प्रमुखा विकल्पसूचिः उद्घाट्यताम्
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

पुलस्त्य उवाच।।
कश्यपस्य दनुर्नाम भार्यासीद् द्विजसत्तम।
तस्याः पुत्रत्रयं चासीत् सहस्राक्षाद् बलाधिकम्।। ५५.१

ज्येष्ठः शुम्भ इति ख्यातो निशुम्भश्चापरोऽसुरः।
तृतीयो नमुचिर्नाम महाबलसमन्वितः।। ५५.२

योऽसौ नमुचिरित्येवं ख्यातो दनुसुतोऽसुरः।
तं हन्तुमिच्छति हरिः प्रगृह्य कुलिशं करे।। ५५.३

त्रिदिवेशं समायान्तं नमुचिस्तद्भयादथ।
प्रविवेश रथं भानोस्ततो नाशकदच्युतः।। ५५.४

शक्रस्तेनाथ समयं चक्रे सह महात्मना।
अवध्यत्वं वरं प्रादाच्छस्त्रैरस्त्रैश्च नारद।। ५५.५

ततोऽवध्यत्वमाज्ञाय शस्त्रादस्त्राच्च नरद।
संत्यज्य भास्कररथं पातालमुपयादथ।। ५५.६

स निमज्जन्नपि जले सामुद्रं फेनमुत्तमम्।
ददृशे दानवपतिस्तं प्रगृह्येदमब्रवीत्।। ५५.७

यदुक्तं देवपतिना वासवेन वचोऽस्तु तत्।
अयं स्पृशतु मां फेनः पराभ्यां गृह्य दानवः।। ५५.८

मुखनासाक्षिकर्णादीन् संममार्ज्ज यथेच्छया।
तस्मिञ्छक्रोऽसृजद् वज्रमन्तर्हितमपीश्वरः।। ५५.९

तेनासौ भग्ननासास्यः पपात च ममार च।
समये च तथा नष्टे ब्रह्महत्याऽस्पृशद्धरिम्।। ५५.१०

स वै तीर्थं समासाद्य स्नातः पापादमुच्यत।
ततोऽस्य भ्रातरौ वीरौ क्रुद्धौ शुम्भनिशुम्भकौ।। ५५.११

उद्योगं सुमहत्कृत्वा सुरान् बाधितुमागतौ।
सुरास्तेऽपि सहस्राक्षं पुरस्कृत्य विनिर्ययुः।। ५५.१२

जितास्त्वाक्रम्य दैत्याभ्यां सबलाः सपदानुगाः।
शक्रस्याहृत्य च गजं याम्यं च महिषं बलात्।। ५५.१३

वरुणस्य मणिच्छत्रं गदां वै मारुतस्य च।
निधयः पद्मशङ्खाद्या हृतास्त्वाक्रम्य दानवैः।। ५५.१४

त्रैलोक्यं वशगं चास्ते ताभ्यां नारद सर्वतः।
तदाजग्मुर्महीपृष्ठं ददृशुस्ते महासुरम्।। ५५.१५

रक्तबीजमथोचुस्ते को भवानिति सोऽब्रवीत्।
स चाह दैत्योऽस्मि विभो सचिवो महिषस्य तु।। ५५.१६

रक्तबीजेति विख्यातो महावीर्यो महाभुजः।
अमात्यौ रुचिरौ वीरौ चण्डमुण्डाविति श्रुतौ।। ५५.१७

तावारतां सलिले मग्नौ भयाद् देव्या महाभुजौ।
यस्त्वासीत् प्रभुरस्माकं महिषो नाम दानवः।। ५५.१८

निहतः स महादेव्या विन्ध्यशैले सुविस्तृते।
भवन्तौ कस्य तनयौ कौ वा नाम्ना पिरश्रुतौ।
किं वीर्यौ किं प्रभावौ च एतच्छंसितुमर्हथः।। ५५.१९

शुम्भनिशुम्भावूचतुः।
अहं शुंभ इति ख्यातो दनोः पुत्रस्तथौरसः।
निशुम्भोऽयं मम भ्राता कनीयान् शत्रुपूगहा।। ५५.२०

अनेन बहुशो देवाः सेन्द्ररुद्रदिवाकराः।
समेत्य निर्जिता वीरा येऽन्ये च बलवत्तराः।। ५५.२१

तदुच्यतां कया दैत्यो निहतो महिषासुरः।
यावत्तां घातयिष्यावः स्वसैन्यपरिवारितौ।। ५५.२२

