव सप्तैता मोक्ष-
दायिकाः । एतास्तु पृथिवीमध्ये न गण्यन्ते कदाचन ।
पुरी द्वारावती विष्णोः प्राञ्चजन्योपरिस्थिता । मुक्तिदा
गणिता एताः सर्वाश्च मानिताः सुरैः । यानि कानि च
क्षेत्राणि काशीप्राप्तिकराणि षट्” इति भूतशुद्धितन्त्रम् ।

द्वारशाखा स्त्री ६ त० । द्वारस्यावयवे (वाजु) शब्दार्थक० ।

द्वारस्तम्भ पु० ६ त० । द्वाराङ्गस्तम्भे शब्दार्थक० ।

द्वारस्थ त्रि० द्वारे तिष्ठति स्था--क । १ द्वारपाले शब्दक०

२ द्वारस्थितमात्रे च ।

द्वारादि “द्वारादीनाञ्च” य्वाभ्यां पूर्वमैजागमनिमित्ते

पा० ग० सू० उक्ते शब्दगणे स च गणः “द्वार स्वर स्वाध्याय
व्यल्कश स्वस्ति स्वर् स्फ्याकृत स्वादुमृदु श्वस् स्व”
द्वारे नियुक्तः ठक् । दौवारिकः ।

द्वाराध्यक्ष पु० द्वारेऽध्यक्षः । प्रतीहारे “वेत्रव्यासक्त

हस्ताश्च द्वाराध्यक्षा विशां पते!” भा० स० ३० अ०

द्वारिक त्रि० द्वारं पाल्यतयाऽस्त्यस्य ठन् । द्वारपाले

सारसुन्दरी प्रशस्तानि चत्वारि द्वाराणि सन्त्यस्याम् ठन्
टाप् । द्वारिका २ द्वारवत्यां स्त्री शब्दरत्ना ।

द्वारिन् त्रि० द्वारं पाल्यत्वेनाऽस्त्यस्य इनि । १ द्वारपाले

२ द्वारयुते त्रि० द्वारशब्दे दृश्यम् ।

द्वार्य्य त्रि० द्वारि भवः यत् । द्वारिभवे “द्वार्य्य स्थूणे देवी

द्वारौ” आश्व० श्रौ० ४ । १३ । ५ द्वारिभवे द्वार्य्ये स्थूणे”
नारा० वृत्तिः “चतुर्गृहीतं शालाद्वार्य्ये जुहोति”
कात्या० श्रौ० ८ । ३ । २९

द्वा(द्बि)विंश त्रि० द्वा(द्विं)विंशतेः पूरणः डट् । द्वाविंशति

संख्यापूरणे स्त्रियां ङीप् । द्वा(द्वि)विंशत्या युतं शतादि
ड । २ तद्युते शतादौ त्रि० ।

द्वा(द्वि)विंशति स्त्री द्व्यधिका विंशतिः द्वौ च विंशतिश्च वा

आत् बहुत्वेऽपि एकव० । (वाइस) १ द्व्यधिकविंशतिसंख्यायां
२ तत्संख्यायुते च “कर्णो द्वाविंशतिं भल्लान्” भा०
द्रो० ४७ अ० द्वा(द्विं)विंशतिः प्रमाणमस्य ठन् । द्वा(द्वि)
विंशतिक तत्संख्यान्विते त्रि० पूरणे तमप् । द्वा(द्वि)
विंशतितम द्वाविंशतिसंख्यापूरणे त्रि० । एवं
द्वा(द्वि)त्रिंशद्द्वा(द्वि)चत्वारिंशदादयोऽपितत्तत्संख्यायां
पृष्ठ ३८११
तत्संख्यान्यिते स्त्री एकव० पूरणे ड तयपौ उन्नेयौ ठन् ।
एवं ड । द्वा(द्वि)त्रिंशादि तद्युते शतादौ त्रि० सा परिमाण-
मस्यठन् । द्वा(द्वि)त्रिंशतिकादि तत्तत्संख्यापरिमाणके त्रि० ।

द्वा(द्वि)षष्टि स्त्री द्व्यधिका षष्टिः द्वौ च षष्टिश्च च वा

वा आत् एकव० । १ द्व्यधिकषष्टिसंख्यायां २ तद्युते च । पक्षे
द्विषष्टिरप्यत्र तया युतं शतादि ड । द्वा(द्वि)षष्ट तद्युते
शतादौ । सा परिमाणमस्य ठन् । द्वा(द्वि)षष्टिक तत्परि-
माणके त्रि० पूरणे तमप् । द्वा(द्वि)षष्टितम डट्
द्वा(द्वि)षष्ट तत्संख्यापूरणे डटि स्त्रियां ङीप् ।

द्वा(द्वि)सप्तति स्त्री द्व्यधिका सप्ततिः द्वौ च सप्ततिश्च वा

वा आत् एकव० । १ द्व्यधिकसप्ततिसंख्यायां २ तत्संख्याते च
“द्वासप्ततिर्महत्यस्ते पादास्ते द्वादश क्रमात्” ज्यो० त० ।
द्विसप्ततिरप्यत्र । तया युतं शतादि ड । द्वा(द्वि)सप्तत
तद्युते शतादौ त्रि० तस्याः पूरणे तमप् । द्वा(द्विसप्त-
तितम डट् । द्वा(द्वि)सप्तत तत्संख्यापूरणे त्रि० स्त्रियां
डटि ङीप् ।

द्वि त्रि० द्वि० व० । द्वृ--ड । १ द्वित्वसंख्यायां “द्व्येकयोर्द्विवचनै-

कवचने” पा० द्वित्वार्थकताया भाष्याद्युक्तेः । २ द्वित्वसं-
ख्यान्विते च । सर्वनामकार्यं तस्य जसादिप्राप्त्यभावात्
त्यदादित्वात् अत्वम् । द्वौ द्वे । द्वयोः स्त्रियोः पुत्रः द्विपुत्र
इत्यादौ सर्वनामत्वात् वृत्तिमात्रे पुंवद्भावः । अकच् ।
द्वके इत्यादि । स्वार्थे केनोपपत्तौ चित्स्वरार्थमकच् ।

द्विक त्रि० द्वि० व० । द्वि--अकच् । १ द्वित्वसंख्यायां तद्युते त्रि०

स्त्रियां टेरकचि द्वके इत्येव स्वार्थे के तु प्रत्ययस्थकात्
पूर्वमत इत्त्वम् द्विके इति भेदः । द्वयोरवयवः द्वौ
अवयवौ वा यस्य कन् । २ द्वित्वे न० एकव० । ३ तद्युते त्रि०
“एकं द्विकं त्रिकं चैव चतुष्कं पञ्चकं तथा । अमी पञ्चैव
लिङ्गार्थाः” भर्त्तृहरिः । द्वौ दीयेते वृद्ध्यादिना
अत्र शतादौ कन् । ४ वृड्यादिना दीयमानद्विरूपकादिके
शतादौ । “द्विकं शतं वा गृह्णीयात् सतां धर्ममनुस्मरन्”
“द्विकं शतञ्च गृह्णानो न भवत्यर्थकिल्विषी” मनुः
द्वौ कौ ककारौ वाचकशब्दे यस्य । ५ काके ६ कोके च
पुंस्त्री० मेदि० । तयीर्वाचकशब्दे ककारद्वयस्य सत्त्वात्
तथात्वम् । स्त्रियां जातित्वात् ङीष् ।

द्विककार पुंस्त्री० द्वौ ककारौ वाचकशब्देऽस्य । १ काके

२ कोके च शब्दरत्ना० । स्त्रियां जातित्वात् ङीष् ।
३ ककारद्वययुते शब्दादौ त्रि० ।

द्विककुद्र पु० द्वे ककुदे यस्य अन्त्यलोपः समा० । उष्ट्रे हेमच०

द्विकर त्रि० द्वौ करोति संख्यापूर्वकत्वात् अहेत्वादौ कृ--ट ।

१ द्विसख्यान्वितकारके । द्वौ करौ यस्य २ द्विभुजे च ।
द्वयोः करयोः समाहारः । ३ करद्वये “बुभुक्षितः किं?
द्विकरेण भुङ्क्ते” उद्भटः ।

द्विकार्षापण(णिक) त्रि० द्वाभ्यां कार्षापणाभ्यां क्रीतं ठक्

तस्य वा लुक् । द्वाभ्यां कार्षापणाभ्यां क्रीते पक्षे ठकोऽ-
लोपे । द्विकार्षापणिक तत्रार्थे ।

द्विकौडविक त्रि० द्वौ कुडवौ प्रयोजनमस्य ठञ्, द्वाभ्यां

कुडवाभ्यां क्रीतं वा ठक् न तस्य लुक् । उत्तरपदवृद्धिः ।
१ द्विकुडवप्रयोजनके २ द्वाभ्यां कुडवाभ्यां क्रीते च ।

द्विगु त्रि० द्वौ गावौ यस्य गौणत्वात् गोर्ह्रस्वः । १ द्वयो-

र्गवोः सम्बन्धिनि द्विगवस्वामिके पुरुषे । “द्वन्द्वो द्वि-
गुरपि चाहं सततमस्मद्गृहे व्ययीभावः” उद्भटः ।
व्याकरणोक्ते तत्पुरुषान्तर्गते पा० सूत्रोक्ते २ समासभेदे
पु० स च सि० कौ० मनोरमादौ च दर्शितो यथा
“दिक्संख्ये संज्ञायाम्” । २ । १ । ५० । पा० “समानाधिकरणे-
नेत्यापादपरिसमाप्तेरधिकारः । संज्ञायामेवेति
नियमार्थं सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः । नेह
उत्तरा वृक्षाः । पञ्च ब्राह्मणाः” सि० कौ० । “तद्धितार्थो-
त्तरपदसमाहारे च” पा० । २ । १५१ । पा० “तद्धितार्थे विषये
उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये
प्राग्वद्वा । पूर्वस्यां शालायाम्भवः । पौर्वशालः ।
समासे कृते दिक्पूर्वपदादसंज्ञायां ञैति ञः । सर्व-
नाम्नो वृत्तिमात्रे पुंवद्भावः । आपरशालः । पूर्वा-
शाला प्रिया यस्येति त्रिपदे बहुव्रीहौ कृते प्रिया-
शब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः तेन शालाशब्दे
आकार उदात्तः । पूर्वशालाप्रियः । दिक्षु समाहारो
नास्त्यनभिधानात् । संख्यायास्तद्धितार्थे षण्णां मातॄ-
णामपत्यम् षाण्मातुरः । पञ्च गावो धनं यस्येति
त्रिपदे बहुव्रीहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते द्वन्द्व-
तत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्” सि० कौ० “निय-
मार्थमिति विशेषणं विशेष्येणेत्यनेनैव सिद्धे तत्पुरुषे
संज्ञायामेव दिक्संख्ये समस्येते नान्यत्रेति नियाम-
कमिदमिति भावः । त्रिलोकनाथ इत्यादौ तु उत्तर-
पदद्विगुरिति असंज्ञकत्वेऽपि न क्षतिः । पूर्वसूत्रमि-
त्यादौ संज्ञाभावेऽपि कालवाचकत्वात् समासो, न
ह्यत्र दिग्विशेषबोध उदयगिर्य्यादिसम्बद्धाया एव
दिक्त्वात् एवं देशवाचकेनापिं समास इति द्रष्ट-
पृष्ठ ३८१२
व्यम्” मनो० । “तद्धितार्थोत्तरेत्यादिसूत्रे वैषयिके आघारे
सप्तमी । विषयत्वञ्चानेकविधमित्याह तद्धितार्थे विषये
इत्यादि तद्धितार्थे वाच्ये इति तु नोक्तं पाञ्चना-
पितिरित्यादौ समासेनोक्तत्वात्तदुत्तरं तद्धितानुत्पत्ति-
प्रसङ्गात् । अतएव द्विगोस्तद्धितस्य लुग्वचनं
चरितार्थमन्यथा तदर्थस्य समासेनोक्ततयाऽप्रयोगात् तदनुत्पत्तौ
कथं लोपः स्यात्” । “समाहारः समूहः स चावय-
वाभिन्नो बुद्धिकल्पितभेदवान् । अतएव समूहं प्रति
तस्योपसर्ज्जनत्वं तेन पञ्चखद्वीत्यादिसिद्धिः तत्र
खट्वाशब्दस्योपसर्जनत्वेन ह्रस्वे कृत एवादन्तत्वे सत्येव
ङीषः प्रवृत्तेरित्यन्यत्र विस्तरः । अत्रेदं बेध्यं सामू-
हिकस्य तद्धितस्य लुकि पञ्चगवमित्यत्र गोरतद्धित
लुकीति टच् न स्यादिति विषये इत्युक्तमेवञ्च
समाहारे वाच्ये इति तस्य पृथग्ग्रहणसामर्थ्यादेव
समासान्त इत्याशयेन वाच्ये इति व्याख्यातमिति” “तथाच
समासेनैव समाहारस्योक्तत्वात् न सामूहिकतद्धितोत्प-
त्तिरिति भावः” मनी० “एतद्वार्त्तिकमुत्तरपूर्वेत्यादिद्वन्द्वसि-
द्ध्यर्थमवश्यमारम्भणीयं तेन प्रकृते पुंवद्भावेनोपपत्ता-
वपि न विफलतेति बोध्यम्” “उदात्त इति असति
त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्याद्युदा-
त्तत्वमेव स्यादिति भावः” मनो० “षाणमातुर इति
“मातुरुत् संख्यासंभद्रपूर्वायाः” पा० इत्युदादेशः अनपत्य
इत्युक्तेर्द्विगोर्लुगिति न लुक्” “विकल्पे प्राप्ते इति
महाविभाषयेति शेषः । ततश्च टजभावे पञ्चगोधन
इत्यपि स्यादिति भावः” “एतच्चोभयत्रापि नित्यताबो-
धकमिति बोध्यम् अतएवैतद्वार्त्तिकमुक्त्वा समुदायवृ-
त्तावयवानां कदाचिदप्यवृत्तिर्मा भूदिति प्रयोजन-
मुक्तं भाष्य” “द्वन्द्वोत्तरतत्पुरुषोदाहरणन्तु वाक्च
दृषच्च प्रिये अस्य वाग्दृषदप्रिय एवं छत्रोपानह-
प्रिय इह त्रिपदे बहुव्रीहौ कर्तव्ये पूर्वं नित्यद्वन्द्वस्तेन
समासान्तोऽपि नित्य एव” मनो० ।
शब्दशक्तिप्रकाशिकायामेतल्लक्षणादिकमुक्तं यथा
“द्विगुं लक्षयति । संख्याशब्दयुतं नाम तदलक्ष्यार्थ-
बोधकम् । अभेदेनैव यत्स्वार्थे स द्विगुस्त्रिविधो मतः ।
संख्यावच्छिन्नशक्तं यत्पदोत्तरत्वविशिष्टं यन्नाम स्वार्थध-
र्मिकं तादात्म्येन तदलक्ष्यार्थस्यान्वयबोधं प्रति समर्थं
तन्नामोत्तरतापन्नं तन्नामैव तदलक्ष्यार्थामिन्नस्वार्थे
द्विगुरुच्यते । त्रिकटु त्रिभुवन चतुर्युग चतुर्वर्ग पञ्चगव्य
पञ्चामृत षड्रस षट्पदार्थ सप्तर्षि अष्टनाग अष्टवसु
नवरस नवग्रह दशमूल एकादशरुद्र एकादशेन्द्रिय द्वाद-
शादित्य इत्यादिकस्तु कर्मधारयः शुण्ठ्यादिपर्याप्तत्रित्वा-
वच्छिन्नबोधकतया न पूर्वपदाल क्ष्यार्थस्य बोधकस्त्रिकटु-
प्रभृतिभ्यः कटुत्रयादिसामान्यस्याप्रतीतेः । पञ्चमूलीत्यादौ
तु मूलपञ्चकत्वेनैव मूलविशेषेषु तात्पर्यं नतु विशेष-
रूपेणापि अतएव “कण्टकार्यादिकं स्वल्पं गाम्भार्यादि
च यन्महत् । पञ्चमूलं तदुभयं दशमूलमुदाहृतमित्यादि-
कस्ताद्रूप्येण बोघस्थलीयः प्रयोगः । “वर्षाकाले मघर्क्षेण
युक्ता चापि त्रयोदशी” इत्यादिवदेकवचनस्य साधुत्वसम्भ-
वात् द्बयोरूपमित्याद्यर्थे द्विरूपादिपदं नाभेदेन द्विप्रभृते-
रनुभावकम् । एकत्वसंख्याया विशिष्टं बोधयदपि एकपदं
न पर्याप्तिसंसर्गेण तदवच्छिन्नस्य बोधकं, द्वितयादिपदं
पर्याप्त्या द्वित्वावच्छिन्नं प्रतिपादयदपि न तत्र शक्तं
वाक्यत्वादतोनैकघटद्वितयपटेत्यादिकर्मधारयेऽतिप्रसङ्गः ।
सप्तशती पठ्यतामित्यादौ च यद्यपि शते धर्मिणि सप्ता-
नामभेदेन नान्वयः बाधितत्वान्नापि सप्तपदलक्षितस्य,
द्विगुत्वहान्यापत्तेः तथापि शतपदार्धैकदेशे शतत्वसं-
ख्यायां तस्याः सप्तत्वसम्भवादिति वदन्ति । द्विगार्ग्यं
गच्छत इत्याद्यव्ययीभाववारणन्तु पूर्ववत् । स चायं
द्विगुस्त्रिविधः तद्धितार्थोत्तरपदसमाहारभेदात् । तत्र
तद्धितार्थं द्विगुं लक्षयति । तद्धितार्थान्वितस्वार्थस्तद्धि-
तार्थद्विगुर्मतः । तद्धितार्थे लाक्षणिकस्वान्त्यनामा त्वस-
र्वगः । यो द्विगुः स्वोत्तरतद्धितार्था न्वतस्वार्थकः स
तद्धितार्थद्विगुः । द्विमुद्रो वृष इत्यादौ द्वाभ्यां मुद्राभ्यां
क्रीतस्य द्विवर्षा गौरित्यादौ द्वाभ्यां वर्षाभ्यामभिन्नवय-
स्कस्य द्विदलं पवित्रमित्यादौ द्वाभ्यां दलाभ्यां निर्मितस्य,
द्विगुञ्जं स्वर्णमित्यादौ द्वाभ्यां गुञ्जाभ्यां तुलितस्य,
त्रिकाण्डः पुरुष इत्यादौ त्रिभिः काण्डैः परिमितस्य,
पञ्चकपालश्चरुरित्यादौ पञ्चभिः कपालैः संस्कृतस्य, बोधने
लुप्तस्यैव ठगादितद्धितस्य क्रीताद्यभिधायकत्वात्,
परिशिष्टकृताम्मतेनेदम् । उक्तप्रयोगेषु द्विगोरन्तिमनाम्नैव
क्रीतादिरूपार्थो लक्ष्यते नतु लुप्तष्ठगादिरप्यपेक्ष्यतेऽतस्त-
द्धितार्थलाक्षणिकस्वान्त्यनासको द्विगुरेव तद्धितार्थद्विगु-
रिति फणिभाष्यमतन्तु न युक्तम् असर्वगत्वात् पाञ्चपुरु-
षिरित्यादौ पञ्चानां पुरुषाणामपत्यस्य पञ्चगार्ग्यरूप्यो
गौरित्यादौ पञ्चानां गर्गाणां भूतपूर्वस्य बोधने तद्धिते
नैव स्वार्थस्यापत्यप्रभृतेरुपस्थापनात् द्विस्वर्णमुद्रः पशु-
पृष्ठ ३८१३
रित्यादावुत्तरपदस्य शक्तिविरहेण क्रीताद्यर्थे लाक्षुणिक-
त्वायोगात् । उत्तरपदद्विगुं लक्षयति । स्वान्तर्निबिष्ट-
शब्दाभ्यां शब्दान्तरसमासगः । यो द्विगुः शाब्दिकैरुक्तः
स उत्तरपदद्विगुः । यो द्विगुः स्वघटकनामभ्यां सह
साकाङ्क्षनामान्तरेण समासस्यान्तर्गतः स उत्तरपदद्विगुः
यथा पञ्च गावो धनमस्येत्यादिविग्रहे पञ्चगवघनः पुरुष
इत्यादौ बहुब्रीह्यादिनिविष्टः पञ्चगवादिः । समाहार-
द्विगुं लक्षयति । स्वार्थान्वितसमाहारलक्षकस्वान्त्यश-
ब्दकः । उक्ताभ्यामितरः किं वा समाहारद्विगुर्द्विगुः ।
स्वोपस्थाप्यार्थस्य समाहारलक्षको यदीयान्त्यशब्दः स
द्विगुः समाहारद्विगुः पञ्चपुलीत्यत्र हि योगलभ्यानां
पञ्चाभिन्नपुलानां समाहारः परस्थपुलशब्देन लक्ष्यते न
तु तत्र द्विगोः शक्तिरन्यलभ्ये शक्त्ययोगात् अतएव न
लक्षणापि शक्यसम्बन्धस्यैव लक्षणात्वेन वाक्ये
तदसम्भवात् । यदि च पञ्चपुलीत्यतः पञ्चानां पुलानामेव
बोधो न तु तत्समाहारस्यापि अतएव पञ्चपुलीं छिनत्ति
इत्यादिकः प्रयोगः प्रमाणम् अन्यथा समूहात्मनः
समाहारस्य छिदाद्यसम्भवेन तदयोग्यत्वापत्तेः पुलादेर्द्वित्व-
बहुत्वेऽप्येकवचनन्त्वानुशासनिकं दारादेर्बहुवचनवदुप-
पद्यते । न च द्रव्यप्राधान्ये पञ्चखट्वीत्यादौ ह्रस्वो न
स्यात् गोशब्दस्येव स्त्रीप्रत्ययस्यापि समामान्त्यस्योप-
सर्जनस्यैव तद्विधानादिति बाच्यं समाहारसंज्ञकद्विगोर-
प्यन्त्यस्य स्त्रीप्रत्ययस्य पृथगेव ह्रस्वविधेर्वक्तव्यत्वात् प्रयो-
गानुसारित्वात् कल्पनायाः, पञ्चपाचकीत्यादावव्याप्तिश्च
तत्रोत्तरपदस्य वाक्यत्वेन लक्षकत्वायोगादिति सूक्ष्ममी-
क्ष्यते तदा पूर्वनिरुक्ताभ्यां तद्धितार्थोत्तरपदद्विगुभ्यां
भिन्नोद्विगुरेव समाहारद्विगुर्बाच्यः । एवञ्च द्विगोः कर्म-
धारयान्तर्गतत्वेऽपि न क्षतिरिति तु विभावनीयम्” ।

द्विगुण त्रि० द्वाभ्यां गुण्यते गुण--कर्मणि अच् । द्वाभ्यां

गुणिते “एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम्”
“सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे” इति मनुः ।

द्विगुणाकृ द्विगुण + कृ--कृष्यर्थे ड़ाच् द्विगुणकर्षणकरणे

सक० उभ० अनिट् । द्विगुणाकरोति क्षेत्रकर्मकं द्विगुण-
वर्षणं करोतीत्यर्थः सि० कौ०

द्विगुणाकर्ण त्रि० द्विगुणौ कर्णौ लक्षणमस्य “कर्णे लक्ष-

णस्य” पा० कर्णशब्दे परे पूर्वस्य दीर्घः । द्विगुणकर्ण-
रूपलक्षणान्विते ।

द्विगुणित त्रि० द्वाभ्यां गुणितः । द्वाम्यां गुणिते । द्विगु-

णितसान्द्रतराक्षिपक्ष्ममाला” माघः “क्षेत्रस्य यस्य वदनं
मदनारितुल्यं बिश्वम्बरा द्विगुणिता” लीला०

द्विचरण त्रि० द्वौ चरणौ यस्य । १ द्विपादे मनुष्यादौ “गतः

कालो यत्र द्विचरणपशूनां क्षितिभुजां पुरः स्वस्तीत्युक्त्वा
विषयसुखमास्वादितमहो” शान्तिश० द्विचरणा अपि
पशवः पशुतुल्याः पशूनां चतुश्चरणत्वे प्रसिद्धेऽपि
नृपाणां द्विपदत्वेन पशुतुल्यत्वात् अपूर्वपशुत्वमिति
गम्यते । २ राशिभेदे द्विपदशब्दे दृश्यम् । ३ पदद्वये न०

