← सर्गः १३ रामायणम्/बालकाण्डम्
बालकाण्डम्
वाल्मीकिः
सर्गः १५ →
चतुर्दशः सर्गः श्रूयताम्
रामायणम्/बालकाण्डम्


श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥

अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे ।
सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥१-१४-१॥

ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः ।
अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥१-१४-२॥

कर्म कुर्वन्ति विधिवद् याजका वेदपारगाः ।
यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥१-१४-३॥

प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः ।
चक्रुश्च विधिवत् सर्वमधिकं कर्म शास्त्रतः ॥१-१४-४॥

अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि ।
प्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्गवाः ॥१-१४-५॥

ऐन्द्रश्च विधिवत् दत्तो राजा चाभिषुतोऽनघः ।
मध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम् ॥१-१४-६॥

तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः ।
चक्रुस्ते शास्त्रतो दृष्ट्वा यथा ब्राह्मणपुङ्गवाः ॥१-१४-७॥

आह्वायाञ्चक्रिरे तत्र शक्रादीन् विबुधोत्तमान् ।
ऋष्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः ॥१-१४-८॥

गीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हतः ।
होतारो ददुरावाह्य हविर्भागान् दिवौकसाम् ॥१-१४-९॥

न चाहुतमभूत् तत्र स्खलितं वा न किञ्चन ।
दृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे ॥१-१४-१०॥

न तेष्वहःसु श्रान्तो वा क्षुधितो वा न दृश्यते ।
नाविद्वान् ब्राह्मणः कश्चिन्नाशतानुचरस्तथा ॥१-१४-११॥

ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते ।
तापसा भुञ्जते चापि श्रमणाश्चैव भुञ्जते ॥१-१४-१२॥

वृद्धाश्च व्याधिताश्चैव स्त्रीबालाश्च तथैव च ।
अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥१-१४-१३॥

दीयतां दीयतामन्नं वासांसि विविधानि च ।
इति संचोदितास्तत्र तथा चक्रुरनेकशः ॥१-१४-१४॥

अन्नकूटाश्च दृश्यन्ते बहवः पर्वतोपमाः ।
दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा ॥१-१४-१५॥

नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा ।
अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः ॥१-१४-१६॥

अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः ।
अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः ॥१-१४-१७॥

स्वलंकृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् ।
उपासन्ते च तानन्ये सुमृष्टमणिकुण्डलाः ॥१-१४-१८॥

कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।
प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया ॥१-१४-१९॥

दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।
सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥१-१४-२०॥

नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः ।
सदस्यास्तस्य वै राज्ञो नावादकुशलो द्विजः ॥१-१४-२१॥

प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास्तथा ।
तावन्तो बिल्वसहिताः पर्णिनश्च तथा परे ॥१-१४-२२॥

श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा ।
द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥१-१४-२३॥

कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।
शोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन् ॥१-१४-२४॥

एकविंशतियूपास्ते एकविंशत्यरत्नयः ।
वासोभिरेकविंशद्भिरेकैकं समलंकृताः ॥१-१४-२५॥

विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः ।
अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥१-१४-२६॥

आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः ।
सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥१-१४-२७॥

इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ।
चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥१-१४-२८॥

स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः ।
गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥१-१४-२९॥

नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् ।
उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥१-१४-३०॥

शामित्रे तु हयस्तत्र तथा जलचराश्च ये ।
ऋषिभिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥१-१४-३१॥

पशूनां त्रिशतं तत्र यूपेषु नियतं तदा ।
अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य ह ॥१-१४-३२॥

कौसल्या तं हयं तत्र परिचर्य समन्ततः ।
कृपाणैर्विससारैनं त्रिभिः परमया मुदा ॥१-१४-३३॥

पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा ।
अवसद् रजनीमेकां कौसल्या धर्मकाम्यया ॥१-१४-३४॥

होताध्वर्युस्तथोद्गाता हस्तेन समयोजयन् ।
महिष्या परिवृत्त्याथ वावातामपरां तथा ॥१-१४-३५॥

पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः ।
ऋत्विक्परमसम्पन्नः श्रपयामास शास्त्रतः ॥१-१४-३६॥

धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः ।
यथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥१-१४-३७॥

हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः ।
अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्त्विजः ॥१-१४-३८॥

प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः ।
अश्वमेधस्य चैकस्य वैतसो भाग इष्यते ॥१-१४-३९॥

त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः ।
चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥१-१४-४०॥

उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् ।
कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥१-१४-४१॥

ज्योतिष्टोमायुषी चैवमतिरात्रौ च निर्मितौ ।
अभिजिद्विश्वजिच्चैवमाप्तोर्यामौ महाक्रतुः ॥१-१४-४२॥

प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः ।
अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥१-१४-४३॥

उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता ।
अश्वमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥१-१४-४४॥

क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः ।
ऋत्विग्भ्यो हि ददौ राजा धरां तां कुलवर्धनः ॥१-१४-४५॥

एवम् दत्त्वा प्रहृष्टोऽभूच्छ्रीमाननिक्ष्वाकुनन्दनः ।
ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकिल्बिषम् ॥१-१४-४६॥

भवानेव महीं कृत्स्नामेको रक्षितुमर्हति ।
न भूम्या कार्यमस्माकं नहि शक्ताः स्म पालने ॥१-१४-४७॥

रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप ।
निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ॥१-१४-४८॥

मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् ।
तत् प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥१-१४-४९॥

एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः ।
गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥१-१४-५०॥

दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् ।
ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु ॥१-१४-५१॥

ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते ।
ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ॥१-१४-५२॥

सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् ।
ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ॥१-१४-५३॥

जाम्बूनदं कोटिसंख्यं ब्राह्मणेभ्यो ददौ तदा ।
दरिद्राय द्विजायथ हस्ताभरणमुत्तमम् ॥१-१४-५४॥

कस्मैचित् याचमानाय ददौ राघवनन्दनः ।
ततः प्रीतेषु विधिवत् द्विजेषु द्विजवत्सलः ॥१-१४-५५॥

प्रणाममकरोत् तेषां हर्षव्याकुलितेन्द्रियः ।
तस्याशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः ॥१-१४-५६॥

उदारस्य नृवीरस्य धरण्यां पतितस्य च ।
ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ॥१-१४-५७॥

पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः ।
ततोऽब्रवीदृशष्यशृङ्गं राजा दशरथस्तदा ॥१-१४-५८॥

कुलस्य वर्धनं तत् तु कर्तुमर्हसि सुव्रत
तथेति च स राजानमुवाच द्विजसत्तमः
भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥१-१४-५९॥

स तस्य वाक्यं मधुरं निशम्य
प्रणम्य तस्मै प्रयतो नृपेन्द्रः ।
जगाम हर्षं परमं महात्मा
तमृष्यशृङ्गं पुनरप्युवाच ॥१-१४-६०॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥

स्रोतः सम्पाद्यताम्

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।