प्रमुखा विकल्पसूचिः उद्घाट्यताम्
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

पुलस्त्य उवाच
ततस्तु देवा महिषेण निर्जिताः स्थानानि संत्यज्य सवाहनायुधाः।
जग्मुः पुरस्कृत्य पितामहं ते द्रष्टुं तदा चक्रधरं श्रियः पतिम्।। १८.१

गत्वा त्वपश्यंश्च मिथः सुरोत्तमौ स्थितौ खगेन्द्रासनशंकरौ हि।
दृष्ट्वा प्रणम्यैव च सिद्दिसाधकौ न्यवेदयंस्तन्महिषादिचेष्टितम्।। १८.२

प्रभोऽश्विसूर्येन्द्वनिलाग्निवेधसां जलेशशक्रादिषु चाधिकारान्।
आक्रम्य नाकात्तु निराकृता वयं कृतावनिस्था महिषासुरेण।। १८.३

एतद् भवन्तौ शरणागतानां श्रुत्वा वचो ब्रूत हितं सुराणाम्।
न चेद् व्रजामोऽद्य रसातलं हि संकाल्यमाना युधि दानवेन।। १८.४

इत्थं मुरारिः सह शंकरेण श्रुत्वा वचो विप्लुतचेतसस्तान्।
दृष्ट्वाऽथ चक्रे सहसैव कोपं कालाग्निकल्पो हरिरव्ययात्मा।। १८.५

ततोऽनुकोपान्मधुसूदनस्य सशंकरस्यापि पितामहस्य।
तथैव शक्रादिषु दैवतेषु महर्द्धि तेजो वदनाद् विनिःसृतम्।। १८.६

तच्चैकतां पर्वतकूटसन्निभं जगाम तेजः प्रवराश्रमे मुने।
कात्यायनस्याप्रतिमस्य तेन महर्षिणा तेज उपाकृतं च।। १८.७

तेनार्षिसृष्टेन च तेजसा वृतं ज्वलत्प्रकाशार्कसहस्रतुल्यम्।
तस्माच्च जाता तरलायताक्षी कात्यायनी योगविशुद्धदेहा।। १८.८

माहेश्वराद् वक्त्रमथो बभूव नेत्रत्रयं पावकतेजसा च।
याम्येन केशा हरितेजसा च भुजास्तथाष्टादश संप्रजज्ञिरे।। १८.९

सौम्येन युग्मं स्तनयोः सुसंहतं मध्यं तथैन्द्रेण च तेजसाऽभवत्।
ऊरू च जङ्घे च नितम्बसंयुते जाते जलेशस्य तु तेजसा हि।। १८.१०

पादौ च लोकप्रपितामहस्य पद्माभिकोशप्रतिमौ बभूवतुः।
दिवाकराणमपि तेजसाऽङ्गुलीः कराङ्गुलीश्च वसुतेजसैव।। १८.११

प्रजापतीनां दशनाश्च तेजसा याक्षेण नासा श्रवणौ च मारुतात्।
साध्येन च भ्रूयुगलं सुकान्तिमत् कन्दर्पबाणासनसन्निभं बभौ।। १८.१२

तथार्षितेजोत्तममुत्तमं महन्नाम्ना पृथिव्यामभवत् प्रसिद्धम्।
कात्यायनीत्येव तदा बभौ सा नाम्ना च तेनैव जगत्प्रसिद्धा।। १८.१३

ददौ त्रिशूलं वरदस्त्रिशूली चक्रं मुरारिर्वरुणश्च शङ्खम्।
शक्तिं हुताशः श्वसनश्च चापं तूणौ तथाक्षय्यशरौ विवस्वान्।। १८.१४

वज्रं तथेन्द्रः सह घण्टया च यमोऽथ दण्डं धनदो गदां च।
ब्रह्मऽक्षमालां सकमण्डलुं च कालोऽसिमुग्रं सह चर्मणा च।। १८.१५

हारं च सोमः सह चामरेण मालं समुद्रो हिमवान् मृगेन्द्रम्।
चूडामणिं कुण्डलमर्द्धचन्द्रं प्रादात् कुठारं वसुशिल्पकर्त्ता।। १८.१६

गन्धर्वराजो रजतानुलिप्तं पानस्य पूर्णं सदृशं च भाजनम्।
भुजंगहारं भुजगेश्वरोऽपि अम्लानपुष्पामृतवः स्रजं च।। १८.१७

तदाऽतितुष्टा सुरसत्तमानां अट्टाट्टहासं मुमुचे त्रिनेत्रा।
तां तुष्टुवुर्देववराः सहेन्द्राः सविष्णुरुद्रेन्द्वनिलाग्निभास्कराः।। १८.१८

नमोऽस्तु दैव्यै सुरपूजितायै या संस्थिता योगविशुद्धदेहा।
निद्रास्वरूपेण महीं वितत्य तृष्णा त्रपा क्षुद् भयदाऽथ कान्तिः।। १८.१९