द्विज पु० द्विर्जायते सुजर्थे वृत्तौ द्विशब्दः जन--ड । १ संस्कृत

ब्राह्मणे “जन्मना जायते शूद्रः संस्कारैर्द्विज उच्यते”
स्मृतिः । २ ब्राह्मणक्षत्रियवैश्येषु च “मातुर्यदग्रे
जायन्ते द्वितीयं मौञ्जीवन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मा
देते द्विजाः स्मृताः” याज्ञ० । ३ दन्ते तस्योत्पन्नस्य पतने
पुनर्जन्मनो लोकप्रसिद्धेः । ४ अण्डजे च अमरः । प्रसवा-
नन्तरं पुनरण्डात् तस्य प्रकाशरूपोत्पत्तेर्द्विजत्वम् । ५
तुम्बुरुवृक्षे राजनि० । ६ द्विर्जातमात्रे त्रि० । तत्र दन्ते
“द्विजाबलीबालनिशाकरांशुभिः शुचिस्मितां बाचमवोच-
दच्युतः” माघः विप्रे अण्डजे च “हिममुक्तचन्द्ररुचिरः
सपद्मको मदयन् द्विजान् जनितमीनकेतनः” माघः ।

द्विजकुत्सित पु० द्विजैः कुत्सितः । श्लेष्मातकवृक्षे (नोना-

आता) राजनि० । द्विजानान्तद्भक्षणनिषेधात् तथात्वम् ।

द्विजदास पु० ६ त० । शूद्रे राजनि० ।

द्विजन्मन् पु० द्वे जन्मनी अस्य । द्विजशब्दार्थे “वैदिकैः

कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् । कार्यः शरोर-
संस्कारः पारणा प्रेत्यचेह च” मनुः

द्विजपति पु० ६ त० । १ चन्द्रे त्रिका० । “द्विजानामौषधी-

नाञ्च सोमं राज्येऽभ्यषेचयत्” हरिवं० २२७ अ० । २ कर्पूरे
च अमरः । ३ द्विजश्रेष्ठे “प्रशान्तोपद्रवं परिपूर्ण द्विज-
मण्डलसनाथम्” काद० । ४ पक्षिश्रेष्ठे ५ गरुडे च

द्विजप्रपा स्त्री द्विजार्थं पक्षिणमुहिश्य प्रपा । आलबाले त्रिका० ।

द्विजप्रिया स्त्री ६ त० । १ सोमलतायां राजनि० तस्याश्च

द्विजानां सोमयागाङ्गसाधनत्वात् तथात्वम् । २ द्विज-
प्रियमात्रे त्रि० ।

द्विजबन्धु पु० द्विजस्य बन्धुरिव । अब्राह्मणे भट्टदैवज्ञादौ

अपकृष्टद्विजे । “स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुति-
गोचरा” स्मृतिः ।
पृष्ठ ३८१४

द्विजब्रुव पु० द्विजमात्मानं जात्या ब्रूते ब्रू--क । जाति-

मात्रेण द्विजातिमानिनि द्विजविहितकर्माकारके द्विजे
ब्राह्मणब्रुवोऽप्यत्र । “सममब्राह्मणे दानं द्विगुणं ब्रा-
ह्मणब्रुवे । अधीते शतसाहस्रमनन्तं वेदपारगे” मनुः

द्विजराज पु० ६ त० टच् समा० । १ चन्द्रे अमरः । द्विज-

पतिशब्दे दृश्यम् । “इत्थं द्विजेन द्विजराजकान्तिः”
रघुः । २ कर्पूरे ३ द्विजश्रेष्ठे ४ द्विजोत्तमे विप्रे ५ पक्षीन्द्रे
गरुडे च ।

द्विजलिङ्गिन् पु० द्विजस्य लिङ्गमस्त्यस्य इनि । १ क्षत्रिये

त्रिका० । २ विप्रयेशधारिणि च । “तान् सर्वान् घातये-
द्राजा शूद्रांस्तु द्विजलिङ्गनः” मनुः ।

द्विजवाहन पु० द्विजः गरुडो वाहनमस्य । नारायणे

“एवं त्वमसि देवानां मग्नानां द्विजवाहनः । तच्छरीर
शतं कृष्ण! जगत्प्रकरणं त्विदम्” हरिवं ७६ अ०

द्विजव्रण पु० न० ६ त० । दन्तार्बुदे दन्तरोगभेदे राजनि० ।

द्विजशप्त पु० ३ त० । राजमाषे (वरवटि) शब्दच० । तस्य

द्विजैर्भोजनस्य निषिद्धत्वात् तथात्वम् ।

द्विजसेवक पु० ६ त० । १ शूद्रे शब्दक० । २ द्विजसेविमात्रे त्रि० ।

द्विजा स्त्री द्विर्जायते जन--ड । १ रेणुकोनामगन्धद्रव्ये अमरः

२ भार्ग्यां मेदि० । ३ पालङ्क्यां (पालङ्) शाकभेदे शब्दच० ।
तासां कर्तनेऽपि पुनर्जायमानत्वात् तथात्वम् । ४ द्विज-
जातिस्त्रियां ४ तत्पत्न्यां च स्त्री ङीष् ।

द्विजाग्र्य पु० द्विजेषु अग्र्यः । विप्रे “अद्भिरेव द्विजाग्र्याणां

कन्यादानं विशिष्यते” । “व्राह्मं हुतं द्विजाग्र्यार्चा
प्राशितं पितृतर्पणम्” मनुः ।

द्विजाङ्गी स्त्री द्विजस्य दन्तस्याङ्गमिव मूलमस्याः ङीप् । कटुकायां राजनि० ।

द्विजाति पु० द्विः जातिर्जन्म यस्य । १ ब्राह्मणे अमरः ।

२ ब्राह्मणक्षत्रियवैश्येषु । “शूद्राद्विजातिभिर्जातो न
भूमेर्भागमर्हति” स्मृतिः “ब्राह्मणक्षत्रियविशस्त्रयोवर्णा
द्विजातयः । चतुर्थ एकजातिस्तु शूद्रो, नास्ति तु पञ्चमः”
मनुः । तेषां द्विर्जन्मवत्त्वं द्विजशब्दे दृश्यम् । ३ अण्डजे
मेदि० । ४ दन्ते च

द्विजानि पु० द्वे जाया यस्य निङ् । द्विभार्य्यके “अन्तर्योनेव

चरति द्विजानिः” ऋ० १० । १०१ । ११

द्विजायनी स्त्री द्विजः अय्यते ज्ञायतेऽनया अय--गतौ गत्य-

र्थस्य ज्ञानार्थत्वात् ल्युट् ङीप् । यज्ञोपवीते त्रिका० ।

द्विजालय पु० ६ त० । १ वृक्षस्थे खगालये कोटरे शब्दच०

२ नीडे । ३ द्विजानां गृहे च ।

द्विजिह्व पुंस्त्री० द्वे जिह्वे नस्य । सर्पे स्त्रियां जातित्वात्

ङीष् । तेषां द्विजिह्वत्वकथा भा० आ० ३४ अ० यथा
“अथ सर्पानुवाचेदं सर्वान् परमहृष्टवत् । इदमा-
नीतममृतं निक्षेप्स्यामि कुशेषु वः । स्नाता मङ्गल-
संयुक्तास्ततः प्राश्नीत पन्नगाः! । भवद्भिरिदमासीनैर्यदुक्तं
तद्वचस्तदा । अदासी चैव मातेयमद्यप्रभृति चास्तु मे ।
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् । ततः स्नातुं
गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत । शक्रोऽप्यमृतमाक्षिप्य
जगाम त्रिदिवं पुनः । अथागतास्तमुद्देशं सर्पाः सुधा-
र्थिनस्तदा । स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ।
यत्रैतदमृतं चापि स्थापित कुशसंस्तरे । तद्विज्ञाय
हृतं सर्पाः प्रतिमायाकृतञ्च तत् । सोमस्थानमिदं चेति
दर्भांस्ते लिलिहुस्तदा । ततो द्विधाकृता जिह्वा सर्पाणां
तेन कर्मणा । अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रि-
णः । एवं तदमृतं तेन हृतमा हृतमेव च । द्विजि-
ह्वाश्च कृताः सर्पा गरुडेन महात्मना” । २ सूचके च
त्रि० अमरः । ३ खले मेदि० । ४ चौरे ५ दुःसाध्ये च
शब्दर० । तेषां सर्पतुल्यमर्माविधत्वात्तथात्वम् । “परस्य
मर्माविधमुज्झतां निजम् द्विजिह्वतादोषमजिह्मगा-
मिभिः” । “तमिद्धमाराधयितुं सकर्णकैः कुलैर्न्न भेजे
फणिनां भुजङ्गता” माघः ।

द्विजेन्द्र पु० द्विज इन्द्र इव उपमितसमा० । १ द्विजश्रेष्ठे

६ त० । २ चन्द्रे ३ कर्पूरे च “द्विजेन्दकान्तं श्रितवक्षसं-
श्रिया” माघः ।

द्विजेश पु० ६ त० । १ गरुड़े २ चन्द्रे हेमच० ३ कर्पूरे च ।

द्विजेश्वरादयोऽप्यत्र । “तमृक्षयोगानुगतं शिशिरांशुं
द्विजेश्वरम्” हरिवं० ४५ अ० ।

द्विजोपासक पु० द्विजमुपास्ते उप + आस--ण्वुल् । द्विज-

सेवके शूद्रे पारस्करनिघ० ।

द्विजोत्तम पु० द्विजेषु उत्तमः । विप्रे ।

द्विठ पु० द्वौ ठकारौ लेखनाकारे यस्य । १ विसर्गे तस्य

लेखनाकारस्य द्विठकाराकारत्वात्तथात्वम् शारदातिलक
व्याख्याने राघवभट्टः । लक्षितलक्षणया २ स्वाहायाम्
तस्याः विसर्गशब्दवाच्यत्यागार्थकत्वात् तथात्वम् समा०
द्विगुः । ३ ठकारद्वये न० ।

द्वित पु० १ देवभेदे २ ऋषिभेदे च एकतशब्दे १४६५ । ६६ पृ० दृश्यम् ।

द्वितय न० द्वयोरवयवः संख्याया अवयवे तयप् । द्वित्वसं-

ख्यायां “प्रसार्य्य सूत्रद्वितयं तयोर्यत्र युतिर्भवेत् ।
“दृश्यन्ते पञ्चदशभिराषाढाद्वितयं तथा” । “कटाहद्वित-
यस्येव संपुटं गोलकाकृति” सू० सि० द्वाववयवावस्य ।
पृष्ठ ३८१५
२ द्वित्वसंख्याविशिष्टे त्रि० अस्य जसि वा सर्वनामता
द्वितये द्वितयाः । “द्रुमसानुमतोः किमन्तरं यदि वायौ
द्वितयेऽपि तेऽचलाः” किरा० “अधिकं शुशुभे शुभंयुना
द्वितयेन द्वयमेव सङ्गतम् । पदमृद्धमजेन पैतृकं
विनयेनास्य नवञ्च यौवनम्” रघुः । अस्य स्त्रीत्वमपि
उभयत्र ङीप् ।

द्वितीय त्रि० द्वयोः पूरणः तीय । द्वित्वसंख्यापूरणे तस्याः

ङित्सु वा सर्वनामकर्म । “एकमेवाद्वितीयं ब्रह्म”
श्रुतिः । “द्वितीयगाभी न हि शब्द एष नः” रघुः
“मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धनात्” मनुः २ पुत्रे
पु० त्रिका० । ३ भार्य्यायां स्त्री टाप् अमरः । चन्द्रस्य
द्वितीयकलायाः सूर्यकिरणप्रवेशनिर्गमयोग्ये क्रियारूपे
तदुपलक्षिते कालभेदे वा ५ तिथिभेदे स्त्री तस्याः व्रता-
द्यङ्गकालनिर्णयः कालमा० दर्शितो यथा
“प्रथमद्वितीयादीनां पञ्चदशकलानां क्रमेण चन्द्रम-
ण्डलप्रवेशनिर्गमनाभ्यां शुक्लकृष्णपक्षयोः प्रतिपद्-
द्वितीयादिनामधेयास्तिथयो भवन्ति । तत्र प्रति-
पदि योनिर्णयः पूर्वप्रकरणेऽभिहितः स एवोत्तरासु
सर्वासु तिथिषु साम्येन सञ्चारयितव्यः । विशेषांस्तु
तत्र तत्राभिधास्ये । प्रतिपदि दैवं पित्र्यं च व्यवस्था-
पितम् । दैवं षड्विधम् उपवासैकभक्तनक्तायाचित
दानव्रतभेदेन, तीर्थस्नानजपहोमादयस्तु व्रतशब्देनैव
संगृहीताः । पित्र्यं द्विविधम् । एकोदिष्टं पार्वणं
चेति । तत्र सर्वत्र कर्मकालव्याप्तियुक्ताया एव तिथे-
रनुष्ठानाङ्गत्वं स्मृतिष्वभिप्रेतम् । कर्मकालश्च द्विवि-
धोमुख्यो गौणश्चेति । तद्यथा एकभक्ते मध्याह्नो-
मुख्यः । आसायमवशिष्टो गौणः । तिथिव्याप्तिर्द्विविधा
स्वाभाविकतिथिव्याप्तिः साकल्यापादिततिथिव्याप्तिश्चेति ।
यदा सङ्गवपर्यन्तामावास्या तदानीमुपरितनो मध्या-
ह्नोमुख्ययैव प्रतिपदा व्याप्ता भवति । यदा त्वपराह्णा-
दिमारभ्य तिथिक्षयवशात्परेद्युः सङ्गवान्ता प्रतिप-
द्ववति । तदा पूर्वेद्युर्गौणकालव्य प्तिमुपजीव्यैकक्तभानु-
ष्ठानस्वीकारे सति मध्याह्ने तथैवानुष्ठेयत्वात्तत्र
स्वाभाविकप्रतिपद्व्याप्त्यभावेऽपि साकल्यवचनापादितप्र-
तिपद्व्याप्तिः स्वीकृता । एवं च सति कर्मकालव्याप्तौ
सर्वस्मृतीनामत्यन्तनिर्बन्धदर्शनात् कर्मकालव्याप्तिशास्त्र-
मितरेभ्यः प्रबलमिति निश्चीयते । तदनुसारेण द्विती-
याद्या अपि तिथय उपवासादौ दैवे, एकोद्दिष्टादौ
पैत्र्ये च कर्मकालव्याप्तियुक्ताः स्वीकर्त्तव्याः ।
उपवासस्तु सर्वतिथिषु नारदीये दर्शितः! “शुक्लान वा
यदि वा कृष्णान् प्रतिपत्प्रभृतींस्तिथीन् । उपोष्यैव
वलिं दत्त्वा विधिनेत्यपरे दिने । ब्राह्मणान् भोजयित्वा
तु सर्वपापैः प्रमुच्यते” इति । उपवासस्याहीरात्रः कर्म
कालः । तस्मात्तद्व्यापिनी तिथिर्ग्राह्या । तदसम्भवे
खण्डतिथिर्ग्राह्येति निरूप्यते । तत्र च सूर्य्योदये-
त्रिमुहूर्त्ता ततोऽधिका वा प्रतिपद्भवति । उत्तरदिने
चास्तमयादर्वाक् त्रिमुहूर्त्ता ततोऽधिका वा तृतीया भवति
सेयमुमयविद्धा द्वितीया । तत्र वेधकतिथेरुदयेऽस्तमये वा
त्रिमुहूर्त्तत्वं वेधप्रयोजकं न तु ततोन्यूनत्वं तदेव
पैठीनसिवाक्येन पूर्वमुदाहृतम् । वेध्यतिथेश्च त्रिमुहूर्त्त
सद्भावोऽपेक्षित इति “द्विमुहूर्त्तं त्रिरह्नश्चेत्यनेन
सुमन्तुवचनेत दर्शितम् । उदयास्तमययोरेव वेध
इत्ययमर्थः “उदये सा तिथिर्ग्राह्या विपरीता तु पैतृके”
इत्यादिभिः कात्यायनवचनैरवगन्तव्यः । एवञ्च सति
यथोदाहृते पूर्वविद्धोत्तरविद्धे ये द्वितीये तयोरुत्तर
विद्धा द्वितीयोपोष्या युग्माग्निवाक्येनान्वयव्यतिरेका-
भ्यामुत्तरविद्धायाः प्राशस्त्याभिधानात् । यद्यप्युपाष्य-
त्वं साक्षान्नाभिहितं तथापि कर्मान्तरविशेषस्याबुपा-
दानात् उपवासविषयत्वं परिशिष्यते । तथाहि ।
न तावत्पित्र्यविषयत्वं सम्भवति व्यासेन युग्मादि
शास्त्रस्य खर्वादिशास्त्रस्य च दैवपित्र्यविषयत्वेन व्यव-
स्थापितत्वात् । नाप्येकभक्तनक्तविषयत्वं तयोर्मध्याह्न
प्रद्रोषव्याप्त्यधीनत्वेन युग्मादिशास्त्रानधीनत्वात् ।
अयाचितस्य तूपवासवदनुष्ठेयत्वेन न पृथग्विषयत्वं नच
दानादिविषयत्वम् दानादेः पौर्वाह्णिकतिथौ कर्त्तव्य-
तया निर्णेयत्वात् । अत उपवासविषयत्वं
परिशिष्यते । कद्राचिदेकभक्तादितिथौ युग्मादिशास्त्रस्य
संवादो भवति । तदा तच्छास्त्रमुपोद्वालोकं भवतु । न
वयं वारयामः । वचनान्तरे तु युग्मादितिथेरुपोष्यत्वं
साक्षात् प्रतीयते । तथा च प्रतिपत्प्रकरणे प्रति-
पदमावास्यायुग्मस्योपोष्यत्ववचनमुदाहृतम् । तत्रापि
युग्मामिप्रायेणैव द्वितीयायाः परविद्धायाः
उपोष्यत्वं भृगुस्मृतिविष्णुधर्मोत्तराभ्यां दर्शितम् । “एका-
दश्यष्टमी षष्ठी द्वितीया च चतुर्दशी । त्रयोदशी चतुर्थी
च उपोष्याः स्युः परान्विताः” इति । यदा पूर्वेद्युरुद-
यमारभ्य परेद्युरुदयस्योपरि त्रिमुहूर्त्तं वर्धते । तद्रा
पृष्ठ ३८१६
पर्वेद्युरेवोपवासः । न चोदाहृतेन परान्विता इति
वचनेन विरोधः शङ्कनीयः परान्वितापूर्वान्वितयोः प्रस-
क्तयोः सत्योरस्य वचनस्य नियामकत्वात् । नचात्र
परान्वितत्वं प्रसक्तमस्ति । पूर्वस्य दिनस्य सम्पूर्णतिथि-
त्वात् सम्पूर्णखण्डयोः सम्पूर्णस्यासन्देहत्वेन
प्रबलत्वात् । असञ्जातविरोधित्वकृत्स्नकर्मकालव्याप्तिभ्यां
पूर्वदिनस्यैव प्रावल्यम् । तस्मात्तत्रैवीपवासः । ननु
पूर्वोपवामं प्रतिषेधति व्यासः “तृतीयया युता कार्या द्वि-
तीया न तु पूर्वयेति” मैवम् अस्य वचनस्य खण्डतिथि
विषयत्वेन संपूर्णतिथाबप्रवृत्तेः । खण्डतिथिविषयत्वञ्च
पूर्वया युता नैव कार्येत्यभिधानादवगम्यते । ननु खण्ड-
तिथावपि द्वितीया पूर्वविद्धैवोपोष्या “प्रतिपत्सद्वितीया
स्याद्द्वितीया प्रतिपद्युता” इत्यापस्तम्बेन प्रतिपद्द्वितीय-
योर्युग्मत्वाभिधानात् । एतदेव वचनमुपजीव्य कृष्णप्रति
पत्परविद्धैवोपोष्येति पूर्वं निर्णीत तर्हि द्वितीयापि
क्वचित्पूर्वविद्धा भवतु तदुक्तं स्कन्दपुराणे “प्रतिपत्सम्मुखी
कार्या या भवेदापराह्णिकी । पूर्वाह्णिकी च कत्तव्या
द्वितीया तादृशी विभो!” इति । तादृशी सम्मुखी पूर्व-
युतेत्यर्थः । पूर्वेद्युरुदये मुहूर्तं परित्यज्यावशिष्टपूर्वा-
ह्णसम्बन्धिनी यदा भवति तदा वेधकारिण्याः पूर्वतिथेः
मुहूर्तत्रयाभावेन वेद्धुमसामर्थ्यात्खयंखण्डापि सती
सम्प्रूर्णवत्पूर्वत्रोपवासे युज्यते । अत्र द्वितीया नवधा
भिद्यते पूर्वेद्युरुदयमारभ्य प्रवृत्ता १ प्रातरुदयं परित्यज्य
प्रवृत्ता २ पूर्वाह्ण सर्वं परित्यज्य प्रवृत्तेति ३ त्रयोभेदास्ते-
ष्वेकैकस्य परेद्युस्त्रिमुहूर्त्तत्वतन्न्यूनत्वशून्यत्वैस्त्रैविध्ये
सति मिलित्वा नवविधत्वं सम्पद्यते । अथ पूर्वेद्युरु-
दयमारभ्य प्रवृत्तायाः सम्पूर्णत्वेन परेद्युर्मुहूर्त्तत्रयत्व
तन्न्यूनत्वान्यूनत्वेषु त्रिष्वपि पक्षेषु विवादाविषयत्वात्
पूर्वत्रैवोपवासोयुक्तः । उदयं परित्यज्य कियत्पूर्बाह्ण
भागं प्रक्रम्य प्रवृत्तायाः परेद्युस्त्रिमुहूर्त्ततायां सत्यपि
परयुतोपवाससम्भवे तां परित्यज्य पौर्वाह्णिकवचनेन
पूर्वेद्युरेवोपवामो विधीयते । परेद्युस्त्रिमुहूर्त्तन्यून
त्वे तु वेधकारिण्यास्तृतीयायाः सत्यपि वेद्धुं सामर्थ्ये
वेध्याया द्वितीयायास्त्रिमुहूर्त्तत्वाभावेन वेधयोग्यत्वा-
भावात् तत्रोपवासो न प्रसक्तः । अतः परिशेषात् पूर्वाह्ण
वाक्याच्च पूर्वत्रैवोपवासः । पूर्वेद्युः पूर्वाह्णं सर्वं
परित्यज्य प्रवृत्तायाः परेद्युस्त्रिमुहूर्त्ततयोभयत्र
तिथिसत्त्वात् कुत्रोपवास इति सन्देहे सति व्यासेनोत्तर
विधानात् पूर्वदिननिषेधाच्चोत्तरत्रोपबासः । न चात्र
शुक्लकृष्णव्यवस्था शङ्कनीया । युग्मषाक्ये शुक्लकृष्णपत्त
साधारण्येन परदिनविधानात् कृष्णपक्षेऽपि तत्प्रवृत्तौ-
वाधाभावाच्च । अन्ययोस्तु पक्षयोः पूर्ववद्वेधानर्हत्वेन
पूर्वेद्युः पौर्वाह्णिकत्वाभावेऽपि परिशेषादापस्तम्बोक्त
युग्भवाक्याच्च पूर्वत्रोपवास इति स्थितम् । एकभक्ता-
दिपार्वणश्राद्धान्तेषु कर्मसु द्वितीयापयुक्तस्य विशेषस्य
क्वचिदप्यस्मरणात् पूर्वोक्तन्यायो योजनीयः” ।
सा च अश्विनीकुमारयोर्जन्मतिथिः । यथाह वराहपु०
तयोर्जन्मोपमक्रमे “एतत् सर्वं द्वितीयायामश्विभ्यां
ब्रह्मणा पुरा । दत्तं यस्मात्ततस्तेषां तिथीनामुत्तमा
तिथिः । एतस्यां रूपकामस्तु पुष्पाहारो भवेन्नरः ।
संवत्सरं शुचिर्नित्यं सुखरूपी भवेन्नरः । अश्विभ्यां ये
गुणाः प्रोक्तास्ते तस्यापि भवन्ति च” । मनोरथ-
द्वितीया तु श्रावणशुक्लद्वितीया । “मनोरथद्विती-
यायां दिवा वासुदेवार्च्चनम् रात्रौ चन्द्रोदयेऽर्घ्यदानं
नक्तं भाजनादिकमुक्तम् ति० त० विष्णुधर्मोत्तरे
“देवमभ्यर्च्य पुष्पैस्तु धूपदीपानुलेपनः । उद्गच्छतश्च बाले-
न्दोर्दद्यादर्घ्यं समाहितः । नक्तं भुञ्जीत च नरो
यावत्तिष्ठति चन्द्रमाः । अस्तं गते न भुञ्जीत व्रतभङ्ग
भयान्नरः” । स्कन्दपु० “आषाढ़स्य सिते पक्षे द्वितीया
पुष्यसयुता । तस्यां रथे समारोप्य रासं मां भद्रया
सह । यात्रोत्सवं प्रकुर्वीत प्रीणयेच्च द्विजाद्बहून् ।
ऋक्षाभावे तिथौ कार्या सदा सा प्रीतये मम” रथद्वितीया ।
भ्रातृद्वितीया लिङ्गपुराणे “कार्त्तिके तु
द्वितीयायां शुक्लायां भ्रावृपूजनम् । या न कुर्य्या-
द्विनश्यन्ति भ्रातरः सप्तजन्मनि” । तस्या इति शेषः ।
महाभारते “कार्त्तिके शुक्लपक्षे तु द्वितीयायां
युधिष्ठिर! । यमो यमुनया पूर्वं भोजितः स्वगृहे
स्वयम् । तस्यां निजगृहे पार्थ! न भोक्तव्यमतो
बुधैः । यत्नेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम् ।
दानानि च प्रदेयानि भमिनीभ्यो विशेषतेः” । तथा
“यमञ्च चित्रगुप्तञ्च यमदूताश्च पूजयेत् । अर्थश्चात्र
प्रदातव्यो यमाय सहजद्वयैः” “अत्र भोक्तव्यं पुष्टि-
वर्द्धनमिति समभिव्याहृतफलश्रुत्या भोजननियमस्य
प्राधान्यात् तस्य मुख्यकालोऽष्टधाविभक्तदिनस्य पञ्च-
मांशोग्राह्यः “पञ्चमे च तथा भागे संविभागो
यथार्हतः पितृदेवसद्धष्याणामित्यादि” दक्षोक्तेः अत्र
पृष्ठ ३८१७
भोजनस्य रागप्राप्तत्वेऽपि तत्कालस्य “अहनि च तथा
तमस्विन्यां सार्द्धप्रहरयामान्तः” इति कात्यायनीये न
नियमितत्वात् वैधत्वेन शास्त्रीयत्वे न सामान्यशास्त्रप्रा-
प्त्युपजीविपर्य्युदासासङ्गतिरिति । त० त० (तेन नाति-
प्रगे नातिसायमित्यत्र नञर्थः पर्युदास) “तथा
यमद्दितीयायां यात्रायां मरणं भवेत्” । अनध्याय-
द्वितीया यथा “प्रेकोचैचा द्वितीयास्ताः प्रेतपक्षे गते
तु या । या च कोजागरे जाते चैत्रावल्याः परेऽपि
या । चातुर्मास्ये समाप्ते च द्वितीया या भवेत्
तिथिः । परास्वेतास्वनध्यायः पुराणैः परिकीर्त्तितः
ति० त० । “मार्ग च फाल्गुने चैव आषाढे कार्तिके
तथा । पक्षयोर्माघमासस्य द्वितीयां परिवर्जयेत्” मल० त०
अयमुपनयनविषयः । पक्षयोरित्यस्योत्तरत्र श्रुतस्य सर्व-
त्रान्वयः । “द्वितीया मीनधनुषोः” ज्योति० त० उक्तेः
रविचन्द्रयोर्मीनधनुषोः स्थितयोस्तस्या दग्धत्वम् । चन्द्रमा-
त्रस्थितत्वे चन्द्रदग्धत्वं केचिदिच्छन्ति “द्वितीया द्वादशी
यक्षे” ज्यो० त० उक्तेस्तस्यामुत्तरस्यां दिशि योगिनी ।