इत्थं तयोस्तु वदतोर्नर्मदायास्तटे मुने।
जलवासाद् विनिष्क्रान्तौ चण्डमुण्डौ च दानवौ।। ५५.२३

ततोऽभ्येत्यासुरश्रेष्ठौ रक्तबीजं समाश्रितौ।
ऊचतुर्वचनं श्लक्ष्णं कोऽयं तव पुरस्सरः।। ५५.२४

स चोभौ प्राह दैत्योऽसौ शुम्भो नाम सुरार्दनः।
कनीयानस्य च भ्राता द्वितीयो हि निशुम्भकः।। ५५.२५

एतावाश्रित्य तां दुष्टां महिषघ्नीं न संशयः।
अहं विवाहयिष्यामि रत्नभूतां जगत्त्रये।। ५५.२६

चण्ड उवाच।।
न सम्यगुक्तां भवता रत्नार्होऽसि न साम्प्रतम्।
यः प्रभुः स्यात्स रत्नार्हस्तस्माच्छुम्भाय योज्यताम्।। ५५.२७

तदाचचक्षे शुम्भाय निशुम्भाय च कौशिकीम्।
भूयोऽपि तद्विधां जातां कौशिकीं रूपशालिनीम्।। ५५.२८

ततः शुम्भो निजं दूतं सुग्रीवं नाम दानवम्।
दैत्यं च प्रेषयामास सकाशं विन्ध्यवासिनीम्।। ५५.५५

स गत्वा तद्वचः श्रुत्वा देव्यागत्य महासुरः।
निशुम्भशुम्बावाहेदं मन्युनाभिपरिप्लुतः।। ५५.३०

सुग्रीव उवाच।।
युवयोर्वचनाद् देवीं प्रदेष्टुं दैत्यनायकौ।
गतवानहमद्यैव तामहं वाक्यमब्रुवम्।। ५५.३१

यथा शुम्भोऽतिविख्यातः ककुद्मी दानवेष्वपि।
स त्वां प्राह महाभागे प्रभुरस्मि जगत्त्रये।। ५५.३२

यानि स्वर्गे महीपृष्ठे पाताले चापि सुन्दरि।
रत्नानि सन्ति तावन्ति मम वेश्मनि नित्यशः।। ५५.३३

त्वमुक्ता चण्डमुण्डाभ्यां रत्नभूता कृशोदरि।
तस्माद् भजस्व मां वा त्वं निशुम्भं वा ममानुजम्।। ५५.३४

सा चाह मां विहसती श्रृणु सुग्रीव मद्वचः।
सत्यमुक्तं त्रिलोकेशः शुम्भो रत्नार्ह एव च।। ५५.३५

किं त्वस्ति दुर्विनीताया हृदये मे मनोरथः।
यो मां विजयते युद्धे स भर्ता स्यान्महासुर।। ५५.३६

मया चोक्ताऽवलिप्ताऽसि यो जयेत् ससुरासुरान्।
स त्वां कथं न जयते सा त्वमुत्तिष्ठ भामिनी।। ५५.३७

साऽथ मां प्राह किं कुर्मि यदनालोचितः कृतः।
मनोरथस्तु तद् गच्छ शुम्भाय त्वं निवेदय।। ५५.३८

तयैवमुक्तस्त्वभ्यागां त्वत्सकाशं महासुर।
सा चाग्निकोटिसदृशी मत्वैवं कुरु यत्क्षमम्।। ५५.३९

पुलस्त्य उवाच।।
इति सुग्रीववचनं निशम्य स महासुरः।
प्राह दूरस्थितं शुम्भो दानवं धूम्रलोचनम्।। ५५.४०

शुम्भ उवाच।।
धूम्राक्ष गच्छ तां दुष्टां केशाकर्षणविह्वलाम्।
सापराधां यता दासीं कृत्वा शीघ्रमिहानय।। ५५.४१

यश्चास्याः पक्षकृत् कश्चिद् भविष्यति महाबलः।
स हन्तव्योऽविचार्यैव यदि हि स्यात् पितामहः।। ५५.४२

स एवमुक्तः शुम्भेन धूम्राक्षोऽक्षौहिणीशतैः।
वृतः षड्भिर्महातेजा विन्ध्यं गिरिमुपाद्रवत्।। ५५.४३

स तत्र दृष्ट्वा तां दुर्गां भ्रान्तदृष्टिरुवाच ह।
एह्येहि मूढे भर्तारं शुम्भमिच्छस्व कौशिकी।