श्रद्धा स्मृतिः पुष्टिरथो क्षमा च छाया च शक्तिः कमलालया च।
वृत्तिर्दया भ्रान्ति रथेह माया नमोऽस्तु दैव्यै भवरूपिकायै।। १८.२०

ततः स्तुताः देववरैर्मृगेन्द्रमारुह्य देवी प्रगताऽवनीध्रम्।
विन्ध्यं महापर्वतमुच्चश्रृङ्गं चकार यं निम्नतरं त्वगस्त्यः।। १८.२१

नारद उवाच
किर्मथमद्रिं भगवानगस्त्यस्तं निम्नश्रृङ्गं कृतवान् महर्षिः।
कस्मै कृते केन च कारणेन एतद् वदस्वामलसत्त्ववृत्ते।। १८.२२

पुलस्त्य उवाच
पुरा हि विन्ध्येन दिवाकरस्य गतिर्निरुद्धा गगनेचरस्य।
रविस्ततः कुम्भभवं समेत्य होमावसाने वचनं बभाषे।। १८.२३

समागतोऽहं द्विज दूरतस्त्वां कुरुष्व मामुद्धरणं मुनीन्द्र।
ददस्व दानं मम यन्मनीषिनं चरामि येन त्रिदिवेषु निर्वृतः।। १८.२४

इत्थं दिवाकरवचो गुणसंप्रयोगि श्रुत्वा तदा कलशजो वचनं बभाषे।
दानं ददामि तव यन्मनसस्त्वभीष्टं नार्थि प्रयाति विमुखो मम कश्चिदेव।। १८.२५

श्रुत्वा वचोऽमृतमयं कलशोद्भवस्य प्राह प्रभुः करतले विनिधाय मूर्ध्नि।
एषोऽद्य मे गिरिवरः प्ररुणाद्धि मार्गं विन्ध्यस्य निम्नकरणे भगवन् यतस्व।। १८.२६

इति रविवचनादथाह कुम्भजन्मा कुतमिति विद्धि मया हि नीचश्रृङ्गम्।
तव किरणजितो भविष्यते महीध्रो मम चरणसमाश्रितस्य का व्यथा ते।। १८.२७

इत्येवमुक्त्वा कलशोद्भवस्तु सूर्यं हि संस्तूय विनम्य भक्त्या।
जगाम संत्यज्य हि दण्डकं हि विन्ध्याचलं वृद्‌धवपुर्महर्षिः।। १८.२८

गत्वा वचः प्राह मुनिर्महीध्रं यास्ये महातीर्थवरं सुपुण्यम्।
वृद्धोस्म्यशक्तश्च तवाधिरोढुं तस्माद् भवान् नीचतरोऽस्तु सद्यः।। १८.२९

इत्येवमुक्तो मुनिसत्तमेन स नीचश्रृङ्गस्त्वभवन्महीध्रः।
समाक्रमच्चापि महर्षिमुकख्यः प्रोल्लङ्घ्य विन्ध्यं त्विदमाह शैलम्।। १८.३०

यावन्न भूयो निजमाव्रजामि महाश्रमं धौतवपुः सुतीर्थात्।
त्वया न तावत्त्विह वर्धितव्यं नो चेद् विशप्स्येऽहमवज्ञया ते।। १८.३१

इत्येवमुक्त्वा भगवाञ्जगाम दिशं स याम्यां सहसाऽन्तरिक्षम्।
आक्रम्य तस्थौ स हि तां तदाशां काले व्रजाम्यत्र यदा मुनीन्द्रः।। १८.३२

तत्राश्रमं रम्यतरं हि कृत्वा संशुद्धजाम्बूनदतोरणान्तम्।
तत्राथ निक्षिप्य विदर्भपुत्रीं स्वमाश्रमं सौम्यमुपाजगाम।। १८.३३

ऋतावृतौ पर्वकालेषु नित्यं तमम्बरे ह्याश्रममावसत् सः।
शेषं च कालं स हि दण्डकस्थस्तपश्चचारामितकान्तिमान् मुनिः।। १८.३४

विनन्ध्योऽपि दृष्ट्वा गगने महाश्रमं वृद्धिं न यात्येव भयान्महर्षेः।
नासौ निवृत्तेति मतिं विधाय स संस्थितो नीचतराग्रश्रृङ्गः।। १८.३५

एवं त्वगस्त्येन महाचलेन्द्रः स नीचश्रृङ्गे हि कृतो महर्षे।
तस्योर्ध्वश्रृङ्गे मुनिसंस्तुता सा दुर्गा स्थिता दानवनाशनार्थम्।। १८.३६

देवाश्च सिद्धाश्च महोरगाश्च विद्याधरा भूतगणाश्च सर्वे।
सर्वाप्सरोभिः प्रतिरामयन्तः कात्यायनीं तस्थुरपेतशोकाः।। १८.३७

इति श्रीवामनपुराणे एकोनविंशोऽध्यायः ।। १८ ।।