वामनपुराणम्/सप्तसप्ततितमोऽध्यायः

  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

पुलस्त्य उवाच।।
देवमातुः स्थिते देवे उदरे वामनाकृतौ।
निस्तेजसोऽसुरा जाता यथोक्तं विश्वयोनिना।। ७७.१

निस्तेजसोऽसुरान् दृष्ट्वा प्रह्लादं दानवेश्वरम्।
बलिर्दानवशार्दूल इदं वचनमब्रवीत्।। ७७.२

बलिरुवाच।।
तात निस्तेजसो दैत्याः केन जातास्तु हेतुना।
कथ्यतां परमज्ञोऽसि शुभाशुभविशारद।। ७७.३

पुलस्त्य उवाच।।
तत्पौत्रवचनं श्रुत्वा मुहूर्तं ध्यानमास्तितः।
किमर्थं तेजसो हानिरिति कस्मादतीव च।। ७७.४

स ज्ञात्वा वासुदेवोत्थं भयं दैत्येष्वनुत्तमम्।
चिन्तयामास योगात्मा क्व विष्णुः सांप्रतं स्थितः।। ७७.५

अधो नाभेः स पातालान् सप्त संचिन्त्य नारद।
नाबेरुपरि भूरादींल्लोकांश्चर्तुमियाद् वशी।। ७७.६

भूमिं स पङ्कजाकारां तन्मध्ये पङ्कजाकृतिम्।
मेरुं ददर्श शैलेन्द्रं शातकौम्भं महर्द्धिमत्।। ७७.७

तस्योपरि महापुर्यस्त्वष्टौ लोकपतीस्तथा।
देवामातुः स ददृशे मृगपक्षिगणैर्वृतम्।। ७७.८

तदधस्तान्महापुण्यमाश्रमं सुरपूजितम्।
देवमातुः स ददृशे मृगपक्षिगणैर्वृतम्।। ७७.९

तां दृष्ट्वा देवजननीं सर्वतेजोधिकां मुने।
विवेश दानवपतिरन्वेष्टुं मधुसूदनम्।। ७७.१०

स दृष्टवाञ्जगन्नाथं माधवं वामनाकृतिम्।
सर्वभीतवरेण्यं तं देवमातुरथोदरे।। ७७.११

तं दृष्ट्वा पुण्डरीकाक्षं शङ्खचक्रगदाधरम्।
सुरासुरगणैः सर्वैः सर्वतो व्याप्तविग्रहम्।। ७७.१२

तेनैव क्रमयोगेन दृष्ट्वा वामनतां गतम्।
दैत्यतेजोहरं विष्णुं प्रकृतिस्थोऽभवत् ततः।। ७७.१३

अथोवाच महाबुद्धिर्विरोजनसुतं बलिम्।
प्रह्लादो मधुरं वाक्यं प्रणम्य मधुसूदनम्।। ७७.१४

प्रह्लाद उवाच।।
श्रूयतां सर्वमाख्यास्ये यतो वो भयमागतम्।
येन निस्तेजसो दैत्या जाता दैत्येन्द्र हेतुना।। ७७.१५

भवता निर्जिता देवाः सेन्द्ररुद्रार्कपावकाः।
प्रयाताः शरणं देवं हरिं त्रिभुवनेश्वरम्।। ७७.१६

स तेषामभयं दत्त्वा शक्रादिनां जगद्गुरुः।
अवतीर्णो महाबाहुरदित्या जठरे हरिः।। ७७.१७

हृतानि वस्तेन बले तेजांसीति मतिर्मम।
नालं तमो विषहितुं स्थातुं सूर्योदयं बले।। ७७.१८

पुलस्त्य उवाच।।
प्रह्लादवचनं श्रुत्वा क्रोधप्रस्फुरिताधरः।
प्रह्लादमाहाथ बलिर्भाविकर्मप्रचोदितः।। ७७.१९

बलिरुवाच।।
तात कोऽयं हरिर्नाम यतो नो भयमागतम्।
सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः।। ७७.२०

सहस्रशो यैरमराः सेन्द्ररुद्राग्निमारुताः।
निर्जित्य त्याजिताः स्वर्गं भग्नदर्पा रणाजिरे।। ७७.२१

येन सूर्यरथाद् वेगात् चक्रं कृष्टं महाजवम्।
स विप्रचित्तिर्बलवान् मम सैन्यपुरस्सरः।। ७७.२२

अयः शङ्कुः शिवः शंभुरसिलोमा विलोमकृत्।
त्रिशिरा मकराक्षश्च वृषपर्वा नतेक्षमः।। ७७.२३

एते चान्ये च बलिनो नानायुधविशारदाः।
येषामेकैकशो विष्णुः कलां नार्हंति षोडशीम्।। ७७.२४

पुलस्त्य उवाच।।
पौत्रस्यैतद् वचः श्रुत्वा प्रह्लादः क्रोधमूर्छितः।
धिग्धिगित्याह स बलिं वैकुण्ठाक्षेपवादिनम्।। ७७.२५

धिक् त्वां पापसमाचारं दुष्टबुद्धिं सुबालिशम्।
हरिं निन्दयतो जिह्वा कथं न पतिता तव।। ७७.२६

शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः।
यत् त्रैलोक्यगुरुं विष्णुमभिनिन्दसि दुर्मते।। ७७.२७

शोच्यश्चास्मि न संदेहो येन जातः पिता तव।
यस्य त्वं कर्कशः पुत्रो जातो देवावमान्यकः।। ७७.२८

भवान् किल विजानाति तथा चामी महासुराः।
यता नान्यः प्रियः कश्चिन्मम तस्माज्जनार्दनात्।। ७७.२९