न चेद् बलान्नयिष्यामि केशाकर्षणविह्वलाम्।। ५५.४४

श्रीदेव्युवाच।।
प्रेषितोऽसीह शुम्भेन बलान्नेतुं हि मां किल।
तत्र किं ह्यबला कुर्याद् यथेच्छसि तथा कुरु।। ५५.४५

पुलस्त्य उवाच।।
एवमुक्तो विभावर्या बलावान् धूम्रलोचनः।
समभ्यधावत् त्वरितो गदामादाय वीर्यवान्।। ५५.४६

तमापतन्तं सगदं हुंकारेणैव कौशिकी।
सबलं भस्मसाच्चक्रे शुष्कमग्निरिवेन्धनम्।। ५५.४७

ततो हाहाकृतमभूज्जगत्यस्मिंश्चराचरे।
सबलं भस्मसान्नीतं कौशिक्या वीक्ष्य दानवम्।। ५५.४८

तच्च शुम्भोऽपि शुश्राव महच्छब्दमुदीरितम्।
अथादिदेश बलिनौ चण्डमुण्डौ महासुरौ।। ५५.४९

रुरुं च बलिनां श्रेष्ठं तथा जग्मुर्मुदान्विताः।
तेषां च सैन्यमतुलं गजाश्वरथसंकुलम्।। ५५.५०

समाजगाम सहसा यत्रास्ते कोशसंभवा।
तदायान्तं रिपुबलं दृष्ट्वा कोटिशतावरम्।। ५५.५१

सिंहोऽद्रवद् धुतसटः पाटयन् दानवान् रणे।
कांश्चित् करप्रहारेण कांश्चिदास्येन लीलया।। ५५.५२

नखरैः कांश्चिदाक्रम्य उरसा प्रममाथ च।
ते वध्यमानाः सिंहेन गिरिकन्दरवासिना।। ५५.५३

भूतैश्च देव्यनुचरैश्चण्डमुण्डौ समाश्रयन्।
तावार्त्तं स्वबलं दृष्ट्वा कोपप्रस्फुरिताधरौ।। ५५.५४

समाद्रवेतां दुर्गां वै पतङ्गविव पावकम्।
तावापतन्तौ रौद्रौ वै दृष्ट्वा क्रोधपरिप्लुता।। ५५.५५

त्रिशाखां भ्रुकुटीं वक्त्रे चकार परमेश्वरी।
भ्रुकुटीकुटुलाद् देव्या ललाटफलकाद् द्रुतम्।
काली करालवदना निःसृता योगिनी शुभा।। ५५.५६

खट्वाङ्गमादाय करेण रौद्रमसिञ्च कालाञ्जनकोशमुग्रम्।
संशुष्कगात्रा रुधिराप्लुताङ्गी नरेन्द्रमूर्ध्ना स्रजमुद्वहन्ती।। ५५.५७

कांश्चित् खड्गेन चिच्छेद खट्वाङ्गेन परान् रणे।
न्यषूदयद् भृशं क्रुद्धा सरताश्वगजान् रिपून्।। ५५.५८

चर्माङ्कुशं मुद्गरं च सधनुष्कं सघण्टिकम्।
कुञ्जरं सह यन्त्रेण प्रतिक्षेप मुकेऽम्बिका।। ५५.५९

सचक्रकूबररथं ससारथितुरङ्गमम्।
समं योधेन वदने क्षिप्य चर्वयतेऽम्बिका।। ५५.६०

एकं जग्राह केशेषु ग्रीवायमपरं तथा।
पादेनाक्रम्य चैवान्यं प्रेषयामास मृत्यवे।। ५५.६१

ततस्तु तद् बलं देव्या भक्षितं सबलाधिपम्।
रुरुर्दृष्ट्वा प्रदुद्राव तं चण्डि ददृशे स्वयम्।। ५५.६२

आजघानाथ शिरसि खट्वाङ्गेन महासुरम्।
स पपात हतो भूम्यां छिन्नमूल इव द्रुमः।। ५५.६३

ततस्तं पतितं दृष्ट्वा पशोरिव विभावरी।
कोशमुत्कर्तयामास कर्णादिचरणान्तिकम्।। ५५.६४

सा च कोशं समादाय बबन्ध विमला जटाः।
एका न बन्धमगमत् तामुत्पाट्याक्षिपद् भुवि।। ५५.६५

सा जाता सुतरां रौद्री तैलाभ्यक्तशिरोरुहा।
कुष्णार्धमर्धशुक्लं च धारयन्ती स्वकं वपुः।। ५५.६६

