पृष्ठम्:श्रीपरात्रिंशिका.pdf/२४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

एवं भासा स्वभावेन स्वरूपामर्शनात्मिका ।
स्वरूपामर्शनं यच्च तदेव परवाग्वपुः ॥
तद्विचित्रस्वभावत्वाद्विचित्रपथनामयम्
प्रथने पारतव्यं हि न जातु भजते क्वचित् ।।
अपारतन्त्र्यात्संकेतप्रत्यूहादेः कथं स्थितिः ।
अतः संकेतरहितं स्वस्वरूपविमर्शनम् ।।
देशकालकलामायास्थानघातक्रियोत्तरम् ।
परिपूर्णं स्वतः सर्वं सर्वाकारविलक्षणम् ।।
स्वाभाविकमहासंवित्सत्संस्कारैकलक्षणम् ।
शुद्धविद्यात्मक रूपमहमित्युभयात्मकम् ।।
तदेव मातृकारूपं धरादीनां निजं वपुः ।
तत्पारमार्थिकाकारं श्रुत्याश्यानस्वरूपतः ।
बीजयोन्यात्मकं प्रोक्त शिवशक्तिस्वरूपकम् ।
शिवशक्त्योस्तु संघट्टादन्योन्योच्छलितत्वतः ।।


 १ स च प्रकाशो न परतन्त्रः, प्रकाश्यतैव हि पारतन्त्र्यं, प्रकाश्यता च प्रकाशान्तरापेक्षतैव, न च प्रकाशान्तरं किंचिदत्रास्ति इति स्वतन्त्र एक एव प्रकाशः, इति न तत्र विमर्शो विकल्प्यरूपोऽसांकेतिकत्वात् ।

 २ उत्तमवृद्धादिना कल्पित इदमस्याभिधेयमित्येवं समयः संकेतः ।

 ३ स्वातन्त्र्यादेव च देशकालावच्छेदविरहात् व्यापको नित्यः सर्वाकारनिराकारस्वभाव इत्यन्यत्र ।

 ४ वस्तुनः सतो गुणान्तराधानं संस्कार इति भाष्ये ।

 ५ अहन्तयैवेदन्ताक्षेपादिति भावः ।