"कथासरित्सागरः/लम्बकः ३/तरङ्गः ४" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य कथासरित्सागरः/लम्बकः ३/तरङ्ग ४ पृष्ठं [[कथासरित्सागरः/लम्बकः...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">ततो लावाणकात्तस्मादन्येद्युः सचिवैः सह । वत्सराजः स कौशाम्बीं प्रतस्थे दयितान्वितः ।। १
<poem><span style="font-size: 14pt; line-height: 200%">3.4.147-184
प्रसस्रे च लसन्नादैस्तस्यापूरितभूतलैः । वलैरसमयोद्वेलजलराशिजलैरिव ।। २
उपमा नृपतेस्तस्य गजेन्द्रस्थस्य गच्छतः । भवेद्यदि रविर्यायाद्गगने सोदयाचलः ।। ३
स सितेनातपत्रेण कृतच्छायो बभौ नृपः । जितार्कतेजःप्रीतेन सेव्यमान इवेन्दुना ।। ४
तेजस्विनं स्वकक्षाभिस्तं सर्वोपरिवर्तिनम् । सामन्ताः परितो भ्रेमुर्ध्रुव ग्रहगणा इव ।। ७
पश्चमकरेणुकारूढे देव्यौ द्वे तस्य रेजतुः । श्रीभुवावनुरागेण साक्षादनुगते इव ।। ६
त्वङ्गत्तुरंगसंघातसुराग्राङ्कनखक्षता । पथि तस्याभवद्भूमिरुपभुक्तेव भूपतेः ।। ७
एवं वत्सेश्वरो गच्छन्स्तूऽयमानः स बन्दिभिः । दिनैः कतिपयैः प्राप कौशाम्बीं विततोत्सवाम् ।। ८
ध्वजरक्तांशुकच्छन्ना गवाक्षोत्कुल्ललोचना । प्रद्वारदर्शितोत्तुङ्गपूर्णकुम्भकुचद्वया ।। ९
जनकोलाहलानन्दसंलापा सौधहासिनी । सा प्रवासागते पत्यौ तत्काल शुशुभे पुरी ।। १०
देवीद्वयानुयातश्च स राजा प्रविवेश ताम् । पौरस्त्रीणां च कोऽप्यासीत्तत्र तद्दर्शनोत्सवः ।। ११
अपूरि हारिहर्म्यस्थरामाननशतैर्नभः । देवीमुखजितस्येन्दोः सैन्यैः सेवागतैरिव ।। १२
वातायनगताश्चान्याः पश्यन्त्योऽनिमिषेक्षणाः । चक्रुः सकौतुकायातविमानस्थात्सरोभ्रमम् ।। १३
काश्चिद्गवाक्षजालाग्रलग्नपक्ष्मललोचनाः । असृजन्निव नाराचपञ्जराणि मनोभुवः ।। १४
एकस्याः स्नमेसुका दृष्टिर्नृपालोकविकस्वरा । श्रुतेः पार्श्वमपश्यन्त्यास्तदाख्यातुमिवाययौ ।। १५
द्रुतागतायाः कस्याश्चिन्मुहुरुच्छुसितौ स्तनौ । कञ्चुकादिव निर्गन्तुमीषतुस्तद्दिदृक्षया ।। १६
अन्यस्याः संभ्रमच्छिन्नहारमुक्ताकणा बभुः । गलन्तो हृदयस्येव हर्षबाष्पाम्बुसीकराः ।। १७
यद्यस्यामाचरेत्पापमग्निर्लावाणके ततः । प्रकाशकोऽप्यसावन्धं तमो जगति पातयेत् ।। १८
इति वासवदत्तां च दृष्ट्वा स्मृत्वा च तत्तथा । दाहप्रवादं सोत्कण्ठा इव काश्चिद्बभापिरे ।। १९
दिक्षा न लज्जिता देवी सपत्न्या सखितुल्यया । इति पद्मावतीं वीक्ष्य वयस्या जगदेऽन्यया ।। २०