द्वितीयक न० द्वितीयेन रूपेण ग्रहणम् “तावतियं ग्रहण-

मिति लुग्वा” पा० कन् पूरणप्रत्ययस्य वा लुक् । १ चैत्रा-
देर्द्वितीयरूपेण ग्रहणे । पक्षेतीयभागस्य लुकि द्विकम-
प्यत्र । द्वितीयेऽह्नि भवः कन् । २ द्वितीयदिनभवे रोगे पु०

द्वितीयत्रिफला स्त्री द्वितीया त्रिफला । गाम्भर्य्यां

(गाम्भार) शब्दच० ।

द्वितीयाकृत त्रि० द्वितीयं कृतम् द्वितीय + डाच् कृ--क्त ।

द्वितीयवारकर्षणकर्मणि क्षेत्रादौ ।

द्वितीयाभा स्त्री द्वितीयेन रूपेण हरिद्रायाः आभाति

आ + भा--क । दारुहरिद्रायां शब्दच० ।

द्वितीयाश्रम प्र० कर्म० । द्वितीये गार्हस्थ्ये आश्रमे “द्विती-

यमायुसो भागं कृतदारो गृहे वसेत्” मनुः “कालोह्ययं
मक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रम ते” रघुः ।

द्वितीयिक त्रि० द्वितीयः वृद्ध्यायशुल्कोपपदारूपः पदार्थो

दीयते “पूरणार्थाद्वा ठ ।” पा० ठन् वद्ध्यादिरूपेण
दीयते द्वितीयो यस्मिन् तस्मिन् पदार्थे

द्वितीयिन् त्रि० द्वितीयो भागो ग्राह्यनयाऽस्त्यस्य इनि ।

अर्द्धभागग्राहके अर्द्धिनि अर्द्धिनशब्दे ३७८ पृ० दृश्यम् ।
“षोडश षोडश द्वितीयिभ्यः” आश्व० श्रौ० ९ । ४ । ४ “द्वि-
तीयिभ्यः अर्द्धिभ्यः अर्द्धमेषास्तीत्यर्द्धिनस्तेभ्यः” नारा०

द्वित्र त्रि० ब० व० । द्वौ वा त्रयो वा० विकल्पार्थे बहु० स-

ख्येयार्थत्वे ड । द्वौ त्रयोवेत्यर्थे । “द्वित्रागयहा
न्यर्हस सोढुमर्हन्!” रघुः “देवेनाप्रतिपत्तिमूढमनसा
द्वित्राः स्थितं नाडिकाः” सा० द०

द्वित्व न० द्वयोर्भावः । अयमेकः अयगेक इत्यनेकैकत्वबोध-

रूपापेक्षाबोधजन्ये द्रव्यनिष्ठे गुणभेदे । तच्च समवायेन
वस्तुद्वये प्रत्येकं तिष्ठति, पर्य्याप्तिसम्बन्धेन तु द्वयोरेव
तिष्ठति न प्रत्येकम् । तदेवापेक्षाबुद्धिजन्यम् तेनैव इमौ
द्वावित्यादि व्यवहारः । समवायेन प्रत्येकं द्वित्वसत्त्वेऽपि
न तेन तथा व्यवहारः । औलुक्यशब्दे १५८७ पृ० तदुत्-
पत्तिविनाशप्रकारश्च दृश्यः ।
“द्वित्वादयः परार्द्धान्ता अपेक्षाबुद्धिजा मताः ।
अनेकाश्रयपर्य्याप्ता एते तु परिकीर्त्तिताः । अपेक्षा-
बुद्धिनाशाच्च नाशस्तेषां निरूपितः । अनेकैकत्वबु-
द्धिर्या साऽपेक्षाबुद्धिरुच्यते” भाषा० “द्वित्वादयो व्यासज्य-
वृत्तिसंख्या अपेक्षाबुद्धिजन्या” । “अनेकेति । यद्यपि
द्वित्वादिसमवायः प्रत्येकं घटादावपि वर्त्तते
तथाप्येको द्वाविति प्रत्ययाभावात् एको न द्वाविति
प्रत्ययसम्भवाच्च द्वित्वादीनां पर्य्याप्तिलक्षणः कश्चन
सम्बन्धाऽनेकाश्रयोऽभ्युपगम्यते । अपेक्षाबुद्धिनाशादिति ।
प्रथममपेक्षाबुद्धिस्ततो द्वित्वात्पत्तिः । ततो विशेषण-
ज्ञानं द्वित्वत्वनिर्विकल्पकरूपम् । ततो द्वित्वविशिष्ट-
प्रत्यक्षम् । अपेक्षाबुद्धिनाशे ततो द्वित्वनाश इति ।
यद्यपि ज्ञानान्तरं न किमपि त्रिक्षणस्थायि योग्यविभुवि-
शेषगुणानां स्वोत्तरवर्त्तिगुणनाश्यत्वात् तथाप्यपेक्षाबुद्धे
स्त्रिक्षणस्थायित्वं कल्प्यते अन्यथा निर्विकल्पकाले
अपेक्षाबुद्धिनाशात् अनन्तरं द्वित्वस्यैव नाशः स्यात्
न तु द्वित्वप्रत्यक्षं तदानीं विषयाभावात् विद्य-
मानस्यैव चक्षुरादिना ज्ञानजननोपगमात् । तस्माद्
द्वित्वप्रत्यक्षादिकमपेक्षाबुद्धेर्नाशकं कल्प्यते । न चापे-
क्षाबुद्धिनाशात् कथं द्वित्वनाश इति वाच्यम् ।
कालान्तरेद्वित्वप्रत्यक्षाभावात् । अपेक्षाबुद्धिस्तदुत्पादिका
तन्नाशस्तन्नाशक इति कल्पनात् । अतएव तत्पुरुषी-
यापेक्षाबुद्धिजन्थद्वित्वादिकं तेनैव गृह्यत इति कल्प्यते ।
न चापेक्षाबुद्धेर्द्वित्वप्रत्यक्षकारणत्वमस्त्वित वाच्यम् ।
लाघवेन द्वित्वं प्रति कारणत्वस्यैवोचितत्वात् ।
अतीन्द्रिये द्व्यण्युदावपेक्षाबुद्धिर्योगिनाम् । सर्गादिकाली-
नपरमाण्वादावीश्वरीयापेक्षाबुद्धिर्ब्रह्माण्डान्तरवर्त्तियोगि-
नामपेक्षाबुद्धिर्वा द्वित्वादिकारणमिति” । “अपक्षाबुद्धिः
पृष्ठ ३८१८
केत्यत आह । अनेकेति । अयमेकः अयमेकः ।
इत्याकारिका इत्यर्थः । इदन्तु बोध्यं यत्रानियतैकत्व-
ज्ञानं तत्र द्वित्वादिभिन्ना बहुत्वसंख्योत्पद्यते । यथा
सेनावनादाविति कन्दलीकारः । आचार्य्यास्तु त्रित्वा-
दिकमेव बहुत्वं मन्यन्ते । तथा च त्रित्वत्वादिव्या-
पिका बहुत्वत्वजातिः । सेनादौ चोत्पन्ने त्रित्वादौ
त्रित्वत्वाद्यग्रहो दोषात् । इत्थञ्च इतरतो बहुलेयं
सेनेति प्रतीतिरुपपद्यते बहुत्वस्य संख्यान्तरत्वे तत्ता-
रतम्याभावादित्यवधेयम्” मुक्ता० ।
उप० वृत्तौ विशेषः कश्चिदुक्तो यथा
“तदयं द्वित्वाद्युत्पादविनाशक्रमः । समानजातीययोर-
समानजातीययोर्द्रव्ययोश्चक्षुःसन्निकर्षे सति तन्नि-
ष्ठैकत्वसंख्ययोर्यत्सामान्यमेकत्वत्वं तयोनिर्विकल्पकानन्तरं
तद्विशिष्टगुणबुद्धिरुत्पद्यते सैव चापेक्षाबुद्धिस्तया
तयोर्द्रव्ययोर्द्वित्वमुत्पद्यते, उत्पन्नस्य च द्वित्वस्य यत्सामान्यं
द्वित्वत्वं तदालोचनेनापेक्षाबुद्धेर्नाशो द्वित्वत्वविशिष्ट-
द्वित्वगुणविषया विशिष्टबुद्धिश्चैकदा भवति, तदग्रिम-
क्षणे च द्वित्वगुणस्यापेक्षाबुद्धिविनाशः द्वे द्रव्ये
इति द्वित्वविशिष्टद्रव्यज्ञानञ्च युगपदुत्पद्यते, ततस्त-
स्माद् द्वित्वविशिष्टद्रव्यज्ञानात् संस्कारः । तदयं संक्षेप,
उत्पत्स्यमानद्वित्वाधारेणेन्द्रियसन्निकर्षस्तत एकत्वगुण
गतसामान्यज्ञानं तत एकत्वत्वसामान्यविशिष्टैकत्वगुण-
समूहालम्बनरूपाऽपेक्षाबुद्धिस्ततो द्वित्वगुणोत्पत्तिस्ततस्तद्ग-
तसामान्यस्य ज्ञानं ततस्तत्सामान्यविशिष्टद्वित्वगुणज्ञानं
ततो द्वित्वगुणविशिष्टद्रव्यज्ञानं ततः संस्कार
इतीन्द्रियसन्निकर्षमारभ्य संस्कारपर्य्यन्तमष्टौ क्षणाः ।
विनाशक्रमस्तु एकत्वत्वसामान्यज्ञानस्यापेक्षाबुद्धितोविनाशः
द्वित्वत्वसामान्यज्ञानादपेक्षाबुद्धेर्विनाशः द्वित्वत्वसामान्य-
ज्ञानस्य च द्वित्वगुणबुद्धितोविनाशः द्वित्वगुणबुद्धेश्च
द्वित्वविशिष्टद्रव्यज्ञानात् तस्य च संस्कारात् विषयान्तर-
ज्ञानाद्वेति । नन्वेकत्वज्ञानात्तद्विशिष्टद्रव्यज्ञानमेव कथं
नोत्पद्यते तत्सामग्रीसत्त्वात् न हि गुणज्ञाने सति
द्रव्यज्ञाने विलम्बोऽस्ति तथा च तत एवापेक्षाबुद्धे-
र्विनाशे तन्नाशाच्च तदग्रिमक्षण एव द्वित्वनाश इति
द्वे द्रव्ये इति विशिष्टज्ञानपूर्वक्षण एव द्वित्वविना-
शापत्त्या द्वित्वविशिष्टद्रव्यज्ञानस्यानुत्पत्तिरेवेति चेन्न द्वि-
त्वाद्युत्पत्तिसामग्य्रनभिभूताया एवापेक्षाबुद्ध्वेर्द्रव्यविशि-
ष्टज्ञानजनकत्वनियमात् फलबलेन कथाकल्पनात् । ननु
तथापि स्वजनितसंस्कारेणैवापेक्षाबुद्धिविनाशे पुनः स
दोषस्तदवस्थ एव, द्वित्वविशिष्टज्ञानपूर्वक्षण एव द्वित्व-
नाशस्य सम्भवादिति चेन्न केवलगुणज्ञानस्य संस्का-
राजनकत्वात् न हि केवलोगुणः क्वापि स्मर्य्यते,
सर्वत्र द्रव्योपरागेणैव गुणस्मरणात्, ननु भवत्वेवं
तथापि विशिष्टबुद्धिकालेऽपि द्वित्वनाशे विशिष्टप्रती-
त्यनुदयस्तदवस्थ एव न हि वर्त्तमानावभासिनी
विशिष्टप्रतीतिर्विशेषणनाशकाले सम्भवति तथाऽदर्शनादिति
चेन्न विशेषणज्ञानविशेष्येन्द्रियसन्निकर्षतदुभयासंसर्गा-
ग्रहस्य विशिष्टज्ञानसामग्य्राः प्रकृतेऽपि सम्भवात् । यदि
तु विशेषेणेन्द्रियसन्निकर्षोऽपि मृग्यते तदा पूर्वक्षणे
तस्यापि सत्त्वात् पूर्वक्षणवर्त्तिन एव सन्निकर्षस्य
कारणत्वेनाभ्युपगमात्, विशेषणं विशिष्टज्ञानागोच-
रोऽपि सम्भवति, विशिष्टज्ञानजनकज्ञानविषयत्व-
मात्रमेव हि विशेषणत्वे तन्त्रं नतु विशिष्टज्ञान-
विषयत्वमपि । उपलक्षणस्याप्येवं विशेषणत्वापत्तिरिति
चेन्नाप्रत्याय्यव्यावृत्तिसामानाधिकरण्यस्य विशेषणत्वे
तन्त्रत्वात् उपलक्षणन्तु तद्व्यधिकरणम्, एवं यदा
देवदत्तगृहे काकवत्ता तदा काकोविशेषणं, यदा तु
उपरिभ्रमन् असन् तदोपलक्षणम् । एवं सति
रूपवति रस इत्यादौ रूपादेरपि विशेषणत्वापत्तिरिति
चेन्न इष्टत्वात्, तर्हि तत्रापि रसोवर्त्तेतेति चेन्न
विशिष्टवृत्तेर्विशेषणवृत्तित्वानावश्यकत्वात् न हि विशे-
षणं विशिष्टमतावेकं तन्त्रम् । द्वित्वनाशकाले विशे-
षणसम्बन्धो नास्ति कुतोविशिष्टप्रत्यय इति चेन्न
अतद्व्यावृत्तेरेव वैशिष्ट्यपदार्थत्वात्, तद्भानन्तु तत्रा-
पीति न किञ्चिदनुपपन्नमित्याचार्य्याः । एवं द्वित्वो-
त्पत्तिविनाशवत् त्रित्वोत्पत्तिविनाशावप्यूहतीयौ । द्वित्व-
मपेक्षाबुद्धिनाशनाश्यम्, आश्रयनाशविरोधिगुणान्तरा-
भावे गुणस्य सतोऽविनाशित्वात् चरमज्ञानवत्
चरमज्ञानस्यादृष्टनाशनाश्यत्वात् । क्वचिदाश्रयनाशादपि
नश्यति यत्र द्वित्वाधारावयवकर्मसमकालैकत्वसामान्य-
ज्ञानम्, तद्यथा अवयवकर्मसामान्यज्ञाने विभागापे-
क्षाबुद्धी संयोगनाशगुणोत्पत्ती द्रव्यनाशद्वित्वसामान्य-
ज्ञाने तत्र द्रव्यनाशाद्द्वित्वनाशः, सामान्यज्ञानादपे-
क्षाबुद्धिनाशः, अपेक्षाबुद्धिनाशस्य द्वित्वनाशसमानकाल-
त्वात् कार्य्यकारणसमानमावात् । यदा तु द्वित्वाधाराव-
यवकर्मापेक्षाबुद्ध्योर्यौगपद्यं तदा द्वाभ्यामाश्रयनाशापे-
पृष्ठ ३८१९
क्षाबुद्धिनाशाभ्यां द्वित्वनाशः, तद्यथा अवयवकर्मा-
पेक्षाबुद्धी विभागोत्पत्ती संयोगनाशद्वित्वत्वसामान्यज्ञाने
द्रव्यनाशापेक्षाबुद्धिनाशौ ताभ्यां द्वित्वनाशः प्रत्येकं
सामर्थ्यग्रहात् । इयञ्च प्रक्रिया ज्ञानयोर्बध्यघातक-
त्वपक्षे परमुपपद्यते स एव च पक्षः प्रामाणिकः ।
ननु द्वित्वत्रित्वादीनां सामग्रीसाम्ये कथं कार्य्यवै-
लक्षण्यं, द्वाभ्यामेकत्वाभ्यां द्वित्वं, त्रिभिरेकत्वैस्त्रित्वमिति
चेन्न एकत्वे द्वित्वाद्यभावात्, समवायिकारणगतमेव
द्वित्वत्रित्वादिकं तन्त्रमिति चेन्न द्वित्वाद्युत्पत्तेः पूर्वं
तत्र द्वित्वाद्यभावात् तत्रापि कारणचिन्ताया
अनिवारणात् अपेक्षाबुद्धावेकत्वेषु च तादृशविशेषस्या-
नुपलम्भवाधितत्वात् फलबलेन तत्कल्पने वा द्वित्वादिव्य-
वहारोऽपि तत एवास्तु किं द्वित्वादिना, अदृष्ट-
विशेषाद्विशेष इति चेदेवं सति द्वित्वारम्भिकयाऽपि
सामम्या कदाचित्त्रित्वं चतुष्ट्वञ्चोत्पद्येतेत्यनियमप्रमङ्गः
इति चेत् अत्रोच्यते प्रागभावविशेषाद्विशेषोपपत्तेः ।
तुल्यया सामग्य्रा पाकजानां रूपरसगन्धस्पर्शानामिव ।
प्रागभावोऽपि साधारण एवेति चेन्न स्वस्वप्रागभावस्यैव
कार्य्यं प्रति कारणत्वावधारणात् । यदा शुद्धयाऽपेक्षा-
बुद्ध्या द्वित्वं द्वित्वसहितया त्रित्वमिति नेयम्,
(अव्यवस्था) शतं पिपीलिकानां मया हतमित्यादौ,
समवायिकारणाभावे द्वित्वं ताबन्नोत्पद्यते तथा च
गौणस्तत्र संख्याव्यवहारोद्रष्टव्यः । सेनावनादौ नियता-
पेक्षाबुद्ध्यभावाद्बहुत्वमात्रमुत्पद्यते न तु शतसहस्रा-
दिसंख्येति श्रीधराचार्य्याः । एवं सति शतसहस्रादि-
कोटिकस्तत्र संशयो न स्यात् न स्याच्च महती
महत्तरा सेनेति नैवमित्युदयनाचार्य्याः । अत्रैवमा-
लोचनीयं त्रित्वादिपरार्द्धपर्य्यन्ता संख्यैव बहुत्वम्,
तद्भिन्नं वा संख्यान्तरम्, नाद्यः सेनादावपि
शतसहस्रादिसंख्योत्पत्तिनियमात्, न द्वितीयः त्रित्वादि-
विलक्षणस्य बहुत्वस्याननुभवात् तथा च प्रतिनियतैक-
त्वानालम्यनापेक्षाबुद्धिजनितशतादिसंख्यैव बहुत्वं
शताद्यभिव्यक्तिस्तु तत्र न भवति तादृशव्यञ्जकाभावात् ।
वयन्तु ब्रूमः त्रित्वादिसमानाधिकरणं संख्यान्तरमेव
बहुत्वं त्रित्वादिजनकापेक्षाबुद्धिजन्यं प्रागभावभेदादेव
मिद्यते कथमन्यथा बहवस्तावत् सन्ति शतं वा सहस्रं
येति विशिष्य न जानीम इति । यथैकद्रव्ये महत्त्वं
दीर्घत्वञ्च तथैकत्रैवाधिकरणे त्रित्वादिकं बहुत्वञ्च,
भवति हि शतं वा सहस्रं वा चूतफलान्यानया-
नीति प्रश्रे बहवस्तावदानीयन्तां किं विशेषजिज्ञास-
येति । एवञ्च द्वित्वसहितापेक्षाबुद्ध्या त्रित्वं त्रित्व-
सहितापेक्षाबुद्ध्या चतुष्ट्वमेवमुत्तरोत्तरम् । बहुत्वोत्पत्तौ
तु नापेक्षाबुद्धौ पूर्वपूर्वसंख्याविशिष्टत्वनियमः, अतएव
सेनावनादिषु बहुत्वमात्रमुत्पद्यते न तु संख्यान्तरं
संशयस्त्वसत्कोटिकोऽपि भवत्येवेति” ।