जानन्नपि प्रियतरं प्राणेभ्योऽपि हरिं मम।
सर्वेश्वरेश्वरं देवं कथं निन्दितवानसि।। ७७.३०

गुरुः पूज्यस्तव पिता पूज्यस्तस्याप्यहं गुरुः।
ममापि पूज्यो भगवान् गुरुर्लोकगुरुर्हरिः।। ७७.३१

गुरोर्गुरुगुरुर्मूढ पूज्यः पज्यतमस्तव।
पूज्यं निन्दयसे पाप कथं न पतितोऽस्यधः।। ७७.३२

शोचनीया दुराचारा दानवामी कृतास्त्वया।
येषां त्वं कर्कशो राजा वासुदेवस्य निन्दकः।। ७७.३३

यस्माद् पूज्योऽर्चनीयश्च भवता निन्दितो हरिः।
तस्मात् पापसमाचरा राज्यनाशमवाप्नुहि।। ७७.३४

यता नान्यत् प्रियतरं विद्यते मम केशवात्।
मनसा कर्मणा वाचा राज्यभ्रष्टस्तथा पत।। ७७.३५

यता न तस्मादपरं व्यतिरिक्तं हि विद्यते।
चतुर्दशसु लोकेषु राज्यभ्रष्टस्तथा पत।। ७७.३६

सर्वेषामपि भूतानां नान्यल्लोके परायणम्।
यथा तथाऽनुपस्येयं भवन्तं राज्यविच्युतम्।। ७७.३७

पुलस्त्य उवाच।।
एवमुच्चारिते वाक्ये बलिः सत्वरितस्तदा।
अवतीर्यासनाद् ब्रह्मन् कृताञ्जलिपुटो बली।। ७७.३८

शिरसा प्रणिपत्याह प्रसादं यातु मे गुरुः।
कृतापराधानपि हि क्षमन्ति गुरवः शिशून्।। ७७.३९

तत्साधु यदहं शप्तो भवता दानवेश्वर।
न बिभेमि परेभ्योऽहं न च राज्यपरिक्षयात्।। ७७.४०

नैव दुःखं मम विभो यदहं राज्यविच्युतः।
दुःखं कृतापराधत्वाद् भवतो मे महत्तरम्।। ७७.४१

तत् क्षम्यतां तात ममापराधो बालोऽस्म्यनाथोऽस्मि सुदुर्मतिश्च।
कृतेऽपि दोषे गुरवः शिशूनां क्षमन्ति दैत्यं समुपागतानाम्।। ७७.४२

पुलस्त्य उवाच।।
स एवमुक्तो वचनं महात्मा विमुक्तमोहो हरिपादभक्तः।
चिरं विचिन्त्याद्भुतमेतदित्थमुवाच पौत्रं मधुरं वचोऽथ।। ७७.४३

प्रह्लाद उवाच।।
तात मोहेन मे ज्ञानं विवेकश्च तिरस्कृतः।
येन सर्वगतं विष्णुं जानंस्त्वां सप्तवानहम्।। ७७.४४

नूनमेतेन भाव्यं वै भवतो येन दानव।
ममाविशन्महाबाहो विवेकप्रतिषेधकः।। ७७.४५

तस्माद् राज्यं प्रति विभो न ज्वरं कर्तुमर्हसि।
अवश्यं भाविनो ह्यर्था न विनश्यन्ति कर्हिचित्।। ७७.४६

पुत्रमित्रकलत्रार्थ राज्यभोगधनाय च।
आगमे निर्गमे प्राज्ञो न विषादं समाचरेत्।। ७७.४७

यथा यथा समायान्ति पूर्वकर्मविधानतः।
सुखदुःखानि दैत्येन्द्र नरस्तानि सहेत् तथा।। ७७.४८

आपदामागमं दृष्ट्वा न विषण्णो भवेद् वशी।
संपदं च सुविस्तीर्णां प्राप्य नोऽधृतिमान् भवेत्।। ७७.४९

धनक्षये न मुह्यन्ति न हृष्यन्ति धनागमे।
धीराः कार्येषु च सदा भवन्ति पुरुषोत्तमाः।। ७७.५०

एवं विदित्वा दैत्येन्द्र न विषादं कथंचन।
कर्तुमर्हसि विद्वांस्त्वं पण्डितो नावसीदति।। ७७.७७

तथाऽन्यच्च महाबाहो हितं श्रृणु महार्थकम्।
भवतोऽथ तथाऽन्येषां श्रुत्वा तच्च समाचर।। ७७.५२

शरण्यं शरणं गच्छ तमेव पुरुषोत्तमम्।
स ते त्राता भयादस्माद् दानवेन्द्र भविष्यति।। ७७.५३

ये संश्रिता हरिमनन्तमनादिमध्यं विष्णुं चराचरगुरुं हरिमीशितारम्।
संसारगर्तपतितस्य करावलम्बं नूनं न ते भुवि नरा ज्वरिणो भवन्ति।। ७७.५४

तन्मना दानवश्रेष्ठ तद्भक्तश्च भवाधुना।
स एष भवतः श्रेयो विधास्यति जनार्धनः।। ७७.५५

अहं च पापोपशमार्थमीशमाराध्य यास्ये प्रतितीर्थयात्राम्।
विमुक्तपापश्च ततो गमिष्ये यत्राच्युतो लोकपतिर्नृसिंहः।। ७७.५६

पुलस्त्य उवाच।।
इत्येवमाश्वास्य बलिं महात्मा संस्मृत्य योगाधिपतिं च विष्णुम्।
आमन्त्र्य सर्वान् दनुयूथपालान् जगाम कर्तुं त्वथ तीर्थयात्राम्।। ७७.५७

इति श्रीवामनपुराणे एकपञ्चाशोऽध्यायः ।।