नूनं हखरारिभ्यां न दृष्टं रूपमेतयोः । किमन्यथा भजेतां तौ बहुमानमुमाश्रियौ ।। २१
इत्यूचुरपरास्ते द्वे दृष्ट्वा देव्यौ परस्परम् । क्षिपन्त्यः प्रमदोत्फुल्ललोचनेन्दीवरस्रजः ।। २२
एवं वत्सेश्वरः कुर्वञ्जनतानयनोत्सवम् । स्वमन्दिरं सदेवीकः प्राविशत्कृतमङ्गलः ।। २३
प्रभाते याज्जसरसो याब्धेरिन्दूदये तथा । तत्कालं तस्य सा कापि शोभाभूद्राजवेश्मनः ।। २४
क्षणादपूरि सामन्तमङ्गलोपायनैश्च तत् । सूचयद्भिरिवाशेषभूपालोपायनागमम् ।। २५
संमान्य राजलोकं च वत्सराजः कृतोत्सवः । चित्तं सर्वजनस्येव विवेशान्तःपुरं ततः ।। २६
देव्योर्मध्यस्थितस्तत्र रतिप्रीत्योरिव स्मरः । पानादिलीलया राजा दिनशेषं निनाय सः ।। २७
अपरेद्युश्च तस्यैको नृपस्यास्थानवर्तिनः । मन्त्रिणां संनिधौ विप्रो द्वारि चक्रन्द कश्चन ।। २८
अब्रह्मण्यमटव्यां मे पापैर्गोपालकैः प्रभो । पुत्रस्य चरणोच्छेदो विहितः कारणं विना ।। २९
तच्छ्रुत्वा तत्क्षणं द्वित्रान्वष्टभ्यानाय्य भूपतिः । गोपालकान्स पप्रच्छ ततस्तेऽप्येवममुवन् ।। ३०
61
देव गोपालका भूत्वा क्रीडामो विजने वयम् । तत्रैको देवसेनाख्यो मध्ये गोपालकोऽस्ति नः ।। ३१
एकदेशे च सोऽटव्यामुपविष्टः शिलासने । राजा युष्माकमस्मीति वक्त्यस्माननुशास्ति च ।। ३२
अस्मन्मध्ये च केनापि तस्याज्ञा न विलङ्क्यते । एवं गोपालकोऽरण्ये राज्यं स कुरुते प्रभो ।। ३३
अद्य चैतस्य विप्रस्य तनयस्तेन वर्त्मना । गच्छन्गोपालराजस्य प्रणामं तस्य नाकरोत् ।। ३४
मा गास्त्वमप्रणम्येति राजादेशेन जल्पतः । अस्मान्विधूय सोऽयासीच्छासितोऽपि हसन्बटुः ।। ३५
ततस्तस्याविनीतस्य पादच्छेदेन निग्रहम् । कर्तुं गोपालराजेन वयमाज्ञापिता बटोः ।। ३६
धावित्वा च ततोऽस्माभिश्छिन्नोऽस्य चरणः प्रभो । अस्मादृशः प्रभोराज्ञां कोऽतिलङ्घयितुं क्षमः ।। ३७
एवं गोपालकै राज्ञि विज्ञप्ते संप्रधार्य तत् । यौगन्धरायणो धीमान्राजान विजनेऽब्रवीत् ।। ३८
नूनं निधानादियुतं तत्स्थानं यत्प्रभावतः । गोपालकोऽपि प्रभवत्येवं तत्तत्र गम्यताम् ।। ३९
इत्युक्तो मन्त्रिणा राजा कृत्वा गोपालकान्पुरः । ययौ तदटवीस्थानं ससैन्यः सपरिच्छदः ।। ४०
परीक्ष्य भूमिं यावच्च खन्यते तत्र कर्मिभिः । अधस्तात्तावदुत्तस्थौ यक्षः शैलमयाकृतिः ।। ४१
सोऽब्रवीच्च मया राजन्निदं यद्रक्षितं चिरम् । पितामहनिखातं ते निधानं स्वीकुरुष्व तत् ।। ४२