द्विदण्डि अव्य० द्वौ दण्डौ यस्मिन् प्रहरणे इच समा० ।

दण्डद्वययुक्ते प्रहरणे । तिष्ठद्गुगणे इच प्रत्ययः
समासान्त इत्युक्तेः बहुब्रीह्यर्थे अव्ययीभावात् अव्ययत्वम्
तेन न द्विदण्डा प्रहृतिरिति । न वा प्रहरणे इत्युक्तेः
शालादौ वाच्येऽपि अव्ययीभावः ।

द्विदण्ड्यादि पु० प्रहरणार्थे इच्समासान्तनिमित्ते पा० ग०

उक्ते शब्दगणभेदे स च तत्रोक्तो यथा “द्विदण्डि
द्विमुसलि उभाञ्जलि उभयाञ्जलि उभादण्डि उभया-
दण्डि उभाहस्ति उभयाहस्ति उभाकर्णि उभयाकर्णि
उभापाणि उभयापाणि उभाबाहु उभयाबाहु एकपदि
प्रोह्यपदि आद्यपदि सपदि निकुच्यकर्णि संहतपुच्छि
अन्तेवासि” ।

द्विदत् त्रि० द्वौ दन्तावस्य वयसि दन्तस्य दत्रादेशः ।

द्विदन्तोपलक्षितवयस्के वृषादौ स्त्रियां ङीप् ।

द्विदल त्रि० द्वे दले यस्य । द्विशाखायुक्ते १ दर्भपवित्रादौ

“शिक्यञ्च दारवं पात्रं द्विदलान् रेणुकान् बहून्” हरिवं०
२ द्विपत्रयुक्ते कमले तच्च सुषुम्णानाडीमध्ये भ्रूमध्यस्थितं
(हक्ष) वर्णयुक्तं सूक्ष्मकमलम् आज्ञाख्यं चक्रम् । द्विःप-
नादयोऽप्यत्र “द्विःपत्रे षोड़शारे द्विदशदशदले द्वादशार्द्धे
चतुष्के” तन्त्रम् आज्ञाचक्रशब्दे ६४२ पृ० दृश्यम् । द्विधा
दल्यते दल--घञ्र्थे क । (डाल) ख्याते ३ पदार्थे पु० ।

द्विदश त्रि० द्व्यधिका द्विसहिता वा दशसंख्य येषाम्

“संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये” पा०
संख्येयार्थत्वात् डच् समा० “द्व्यष्टनः संख्यायामबहु-
ब्रीह्यशीत्योः” पा० अबहुब्रीहीत्युक्तेर्न आत् । द्विसहित
दशसंख्यायुते । “द्विःपत्रे षोड़शारे द्विदशदशदले” तन्त्रम्

द्विदाम्नी द्वे दामनी वन्घनसाधने अस्या मनन्तत्वात् ङीपी-

निषेधे पक्षे डापः प्राप्तौ “दामहायनान्ताच्च” पा० ङीबेव ।
द्विरज्ज्वुबन्धनयोग्यायां दुष्टायां स्त्रियां गवि ।

द्विदिव पु० द्वाभ्यां दिवा दिनाभ्यां निर्वृत्तादि तद्धितार्थे

द्विगुः “कालाट् ठञ्” तस्य लुक् ह्रस्वः । द्विदिनसाध्ये
द्विरात्रयागभेदे “द्वितीये द्विदिवाख्योद्व्यहः” कात्या०
श्रौ० २२ । ७ । ६ । “द्वितीये पर्वस्थाने द्व्यहो भवति द्वि-
दिव इत्याख्या तस्य” कर्कः ।
पृष्ठ ३८२०

द्विदेवत त्रि० द्वे देवते यस्य ६ ब० । द्विदेवताके चर्वादौ

“द्विदेवतोऽपि नियमसामर्थ्यात्” कात्या० श्रौ० ५ । १८ । १०
“द्विदेवतोऽपि पौष्णश्चरुः प्रपिष्टानामेव भवति तत्र
हीन्द्रसहितस्य पूष्णो देवतात्वम् तत्र पूष्णो नियमेन पिष्टम्
प्राप्नोति (अदन्तत्वात्) इतरस्येन्द्रस्यानियमः” कर्कः इति
पूर्वपक्षे “अर्द्धपिष्ट चोभयसामर्थ्यात्” ११ सू० “पूष्णः पिष्टम्
इतरस्यापिष्टमिति विक्लिन्नप्रायेषुतण्डुलेषु पिष्टानामावापः
करिष्यते अतः पाकद्वैधं नाशङ्क्यम्” कर्कः । इन्द्राग्नि-
देवताके २ विशाखानक्षत्रे च द्विदैवादयोऽप्यत्र । “त्रिको-
त्तरावारुणनैरृतेन्द्रपूर्वात्रयब्रह्मभयुग्दशैव । मध्यानि
नेष्टान्यनलानिलेशद्विदैवचित्राहिमधान्तकानि” वसिष्ठः

द्विदेह पु० द्वाभ्यां देहोऽस्य । गजानने गणेशे त्रिका० ।

इभाननशब्दे ९८१ पृ० दृश्यम् । चरस्थिरद्यात्मकेषु
२ मिथुनकन्याधनुर्मीनाख्यराशिषु । राशिविशेषाणां
द्व्यात्मकत्वं द्ब्यात्मकशब्दे दृश्यम् । द्वितन्वादयोऽप्यत्र ।

द्विद्वादश पु० द्वितीयः द्वादशश्च वरकन्ययोः राशिभेदः

दोषसाधनमत्र वृत्तौ संख्याशब्दस्य पूरणार्थत्वं त्रिभाग-
शेषादिवत् ज्ञेयम् । वरकन्याराश्योर्द्वितीयद्वादशान्यतर-
रूपे वैवाहिके अशुभसूचकदोषभेदे उपयमशब्दे १२४१ पृ०
दृश्यम । “अनपत्यता त्रिकोणे द्विद्वादशे च दारिद्र्यमिति”
दीपिका तत्र वरराश्यपेक्षया कन्याया द्वादशराशि-
कत्वे तु न दोषः । “कन्यायाः द्वादशे भर्त्ता भर्त्तुः
कन्या द्वितीयगा । द्विद्वादशं विजानीयात् वर्जितं त्रिद-
शैरपि” विशिष्य निषेधात् “द्विद्वादशे धनगृहे धनहा
च कन्या रिप्फे स्थिता धनवती पतिवल्लभा च” ज्यो० त०
प्रतिप्रसवाच्च । समाहारद्विगुः । २ द्वितीये धनस्थाने
द्वादशे व्यवस्थाने च न० । “द्विद्वादशे खला हानिम्”
नी० ता० ।

द्विधा अव्य० द्वि + प्रकारे धाच् । द्विप्रकारे “षड्जसंवादिनीः

केका द्विधा मिन्नाः शिखण्डिभिः” । “द्विधेव भिन्नं
सलिले विवस्वतः” रघुः ।

द्विधागति त्रि० द्विधा गतिरस्य । १ द्विप्रकारगतियुक्ते । २ कुम्भीरे पु० हेमच० ।

द्विधातु त्रि० द्वौ धातू यत्र । १ धातुद्वयघटिते कांस्यरैत्यादौ

२ गणेशे शब्दरत्ना० । तस्य देवगजदेहद्वयघटितत्वात्
तथात्वम् ।

द्विधात्मक पु० न० द्विधा आत्मा यस्य कप् ।

१ जातीकोषे शब्दच० २ द्विस्वभावेषु मिथुनादिराशिषु पु० ।

द्विधालेख्य त्रि० द्विधा लेख्यम् । १ द्विप्रकारे लेखनीये २

हिन्तालवृक्षे पु० राजनि० ।

द्विनग्नक पु० द्विः नग्नकः । स्वाभाविकानावृतमेट्रे दुश्चर्मरोगयुते हेमच० ।

द्वि(द्वा)नवति स्त्री द्व्यधिका नवतिः वा आत् । १ द्व्यधिक-

नवतिसंख्यायां २ तद्युक्ते च । ततः पूरणे डट्द्वि(द्वा)-
नवत, तमप्, द्वि(द्वा)नवतितम ३ तत्संख्यापूरणे त्रि०
डटि स्त्रियां ङीप् ।

द्विनिष्क त्रि० द्वाभ्यां निष्काभ्यां क्रीतम् तद्धितार्थद्विगुः ततः

ठञ् तस्य नित्यं लुकि प्राप्ते” “द्वित्रिपूर्वान्निष्कात्” पा०
तस्य वा लुक् । द्वाभ्यां निष्काभ्यां क्रीते पक्षे ठञः
श्रवणे “परिमाणान्तस्यासंज्ञाशाणयोः” पा० उत्तरप-
दवृद्धिः । द्वैनिष्किक तत्रार्थे, द्वौ निष्कौ परिमाण-
मस्य अण् तस्य लुक । २ द्विनिष्क तत्परिमाणयुते त्रि० ।

द्विप पुंस्त्री० द्वाभ्यां मुखशुण्डाभ्यां पिबति पा--क । १ गजे

अमरः । “विपूर्य्यमाणश्रवणीदरं द्विपाः” साघः ।
“स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा” मनुः
२ नागकेश्रे पु० ।

द्विपक्ष पुंस्त्री द्वौ पक्षौ यस्य । १ खगमात्रे २ मासे पु०

द्विपञ्चमूली स्त्री द्विधा पञ्चमूली । दशमूले “द्विपञ्चमूली

क्षीरतगरभद्रदारुमरिचसधुविडङ्गष्ट्राक्षाद्विद्राक्षासिद्धम्”
सुश्रु० । दशमूलं च दशमूलशब्दे ३४९२ पृ० दृश्यम् ।

द्वि(द्वा)पञ्चाशत् स्त्री द्व्यधिका पञ्चाशत् वा आत् ।

१ द्व्यधिकपञ्चाशत्संख्यायां २ तदन्विते च । ततः पूरणे
डट् द्वि(द्वा) पञ्चाश, तमप् द्वि(द्वा) पञ्चाशत्तम तत्
संख्यापूरणे त्रि० स्त्रियां डटि ङीप् ।

द्विपण्य त्रि० द्वाभ्यां पणाभ्यां क्रीतं “पणपादमाषशताद्यत्”

पा० यत् । द्वाभ्यां पणाभ्यां क्रीते

द्विपत्रक पु० द्वे पत्रे अस्य संज्ञायां कन् । १ चण्डालकन्दे

पारस्करनिघण्टुः २ द्विदलकमले वा कप् ।

द्विपथ न० द्वयोः पथोः समाहारः समा० द्वि० अच्समा० ।

(दोमाथापथ) १ द्वयोः पथोः समाहारे । द्वौ पन्थानौ
यत्र । २ मार्गद्वययुक्ते देशादौ त्रि० ।

द्विपद पु० द्वे पदे यस्य । “द्विपदे च चतुर्भेदा नृदेवपक्षि

राक्षसाः” १ प्रश्नसारोक्ते सनुष्यादौ । २ द्विपदघटिते समासे
पु० । ३ राशिभेदे च “मिथुनतुलाघटकन्या द्विपदाख्याश्चा-
पपूर्वभागश्च” ज्यो० त० “द्विपदवशयाः सर्वे सिंहं विहाय
चतुष्पदाः” ज्यो० त० । समा० द्वि० । ४ पदद्वये न० । ५ पदद्व-
याद्यके वास्तुमण्डलस्थे कोष्ठभेदे ।
पृष्ठ ३८२१

द्विपदा स्त्री द्वौ पादावस्य “संख्यासुपूर्येति” पा० पादस्यान्त्य-

लोपः “टाबृचि” टापि पादः पद्भावः । द्विपादयुक्तायामृचि

द्विपदिका स्त्री द्वौ पादौ दण्डौ यत्र वुन् स्त्रीत्वम् । द्वौ

पादौ यत्र दण्डः १ तत्रार्थे “द्वौ पादौ दण्डितो
द्विपदिकां व्यवसृजति द्विगुणं ददातीत्यर्थः” सि० कौ०
अत्र पादशब्दस्य गुणवाचित्वाभिप्रायेण द्विगुणमित्युक्त-
मिति बोध्यम् । द्विपदी स्वार्थे क ह्रस्वः । २ गोति-
भेदे “शुद्धा द्विपदिका गीतिर्जम्भलेत्यभिधीयते”
भरतः । “द्विपदिकया दिशोऽवलोक्य निःश्वस्य सास्रम्”
विक्रमो० ।

द्विपदी स्त्री द्वौ पादौ यस्याः पादः अन्त्यलोपे कुम्भपद्या०

ङीष् पद्भावः । ऋगभिन्ने १ द्विपदयुक्तगीतिभेदे २ मात्रा-
वृत्तभेदे च “आदौ षट्कलसङ्गतमेतत् तदनु पञ्चचतुष्कलम्
गुर्वन्तं द्विपदी भवतीह विंशत्यष्टकलं दलम्” तल्लक्षणम् ।
“गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न
हि पद्यसे” शत० ब्रा० १४८ । १५१० । त्रैलोक्यात्मकपादे-
नैकपद्री भवसि त्रैविद्यरूपपादेन त्वं द्विपदी” भा० । तेन
अवयवरूपचरणवाचित्वाभावात् टावृचीत्यस्य न प्रसक्ति
गायत्र्यास्त्रिपादत्त्वात् इति दृश्यम् ।

द्विपर्णी स्त्री द्वे पर्णे यस्याः जातित्वात् ङीष् । १ वनकोल्यां

रत्नसा० १ पर्णद्वययुक्ते त्रि० स्त्रियां टाप् ।

द्विपमद पु० ६ त० । १ हस्तिमदे २ गन्धद्रव्यभेदे च राजनि० ।

द्विपात्र न० द्वयोः पात्रयोः समाहारः समा० द्वि० पात्रा०

न ङीप् । पात्रद्वये । तद् हरति आबहति वा “द्विगो-
ष्ठंश्च” पा० ष्ठन् पक्षे च द्विपात्रिक द्विपात्रीण खपक्षे ठञ
तस्य अध्यर्द्धेति लुकि द्विगोरिति ङीपि प्राप्ते पात्रादि
त्वात् न ङीप् । द्विपत्रहारके तदावाहके च

द्विपाद पु० द्वौ पादौ यस्य वेदे नान्त्यलोपः । वानरादौ

पशुभेदे “तद्ये द्विपादाः पशवस्तैरेवैनदेतदभ्यवहरति” शत०
ब्रा० ६ । ८ । २ । ५ । २ ग्रहभेदे “एकपादा द्विपादाश्च तथा द्वि-
शिरसोऽपरे” हरिवं० १६८ अ० नानाग्रहोक्तौ । लोके तु
अन्त्यलोपः द्बिपाद् इत्येव । पादद्वययुक्ते मनुष्यादौ ।

द्विपाद्य त्रि० द्वौ पादौ परिमाणमस्य “पणमाषपादशता-

द्यत्” पा० यत् पादः पदिति न, अल्लोपस्य स्थानिवत्त्वात्
“पद्यत्यतदर्थे” पा० इत्यपि न प्राण्यङ्गस्यैव तत्र
ग्रहणात् । १ द्विपादपरिमाणयुते दण्डप्रायश्चित्तादौ
२ द्विगुणदण्डे अमरः । तत्र पादशब्दस्य गुणवाचित्वात्
द्विगुणपरतेति बोध्यम् ।

द्विपाधिप पु० ६ त० । १ ऐरावते २ गजश्रेष्ठे च “तत्पूर्वमंशद्वयसं

द्विपाधिप्राः” माघः गजाधिपादयोऽप्यत्र ।

द्विपायिन् पु० द्वाभ्यां मुखशुण्डाभ्यां पिबति पा--णिनि ।

गजे हारा० स्त्रियां ङीप् ।

द्विपास्य पु० द्विपस्यास्यमेवास्यमस्य । गणेशे ।

द्विपुट पु० द्वे पुटे अस्य । सुगन्धिश्वेतपुष्पके वृक्षभेदे पारस्करनि० ।

द्विपुरुष त्रि० द्वौ पुरुषौ प्रामाणमस्य तद्धितार्थ द्विगुः “प्रमाणे

लोद्विगोर्नित्यम्” पा० मात्रचो लुक् । पुरुषद्वयप्रमाणयुक्ते
स्त्रियां वा ङीप् द्विपुरुषी (षा) वा परिखा ।

द्विपृष्ठ पु० ब्रह्मसम्भवे राजभेदे हेमच० ।

द्विबन्धु पु० द्वयोर्लोकयोर्बन्धुः । द्वयोर्लोकयोर्बन्धौ वह्नौ ।

“स द्विबन्धुर्वैतरणः” ऋ० १० । ६१ । १७

द्विभाव त्रि० द्वौ भावौ यस्य । द्विस्वभावयुक्ते ततः ब्राह्मणा०

भावे कर्मणि च ष्यञ् । द्वैभाव्य द्वित्वे न० ।

द्विभूम त्रि० द्वे भूमी यत्र अच्समा० । भूमिद्वययुक्ते

प्रासादादौ (दोताला)

द्विमातृ पु० द्वे मातरौ यस्य समासान्तविधेरनित्यत्वात् न कप् ।

१ गणेशे हेमच० । कप् द्विमातृकोऽप्यत्र । २ जरासन्धे च

द्विमातृज पु० द्वाभ्यां मातृभ्यां जायते जन--ड । १ गणेशे

द्वैमातुरशब्दे दृश्यम् । २ जरासन्धनृपे च जरासन्ध-
शब्दे ३० ६० पृ० दृश्यम् ।

द्विमात्र पु० द्वे मात्रे उच्चारणकालभेदोऽस्य । दीर्घस्वरे

आ ई इत्यादौ “एकमात्रो भवेध्रस्वो द्विमात्रो दीर्घ
उच्यते” शिक्षा ।

द्विमाष्य त्रि० द्वौ माषौ प्रमाणमस्य यत् । माषद्वयपरिमाण युक्ते ।

द्विमास्य त्रि० द्वौ मासौ भूतः “द्विगोर्यप्र्” पा० यप ।

मासद्वयं व्याप्य १ भूते २ तथाभूतवयस्के च ।

द्विमीढ पु० हस्तिनापुरकारकहस्तिनृपसुतभेदे “तेनेदं

निर्मितं पूर्वं हस्तिनापुरमुत्तमम् । हस्तिनश्चापि
दायादास्त्रयः परमधार्मिकाः । आजमीढो द्विमीढश्च
पुरमीढस्तथैव च” हरिवं० २० अ०

द्विमुख पुंस्त्री० द्वे मुखे यस्य । १ मुखद्वययुक्ते राजसर्पे

हला० । २ मुखद्वययुक्ते त्रि० स्त्रियां स्वाङ्गत्वात् वा
ङीष् । ३ कृमिरोगभेदे पु० “चूरवो द्विमुखाश्चैव सप्तैवैते
पुरीषजाः” सुश्रुतः । द्वे स्वस्याः स्ववत्सस्य मुखे यस्याः
ङीष् । ३ उभयतोमुख्यामर्द्धप्रसूतायां धेन्वां स्त्री ।
उभयतोमुखशब्दे १३६३ पृ० दृश्यम् “द्विमुखीगोप्रदातारः
कपिलाद्रानतत्पराः” काशीस्व० ४ जलौकायां स्त्री टाप् ।
पृष्ठ ३८२२

द्विमुनि अव्य० द्वौ मुनी पाणिनिकात्यायनौ वंश्यौ । “संख्या-

वंश्येन” पा० अव्ययी० । तुल्यविद्यायुक्तमुनिद्वये । “द्विमुनि
व्याकरणस्य, विद्याविद्यावतारभेदात् द्विमुनि व्याकरण
मित्यपि साधु” सि० कौ०

द्विमूषलि अव्य० द्वे मूषले यत्र प्रहरणे अव्ययी० द्विदण्ड्या०

इच् समा० । मूषलद्वययुक्ते प्रहरणे ।

द्विमूर्द्ध त्रि० द्वौ मूर्द्धानावस्य षच् समा० । शीर्षद्वययुक्ते

“बहुमूर्द्ध्नो द्विमूर्द्धांश्च त्रिमूर्द्धांश्चाहतां मृधे” भट्टिः
अस्योन्तोदात्तत्वम् स्त्रियां ङीष् । संज्ञायान्तु क्वचित् न
समा० । द्विमूर्द्धन् दनुपुत्रभेदे “अभवन् दनुपुत्राश्च
इत्युपक्रमे “द्विमूर्द्ध्वा शकुनिश्चैव तथा शङ्कुशिराः प्रभुः”
हरिवं० ४ अ० ।

द्वियजुस् स्त्री द्वे यजुषी उपधाने अस्याः । १ इष्टकाभेदे द्वे

यजुषी इव शरीरे अस्य । २ यजमाने च यथोक्तं शत० ब्रा०
“अथ द्वियजुषमुपदधाति । इन्द्राग्नी अकामयेतां स्वर्गं
लोकमियावेति तावेतामिष्टकामपश्यतां द्वियजुषमिमामेव
तामुपादघातां तामुपधायास्यै प्रतिष्ठायै स्वर्गं लोकमैतां
तथैयैतद्यजमानो यद्द्वियजुषमुपदधाति येन रूपेण यत्
कर्म कृत्वेन्द्राग्नी स्वर्गं लोकमैतां तेन रूपेण तत्कर्म कृत्वा
स्वर्गं लोकमयानीति सा यद्द्वियजुर्नाम द्वे ह्येतां देवते
अपश्यतां यद्ध्येव द्वियजुषमुपदधाति यजमानो वै द्वियजुः
तदाहुः । यदसावेव यजमानो योऽसौ हिरण्मयः पुरु-
षोऽथ कतमदस्येदं रूपमिति दैवो वाअस्य स आत्मा-
मानुषोऽयं तद्यत्स हिरण्मयो भवत्यमृतं वा अस्य तद्रूपं
देवरूपममृतं हिरण्मयमथ यदियं मृदः कृता भवति
मानुषं ह्यस्येदं रूपम् । स यदमूमेवोपदध्यात् । नेमामप-
शिंष्यात्क्षिप्रे हास्माल्लोकाद्यजमानः प्रेयादथ यदि
मामपशिनष्टि यदेवास्येदं मानुषं रूपं तदस्यैतदपशिनष्टि
तथेहानेनात्मना सर्वमायुरेति” शत० ब्रा० ७ । ४ । २ । १६
यतो द्वे देवते एतामपश्यतामत एव द्वाभ्यां यजुर्भ्यामु-
पधीयते । स हिरण्मयः पुरुषोऽस्य यजमानस्य देवत्व
प्रयुक्त आत्मा शरीरम् । द्वियजुरिष्टका मनुष्यत्वपयुक्त
आत्मेत्यर्थः हिरण्मयत्वात् पुरुषस्य देवशरीरत्वं मृण्-
मयत्वाद् द्वियजुषो मानुषशरीरात्मत्वम्” भा० । ते च
यजुषी शत० ब्रा० ७४२२१ उक्ते “यास्ते अग्ने!
सूर्ये रुचः” १ । “याश्च देवाः! सूर्ये रुचः” २ । इति ।

द्वियमुन अव्य० द्वयोर्यमुनयोः समाहारः “नदीभिश्च” पा०

“नदीभिः संख्या प्राग्वत् समाहारे चायमिष्यते” सि० कौ०
“समाहारे चेति” पा० सूत्रे चकार एवकारार्थकः
समाहारान्यव्यवच्छेदकस्तेन द्विगीरयमपवादोऽव्ययीमावः”
मनो० । द्वयोर्यमुनयोः समाहारे ।

द्विर पु० द्वौ रौ रेफौ वाचकशब्देऽस्य । रेफद्वयघटितभ्र-

मरशब्दवाच्ये १ मधुकरे २ वर्वरे च ।

द्विरद पु० द्वौ रदौ प्रधानतया यस्य । १ गजे अमरः २

नागकेशरे च “सममेव समाक्रान्तं द्वयं द्विरदगामिना”
रघुः “दुष्यैरिव क्षितिभृतां द्विरदैरुदारम्” माघः ।