साऽब्रवीद् वरमेकं तु मारयामि महासुरम्।
तस्या नाम तदा चक्रे चण्डमारीति विश्रुतम्।। ५५.६७

प्राह गच्छस्व सुभगे चण्डमुण्डाविहानय।
स्वयं हि मारयिष्यामि तावानेतुं त्वमर्हसि।। ५५.६८

श्रुत्वैवं वचनं देव्याः साऽभ्यद्रवत तावुभौ।
प्रदुद्रुवतुर्भयार्त्तौ दिशमाश्रित्य दक्षिणाम्।। ५५.६९

ततस्तावपि वेगेन प्राधावत् त्यक्तवाससौ।
साऽधिरुह्य महावेगं रासभं गरुडोपमम्।। ५५.७०

यतो गतौ च तौ दैत्यौ तत्रैवानुययौ शिवा।
सा ददर्श तदा पौण्ड्रं महिषं वै यमस्य च।। ५५.७१

सा तस्योत्पाटयामास विषाणं भुजगाकृतिम्।
तं प्रगृह्य करेणैव दानवावन्वगाज्जवात्।। ५५.७२

तौ चापि भूमिं संत्यज्य जग्मतुर्गगनं तदा।
वेगेनाभिसृता सा च रासभेन महेश्वरी।। ५५.७३

ततो ददर्श गरुडं पन्नगेन्द्रं चिषादिषुम्।
कर्कोटकं स दृष्ट्वैव ऊर्ध्वरोमा व्यजायत।। ५५.७४

भयान्मार्याश्च गरुडो मांसपिण्डोपमो बभौ।
न्यपतंस्तस्य पत्राणि रौद्राणि हि पतत्त्रिणः।। ५५.७५

खगेन्द्रपत्राण्यादाय नागं कर्कोटकं तथा।
वेगेनानुसरद् देवी चण्डमुण्डौ भयातुरौ।। ५५.७६

संप्राप्तौ च तदा देव्या चण्डमुण्डौ महासुरौ।
बद्धौ कर्कोटकेनैव बद्ध्वा विन्ध्यमुपागमत्।। ५५.७७

निवेदयित्वा कौशिक्यै कोशमादाय भेरवम्।
शिरोभिर्दानवेन्द्राणां तार्क्ष्यपत्रैश्च शोभनैः।। ५५.७८

कृत्वा स्रजमनौपम्यां चण्डिकायै न्यवेदयत्।
घर्घरां च मृगेन्द्रस्य चर्मणः सा समार्पयत्।। ५५.७९

स्रजमन्यैः खगेन्द्रस्य पत्रैर्मूर्घ्नि निबध्य च।
आत्मना सा पपौ पानं रुधिरं दानवेष्वपि।। ५५.८०

चण्डा त्वादाय चण्डं च मुण्डं चासुरनायकम्।
चकार कुपिता दुर्गा विशिरस्कौ महासुरौ।। ५५.८१

तयोरेवाहिना देवी शेखरं सुष्करेवती।
कृत्वा जगाम कौशिक्याः सकाशं मार्यया सह।। ५५.८२

समेत्य साब्रवीद् देवि गृह्यतां शेखरोत्तमः।
ग्रथितो दैत्यशीर्षाभ्यां नागराजेन वेष्टितः।। ५५.८३

तं शेखरं शिवा गृह्य चण्डाया मूर्ध्नि विस्तृतम्।
बबन्ध प्राह चैवैनां कृतं कर्म सुदारुणम्।। ५५.८४

शेखरं चण्डमुण्डाभ्यां यस्माद् धारयसे शुभम्।
तस्माल्लोके तव ख्यातिश्चामुण्डेति भविष्यति।। ५५.८५

इत्येवमुक्त्वा वचनं त्रिनेत्रा मा चण्डमुण्डस्रजधारिणीं वै।
दिग्वाससं चाभ्यवदत् प्रतीता निषूदय खारिबलान्यमूनि।। ५५.८६

सा त्वेवमुक्ताऽथ विषाणकोट्या सुवेगयुक्तेन च रासभेन।
निषूदयन्ती रिपुसैन्यमुग्रं चचार चान्यानसुरांश्चखाद।। ५५.८७

ततोऽम्बिकायास्त्वथ चर्ममुण्डया मार्या च सिंहेन च भूतसंघैः।
निपात्यमाना दनुपुंगवास्ते ककुद्मिनं शुम्भमुपाश्रयन्त।। ५५.८८

इति श्रीवामनपुराणे एकोनत्रिंशोध्यायः ।।