इति वत्सेशमुक्त्वा च तत्पूजां प्रतिगृह्य च । यक्षस्तिरोऽयद्वरवाते च महानाविरभून्निधिः ।। ४३
अलभ्यत महार्हं च रत्नसिंहासनं ततः । भवन्त्युदयकाले हि सत्कल्याणपरम्पराः ।। ४४
ततः कृत्स्नं समादाय निधानं स कृतोत्सवः । तान्प्रशास्य च गोपालान्वत्सेशः स्वपुरीं ययौ ।। ४५
तत्रारुणमणिग्रावकिरणप्रसरैः प्रभोः । प्रतापाक्रमणं दिक्षु भविष्यदिव दर्शयत् ।। ४६
रौप्याङ्कुरमुखप्रोतमुक्तासंततिदन्तुरम् । मुहुर्हासमिवालोच्य तन्मन्त्रिमतिविस्मयम् ।। ४७
ददृशुस्तन्नृपानीतं हेमसिंहासनं जनाः । ननन्दुश्च हतानन्ददुन्दुभिध्वानसुन्दरम् ।। ४८
मन्त्रिणोऽप्युत्सवं चक्रुर्जय निश्चित्य भूपतेः । आमुखापातिकल्याणं कार्यसिद्धिं हि शंसति ।। ४९
ततः पताकाविद्युद्भिराकीर्णे गगनान्तरे । ववर्ष राजजलदः कनकं सोऽनुजीविषु ।। ५०
उत्सवेन च नीतेऽस्मिन्दिने यौगन्धरायणः । चित्तं जिज्ञासुरन्येद्युर्वत्सेश्वरमभाषत ।। ५१
एतत्कुलक्रमायातं महासिंहासनं त्वया । यत्प्राप्तं तत्समारुह्य देवालंक्रियतामिति ।। ५२
विजित्य पृथ्वीमारूढा यत्र मे प्रपितामहाः । तत्राजित्वा दिशः सर्वाः का ममारोहतः प्रथा ।। ५३
जित्वैवेमां समुद्रान्तां पृथ्वी पृथुविभूपणाम् । अलंकरोमि पूर्वेषां रत्नसिंहासनं महत् ।। ५४
इत्यूचिवान्नरपतिर्नारुरोह स संप्रति । संभवत्यभिजातानामभिमानो ह्यकृत्रिमः ।। ५५५५
ततः प्रीतस्तमाह स्म नृपं यौगन्धरायणः । साधु देव कुरु प्राच्यां तर्हि पूर्वं जयोद्यमम् ।। ५६
तच्छ्रुत्वैव प्रसङ्गात्तं राजा पप्रच्छ मन्त्रिणम् । स्थितास्वप्युत्तराद्यासु प्राक्प्राचीं यान्ति किं नृपाः ।। ५७
एतच्छ्रुत्वा जगादैनं पुनयौंगन्धरायणः । स्फीतापि राजन्कौवेरी म्लेच्छसंसर्गगर्हिता ।। ५८
अर्काद्यस्तमये हेतुः पश्चिमापि न पूज्यते । आसन्नराक्षसा दुष्टा दक्षिणाप्यन्तकाश्रिता ।। ५९
प्राच्यामुदेति सूर्यस्तु प्राचीमिन्द्रोऽधितिष्ठति । जाह्नवीं याति च प्राचीं तेन प्राची प्रशस्यते ।। ६०
देशेष्वपि च विन्ध्याद्रिहिमवन्मध्यवर्तिषु । जाह्नवीजलपूतो यः स प्रशस्यतमो मतः ।। ६१
तस्मात्प्राचीं प्रयान्त्यादौ राजानो मङ्गलैषिणः । निवसन्ति च देशेऽपि सुरसिन्धुसमाश्रिते ।। ६२
पूर्वजैरपि हि प्राचीप्रक्रमेण जिता दिशः । गङ्गोपकण्ठे वासश्च विहितो हस्तिनापुरे ।। ६३
शतानीकस्तु कौशाम्बीं रम्यभावेन शिश्रिये । साम्राज्ये पौरुषाधीने पश्यन्देशमकारणम् ।। ६४