द्विरदान्तक पुंस्त्री० ६ त० । सिंहे राजनि० स्त्रियां जाति-

त्वात् ङीष् ।

द्विरदाराति पु० ६ त० । १ शरभे अष्टापदे जन्तुभेदे पार० नि० २ सिंहे च ।

द्विरदाशन पुंस्त्री० द्विरदमश्राति अश--भोजने ल्यु । सिंहे

पार० नि० स्त्रियां जातित्वात् ङीष् ।

द्विरभ्यस्त त्रि० द्विर्वारमभ्यस्तः । द्विगुणिते द्विरुक्ते ।

द्विरशन न० द्विर्वारमशनम् । द्विवारभोजने “मुनिभिर्द्विर-

शनं प्रोक्तं विप्राणां मर्त्यवासिनां नित्यम् । अहनि च
तथा तमस्विन्यां सार्द्धप्रहरयामान्तः” कात्यायनसं०

द्विरसन पुंस्त्री द्वे रसने जिह्वे यस्य । द्विजिह्वे सर्पे हारा०

स्त्रियां जातित्वात् ङीष् ।

द्विरागमन न० द्विर्द्विवारमागमनम् । विवाहात् परत्र

पितृगेहात् पतिगृहे वध्वाः पुनरागमने । तत्र नक्षत्रादि
तत्स्वरूपञ्च ज्यो० त० उक्तं यथा
“श्रीपतिसंहितायां प्रचेताः “पुष्यादित्यसमीरणा-
दितिवसुस्वात्युत्तरारेवतीतारानायकरोहिणीषु शुभदा-
मेषालिकुम्भे रवौ । वारेष्विज्यसितेन्दुवित्सु शुभदे
तारे प्रशस्ते विघौ कन्यामन्मथमीनतौलिमृगभे स्याद-
ङ्गनाद्व्यागमः” । नारायणपद्धतौ “वृत्ते पाणिग्रहे
गेहात् पितुः पतिगृहं प्रति । पुनरागमनं वध्वास्तद्
द्विरागमनं विदुः” ज्योतिःसारसंग्रहे “विवाहमासि
प्रथमं वध्वा नागमनं यदि । तदा सर्वमिदं चिन्त्यं
युम्माद्यव्दं विचक्षणैः” कृत्यचिन्तामणौ “श्वश्रूं हन्त्यष्टमे
वर्षे श्वशुरञ्च दशाव्दके । संप्राप्ते द्वादशे वर्षे पतिं
हन्ति द्विरागमे” मत्स्यसूक्ते “भुक्त्वा पितृगृहे कन्या
भुङ्क्ते स्वामिगृहें यदि । दौर्भाग्यं जायते तस्याः
शपन्ति कुलनायिकाः”
अत्र विहितनक्षत्रादि मुहू० पी० उक्तं यथा
“चरेदथौजहाथने घटालिमेषगे रवौ रवीज्यशुद्धियोगतः
शुभग्रहस्य वासर । नृयुग्ममीनकन्यकातुलावृषे विल-
पृष्ठ ३८२३
ग्नके द्विरागमं लघुध्रुवे चरेऽस्रपे मृदूडुनि । दैत्येज्यो-
ह्यभिमुखदक्षिणे यदि स्याद्गच्छेयुर्न हि शिशुगर्भिणी
नवोढाः । वालश्चेत् व्रजति विपद्यते नवोढा चेद्बन्ध्या
भवति च गर्भिणी त्वगर्भा । नगरप्रवेशविषयाद्युपद्रवे
करपीडने विबुधतीर्थयात्रयोः । नृपपीडने नवबधूप्रवे-
शने प्रतिभार्गवो भवति दोषकृन्नहि । पित्र्ये गृहे चेत्
कुचपुष्पसम्भवः स्त्रीणां न दोषः प्रतिशुक्रसम्भवः । भृग्व-
ङ्गिरोवत्सवसिष्ठकश्यपात्रीणां भरद्वाजमुनेः कुले तथा” मु०
चि० “पूर्वं नववधूप्रवेशे जाते तदनन्तरं परावृत्यापि
पितृगृहप्राप्तायामपि वध्वा यथेष्टवर्षाणि स्थितायाः
पुनर्भर्तृगृहप्रवेशो द्विरागमशब्दवाच्यः । अयंचाचारः
प्राच्योदीच्यपाश्चात्त्यानामेवेति । चरेदिति । अथ
वधूप्रवेशकथनानन्तरं पुनर्वधूप्रवेशं द्विरागमनं वक्ष्यमाण-
नक्षत्रादिषु चरेत् कुर्यात्कदा? ओजहायने विषमवर्षे
प्रथमे तृतीये पञ्चमे वा वर्षे सति । तथा घटालिमेषगे
कुम्भवृश्चिकमेषस्थिते रवौ । तथा वरस्य रवीज्यशुद्धिः
रवेः सूर्यस्य इज्यस्य गुरोः शुद्धिस्तयोर्योगतः । शुभग्रहस्य
सानबुधगुरुशुक्राणामन्यतमस्य वासरे सति । मिथुनमी-
नकन्यातुलावृषाणामन्यतमे लग्ने शुभग्रहावलोकिते
शुभयुक्ते वा सति । लघून्यश्विनीपुष्यहस्ताः ध्रुवाणि
प्रसिद्धानि चराणि श्रवणादित्रयपुनर्वसुस्वात्यः अस्रपोरा-
क्षसस्तद्भं मूलं मृदूनि प्रसिद्धानि एषु भेषु द्विरागमः
प्रशस्त इत्यर्थः । यदाह ऋक्षोच्चयः “तिष्यादित्यसमी-
रणादितिवसुत्रीण्युत्तराण्यश्विनीरोहिण्यः शुभदाश्च
वर्षमसमं मेषालिकुम्भे रविः । कन्यामन्मथमीनमे
नववधूयानं वृषे तौलिके देवाचार्यसितेन्दुसौम्यदिवसे शुद्धे
गुरौ भास्करे” इति । ग्रन्थकर्त्रात्र कानिचिद्भान्यधिकानि
उक्तानि तानि राजमार्तण्डेनोक्तानि । “नीहाराशु
धनोत्तरादितिगुरुब्राह्मानुराधाश्विनीमूलाहस्करवारुणा-
निलहरित्वाष्ट्रेषु शस्ते तिथौ । कुम्भाजालिगते
रवौ शुभकरे प्राप्तोदये भार्गवे सूर्ये कीटघटाजगे
शुभदिने पक्षे च कृष्णेतरे । हित्वा दिक्प्रतिलोमगौ
बुधसितौ लालाटगं दिक्पतिं चानीता गुणशालिनी
नववधूर्नित्योत्सवैर्मन्दिरम्” । लालाटगान् यात्रायां
वक्ष्यति । शुक्रास्तनिषेधस्तु सामान्यतो वाप्यारामेत्या-
दिनोक्त एवेति न पुनरुक्तः । यद्यपि प्राक् सामान्येन
कालशुद्धिरुक्ता तथाप्यावश्यकत्वे । “चैत्रे पौषे
हरिस्वप्ने गुरोरस्ते मलिम्लुचे । नवोढागमनं नैव कृते पञ्च-
त्वमाप्नुयादिति” बादरायणवाक्यान्नैव वधूपवेशः कार्यः ।
दैत्येज्य इति । यदि दैत्येज्यः शुक्रोऽभिमुखदक्षिणे
गन्तव्यदिगभिमुखे गन्तुर्दक्षिणदिग्भागे वा स्थितः स्यात्तदा
शिशुर्बालः गर्भिणी गर्भवती नवोढ़ा नूतनपरिणोता
व्रजेत्तदा बालः विपद्यते म्रियते । गर्भिणी त्वगर्भा गर्भ-
रहिता स्यात् गर्भस्राववती भवेत् । नूतनपरिणीता
नवोढ़ा बन्ध्या अपत्यसम्भवरहिता स्यात् । यदाह
बादरायणः “अस्तङ्गते भृगोः पुत्रे तथा सम्मुखमागते ।
नष्टे जीवे निरंशे वा नैव सञ्चालयेद्वधूः । गर्भिण्या
कालकेनापि नववध्वा द्विरागमे । पदमेकं न गन्तव्यं शुक्रे
सम्मुखदक्षिणे । गुर्विणी स्रवते गर्मं बालो वा मरणं
व्रजेत् । नवा वधूर्भवेद्वन्ध्या शुक्रे सम्मुखदक्षिणे” ।
यदि शुक्रः पूर्वस्यामुदितस्तदा पूर्वदिशि गन्तुः सम्मुख
एव पश्चिमां गन्तुः पृष्ठे, दक्षिणां गन्तुर्वाभे, उत्तरां
गन्तुर्दक्षिणे स्यात् । तदा पूर्वोत्तरे दिशौ न
गच्छेत् किन्तु पश्चिमदक्षिणे दिशौ गच्छेत् । यदि
पश्चिमायामुदितः शुक्रः तदा पश्चिमां गन्तुः सम्मुख
एव दक्षिणां गन्तुः दक्षिणः । पूर्वां गन्तुः पृष्ठे उत्तरां
गन्तुर्वामः । तदा पश्चिमदक्षिणे दिशौ न यायात् ।
किन्तु पूर्वोत्तरे दिशौ गच्छेत् । “पृष्ठे भृगौ पुत्रवतीं
प्रयाणे कान्तां कुलीनां सुभगां करोति । अग्रे सुखो
वै विदधाति शुक्रो वैधव्यशोकौ खलु चास्त शुक्रः”
इति । केचिद्दीपोत्सवप्रतिपदि नक्षत्रादिनियमं विनैव
बधूप्रवेशं वाञ्छन्ति । उक्तञ्च “अस्तङ्गते गुरौ शुक्रे
सिंहस्थे वा वृहस्पतौ । दीपोत्सवबलेनैव कन्या
भर्तृगृहं विशेत्” इति तदेतच्छिष्टाचारतो ज्ञेयम् ।
अत्र लग्नशुद्धिमाह बादरायणः “उपचयगते जीवे
भृगौ केन्द्रमुपागते । शुद्धे लग्ने शुभाक्रान्ते गन्तव्यं भर्तृ-
मन्दिरम” नगरप्रवेशे, विषयोदेशः आदिशब्देन ग्रामः ।
तस्योपद्रवे अन्यराजकृतोपद्रवे सति दुर्भिक्षादिना वोपद्रवे
सति । गन्तव्यदिशि प्रतिशुक्रकदोषो नास्ति । करपी-
डने विवाहोद्देशेन यात्रायां सत्यां विबुधा देवास्तेषां
यात्रा नगरकोटयात्रा देवयात्रा तीर्थयात्रा प्रयागादि-
यात्रा तयोः । नृपपीडने नृपाद्राज्ञः सकाशात्पी-
ड़ायां दण्डादिकृतायां सत्याम् नववधूप्रवेशने नूतन-
परिणीतायाः कन्यायाः भर्त्रगृहप्रवेशे एतेषामन्यतम-
भावे सति भार्गवः सम्भुखदोषकृन्नहि । यथाह
वादरायणः “स्वभवनपुरप्रवेशो देशानां विभ्रमे तथोद्वाहे ।
पृष्ठ ३८२४
नूतनवध्वागमने प्रतिशुक्रो न दुष्यतीति” । नूतनवधूनां
स्वामिगृहगमनं प्रतिशुक्रयात्रायां महान्दोषः ।
तद्वाक्यं प्रागुक्तम् । अथ प्रौढस्त्रीणां द्विरागने तथा
गोत्रभेदपरत्वेन प्रतिशुक्रापवादान्तरमाह पित्र्ये
इति । पितुरिदं पित्र्यम् । तस्मिन् पित्र्ये गृहे
कुचौ स्तनौ पुष्पमृतुः तत्सम्भवः स्यात्तदा स्त्रीणां प्रति-
शुक्रसम्भवो दाषी नास्ति । उपलक्षणत्वाद्भर्तुः सूर्यगुरु-
शुद्धिराहित्यसम्भवेऽपि दोषो नास्तीति । तदुक्तं
चण्डेश्वरेण “पित्र्यागारे कुचकुसुमयोः सम्भवो वा यदि
स्यात्पत्युः शुद्धिर्न भवति रवेः सम्मुखो वाथ शुक्रः ।
तूले लग्ने गुणवति तिथौ चन्द्रताराविशुद्धौ स्त्रीणां यात्रा
भवति सफला सेवितुं स्वामिसद्म” इति । वाशब्दाद्गुरु-
शुद्धिरपि चेन्न भवतीत्यर्थः । अथ भृग्वङ्गिरोवत्सवसिष्ठ-
कश्यपात्रिभरद्वाजवंशोत्पन्नानामपि प्रतिशुक्रसम्भवो दोषो
नास्ति । यदाह बादरायणः “कश्यपेषु वसिष्ठेषु
चात्रिभृग्वङ्गिरःसु च । भारद्वाजेषु वात्स्येषु प्रतिशुक्रो न
दुष्यति” इति । अयं चापवादो यात्रामात्रसाधारणः”
न द्विरागमने, सम्मतिवाक्ये विशेषानुक्तेः । एवं
प्राक्पद्योक्तोऽप्यपवादोज्ञेयः । केचिच्छुभं तेषामाहुः ।
यदाह महेश्वरः “नो तेषां प्रतिशुक्रपातमशुभं ये
वत्सभृग्वङ्गिरोभारद्वाजवसिष्ठकश्यपकुलोत्पन्नास्तथाऽत्रेः
कुले । देशानां विषयप्लवे च नियतं न स्याद्विवाहे तथा
तीर्थानां गमने तथैकनगरे ग्रामे च सौम्ये तथेति” ।
सोमप्यापत्यं सौभ्यो बुधः । बुधसांमुख्येऽपि भृग्वा-
दिगोत्रोत्पन्नानामपि तथा यानमशुभं नास्ति
चकारात दुर्भिक्षाद्युपद्रवसद्भावेऽन्येषामपि यानमशुभं
नास्तीत्यर्थः तच्चिन्त्यं मूलवाक्यस्यापवादरूपस्या-
नुपलम्भात । कि च यथा साधारण्येन यस्यां कस्यां-
चिद्दिशि यात्रायां शुक्राधिष्ठितादिनिषिद्धा सा च
बादरायणादिवाक्येरपोह्यते । तथा बुधसाम्मुख्ये
गमननिषेधानुक्तेरपवादस्यानुक्तत्वदर्शनात् । ननु “प्रति-
शुक्रं प्रतिबुधं प्रतिभौमं गतो नृपः । बलेन शक्रतुल्यो-
ऽपि हतसैन्यो निवर्तते” इति वसिष्ठोक्तिरेव
बुधसाम्मुख्यदोषनिषेधबोधिकास्तीति । किं च “कुजाय
वृषभं दद्यात् स्वर्णं दद्याद्बुधाय च । तत्तत् सम्मुखजो
दोषस्तत्क्षणादेव नश्यति” इति बुधसाम्मुख्यदोध-
निराकरणार्था अपि तदुक्तिरेवास्ति प्रमाणमिति चेत् ।
सत्यम् । प्रतिशुक्रं प्रतिबुधं इत्यादिवाक्यैर्बधसाम्म-
ख्यमपि दोषावहमेवेति प्रतीयते । अत्रार्थवादोऽप्य-
भाणि श्रीपतिना “प्रतीन्दुजं भूमिपतेर्गतस्य नान्ये-
ग्रहास्त्राणविधौ समर्थाः” इति । त्राणं रक्षणम् ।
नारदेनापि “प्रतीन्दुजकृतं दोषं हन्तुं शक्ता ग्रहा न
हि” इति । तत्र गोत्रादिविषयत्वेन परिहारो
योऽभिहितः स शुक्रसाम्मुख्ये एव नतु बुधसाम्मुख्ये गोत्र-
परिहारस्तु दोषकरवाक्यान्ते प्रतिशुक्रं न विद्यते इत्यु-
क्तम् । ननु प्रतिशुक्रमित्यादिवाक्योपात्तस्य प्रतिबुधस्या-
प्ययं परिहारोऽस्तु दोषकथनानन्तरमेव तस्याभिधानात्
प्रतिशुक्रपदं तु मुख्यतां सूचयितुम् उपात्तं तदभिप्रा-
येण सौम्ये तथेति महेश्वरोक्तिः साधीयसीति चेन्न
यद्येषोऽभिमतः स्यात् सौम्ये तथेतिवद्भौमे तथेति
वक्तव्यं स्यात् । तच्च नोक्तम् । किं च प्रतिशुक्रपदं
मुख्यतां सूचयितुम् उषात्तमित्युक्तं तदप्ययुक्तम् । कुतः
“शुक्रास्तदोषस्य महत्त्वोक्तेस्तद्विषयकोऽयं गोत्रादिपरि-
हारः । “कामं व्रजेद्वा प्रतिशुक्रमस्तङ्गते च यायान्न
जिगोषुरत्रेति” श्रीपत्युक्तेः शुक्रास्तदोषस्यापवादो बुधा-
नुकूल्यमपि तेनैव “अस्तङ्गतेऽप्यास्फुजिति प्रयायाद्बुधो
यदि स्यादनुकूलवर्तीति” । अनुकूलवर्त्ती यातव्यदिशीष्ट-
वर्त्ती । बुधप्रातिकूल्यं तु महादोषावहमेतद्वाक्यं तैरपि
प्रागभिहितम् । परन्तु बुधास्तः समीचीनो न वेति न
वचनं युक्तिपदवीं वा काञ्चिदभ्यधायि । तस्माद्वाचनि-
केऽर्थे न युक्तिः प्रभवेदिति । बुधमाम्मुख्ये गोत्रादिपरि-
हारो न शिरोमणिपदवीमारोहति । आदिशब्दात्
“स्वभवनपुरप्रवेशे देशानां विभ्रमे तथोद्वाहे । नूतनवध्वा-
गमने प्रतिशुक्रविचारणा नास्ति” “एकग्रामे पुरे वापि
दुर्भिक्षे राष्ट्रविप्लवे । विवाहे तीर्थयात्रायां प्रतिशुक्रो
न दुष्यति” इति । तुल्यन्यायत्वाद्भौमसाम्मुख्येऽपि
विशिष्यर्विवचनाभावात् । किन्तु शुक्रसाम्मुख्य एव
स परिहारः । सोऽपि सर्वेषां यात्रामात्रसाधारणः ।
परन्तु शिशुगर्भिणीनववधूनां “अस्तङ्गते भृगोः पुत्रे”
इत्यादिना बादरायणादिवाक्यात्तु विशेषफलावगतिमात्रे
तत्रैषां शिश्वादीनां बुधसाम्मुख्यविचारस्तु दुरापास्त
एवेत्यलमतिप्रसङ्गेनेति शिवम्” पी० धा०
द्व्यागमद्विरागमादयोऽप्यत्र ।

द्विरात्र त्रि० द्वाभ्यां रात्रिभ्यां निर्वृत्तः तद्धितार्थद्वि० ठक्

तस्य लुक् अच् समा० । १ रात्रिद्वयसाध्ये २ यागभेदे पु०
“एकरात्रो द्विरात्रः” अथ० ११ । ९ । १० “व्युष्टि
द्विरात्रः” कात्या० १५ । ९ । २२ । २ व्रतभेदे न० । समा० द्विगुः
अच् समा० । ३ रात्रिद्वये न० ।
पृष्ठ ३८२५

द्विरात्रीण त्रि० द्वाभ्यां रात्रिभ्यां निर्वृत्तादि ख तस्य न

लुक् । रात्रिद्वयसाध्ये पक्षे ठञ् । द्वैरात्रिक तत्रार्थे

द्विराप पुंस्त्री० द्विः द्विवारमापिबति आ + पा--क । हस्तिनि

शब्दमा० तस्य शुण्डेन प्रथमपानोत्तरं मुखेन पानात्
द्विवारपायित्वात् तथात्वम् स्त्रियां ङीष् ।

द्विराषाढ पु० “माधवादिषु षट्केषु मासि दर्शद्वयं यदा ।

द्विराषाढः स विज्ञेयः शेते तु श्रावणेऽच्युतः” मिहि
रोक्ते मिथुनस्थरव्यारब्धशुक्लप्रतिपदादिदर्शान्तमासद्वये ।
स चाषाढमलमासे भवति यथा “मिथुनस्थो यदा भानु-
रमावस्याद्वयं स्पृशेत् । द्विराषाढः स विज्ञेयो विष्णुः
स्वपिति कर्कटे । पौर्णमास्यद्वयं यत्र पूर्वाषाढाद्वयं
स्पृशेत् । द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे”
गारुडोक्ते मासभेदे च ।

द्विरुक्त त्रि० द्विः द्विवारमुक्तः । १ अभ्यस्ते द्वित्वप्राप्ते धात्वादौ

२ द्विवारं कथिते च ।

द्विरूढा स्त्री द्विवारमूढ़ा वह--कर्मणि क्त । द्विवारविवाह

युतायां पुनर्भूस्त्रियाम् हेमच० ।

द्विरेतस् पु० द्वे रेतसी कारणमस्य । द्वाभ्यां पशुभ्यां रासभा-

श्वाभ्यां जाते १ अश्वतरे गोऽजाभ्यां २ जाते गर्दभे च
“तएतमेकं पशुं द्वाभ्यां पशुभ्यां प्रत्यपश्यन् रासभं गोश्चावेश्च
तद्यदेतमेकं पशुं द्वाभ्यां पशुभ्यां प्रत्यपश्यंस्तस्मादेष-
एकः सन्द्विरेताः” शत० ब्रा० ६ । ३ । १ । २३ । अत्र गर्दभस्य
तथात्वमुक्तमश्वतरस्य तथात्वं च लोकप्रसिद्धम् ।

द्विरेफ पु० द्वौ रेफौ वाचकशब्देऽस्य । द्विरेफयुक्तभ्रमर-

शब्दवाच्ये १ मधुकरे अमरः २ वर्वरे हेमच० “मधु द्विरेफः
कुसुमैकपात्रे” द्विरेफमालाः सविशेषसङ्गाः” कुमा० ।

द्विर्वचन न० द्विरुच्यते वच--कर्मणि ल्युट् । १ द्विरुक्ते द्विः-

कथिते अभ्यस्ते धात्वादौ च “द्विर्वचनेऽचि” पा० “न
पदान्तद्विर्वत्वनेत्यादि” पा० ।

द्विलक्षण त्रि० द्वे लक्षणे प्रकारौ यस्य । प्रकारद्वययुते द्वि-

धाभिन्ने “समानयानकर्म्मा च विपरीतस्तथैव च ।
तदात्वायतिसंयुक्तः सन्धिर्ज्ञेयो द्विलक्षणः” मनुः । द्विल-
क्षणः द्विप्रकारः” कुल्लू० ।

द्विवक्त्र पु० द्वे वक्त्रे अस्य । १ मुखद्वययुते राजसर्पे २ दानव-

भेदे “एकवक्त्रो महावक्त्रो द्विवक्त्रः कालसन्निभः”
हरिवं० २६३ अ० नानादानवनामरूपाद्युक्तौ ।

द्विवचन न० द्वौ द्वित्वमुच्येते अनेन वच--करणे ल्युट् कर्म

षष्ठ्या समासः । द्वित्वबोधके पा० परिभाषिते औभ्यामि-
त्यादौ तस्थस्प्रभृतौ च । “द्व्येकयोर्द्विवचनैकवचने
बहुषु बहुवचनमिति” पा० ।

द्विवज्रक पु० द्विगुणितः वज्रः संज्ञायां कन् । षोडशकीणे

गृहभेदे “वज्रोऽष्टास्रिर्द्विवज्रको द्विगुणः” वृ० सं० ५३ अ० ।

द्विवर्ष त्रि० द्वे वर्षे वयोमानमस्य ठक् तस्य लुक् । १ द्विवर्ष-

वयस्के गवादौ स्त्रियां टाप् । द्वे वर्षे अधीष्टो भृतो
भूतो भावी वा ठञ् तस्य चित्तवति नित्यं लुक् । द्विवर्षं
२ सत्कृत्य नियोजिते ३ भृते कर्मकरे ४ स्वसत्तयाव्याप्ते
५ भाविनि च । अचेतने तु “वर्षाल्लुक् च” पा० लुक्
पक्षेख ठञ् च । द्विवर्ष द्विवर्षीण अचेतने व्याध्यादौ
भविष्यति तु “वर्षस्याभविष्यतीति” पा० उत्तरपदवृद्धिः ।
द्विवार्षिक द्विवर्षभूते धान्यादौ यागादौ च भविष्यति तु
नोत्तरपदवृद्धिः । द्वैवार्षिक इत्येव । “ऊनद्विवार्षिकं प्रेतं
निदध्युर्बान्धवा बहिः” मनुवाक्ये चित्तवत्यपि
न लुक् आर्षत्वात् बोध्यम् । स्वार्थे क । द्विवर्षवयस्के
त्रि० स्त्रियां टापि अतैत्त्वं द्विवर्षिका तत्रार्थे हेमच०

द्विवाहिका स्त्री द्विप्रकारं वाहयति वाहि--ण्वुल् ।

दोलायां शब्दमा० तया उभयपार्श्वयोः स्वारूढस्य
वाहनात्तथात्वम् ।

द्विविंशतिकीन न० द्वाविंशतिकमर्हति तत्परिमाणमस्य वा

ख । द्वाविंशतिकार्हे तत्संख्यापरिमिते

द्विविद पु० १ वानरभेदे स च रामसेनान्तर्गतः । “मैन्दश्च द्वि-

विधश्चापि हनूमांश्चानिलात्मजः । जाम्बवानृक्षराजश्च
सुग्रीवसचिवाः स्थिताः” भा० व० २७९ अ० । द्वापरयु-
गोये सौमद्वारस्थे २ वानरभेदे च “सौभद्वारे वानरेन्द्रो
द्विविदो नाम नामतः” भा० उ० १२९ अ० । “वानरौ द्वौ
महावीर्य्यौ मैन्दोद्विविद एव च । विजितौ युद्धदुर्द्धर्षौ
जाम्बवांश्चापराजितः” हरिवं० १७४ अ० । “समुद्रस्योत्तरे
तीरे द्विविदो नाम वानरः । ऐकाहिकज्वरं हन्ति
तस्य नामानुकीर्तनात्” ।

द्विविध त्रि० द्वे विधे अस्य । द्विप्रकारे “निकामतप्ता द्विवि-

घेन वह्निना नभश्चरेणेन्धनसम्भृतेन च” कुमा०

द्विविन्द पु० द्वौ विन्दू लेखनाकारेऽस्य । विसर्गे वर्णभेदे ।

द्विविस्त त्रि० द्वे विस्ते अर्हति परिमाणमस्य वा आर्हीयः

ठक् तस्य वा लुक् । विस्तद्वयार्हे तत्परिमिते पक्षे
ठकोऽलुक् । द्वैविस्तिक तत्रार्थे ।
पृष्ठ ३८२६

द्विवेद त्रि० द्वौ वेदावधीते वेद वा अण् तस्य लुक् । द्विवेदाध्यायिनि

द्विवेशरा स्त्री द्वौ वेशौ यानस्थानरूपौ राति ददाति

राक । लघुरथे नरबाह्यायां गन्त्र्यां हारा० ।

द्विव्रण पु० द्विविधो ब्रणः शाक० त० । सुश्रुतोक्ते शारीरे आग

न्तुके च द्विविधे व्रणे । तस्येदम् छ । द्विव्रणीय तदधिका
रेण चिकित्सितादौ । द्विविधाव्रणतद्भेदनिदानादि सुश्रुते
दर्शितं यथा “अथातो द्विव्रणीयचिकित्सितं व्याख्या-
स्यामः । द्वौ व्रणौ भवतः शारीर आगन्तुश्चेति ।
तयोः शारीरः पवनपित्तकफशोणितसन्निपातनिमित्तः ।
आगन्तुरपि पुरुषपशुपक्षिव्यालसरीसृपप्रपतनपीडनप्र-
हाराग्निक्षारविषतीक्ष्णौषधशकलकपालशृङ्गचकेषुपर-
शुशक्तिकुन्ताद्यायुधाभिघातनिमित्तः । तत्र तुल्ये व्रण-
सामान्ये द्विकारणोत्थानप्रयोजनसामर्थ्याद्द्विव्रणीय
इत्युच्यते । सर्वस्मिन्नेवागन्तु व्रणे तत्कालमेव क्षतोष्मणः
प्रसृतस्योपशमार्थं पित्तवच्छीतक्रियावधारणविधिर्वि-
शेषः सन्धानार्थञ्च मधुघृतप्रयोग इत्येतद्द्विकारणोत्था-
नप्रयोजनमुत्तरकालन्तु दोषोपप्लवविशेषाच्छारीरवत्-
प्रतीकारः । दोषोपप्लवविशेषः पुनः समासतः पञ्चदश-
प्रकारः प्रसरणसामर्य्याद्यथोक्तो व्रणप्रश्नाधिकारे शुद्ध-
त्वात् षोडशप्रकार इत्येके । तस्य लक्षणं द्विविधं
सामान्यं वैशेषिकञ्च । तत्र सामान्यं रुक्, व्रण गात्रविचू-
र्णने व्रणतीति व्रणः । विशेषलक्षणं पुनर्वातादिलिङ्गवि-
शेषः । तत्र श्यावारुणाभस्तनुः शीतपिच्छिलाल्पस्रावी-
रूक्षश्चटचटायनशीलः स्फुरणायामतोदभेदवेदनाबहुली
निर्मांसश्चेति वातात् । क्षिप्रजः पीतनीलाभः किंशुको-
दकाभोष्णस्रावी दाहपाकरागविकारो पीतपिडकाजुष्ट-
श्चेति पित्तात् । प्रततचण्डकण्डूबहुलः स्थूलो घनः
स्तब्धसिरास्नायुजालावततः कठिनः पाण्ड्ववभासो मन्द-
वेदनः शुक्लशीतसान्द्रपिच्छिलास्रावी गुरुश्चेति कफात् ।
प्रबालदलनिचयप्रकाशः कृष्णस्फोटपिड़काजालोपचित-
स्तुरङ्गस्थानगन्धः सवेदनो धूमायनशीलो रक्तस्रावी
पित्तलिङ्गश्चेति रक्तात् । तोददाहधूमायनप्रायः पीता-
रुणाभासस्तद्वर्णस्रावी चेति वातपित्ताभ्याम् । कण्डू-
यनशीलः सनिस्तोदो दारुणो मुहुर्मुहुः शीतपिच्छिल
स्रावी चेति वातश्लेष्मभ्याम् । गुरुः सदाह उष्णः पीतः
पाण्डुस्रावी चेति पित्तश्लेष्मभ्याम् । रूक्षस्तनुस्तोदब-
हुलः सुप्त इव च रक्तारुणाभस्तद्वर्णस्रावी चेति
वातशोणिताभ्याम् । घृतमण्डाभो मीनधावनतोयगन्धिर्मृदु-
र्विसर्प्युष्णकृष्णस्रावी चेति पित्तशोणिताभ्याम् । रक्तो-
गुरुः पिच्छिलः कण्डूप्रायः स्थिरः सरक्तपाण्डुस्रावी
चेति श्लेष्मशोणिताभ्याम् । स्फुरणतोददाहधूमायन-
प्रायः पीततनुरक्तस्रावी चेति वातपित्तशोणितेभ्यः ।
कण्डूस्फुरणचुम्चुमायनप्रायः पाण्डुघनरक्तस्रावी चेति
वातपित्तश्लेष्मशोणितेभ्यः । दाहपाकरागकण्डूप्रायः
पाण्डुघनरक्तस्रावी चेति श्लेष्मपित्तशोणितेभ्यः । त्रिवि-
धवर्णवेदनास्रावविशेषोपेतः पवनपित्तकफेभ्यः । निर्द-
हननिर्मथनस्फुरणतोददाहपाकरागकण्डस्वापबहुलोना-
नावर्णवेदनास्रावविशेषोपेतः पवनपित्तकफशोणितेभ्यः ।
जिह्वातलाभो मृदुः स्निग्धः श्लक्ष्णो विगतवेदनः सुव्य-
वस्थितो निरास्रावश्चेति शुद्धो व्रण इति ।”

द्विशत न० द्विगुणं शतम् । १ शतद्वये । पूरणे ड । २ तत्संख्या-

पूरणे त्रि० । ततस्तमप् द्विशततम तत्संख्यापूरणे त्रि० । द्वि-
शतेन क्रीतम् कन् । “शताच्च ठन्यतावसमासे” पा० असमास
इति विशेषणात् न ठन्यतौ द्विशतक । तत्क्रीते त्रि० द्वयोः
शतयोः समाहारः ङीप् । ३ द्विशती शतद्वयसमाहारे स्त्री ।

द्विशतिका द्वे द्वे शते ददाति “पादशतस्य संख्यादेर्वीप्-

सायां वुन्” पा० वुन् बुन्नन्तं स्त्रियामेव । द्विद्विशतदाने

द्विशत्य त्रि० द्विशतेन क्रीतम् “पणपादमाषशताद्यत्”

पा० यत् । द्विशतेन क्रीते ।

द्विशफ पुंस्त्री द्वौ शफौ यस्य । छिन्नखुरे द्विखुरे पशुभेदे

“गौरजो महिषः कृष्णः शूकरो गवयो रुरुः । द्विशफाः
पशवश्चेमे अविरुष्ट्रश्च सप्तमः” भाग० ३ । १० । ३ “कार्पास-
कौटजोर्ण्णानां द्विशफैकशफस्य च” मनुः ।

द्विशरीर पु० द्वे चरस्थिरात्मके शरीरे अवयबे अस्य ।

चरस्थिरात्मके मिथुनकन्याधनुर्मीनरूपे राशिभेदे तेषां च
प्रथमार्द्धस्य स्थिरसान्निध्यात् स्थिरात्मकत्वं चरमार्द्धस्य
चरसान्निध्याच्चरत्वम् । द्वितनुद्विदेहादयोऽप्यत्र ।

द्विशस् अव्य० द्वौ द्वौ ददाति करोति वा शस् । एकक्रियया

द्वयोर्व्याप्तौ । “द्विशः पात्राणि संसादयति” कात्या० श्रौ०
२ । ३ । ६

द्विशाण त्रि० द्वाभ्यां शाणाभ्यां क्रीतम् । “द्वित्रिपूर्वादण् च”

पा० ठञ् तस्यैव “अध्यर्द्धपूर्वेति” पा० लुक् । शाणद्वय
क्रीते पक्षे अण् “परिमाणान्तस्यासंज्ञाशाणयोरिति”
पा० पर्युदासादादिवृद्धिः । द्वैशाण पक्षे यत् । द्विशाण्य
तत्रार्थे

द्विशीर्ष पु० द्वे शीर्षे अस्य । वह्नौ शब्दच० ।

पृष्ठ ३८२७

द्विशूर्प त्रि० द्वाभ्यां शूर्पाभ्यां क्रीतम् “शूर्पादञन्यतरस्याम्”

पा० अञ्ठञौ वा “अध्यर्द्धपूर्वद्विगोर्लुक्” पा० तयोः लुक् ।
द्वाभ्यां शूर्पाभ्यां क्रीते, द्वयोः शूर्पयोः समाहारः । द्वि-
शूर्पी तया क्रीतमिति विग्रहे ठञेव न अञ् शूर्पान्त-
त्वेऽपि प्रत्ययविधौ तदन्तग्रहणनिषेधात् । ठञश्च न
लुक् तस्य द्विगुनिमित्तत्वाभावात् “परिमाणान्तस्येति” पा०
उत्तरपदवृद्धिः । द्विशौर्पिक तत्रार्थे त्रि० स्त्रियां ङीप् ।

द्विशृङ्गिका स्त्री द्वे शृङ्गे इव फले अस्याः कप् अतैत्त्वम् ।

मेढ्रवल्ल्यां पारस्करनिघ० ।

द्विष वैरे अदा० उभ० सक० अनिट् । द्वेष्टि द्विष्टे--अद्विषन्-

अद्विषुः । अद्विक्षत् त दिद्वेष दिद्विषे । “यः सर्वत्रानाभि-
स्नेहस्तत्तत् प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि” “न
द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते” गीता “ततोऽद्विषु
र्निरालोके स्वेभ्योऽन्येभ्यश्च राक्षसाः” भट्टिः “संवत्सरं
प्रतीक्षेत द्विषन्तीं योषितं पतिम्” मनुः आर्षत्वात् नुम् ।

द्विष त्रि० द्वेष्टि द्विष--क्विप् । शत्रौ अमरः । “रन्ध्रान्वेषण-

दक्षाणां द्विषामामिषतां ययौ” रघुः ।

द्विष त्रि० द्विष--कर्त्तरि क । द्वेषकारके शत्रौ “तन्मित्रपूजा

तदरिद्विषत्वम्” वृ० सं० ७८ अ० ।

द्विषत् त्रि० “द्विषोऽमित्रे” पा० प्रथमासामानाधिकरण्येऽपि

द्विध--शतृ । द्वेषकारके शत्रौ अमरः “पार्थेनाथ
द्विषन्मुरम्” माघः ।

द्विषन्तप त्रि० द्विषन्तं तापयति “द्विषत्परयोस्तापेः खच्”

पा० खचि ह्रस्वः “अरुर्द्विषदजन्तस्य” पा० मुम्
संयोगान्त्यतकारस्य लोपः । शत्रुतापके । घटघटीग्रहणा-
ल्लिङ्गविशिष्टपरिभाषा अनित्या तेन द्विषतीं तापयती-
त्यादौ न खच् किन्तु अण् । द्विषतीताप इत्येव सि० कौ

द्विषष् त्रि० ब० व० । द्विगुणिताः षट् । द्वादशसु “तुष्टायां

तोषमापन्नोऽजनयद्द्वादशात्मजान् । इत्युपक्रमे सुदेवोरो-
चनो द्विषट्” भाग० ४ । १ । ७

द्विषाष्टिक त्रि० द्वे षष्टी अधीष्टो भृतो भूतो भावी वा टञ्

उत्तरपदवृद्धिः । द्वे षष्टी दिनानि व्याप्य १ भृते २ भूते
३ भाविनि च ।

द्विषेण्य त्रि० द्विष--एण्वन् किच्च । द्वेषशीले अद्विषेण्यशब्दे उदा० दृश्यम् ।

द्विष्ट त्रि० द्विष--कर्मणि क्त । द्वेषविषये “निवृत्तिस्तु भवेद्द्वे-

षात् द्विष्टसाधनताधियः” भाषा० द्वेषशब्दे दृश्यम् ।
द्व्यष्ट + पृषो० । २ ताम्रे न० सारसुन्दरी ।

द्विष्ठ त्रि० द्वयोस्तिष्ठति स्था--क “अम्बाम्बेति” पा० षत्वम् ।

१ द्वयोः स्थिते संयोगविभागादौ २ स्थानद्वयस्थिते “द्विष्ठा-
स्तिथिक्षयाभ्यस्ताश्चान्द्रवासरभाजिताः” सू० सि० । द्विः द्वि-
वारं स्थितम् वा विसर्गलोपे न षत्वम् । द्विस्थ द्विवारस्थिते
त्रि० “त्रिभुजे भुजयोर्योगस्तदन्तरगुणो भुवा हृतो लब्ध्या
द्विस्था भूरूनयुता दलिता बाधे तयोः स्याताम्” लीला० ।

द्विस् अव्य० क्रियागणने द्वि + सुच् । द्विवारक्रियादौ

“द्विः शरं नाभिसन्धत्ते द्विः स्थापयति नाश्रितान् । द्विर्द-
दाति न चार्थिभ्यो रामो द्विर्नैव भाषते” । “त्रिःप्राश्यापो
द्विरुन्मृज्य मुखमेतान्युपस्पृशेत्” ति० त० “द्विःप्रमृज्या-
त्ततोमुखम्” मनुः ।

द्विसम त्रि० द्वे समे परिमाणमस्य ठञ् तस्य लुक् । १ द्विवर्ष-

परिमाणे । द्विसममधीष्ट इत्यादौ ठञ् “परिमाणान्तस्या
संज्ञाशाणयोः” पा० सू० कालपरिमाणस्याग्रहणम् “संख्यायां
संवत्संख्यस्य च” पा० संवत्सरस्य पृथग्ग्रहणात् नोत्तर-
पदवृद्धिः, अध्यर्द्धेत्यादिना न लुक् अस्य ठञो द्विगु-
निमित्तत्वाभावात् । द्वैसमिक द्विसमव्यापके ज्वरादौ ।

द्विस(सा)हस्र त्रि० द्वाभ्यां सहस्राभ्यां क्रीतम् द्वे सहस्रे

परिमाणमस्य वा अण् । ठञादेरपवादः तस्य वा लुक् ।
१ द्विसहस्रक्रीते २ द्विसहस्रपरिमिते च । द्विसहस्रपरोदायः
स्त्रियै देयो धनस्य तु” दायभा० । २ द्विगुणितसहस्रे च

द्विसहस्राक्ष पु० द्विरावृत्तं सहस्रं शाक० त० द्विसहस्रं

द्विगुणसहस्रमक्षीणि यस्य षच् समा० । अनन्ते हेम०
तस्य सहस्रवक्त्रत्वेन प्रतिमुखं द्विद्विनेत्रत्वात् तथात्वम् ।

द्विसांवत्सरिक त्रि० द्विवत्सरं भूतादि ठञ् । “संख्यायां

संवत्सरसंख्यस्य च” पा० उत्तरपदवृद्धिः । द्विवर्षं व्याप्य
भूतादौ ।

द्विसाप्ततिक त्रि० द्विसप्ततिं भूतादि ठञ् उत्तरपदवृद्धिः द्विसप्ततिं व्याप्य भूतादौ ।

द्विसीत्य त्रि० द्विवारं सीतया हलेन समितं “नौवयोधर्मे-

त्यादिना” पा० यत् । द्विवारं कृष्टक्षेत्रे ।

द्विसुवर्ण त्रि० द्वाभ्यां सुवर्णाभ्यां क्रीतं ठक् अध्यर्द्धेति लुक्

१ द्वाभ्यां सुवर्णाभ्यां क्रीते । द्विसुवर्णेन क्रीतमिति विग्रहे
तु न लुक् ठको द्विगुनिमित्तत्वाभावात् परिमाणान्तत्वा-
दुत्तरपदवृद्धिः । द्विसौवर्णिक द्विसुवर्णेन क्रीते ।
समाहारद्विगुः । २ सुवर्णद्वये स्त्री ङीप् ।

द्विस्तना स्त्री द्वौ स्तनाविव मृदवयवौ यस्याः अखाङ्गत्वान्न

ङीष् । इष्टकावृतिभेदे सा च कात्या० श्रौ० १६ । ४ सुत्रे
दर्शिता । इष्टकाशब्दे ९९३ पृ० दृश्यम् । “स्तनाविवा-
ग्रेषून्नयति द्विस्तनामष्टस्तनामेके” कात्य० श्रौ० १६ । ४ । १, २ ।
पृष्ठ ३८२८

द्विस्तावा स्त्री द्विर्द्विगुणिता तावती । “द्विस्तावा त्रिस्तावा

वेदिः” पा० नि० । प्रकृतौ यावती वेदिः ततो द्विगुणायां
वेद्यां सि० कौ० ।

द्वि(द्विः)स्विन्न न० द्विवारं स्विन्नं वृत्तौ सुजर्थे द्विशब्दः विसर्ग-

युक्ते तु सुजन्तः । द्विवारपक्वे तण्डुले (उसना चाउल)
एकघारं धान्यावस्थायां तस्य स्विन्नता द्वितीयवारं
तण्डुलावस्थायामिति द्विःस्विन्नत्वम् । द्वि(द्विः)स्विन्नमन्नं
पृथुकं शुद्धं देशविशेषके । नात्यन्तशस्तं विप्राणां
भोजने च निवेदने । न भक्ष्यं तद्यतीनाञ्च विधवाब्रह्म-
चारिणाम् । ताम्बूलञ्च यथा ब्रह्मन्! तथैते वस्तुनी
ध्रुवम्” ब्रह्मवै० पु० ब्रह्मख० । हस्तिनि शब्दर० ।

द्विहन् पु० द्विर्हन्ति हन--क्विप् वृत्तौ सुजर्थे द्विशब्दः ।

द्विहल्य त्रि० हलस्य कर्षे यत् द्विवारं हल्यः । द्विवारं

हलकृष्टक्षेत्रे (दोचसा भूमि) अमरः ।

द्विहायन त्रि० द्वौ हायनौ वयःकालो यस्य । १ द्विवर्षे

पश्वादौ स्त्रियां हायनान्तत्वात् ङीष् । “द्विहायनी
द्विवर्षा गौः” अमरः । समाहारद्वि० । २ वर्षद्वये न०
पात्रा० न ङीप् । “शुकं द्विहायनं वत्सं क्रौञ्चं हत्वा
त्रिहायनम्” मनुः । द्विहायनं व्याप्य व्रतं कुर्य्यात्
इत्यर्थः ।

द्विहीन त्रि० द्वाभ्यां स्त्रीपुंसाभ्यां हीनम् । क्लीवलिङ्गशब्दे

“द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम्” अमरः ।

द्विहृदया स्त्री द्वे हृदये यस्याः । गर्भिण्याम् दोहदशब्दे

३७६८ पृ० दृश्यम् ।

द्वीन्द्रियग्राह्य त्रि० द्वाभ्यामिन्द्रियाभ्यां चक्षुषा त्यचा च

ग्राह्यः उत्तरपदद्विगुः । “संख्यादिरपरत्वान्तो द्रवत्वं स्नेह
एव च । एते तु द्वीन्द्रियग्राह्याः” भाषा० उक्ते
त्वक्चक्षुषोर्ग्रहणयोग्ये पदार्थे ।

द्वीप पु० न० अर्द्धर्चा० द्विर्गता द्वयोर्वा दिशोर्गता आपोऽत्र

अ समा० “द्व्यन्तरुपसर्गेभ्योऽप ईत्” पा० ईत् ।
जलमध्यस्थस्थलभेदे वारिवेष्टिते तटभेदे अन्तरीपे अमरः ।
भूम्यां प्रधानद्वीपाश्च नवैव तेषां नाम स्थानभेदाश्च
सि० शि० उक्ता यथा “भूमेरर्द्धं क्षारसिन्धो
रुदक्स्थं जम्बूद्वीपं प्राहुराचार्य्यवर्य्याः । अर्द्धेऽन्य-
स्मिन् द्वीपषट्कस्य याम्ये क्षारक्षीराद्यम्बुधीनां
निवेशः । शाकं ततः शान्मलमत्र कौशं क्रौञ्चञ्च गोमेदक
पुष्करे च” । जम्बुद्वीपशब्दे ३०४३ पृ० दृस्यम् ।
“द्वीपान्तरानीतलवङ्गपुष्पम्” अन्येऽपि उपद्वीपा रमण-
कादयः सन्ति तेऽपि नव मिलिता अष्टादश । “अष्टादश-
द्वीपनिखातयूपः” रघुः “नवद्वयद्वीपपृथग्जयश्रियाम्” नैष०
तोयोत्थिते २ पुलिनमात्रे च द्वैपायनशब्दे दृश्यम् ।
“कूर्मग्राहझमाकीर्णां विपुलद्वीपशोभिताम्” भा० व०
६४ अ० । लक्षणया द्वीपतुल्ये ३ अवलम्बनस्थाने च ।
“वृकोदरः सव्यसाची यमौ च कोऽत्र द्वीपः स्यात्तु-
मुले वस्तदानीम्” भा० स० ६१ अ० । “यश्चैषामभवत् द्वीपः
कुन्तीपुत्रो वृकोदराः” भा० उ० ४९ अ० । द्वौ वर्णौ ईयते
ई--बा० पक् । ४ व्याघ्रचर्म्मणि न० मरतः । तदस्यास्ति
अच् । ५ व्याघ्रे पु० ।