इत्युक्त्वा विरते तत्र तस्मिन्यौगन्धरायणे । राजा पुरुषकारैकबहुमानादभाषत ।। ६५५
सत्यं न देशनियमः साम्राज्यस्येह कारणम् । संपत्सु हि सुसत्त्वानामेकहेतुः स्वपौरुषम् ।। ६६
एकोऽप्याश्रयहीनोऽपि लक्ष्मीं प्राप्नोति सत्त्ववान् । श्रुता किं नात्र युष्माभिः पुंसः सत्त्ववता कथा ।। ६७
एवमुक्त्वा स वत्सेशः सचिवाभ्यर्थितः शुभाम् । विचित्रां संनिधौ देव्योरिमामकथयत्कथाम् ।। ६८
अस्ति भूतलविख्याता येयमुज्जयिनी पुरी । तस्यामादित्यसेनाख्यः पूर्वमासीन्महीपतिः ।। ६९
62
आदित्यस्येव यस्येह न चस्खाल किल क्वचित् । प्रतापनिलयस्यैकचक्रवर्तितया रथः ।। ७०
भासयत्युच्छ्रिते व्योम यच्छत्त्रे तुहिनत्विषि । न्यवर्तन्तातपत्राणि राज्ञामपगतोष्मणाम् ।। ७१
समस्तभूतलाभोगसंभवानां बभूव सः । भाजनं सर्वरत्नानामम्बुराशिरिवाम्भसाम् ।। ७२
स कदाचन कस्यापि हेतोर्यात्रागतो नृपः । ससैन्यो जाहवीकूलमासाद्यावस्थितोऽभवत् ।। ७३
तत्र तं गुणवर्माख्यः कोऽप्याड्यस्तत्प्रदेशजः । अभ्यगान्नृपमादाय कन्यारत्नमुपायनम् ।। ७४
रत्नं त्रिभुवनेऽप्येषा कन्योत्पन्ना गृहे मम । नान्यत्र दातुं शक्या च देवो हि प्रभुरीदृशः ।। ७५
इत्यावेद्य प्रतीहास्युखेनाथ प्रविश्य सः । गुणवर्मा निजां तस्मै राज्ञे कन्यामदर्शयत् ।। ६
स तां तेजस्वतीं नाम दीप्तिद्योतितदिढ्युरवाम् । अनङ्गमङ्गलावासरत्नदीपशिखामिव ।। ७७
पश्यन्स्नेहमयो राजा श्लिष्टस्तत्कान्तितेजसा । कामाग्निनेव संतप्तः स्विन्नो विगलति स्म सः ।। ७८
स्वीकृत्यैतां च तत्कालं महादेवीपदोचिताम् । चकार गुणवर्माणं परितुष्यात्मनः समम् ।। ७९
ततस्तां परिणीयैव प्रियां तेजस्वती नृपः । कृतार्थमानी स तया साकमुज्जयिनीं ययौ ।। ८०
तत्र तन्मुखसक्तैकदृष्टी राजा ह्यभूत्तथा । ददर्श राजकार्याणि न यथा सुमहान्त्यपि ।। ८१
तेजस्वतीकलालापकीलितेव किल श्रुतिः । नावसन्नप्रजाक्रन्दैस्तस्याक्रष्टुमशक्यत ।। ८२
चिरप्रविष्टो निरगान्नैव सोऽन्तःपुरान्नपः । निरगादरिवर्गस्य हृदयात्तुऽ रुजाज्वरः ।। ८३
कालेन तस्य जज्ञे च राज्ञः सर्वाभिनन्दिता । कन्या तेजस्वतीदेव्यां बुद्धो च विजिगीषुता ।। ८४
परमाद्ध्वूतरूपा सा तृणीकृत्य जगत्त्रयम् । हर्षं तस्याकरोत्कन्या प्रताप च जिगीषुता ।। ८५५
अथाभियोहामुत्सिक्त सामन्तं कंचिदेकदा । आदित्यसेनः प्रययावुज्जयिन्याः स भूपतिः ।। ८६
तां च तेजस्वती राज्ञीं समारूढकरेणुकाम् । सहप्रयायिनीं चक्रे सैन्यस्येवाधिदेवताम् ।। ८७
आरुरोह वराश्वं च दर्पोद्यद्धर्मनिर्लरम् । जङ्गमाद्रिनिभं तुङ्गं स श्रीवृक्षं समेखलम् ।। ८८
आमृक्कोत्थितपादाभ्यामभ्यस्यन्तमिवाम्बरे । गतिं गरुत्मतो दृष्टां वेगसब्रह्मचारिणः ।। ८९
जवस्य मम पर्याप्ता किं नु स्यादिति मेदिनीम् । कलयन्तमिवोन्नम्य कंधरा धीरया दृशा ।। ९०
किंचिद्गत्वा च संप्राप्य समां भूमि स भूपतिः । अश्वमुत्तेजयामास तेजस्वत्याः प्रदर्शयन् ।। ९१
सोऽश्वस्तत्पार्षिगघातेन यन्त्रेणेवेरितः शरः । जगाम क्वाप्यतिजवादलक्ष्यो लोकलोचनैः ।। ९२
तद्दृष्ट्वा विह्वले सैन्ये हयारोहाः सहस्रधा । अन्वधावन्न च प्रापुस्तमश्वापहृतं नृपम् ।। ९३
ततश्चानिष्टमाशक्त्य ससैन्या मन्त्रिणो भयात् । आदाय देवीं क्रदन्तीं निवृत्त्योज्जयिनीं ययुः ।। ९४
तत्र ते पिह्तिद्वारकृतप्राकारगुप्तयः । राज्ञः प्रवृत्तिं चिन्वन्तस्तस्थुराश्वासितप्रजाः ।। ९५
अत्रान्तरे स राजापि नीतोऽभूत्तेन वाजिना । सरौद्रसिंहसंचारां दुर्गां विन्ध्याटवीं क्षणात् ।। ९६
तत्र दैवात्सिते तस्मिन्नश्वे स सहसा नृपः । आसीन्महाटवीदत्तदिङ्मोहो विह्वलाकुलः ।। ९७
गतिमन्यामपश्यंश्च सोऽवतीर्य प्रणम्य च । तं जगादाश्वजातिज्ञो राजा वरतुरंगमम् ।। ९८
देवस्त्वं न प्रभुद्रोहं त्वादृशः कर्तुमर्हति । तन्मे त्वमेव शरणं शिवेन नय मां पथा ।। ९३
तच्छ्रुत्वा सानुतापः सन्सोऽश्वो जातिस्मरस्तदा । तत्तथेत्यग्रहीद्रुद्धौ दैवतं हि हयोत्तमः ।। १००
ततो राज्ञि समारूढे स प्रतस्थे तुरंगमः । स्वच्छशीताम्बुसरसा मार्गेणाध्वक्लमच्छिदा ।। १०१
सायं च प्रापयामास स योजनशतान्तरम् । उज्जयिन्याः समीपं तं राजानं वाजिसत्तमः ।। १०२
तद्वेगविजितान्वीक्ष्य सप्तापि निजवाजिनः । अस्ताद्रिकंदरालीने लज्जयेवांशुमालिनि ।। १ ये ३
तमसि प्रसृते द्वाराण्युज्जयिन्या विलोक्य सः । पिहितानि श्मशानं च बहिस्तत्कालभीषणम् ।। १०४
निनायैनं निवासाय भूपतिं बुद्धिमान्हयः । वाह्यैकान्तस्थितं तत्र गुमं विप्रमठं निशि ।। १ ' ५
निशातिवाहयोग्यं च तं स दृष्ट्वा मठं नृपः । आदित्यसेनः प्रारेभे प्रवेष्टुं श्रान्तवाहनः ।। १०६
रुरुस्तस्य विप्राश्च प्रवेशं तन्निवासिनः । श्मशानपालश्चौरो वा कोऽप्यसाविति वादिनः ।। १०७
63
निर्ययुस्ते च संसक्तकलहा लोलनिष्ठुराः । भयकार्कश्यकोपानां गृहं हि च्छान्दसा द्विजाः ।। १०८