द्वीपकर्पूर पु० द्वीपस्य द्वीपान्तरस्य कर्पूरः । चीनकर्पूरे राजनि० ।

द्वीपखर्जूर न० द्वीपस्य द्वीपान्तरस्य खर्जूरम् । महापारे

राजनि० ।

द्वीपज न० द्वीपे द्वीपान्तरे जायते जन ड । महापारे राजनि० ।

द्वीपवती स्त्री द्वीपोऽस्त्यस्याम् मतुप् मस्य वः ङीप् ।

१ भूमौ २ नद्याञ्च “अलङ्कृतं द्वीपवत्या मालिन्या रस्य-
तीरया” भा० आ० १६७ अ० ।

द्वीप(पि)शत्रु द्वी(पिनः)पस्य व्याघ्रस्य शत्रुरिव । शतावर्य्याम् राजनि० ।

द्वीपिका स्त्री द्वीपः व्याघ्रः नाश्यतयाऽस्त्यस्याः ठन् ।

शतावर्य्याम् राजनि० ।

द्वीपिन् पु० द्वौ वर्णौ ईयते ईङ् गतौ बा० पक् द्वीपं

चर्म तदस्यास्ति इनि । १ व्याघ्रे (चिता वाघ) २ चित्रके
“सिंहद्वीपिरुरुव्याघ्रमहिषैश्च मृगैर्वृतम्” भा० व० ६४
अ० । व्याघ्रे “द्वीपिचर्मावृतकटीम्” तन्त्रम् ।

द्वीपिनख पु० द्वीपिनो नख इव । व्याव्रनखे ।

द्वीप्य त्रि० द्वीपे जलान्तर्वर्त्तिनि स्थलमूमौ भवः यत् । १ द्वीप

भवे २ रुद्रे पु० । “नादेयाय च द्वीप्याय च” यजु० १६ । ३१ ।

द्वीश त्रि० द्वौ ईशौ यस्य । १ द्विदैवत्ये चर्वादौ २ विशाखानक्षत्रे

च तस्य इन्द्राग्निदेवताकत्वात् तथात्वम् ।

द्वृ(द्व्यृ)च पु० द्वे ऋचौ यत्र अ समा० । बा० वा सम्प्रसारणम् ।

ऋग्द्वययुतसूक्तात्ममन्त्रभेदे “कुषुम्भकस्तदव्रवीत् आवदंस्त्वं
शकुने! भद्रमावद, गृणाना जमदग्निना धामन्ते विश्व-
म्भुवनमधिश्रितं, गन्ता नो यज्ञं यज्ञियाः, सुशमियो
नस्वो अरणः प्रचक्ष्व विचक्ष्वाग्ने या हि मरुत् सखायते
राजञ्छतं हविरिति द्वृचाः” आश्व० गृ० ३ । ५ । ७ “एते
नव द्वृचाः” नारावृ० “पतङ्गमक्तमसुरस्य मायया यो नः स
नुत्यो अभिदासदग्ने भवानो अग्ने सुमना उपेताविति
द्वृचाः” आश्व० श्रौ० ४ । ६ । ३ ।


पृष्ठ ३८२९

द्वेष पु० द्विष--भावे घञ् । न्यायनये आत्मवृत्तौ १ गुणभेदे स च

“इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्” गौ० सू०
दर्शितः “यज्जातीयस्यार्थस्य सन्निकर्षात् दुःखमात्मोपलब्ध-
वान् तज्जातीयमेवार्थं पश्यन् हातुमिच्छति सेयं हातु-
मिच्छा द्वेषः । एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानात्
दुःखहेतौ द्वेषः इति भाष्यसम्मतोऽर्थः । तत्र
दुःखं प्रतिकूलवेदनीयतया स्वतोद्वेषविषयः तत्साघ-
नन्तु द्विष्टसाधनताज्ञानात् । “अधर्म्मजन्यं दुःखं स्यात्
प्रतिकूलं सचेतसाम्” । भाषा० “प्रतिकूलमिति दुःखत्व-
ज्ञानादेव सर्वेषां स्वभावतो विषय इत्यर्थः” मुक्ता० । “द्विष्ट-
साधनताबुद्धिर्भवेत् द्वेषस्य कारणम्” भाषा० ।
“द्वेषं प्रति द्विष्टसाधनताज्ञानं कारणम् । बलवदिष्ट-
साधनताज्ञानञ्च प्रतिबन्धकं तेन नान्तरीयदुःखजनके
पाकादौ न द्वेषः” मुक्ता० । द्वेषो द्विष्टसाधनज्ञानञ्च
निवृत्तिकारणम् “निवृत्तिस्तु भवेत् द्वेषात् द्विष्टसाधनता-
धियः” तत्रोक्तेः “अयमर्थः दुःखे निवृत्तिर्द्वेषात्
तदुपाये निवृत्तिस्तु द्विष्टसाधनत्वज्ञानात् द्विष्टसाधनताज्ञानस्य
दुःखसाधनविषयकनिवृत्तिं प्रति जनकत्वमन्वयव्यति-
रेकाभ्यां स्थितम्” इति मुक्तावली ।
“ज्ञस्येच्छाद्वेषनिमित्तत्वादारम्भनिवृत्त्योः” गौ० सू० ।
“अयं खलु जानीते तावत् इदं मे सुखसाधनमिदं मे
दुःखसाधनमिति ज्ञातं सुखसाधनमाप्तुमिच्छति दुःख-
साधनं हातुमिच्छति । प्राप्तुमिच्छाप्रयुक्तस्यास्य सुखसा-
धनावाप्तये समीहाविशेष आरम्भः । जिहासाप्रयुक्तस्य
दुःखसाधनपरिवर्जनं निवृत्तिरेवं ज्ञानेच्छाप्रयुक्तसुख
दुःखानामेकेनाभिसम्बन्धः एककर्त्तृकत्वं ज्ञानेच्छा
प्रवृत्तीनां समानाश्रयत्वञ्च तस्माज्जस्येच्छा द्वेषप्रयत्नसुखदुः-
खानि धर्माः नाचेतनस्येति आरम्भनिवृत्त्योश्च प्रत्यगात्मनि
दृष्टत्वात् परत्रानुमानं वेदितव्यमिति” भा० । सांख्यादिमते
२ बुद्धिधर्मभेदे । सांख्यादिमतसिद्धस्तु द्वेषः अष्टादशविधः
तामिस्रशब्दे ३२७२ पृ० दर्शितः स च बुद्धिधर्मः क्लेश-
विशेषः अस्मिताजन्यश्च । तल्लक्षणादिकं पात० सू० भाष्या-
दावुक्तम् यथा “अविद्यास्मितारागद्वेषाभिवेशाः पञ्च
क्लेशाः” इत्युद्दिश्य “दुःखानुशयी द्वेषः” इति लक्षितम् ।
“दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा
प्रतिघो मन्युर्जिघांसा क्रोधः स द्वेष इति” भाष्यम् ।
दुःखमनुशेते कश्चिदन्तःकरणवृत्तिभेदः तमोऽनुगत-
परिणामः ईदृशं सर्वदा मे मा भूदित्येवं तदयं
दुःखानुशयीति भाष्यार्थः । “अनभिज्ञस्य स्मृतेरभावात्
दुःखाभिज्ञस्येत्युक्तं स्मर्य्यमाणे दुःखे द्वेषः दुःखानुस्मृति
पूर्वकः, अनुभूयमाने तु दुःखे नानुस्मृतिमपेक्षते ।
तत्साधने तु स्मर्यमाणे अनुभूयमाने वा दुःखानुस्मृति-
पूर्तक एव द्वेषः अनुभूयमानं हि दुःखसाधनं तज्जाती-
यस्य दुःखहेतुत्वं स्मृत्वा तज्जातीयतया चास्य दुःख-
हेतुत्वमनुमाय द्वेष्टि । प्रतिहन्तीति प्रतिघः द्वेषस्य
प्रवृत्तेः प्रतिहननात् प्रतिघत्वम्” विव० । तच्च शत्रुव्या-
घ्रादिषु सत्सु न निवारयितुं शक्यम् । न च सर्वे ते
दुःखहेतवो हन्तुं शक्यन्ते अतः स द्वेषः सदा हृदयं
दहति । यदा तु स्वस्येव परेषां सर्वेषामपि दुःखं
ना भूदिति करुणां दुःखिषु भावयेत् तदा वैर्यादिद्वेष-
निवृत्तौ चित्तं प्रसीदति । यद्यसौ पुण्यपुरुषेषु मुदितां
भावयेत् तदा तद्वासनाभावात् स्वयमेवाप्रमत्तोऽशुक्ला
कृष्णे पुण्ये प्रवर्त्तते । तथा पापपुरुषेषूपेक्षां
भावयन् स्वयमपि सद्वासनाभावात् पापान्निवर्त्तते । ततश्च
पुण्याकरणपापकरणनिमित्तस्य पश्चात्तापस्याभावे चित्तं
प्रसीदति । एवं सुखिषु मैत्रीं भावयतो न केबलं रागो
निवर्त्तते । किन्त्वसूयेर्ष्यादयोऽपि निवर्त्तन्ते । तथा
दुःखिषु करुणां भावयतः शत्रुबधादिकरो द्वेषो यदा
निवर्त्तते तदा दुःखिप्रतियोगिकःसुखित्वप्रयुक्तो
दर्पोऽपि निवर्त्तते । एवं दोषान्तरनिवृत्तिरप्यूहनीया ।
दुःखे तत्साधने च इदं मे मा भूदिति स्पृहाविरोधिनी
चित्तवृत्तिः क्रोध इति ईर्ष्येति चोच्यते । “इन्द्रिय-
स्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ” गीता ।

द्वेषण त्रि० द्विष--युच् । १ शत्रौ अमरः “पानपो द्वेषणः

क्रोधी निर्घृणः परुषस्तथा” भा० शा० १६८ अ० ।

द्वेषपक्ष पु० ६ त० । द्वेषावान्तरभेदेषु “द्वेषपक्षाः क्रोध ईर्ष्या

द्रोहोऽमर्ष इति” न्यायभाष्यम् ।

द्वेष् न० द्विष--कर्त्तरि विच् । द्वेष्टरि । “बाधतां द्वेषो

अभयं कृणोतु” ऋ० ६ । ४७ । १२ । “द्वोषोद्वेष्टृन्” भा०

द्वेषस् न० द्विष--कर्मणि असुन् । द्वेष्ये पापादौ “द्वेषो-

युतमाविवासन्ति” ऋ० ४ । ११ । ५ द्वेषसो पापस्य युतं
पापयुतम्” भा० ।

द्वेषिन् त्रि० द्विष--णिनि । द्वेषकारके । “तथापि ववृषे

तस्य तत्कारि द्वेषिणो यशः” रघुः । “मद्याजी शङ्क-
रद्वेषी मद्द्वेषी शङ्करप्रियः । उभौ तौ नरकं
यातश्छिन्नरज्जूघटाविव” पुरा० सारः ।
पृष्ठ ३८३०
भावे असुन् । २ द्वेषे ३ अप्रीतौ च पु० । “द्वेषोयुतो न
दुरिता” ऋ० ५ । ०१ । ६ । द्वेषोयुतः अप्रीतियुतः भा० ।

द्वेष्य त्रि० द्वेष्टुमर्हः यत् कर्मणि ण्यद्वा । १ द्वेषविषये २ द्वेषार्हे

च । “द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्त्तस्य यथौषधम्” रघुः ।
“यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति” मनुः ।
स्वकृतापकारमपेक्ष्यापकारकर्त्तरि असहने ३ शत्रौ च ।

द्वै अ० द्वृ--बा० डै । वितर्के चादिगणः ।

द्वैगुणिक त्रि० द्विगुणार्थं द्विगुणं “तत् प्रयच्छति गर्ह्यम्”

पाठक् । द्विगुणलाभाय धनप्रयोक्तरि वृद्ध्याजीवे वार्द्धुषौ ।

द्वैत न० द्विधा इतं द्वीतं तस्य भावः स्वार्थे वा अण् । द्वैधी-

भावे २ द्वये युगले च । द्वैताद्वेतयोरुभयोरपि सप्रमा-
णकत्वात् न्यायादिमते द्वैतम् वेदान्तिमते अद्वैतं
रामानुजमते विशिष्टाद्वैतमित्येव स्थितम् । अन्ये
शुद्धाद्वैतमिच्छन्ति । तत्राचार्य्या एवमाहुः । “अद्वैतमेव
सत्यं तस्मिन् द्वैतं न सत्यमध्यस्तम् ।
रजतमिव शुक्तिकायां मृगतृष्णायामिवोदकस्फुरणम् ।
आरोपितं यदि स्यादद्वैतं वस्त्ववस्तुनि द्वैते । युक्तं नैव
तदा स्यात् सत्येऽध्यासो भवत्यसत्यानाम् । यद्यारोपण-
मुभयोस्तद्व्यतिरिक्तस्य कस्यचिद्भावः । आरोपणं न
शून्ये तस्माद्द्वैतसत्यता ग्राह्या । प्रत्यक्षाद्यनवगतं श्रुत्या
प्रतिपादनीयमद्वैतम् । द्वैतं न प्रतिपाद्यं तस्य स्वयमेव
लोकसिद्धत्वादिति । प्रपञ्चो यदि विद्येत निवर्त्तेत
न सशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ।”

द्वैतवन न० द्वे शोकमोहादिके इते यस्मात् द्वीतं स्वार्थे अण्

कर्म्म० । १ तपोवनभेदे “युधिष्ठिरं द्वैतवने वनेचरः”
किरा० । २ तादृशवनोपलक्षिते सरोवरभेदे च । “इदं
द्वैतवनं नाम सरः पुण्यजलोषितम् ।” “गच्छामः पुण्यं
विख्यातं महद्द्वैतवनं सरः” भा० व० २४ अ० । “तेन
हैतेन ध्वसा द्वैतवन ईजे मात्स्यो राजा यत्रैतत्द्वैतवनं
सरस्तदेतद्गाथयाभिगीतं चतुर्दश द्वैतवने राजा संग्राम-
जिद्धयान् इन्द्राय वृत्रघ्नेऽबध्नात् तस्माद्द्दैतवनं सरः”
शत० ब्रा० १३ । ५ । ४ । ९ ।

द्वैतवाद पु० द्वैतमधिकृत्य वादः । गौतमादिप्रणीते जीवेश्वर-

विभेदनिर्णायके १ कथारूपग्रन्थभेदे कपिलादिप्रणीते
नानाजीवनिर्णायके २ कथाभेदे च । तत्र सांख्यमते यथा
जीवानां परस्परभेदस्तथा सां० का० तत्त्वकौ० उक्तो यथा
“जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरु-
षबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव” सां० का० । “पुरुष-
बहुत्वं सिद्धं कस्माज्जन्ममरणकरणानां प्रतिनिय-
मात् निकायविशिष्टाभिरपूर्वाभिर्देहेन्द्रियमनोऽहङ्कार-
बुद्धिवेदनाभिः पुरुषस्याभिसम्बन्धोजन्म न तु पुरुषस्य
परिणामस्तस्यापरिणामित्वात् तेषामेव च देहादीना-
मुपात्तानां परित्यागो मरणं न त्वात्मनोविनाशः तस्य
कूटस्थनित्यत्वात् । करणानि बुद्ध्यादीनि त्रयोदश तेषां
जन्ममरणकरणानां प्रतिनियमोव्यवस्था सा खल्वियं
सर्वशरीरेष्वेकस्मिन् पुरुषे नोपपद्यते तदा खल्वे-
कस्मिन् जायमाने सर्वे जायेरन् म्रियमाणे च
म्रियेरन् अन्धादौ चैकस्मिन् सर्वे एवान्धादयः विचित्ते
चैकस्मिन् सर्व एव विचित्ताः स्युरित्यव्यवस्था स्यात्
प्रतिक्षेत्रं पुरुषभेदे तु भवति व्यवस्था । नचैकस्याप्रि
पुरुषस्य देहोपाधानभेदाद्व्यवस्थेति युक्तं पाणिस्तना-
द्युपाधिभेदेनापि जन्ममरणादिव्यवस्थाप्रसङ्गात् । न हि
पाणौ वृक्णे, जाते वा स्तनादौ महत्यवयवे, युवति-
र्जाता मृता वा भवतीति । इतश्च प्रतिक्षेत्रं पुरुष-
भेद इत्याह अयुगपत्प्रवृत्तेश्च प्रवृत्तिः प्रयत्नलक्षणा-
यद्यप्यन्तःकरणवर्त्तिनी तथापि पुरुषे उपचर्यते तथा
च तस्तिन्नेकत्र शरीरे प्रयतमाने स एव सर्वशरीरे-
ष्वेक इति सर्वत्र प्रयतेत सर्वाण्येव शरीराणि
युगपच्चालयेत् नानात्वे तु नायं दोष इति । इतश्च पुरुष-
भेद इत्याह त्रैगुण्यबिपर्ययाच्चैव एवकारोभिन्नक्रमः
सिद्धमित्यस्यानन्तरं द्रष्टव्यः सिद्धमेव नासिद्धम् । त्रयो-
गुणास्त्रैगुण्यं तस्य विपर्ययोऽन्यथाभावः, केचित् खलु
सत्वनिकायाः सत्वबहुला यथोर्द्ध्वस्रोतसः केचिद्रजो-
बहुलाः यथा मनुष्याः । केचित्तमोबहुलाः यथा तिर्य्य-
ग्योनयः । सोऽयमीदृशस्त्रैगुण्यविपर्ययोऽन्यथाभावस्तेषु
सत्वनिकायेषु न भवेत् यद्येकः पुरुषः स्याद्भेदे त्वयम
दोष इति” तत्त्वकौ० । “जन्मादिव्यवस्थातः पुरुषबहुत्वम्”
नाद्वैत श्रुतिविरोधेः जातिपरत्वात्” सां० सू० ।

द्वैतवादिन् त्रि० द्वैतं जीवभेदं जीवेश्वरयोर्भेदं वा वदति

वद--णिनि । जीवभेदवादिनि जीवेश्वरयोर्भेदवादिनि
च नैयायिकादौ ।

द्वैताद्वैत न० द्वैतञ्चाद्वैतञ्च । जीवेश्वरयोर्भेदाभेदयोः ।

“अद्वैतञ्च तथाऽद्वैतं द्वैताद्वैतं तथैव च । न द्वैतं नापि
चाद्वैतमित्येतत् पारमार्थिकम् । न हि नैवान्यसम्बन्घो
ब्रह्मभावेन भावितः । ईदृक्षायामवस्थायामवाप्यं परमं
पदम् । द्वैतपक्षाः समाख्याता येऽद्वैते तु व्यवस्थिताः” ।
पृष्ठ ३८३१

द्वैतिन् त्रि० द्वैतं भेदः सम्मततयाऽस्त्यस्य इनि । द्वैतवादिनि

नैयायिकादौ । “स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता
दृढ़म् । परस्परं विरुध्यन्ते तैरियं न विरुध्यते” । “अद्वैतं
परमार्थो हि द्वैतं तद्भेद उच्यते । तेषामुभयथाद्वैतं
तेनायं न विरुध्यते” ।

द्वैतीयीक त्रि० द्वितीय + स्वार्थे ईकक् । द्वितीये “द्वैतीयीक-

तया मितोऽयमगमत् तस्य प्रबन्धे महा” इत्यादि नैष० ।

द्वैधम् अव्य० द्वि + प्रकारे घमुञ् । प्रकारद्वये एकेन सन्धि-

रपरेण बिग्रह इत्येवं प्रकारद्वयमित्यादि । “श्रुतिद्वैधं
यत्र तु स्यात्तत्र धर्मावुभौ स्मृतौ” मनुः । “बलस्य स्वामि-
नश्चैव स्थितिः कार्य्यार्थसिद्धये । द्विविधं कीर्त्त्यते द्वैधं षाड्-
गुण्यगुणवेदिभिः” मनुः ।

द्वैध त्रि० धमुञन्तात् स्वार्थे बार्त्ति० स्वार्थे ड । १ द्विप्रकारे ।

“बहुलं परिगृह्णीयात् साक्षिद्वैधे नराधिपः” मनुः ।
“ततः साक्षिबलं साधु द्वैधवादकृतं भवेत्” भा० शा० ८५
अ० । राज्ञां सन्ध्यादिषु षट्सु गुणेषु २ गुणभेदे “सन्घिर्ना
विग्रहो यानमासनं द्वैधमाश्रयः” अमरः ।

द्वैधीभाव पु० अद्वैधस्य द्वैधस्य भावः । द्वैध--चि भूप्रयोगः

भावे घञ् । १ द्विधाभावे षाड्गुण्यान्तर्गते २ द्वैधरूपे
भावे च । स च बाह्ये एकप्रकारः आभ्यन्तरे अन्यप्रकार
इत्येवं द्विप्रकाररूपः यथोक्तं वह्निपु० षाड्गुण्योक्तौ
“बलिनोर्द्विषतोर्मध्ये वाचात्मानं समर्पयन् । द्वैधीमावेन
तिष्ठेत्तु काकाक्षिवदलक्षितः” । २ द्विधा भवते “अक्षरञ्च
क्षरञ्चैब द्वैधीभावोऽयमात्मनः” भा० आश्व० २८ अ० ।

द्वैप त्रि० द्वीपिनी विकारः “प्राणिरजतादिभ्योऽञ् पा० अञ् ।

१ व्याघ्रविकारे २ तच्चर्मणि न० । द्वैपेन चर्मणा परिवृतो
रथः “द्वैपवैयाघ्रादञ्” पा० पुनरञ् । २ द्वीपिचर्मपरिवृते
रथे पु० द्वीपिन इदम् अण् । ३ तत्सम्बन्धिनि त्रि० ।

द्वैपक पु० द्वीपे भवः धूमा० वुञ् । द्वीपान्तरभवे ।

द्वैपदिक पु० द्विपदामृचं वेद अर्धाते वा उक्था० ठक् ।

१ द्विपदाध्यायिनि २ तद्वेत्तरि च ।

द्वैपायन पु० स्त्री द्वीपस्य गोत्रापत्यम् नडा० फक् । १ द्वीपर्षेः

गोत्रापत्ये । द्वीपः अयनं जन्मभूमिर्यस्य स्वार्थे प्रज्ञा० वा
अण् । २ व्यासे “इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् ।
पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा । जज्ञे च
यमुनाद्वीपे पाराशर्य्यः स वीर्य्यवान् । स मातरमनु-
ज्ञाप्य तपस्येव मनो दधे । स्मृतोऽहं दर्शयिष्यामि
कृत्येष्विति च सोऽब्रवीत् । एवं द्वैपायनो जज्ञे सत्य-
वत्यां पराशरात् । न्यस्तो द्वीपे स यद्बालस्तस्माद् द्वैपायनः
स्मृतः” भा० आ० ६० अ० । “द्वैपायनो विरहकातर
आजुहाव” भाग० १ । १ “तमहमरागमतृष्णं कृष्ण-
द्वैपायनं वन्दे” वेणीसं० ।

द्वैपारायणिक पु० द्वयोः पारायणयोः समाहारः द्वि-

पारायणं वर्त्तयति ठञ् प्रत्ययविधौ तदन्तग्रहण-
प्रतिषेधेऽपि “इतः ऊर्द्ध्वन्तु संख्यापूर्वपदानां तदन्तग्रहणं
प्राग्वतेरिष्यते तच्चालुकि” सि० कौ० उक्तेः संख्यापूर्वस्य
तदन्तग्रहणम् । पारायणद्वयावर्तिनि ।

द्वैमातुर पु० द्वयोर्मात्रोरपत्यं “मातुरुत् संख्यासुपूर्वेति” पा०

अण् रपरत्वम् । १ द्विमातृजे गणेशे २ जरासन्धे नृपे च ।
वरेण्यनृपजायापुष्पकागर्भजातत्वात् दीपवत्सलापालित-
त्वाच्च गणेशस्य द्विमातृकत्वं तत्कथा स्क० पु०
गणेशखण्डे यथा । “आविर्भविष्ये सदने वरेण्यस्य
महीपतेः । त्रैलोक्यरक्षणार्थाय विघ्नस्यास्य प्रशान्तये ।
पालनाय स्वभक्तानां साधुत्राणाय भूसुराः । शिव
उवाच । इत्युक्त्वा पुष्पकागर्भं प्रविवेश तदैव सः । आगते
नवमे मासि प्रासूत पुष्पका शिशुम् । चतुर्बाहुमिभास्यं
च दन्तुरं सुन्दरेक्षणम् । आयुधानि च चत्वारि
विभ्रतं तेजसान्वितम् । दृष्ट्वा सा क्रन्दनं चक्रेऽरिष्टमे-
तत् किमागतम् । श्रुत्वा चाक्रन्दनं तस्याः वरेण्यः
सगणो ययौ । ददर्श बालकं सोऽपि विस्मितः सह
तैर्गणैः । उवाच सेवकान् राजा त्यजतैनं सरोवरे ।
शिशुमादाय ते याताः पार्श्वस्यैवाश्रमे शुभे । कासारे तं
शिशुं त्यक्त्वा ययुः सर्वे निजं पुरम् । अपरस्मिन् दिने-
पार्श्वमुनिः स्नानाय चागतः । तदैव ददृशे तेन बालको-
ऽद्भुतदर्शनः । आश्चर्यमकरोत्तत्र मयभीतस्तथाऽभवत् ।
आश्रमे केन मे त्यक्तमरिष्टसुखदायिनीम् । तपसा नु
फलं दातुमीदृशीं धृतवांस्तनुम् । रक्षितुं सर्वलोकानां
परमात्मा निजेच्छया । सुन्दरो बालकः केन त्यक्तोऽ-
यमीदृशो बहिः । नीत्वा स्वमाश्रमं चैनं
पालयिष्ये प्रयत्नतः । इत्युक्त्वा जगृहे बालमालिलिङ्ग
मुदा मुनिः । तमानीतं मुनेः पत्नी ददर्श दीपवत्सला ।
उवाच निजभर्त्तारं सुपसन्नाननाम्बुजा । दीपवत्स-
लोवाच । किमानीतं महत् स्वामिन्! मृशमाश्चर्यका-
रकम् । इदं वैनायकं रूपं ममाभाति द्विजर्षभ! । इदमेव
श्रियः स्थानं इदमेव तपःफलम् । इदमेव परं
ब्रह्म योगिध्येयं सनातनम् । इदमेव परं तेज आ-
पृष्ठ ३८३२
दित्ये यदधिष्ठितम् । इदमेव हि वेदान्ता नेतिनेति
प्रचक्षते । शिव उवाच । इत्युक्त्वा हर्षसम्पन्ना
भर्तुरादाय बालकम् । स्तनपानं ददौ तस्मै ततः सा
दीपवत्सला । द्वितीयाचन्द्रवद्बालो वृद्धिं यातो
दिने दिने” । जरासन्धशब्दे तस्य द्वैमातुरत्वं दृश्यम् ।
“हते हिड़म्बरिपुणा राज्ञि द्वैमातुरे युधि” माघः ।

द्वैमातृक पु० द्वे मातराविव पालिके अस्य द्विमातृक ततः

स्वार्थे अण् । नदीवृष्टिजलजनितशस्यपालिते देशे
राजनि० ।

द्वैयहकाल्य त्रि० द्व्यहरूपः कालो यस्य तस्य भावः ष्यञ् ।

पदान्ताभ्यां य्वाभ्यां पूर्वमैच् । द्व्यहकालजातस्य भावे ।
“द्वैयहकाल्ये तु यथान्यायम्” जै० सू० “द्वैयहकाल्ये
क्रियमाणे यथान्यायं कृतं भवति तस्मात् द्वैयहकाल्यं स्यात् ।
चोदकः तथा अनुगृहीतो भवति पकृतौ हि श्रूयते ।
“पूर्वेद्युः अग्निं गृह्णाति उत्तरमहर्देवतां यजेत्” इति ।
तस्मात् द्व्यहकालम् एकमभिनिर्वर्त्य तदहरेवोपक्रम्या-
ऽपरेद्युः परिसमावयेत् भा० “वचनाद्द्वैककाल्यं स्यात्” सू०
“नैतदेवं द्व्यहकाला विकृतयो भवेयुः इति सद्यस्कालाः
स्युः” शवरभा० ।

द्वैयह्निक त्रि० द्वयोरह्नोर्भवः “द्विगोर्वा रात्र्यहःसंवत्सराच्च”

पा० पक्षे ठञ् समासान्तविधेरनित्यत्वात् न टच्
सूत्रे रात्र्यहरिति नान्वतया निर्देशात् सि० कौ० ।
अह्नादेशः । द्वयोरह्नोर्भवे ।

द्वैयाहाविक त्रि० द्वयोराहावयोर्निपानयोर्भवः धूमा० वुञ् ऐच् । द्वयोराहावयोर्भवे ।

द्वैरथ न० द्वौ रथौ यत्र युद्धे स्वार्थे अण् । द्वाभ्यामेव

रथाम्यामुपलक्षिते युद्धे । “द्वैरथेनास्तु वै शान्तिस्तव च
मम बा नृप!” भा० व० ७८ अ० । “चिकीर्षन् द्वैरथं
युद्धमभ्ययान्मधुसूदनम्” हरिवं० ११८ अ० ।

द्वैरात्रिक त्रि० द्वयो रात्र्योर्भवः “द्विगोर्वा रात्र्यहः-

संवत्सराच्च” पक्षे ठञ् । द्वयोरात्र्योर्भवे । अत्रापि
समासान्तविधेरनित्यत्वात् न समासान्तः सूत्रे रात्रीति
ढिर्देशात् पक्षे ख द्विरात्रीण तत्रार्थे त्रि० ।

द्वैराश्य न० द्वौ राशी यस्य तस्य भावः ष्यञ् । द्विविध-

राशियुक्तत्वे ।

द्वैविध्य न० द्विविधस्य भावः ष्यञ् । प्रकारद्वये “द्वैविध्यं

तु भवेद्व्याप्तेरन्वयव्यतिरेकतः” भाषा० ।

द्वैषणीया स्त्री द्वेषणमेव स्वार्थे अण् द्वैषणं तदर्हति

छ । नागवल्लीभेदे राजनि० ।

द्वैसमिक त्रि० द्वयोः समयोर्वर्षयोर्भवः समायाः यत् “द्वि-

गोष्ठंश्च” पा० पक्षे ठञ् । वर्षद्वयभवे ।

द्वैहायन न० द्विहायनस्य भावः युवा० अण् । द्विवर्षवयस्कभावे

द्व्यंश न० द्वयोरंशयोः समाहारः पात्रा० न ङीप् । भागद्वये

“वैश्यापुत्रो हरेद्द्व्यंशम्” मनुः । “द्व्यंशहरी ह्यर्द्धहरो
वा पुत्रवित्तार्जनात् पिता” दायभा० ।

द्व्यक्ष त्रि० द्वे अक्षिणी यस्य ष समा० । नेत्रद्वययुते स्त्रियां

ङीष् । “द्व्यक्षीं त्र्यक्षीं ललाटाक्षीम्” र्भा० व० २७९ अ० ।
नानाराक्षस्युक्तौ ।

द्व्यक्षर न० द्वे अक्षरे यत्र । १ बर्णद्वयात्मके मन्त्रभेदे शक्तिमन्त्र-

रूपायां २ विद्यायां स्त्री गौरा० ङीष् । “रामेति द्व्यक्षरं
नाम मानभङ्गः पिनाकिनः” । “यजेति द्व्यक्षरं द्व्यक्षरो
वषट्कारः” तैत्ति० सं० १ । ६ । १२ ।

द्व्यङ्गुल त्रि० द्वे अङ्गुल्यौ प्रमाणमस्य तद्धितार्थद्विगुः प्रमा-

णार्थकमात्रचः “प्रमाणे लोद्विगोर्नित्यम्” वा० लुक् अच्
समा० । १ अङ्गुलीद्वयमिते । द्वयोरङ्गुल्योः समाहारः अच्
समा० । २ अङ्गुलीद्वये न० । “फलके द्व्यङ्गुलान्तरे” कात्या०
श्रौ० ८५ । २५ । “अर्काङ्गुला तु सूच्यग्रा काष्ठी द्व्यङ्गुल-
मूलिका” ज्यो० त० ।

द्व्यञ्जल त्रि० द्वयोरञ्जल्योः समाहारः अ समा० ।

१ अञ्जलिद्वये । द्वाभ्यामञ्जलिभ्यां क्रीतः ठञ् तस्य
अध्यर्द्धपूर्वेत्यादिना लुकि न अ समा० । प्रमाणे
लोद्विगोर्नित्यम् वार्त्ति० लुपि तु वा अच् । २ अञ्जलि
द्वयमिते त्रि० “प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम” भट्टिः ।

द्व्यणुक न० द्वौ अणू कारणे यस्य कप् । परमाणुद्वयारब्धे

कार्य्यद्रव्यभेदे “विषयोद्व्यणुकादिस्तु ब्रह्माण्डान्त
उदाहृतः” भाषा० आरम्भवादशब्दे ७९७ पृ० दृश्यम् ।

द्व्यर्थ त्रि० द्वौ अर्थौ यस्य । १ अर्थद्वययुते शब्दादौ “द्व्यर्थः

पचिः” महाभाष्यम् । २ द्विप्रयोजनके कार्य्यमेदे च
“आम्रश्च सिक्तः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरीह
लोके” वायुपु० । समाहारद्वि० पात्रा० । अर्थद्वये न० ।

द्व्यशीति स्त्री द्व्यधिका अशीतिः अशीतिपर्य्युदासात् न

आत् । १ द्व्यधिकाशीतिसंख्यायां २ तदन्विते च एकव०
ततः पूरणे डट् द्व्यशीत तमप् द्व्यशीतितम तत्पूरणे
त्रि० । डटि स्त्रियां ङीप् । द्व्यशीतियुतं शतादि ड ।
द्व्यशीत द्व्यशीतियुते शतादौ त्रि० ।

द्व्यष्ट न० द्वे हेमरूप्ये अश्नुते कारणतया व्याप्नोति अश--क्त ।

ताम्रे अमरः ।
पृष्ठ ३८३३

द्व्यह पु० समाहारद्विगु टच्समा० । “अह्नान्वाः पुंसि” पा० पुंस्त्वम् । दिनद्वये ।

द्व्यहीन त्रि० द्वाभ्यामहर्भ्यां निर्वृत्तादि । “द्विगोर्वा रात्र्यहः

संवत्सराच्च” वा ख सूत्रे अहरिति निर्देशात् न टच् ।
१ दिनद्वयसाध्ये २ क्रतुभेदे पु० द्विरात्रशब्दे दृश्यम् ।

द्व्याक्षायण पु० ऋषिभेदे । तस्य विषयो देशः ऐषुका० भक्तल् ।

द्व्याक्षायणभक्त तदीये विषये देशे ।

द्व्याचित त्रि० द्वे आचिते सम्भवति अवहरति पचति वा

“आढकाचितपात्रात् खोऽन्यतरस्याम्” पा० । द्विगोरेव
ष्ठन्खौ पक्षे ठञ् तस्य अध्यर्द्धेति लुक् । आचितद्वयस्य
१ स्वस्मिन् समावेशके २ अवहारके च ३ पाचके च । स्त्रियां
द्विगोरिति पा० ङीप् । पक्षे ख । द्व्याचितीन तदर्थे त्रि० पक्षे
ष्ठन् । द्व्याचितिक तदर्थे षित्त्वात् स्त्रियां ङीष् इति भेदः ।

द्व्याढक त्रि० द्व्याचितवत् सर्वं साधनादि । आढकद्वयस्य

स्वस्मिन् १ समावेशके २ तदवहारके तत्पाचके च । स्त्रियां
द्विगोरिति पा० ङीप् । पक्षे ख । द्व्याढकीन ष्ठन् ।
द्व्याढकिक तत्रार्थे त्रि० स्त्रियां षित्त्वात् ङीष् ।

द्व्यात्मक पु० द्वौ द्विविधौ रूपौ आत्मानावस्य कप् । द्विस्वभावे

राशिभेदे “चरस्थिरद्व्यात्मकनामधेया मेषादयोऽमी क्रमशः
प्रदिष्टाः” ज्यो० त० । तस्य द्विस्वभावत्वेऽपि च पूर्वार्द्धम्
चरसान्निध्यात् चरात्मकम् परार्द्धन्तुस्थिरसान्निध्यात् स्थिरा-
त्मकमिति द्विस्वभावत्वम् द्वितनुद्विस्वभावादयोऽप्यत्र ।

द्व्यामुष्यायण पु० अमुष्य प्रसिद्धस्यापत्यम् फक् आमुष्याषणः

द्वयोरामुष्यायणः ६ त० । “उभयोरप्यसौ रिक्थी
पिण्डदाता च धर्मतः” इत्युक्ते तव, मम चायमिति
समयेन परिगृहीते १ पुत्रभेदे । “केवलदत्तको जनकेन
प्रतिग्रहीत्रर्थमेव दत्तस्तस्यैव पुत्रः । द्व्यामुष्यायणस्तु
जनकप्रतिग्रहीतृभ्यामावयोरयमिति सम्प्रतिपन्नः स
उभयोरपि पुत्रः” मिता० । विवृतिर्दत्तकग्रन्थे दृश्या ।

द्व्यायुष न० समाहारद्विगुः अचतुरेत्यादि अच्समा० । द्विगु-

णितायुःकाले ।

द्व्याहाव न० समा० द्वि० पात्रा० । आहावद्वये निपानद्वये ।

द्व्याहिक त्रि० द्व्यहे भवः ठञ् बा० न ऐच् । द्व्यहजाते

ज्वरे पारस्करनिघण्टुः ।

द्व्येक त्रि० द्वौ वा एको वा वार्थे बहु० ड समा० । (दुइ वा

एक) इति ख्याते पदार्थे “द्व्येकान्तरानुजातानां धर्म्यं
विद्यादिमं विधिम्” मनुः ।

द्व्योग पु० द्वयोर्योगयोः समाहारः पृषो० । योगद्वये पञ्च-

भीष्मब्रा० ।

द्व्योपश पु० ईषदुपशेते आ + उप + शे--ड ओपशं शृङ्गं द्वे

ओपशे यस्य । पशौ “द्व्योपशमिव द्याम्” ऋ० १ । १७३ । ६ ।
“संस्तुता भवन्ति तस्मात् द्व्योपशाः पशवः” पञ्चभीष्मव्र०
१३ । ४ । ३ । ओपशशब्दार्थस्तु पूर्वं प्रमादान्न लिखितः अत्र
निखित इति बोध्यम ।
इति श्रीतारानाथतर्कवाचस्पति सङ्कलिते
वाचस्पत्ये दकारादिशब्दार्थसङ्कलनम् ।
द्वारकाशब्दात् परम् ३८०८ पृष्ठस्य क्रोड़पत्रम् ।

द्वारकाशिला स्त्री द्वारकोद्भवा शिला । एकादिचक्रयुक्तायां

द्वारकोद्भवशिलायां शालग्रामशिलावत् तस्याः पूज्यता
लक्षणं पूजनादौ माहात्म्यञ्च नानास्थानात् प्रदर्श्यते
पुराणसारे द्वारकाकार्त्तिकमाहात्म्ये “चक्रमेकं
मध्यभागे श्वेतभागे खुरान्विता । शिवनाभिरिति ख्याता
भुक्तिमुक्तिफलप्रदा” । खुरान्विता वीथियुक्ता । ब्रह्माण्ड-
पुराणे “कूर्म्माकृतिरधोषागे लिङ्गभागे खुरान्विता ।
शिवनाभिरिति ख्याता भुक्तिमुक्तिफलप्रदा” । नृसिंह-
पुराणे “कूर्मचक्रमधोभागे श्वेतभागे खुरान्विता ।
शिवनाभिरिति ख्याता भुक्तिमुक्तिफलप्रदा । यवसात्रस्तु-
गर्त्तः स्वाद् यबार्द्धं लिङ्गमुच्यते । शिवनाभिरिति
ख्यातस्त्रिषु लोकेषु दुर्लभः” शिवनाभिलक्षणम् ।
ब्रह्माण्डपुराणे “जटापाशी अघोरा सा गृहिभिर्यदि-
पूजिता । हेमवर्णजटायुक्ता हेमविन्दुसमन्विता । मस्तके-
गोखुरा तावदञ्जनाचलसन्निभा । सद्योजाताभिधा श्रेष्ठा
पुत्रपौत्रधनप्रदा” इति सद्योजातलक्षणम् । तत्रैव “शिरो-
मध्ये रक्तवर्णा श्वेतचन्द्रजटायुता । वामदेवाभिधा-
श्रेष्ठा गृहिभिः पूजिता सदा” इति वामदेवलक्षणम् ।
तत्रैव “किञ्चित्कपिलसंयुक्ता कृष्णनीलजटायुता ।
पार्श्वरेखासमुपेता ऐशानीमुक्तिदा भवेत्” इति ईशान-
लक्षणम् । “सूर्य्यविद्युत्तमनिभा पार्श्वदेशे जटाशशी ।
पृष्ठ ३८३४
तत्पुम्षाभिधा सा स्यात् दुर्ल्लभा सर्वकामदा” इति
तत्पुरुषलक्षणम् । “द्विलिङ्गो वा त्रिलीङ्गो वा चतुष्प-
ञ्चादिलिङ्गवान् । तापिञ्छकरकाकारो देवदेवः
सदाशिवः” इति सदाशिवलक्षणम् । इत्यघोरादिपञ्चकलक्ष-
णम् । प्रयोगपारिजाते वराहपु० “द्विनाभिश्चक्ररूपा या
भवेद्धरिहरात्मिका । नाभौ लिङ्गेन युक्ता वा श्वेत
भागे खुरान्विता । शिवनाभिरिति ख्याता भुक्तिमुक्तिफ-
लपदा । वासुदेवमयं क्षेत्रं लिङ्गं शिवमयं स्मृतम् ।
तप्याद्धरिहरक्षेत्रे पूजयेत् शङ्कराच्युतम् । भवेच्छिला-
शतैः शस्ता चतुर्वर्गफलप्रदा” । तस्या माहात्म्यम्
स्कन्दपुराणे “द्वाराचक्रशिला देवि! भद्रावास
समन्विता । तत् पात्रसहितं यत् स्यात् तीर्थं
द्वादशयोजनम् । म्लेच्छदेशे शुचा वापि चक्राङ्को यत्र
तिष्ठति । योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे! ।
तन्मध्ये म्रियते यस्तु पूजकः सुसमाहितः । शतबाधा-
विनिर्मुक्तो न पुनः सोऽपि जायते । चक्राङ्कितस्य
सान्निध्ये यत्कर्म क्रियते नरैः । स्नानं दानं तपो
होमः सर्वं भवति चाक्षयम् । संवत्सरन्तु यत् पापं
मनसा कर्मणा कृतम् । तत्सर्वं नश्यते पुंसां सकृच्चक्राङ्क
दर्शनात् । ज्वरदाही विषञ्चैव अग्निचौरभयं तथा ।
सर्वे ते प्रशमं यान्ति सकृच्चक्राङ्कमार्जनात् । भूतप्रेत-
पिशाचाश्च डाकिन्यश्च वसुन्धरे! । सर्वे ते प्रलयं यान्ति
पञ्चचक्रान्वितं न्यसेत् । भक्त्या वा यदि वाऽभक्त्या
चक्राङ्कं पूजयेन्नरः । अपि चेत् सुदुराचारो मुच्यते
नात्र संशयः । संवत्सरन्तु यः कुर्य्यात् पूजास्पर्शन
दर्शनम् । विना साङ्ख्येन योगेन मुच्यते नात्र
संशयः” । द्वारकाशिलावर्णविशेषलक्षणम् पद्मपुराणे
“कृष्णा मृत्युप्रदा नित्यं कपिला तु भयावहा ।
औन्मत्त्यं कर्वुरा दद्यात् पीता धनविनाशिनी । धूम्राभा
पुत्रनाशाय भग्ना भार्य्याधनापहा । श्वेतास्तिलाः
सुसंपूर्णौः सर्वकामार्थदायिकाः । अच्छिद्रचक्रा सा
पूज्या दुःखदारिद्र्यनाशिनी । वर्त्तुला चतुरस्रा च
पूजिता सिद्धिदायिका । सुखदा समचक्रा च विषमा
दुःखदा मवेत् । निषिद्धशिलापि तत्रैव “छिद्रा
मग्ना त्रिकोणा च तथा विषमचक्रिका । अर्द्धचन्द्रा-
कतिर्या च पूज्यास्ता न भवन्ति हि” । प्रयोगपारिजाते तु
विशेषः “भिन्नश्चैवार्थनाशाय स्थूलो बुद्धिविनाशकः ।
दीर्घश्चायुर्हरो ज्ञेयो रूक्ष ऋद्धिविनाशकृत् । शुक्ल-
वर्णा शुभा ज्ञेया दन्तचक्रा तथैव च” । चक्रभेदे मूर्त्ति-
भेदोऽग्निपुराणे उक्तो यथा “सुदर्शनस्त्वेकचक्रे लक्ष्मी-
नारायणो द्वये । अच्युतः स्यात्तत्त्रिकेण युतो
देवस्त्रिविक्रमः” । जनार्दनश्चतुश्चक्रो वासुदेवश्च पञ्चभिः ।
षट्चक्रश्चैव प्रद्युम्नः संकर्षणश्च सप्तमिः । पुरुषोत्तमश्चाष्ट-
चक्रो नवव्यूहो नवात्मकः । दशावतारो दशभिर्दशै-
केनानिरुद्धकः । द्वादशात्मा द्वादशभिरत ऊर्द्ध्वमनन्तकः” ।
गरुड़पुराणे तु चतुश्चक्रश्चतुर्भुज इति विशेषः । चक्र-
भेदेन विशेषोऽपि तत्रैव । “एकचक्रशिला पूज्या
भुक्तिमुक्तिफलप्रदा । द्विचक्रश्चाच्युतो देवो देवेन्द्रत्व
फलप्रदः । श्रीप्रदो रिपुहन्ता च चतुश्चक्रो जनार्दनः ।
पूजयेद्भक्तिसंयुक्तः सुगन्घैः कुसमादिभिः । पञ्चभिर्वासु-
देवः स्यात् प्रभुश्चक्रैः सदार्चितः । जन्ममृत्युभयात्त्राता
भवेन्नैवात्र संशयः । षड़्भिश्चक्रैश्च प्रद्युम्नो लक्ष्मी कीर्त्ति-
प्रदो भवेत् । पूजितो भक्तिभावेन चक्रतीर्थशिलोद्भवः ।
वलभद्रशिला ज्ञेया सप्तचक्राङ्किता खग! । पूजित-
स्तुष्यते देवः पुत्त्रपौत्त्रप्रदो भवेत् । वाञ्छितं वसुभि-
श्चक्रैर्ददाति पुरुषोत्तमः । नवव्यूहो नवचक्रो दुर्लभं
यत् सुरैरपि । पूजितः केशवस्तस्य ददाति स्थानमुत्त-
मम् । राज्यदो दशभिश्चक्रैर्दशावतारसंज्ञकः ।
दशावतारपूजा स्याच्चक्राङ्कस्यास्य पूजनात् । एकादशभि-
रैश्वर्य्यमधिकञ्च प्रयच्छति । पूजितो भक्तिभावेन चक्र-
तीर्थशिलोद्भवः । तत्रैव प्राप्यते देवश्चक्रैर्द्वादशभि-
श्चितः । पूजितः सर्वकामानामनन्तफलदायकः । द्वाद-
शात्मा स विज्ञेयो भुक्तिमुक्तिप्रदोऽर्च्चितः । अत ऊर्द्धं
परात्मासौ सदा प्रीतिविवर्द्धनः । पूजितः सर्वलोकात्मा
विष्णुलोकप्रदायकः इति चक्राङ्कितशिलाः कथिताः
कुलनामतः” । एकचक्रविषये विशेषस्तु प्रयोगपारि-
जाते । “एकचक्रे विशेषोऽस्ति सविशेषस्तथोच्यते । शुक्ल-
रक्तं तथा रक्तं द्विवर्णं बहुवर्णकम् । यद्येकचक्रिणः
स्युश्च तेषां संज्ञा भवेत् क्रमात् । पुण्डरीकः प्रलम्बघ्नो
रामो वैकुण्ठ एव च । विश्वेश्वर इति ब्रह्मन् तेषां पूजा-
फलं शृणु । मोक्षं मृत्यु विवादञ्च दारिद्र्यं
परतन्त्रताम् । ददाति पूजकस्यासो तस्मात्तां परिवर्जयेत्” ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/द्वन्द&oldid=332097" इत्यस्माद् प्रतिप्राप्तम्