रटत्सु तेषु तत्रैको निर्जगाम ततौ मठात् । विदूषकाख्यो गुणवान्धुर्यः सत्त्ववतां द्विजः ।। १०९
यो युवा बाहुशाली च तपसाराध्य पावकम् । प्राप खङ्गोत्तमं तस्माद्ध्यातमात्रोपगामिनम् ।। ११०
स दृष्ट्वा तं निशि प्राप्तं धीरो भव्याकृतिं नृपम् । प्रच्छन्नः कोऽपि देवोऽयमिति दध्यौ विदूषकः ।। १११
विधूय विप्रांश्चान्यांस्तान्स सर्वानुचिताशयः । नृपं प्रवेशयामास मठान्तः प्रश्रयानतः ।। ११२
विश्रान्तस्य च दासीभिर्धूताध्वरजसः क्षणात् । आहारं कल्पयामास राज्ञस्तस्य निजोचितम् ।। ११३
तं चापनीतपर्यागा तदीयं तुरगोत्तमम् । यवसादिप्रदानेन चकार विगतश्रमम् ।। ११४
रक्षाम्यहं शरीरं तै तत्सुखं स्वपिहि प्रभो । इत्युवाच च तं श्रान्तमास्तीर्णशयर्न नृपम् ।। ११५
सुप्ते च तस्मिन्द्वारस्थो जागरामास स द्विजः । चिन्तितोपस्थिताग्नेयखङ्गहस्तोऽखिलां निशाम् ।। ११६
प्रातश्च तस्य नृपतेः प्रबुद्धस्यैव स स्वयम् । अनुक्त एव तुरगं सज्जीचक्रे विदूषकः ।। ११७
राजापि स तमामरुय समारुह्य च वाजिनम् । विवेशोज्जयिनीं दूरादृष्टो हर्षीकुलैर्जनैः ।। ११८
प्रविष्टमभिजग्मुस्तं सर्वाः प्रकृतयः क्षणात् । तदागमनजानन्दलसत्कलकलारवाः ।। ११९
आययौ राजभवनं स राजा सचिवान्वितः । ययौ तेजस्वतीदेव्या हृदयाच्च महाज्वरः ।। १२०
वाताहतोत्सवाक्षिप्तपताकांशुकपङ्किभिः । उत्सारिता इवाभूवन्नगर्यास्तत्क्षण शुचः ।। १२१
अकरोदा दिनान्तं च देवीं तावन्महोत्सवम् । यावन्नगरलोकोऽभूत्सार्कः सिन्दूरपिङ्गलः ।। १२२
अन्येद्युः स तमादित्यसेनो राजा विदूषकम् । मठादानाययामास तस्मात्सर्वैर्द्विजैः सह ।। १२३
प्रख्याप्य रात्रिवृत्तान्तं ददौ तस्मै च तत्क्षणम् । विदूषकाय ग्रामाणां सहस्रमुपकारिणे ।। १२४
पौरोहित्ये च चक्रे तं प्रदत्तच्छत्त्रवाहनम् । विप्रं कृतज्ञो नृपतिः कौतुकालोकितं जनैः ओ। १२ रुं
एवं तदैव सामन्ततुल्यः सोऽभूऽद्विदूषकः । मोघा हि नाम जायेत महत्सूपकृतिः कुतः ।। १२६
यांश्च प्राप नृपाङ्कामास्तान्सवान्स महाशयः । तन्मठाश्रयिभिर्विप्रैः समं साधारणान्व्यधात् ।। १२७
तस्थौ च सेवमानस्तं राजानं स तदाश्रितः । भुञ्जानश्च सहान्यैस्तैर्ब्राह्मणैर्ग्रामसंचयम् ।। १२८
काले गच्छति चान्ये ते सर्वे प्राधान्यमिच्छवः । नैव तं गणयामासुर्द्विजा धनमदोद्धताः ।। १२९
विमिन्नैः सप्तसंख्याकैरेकस्थानाश्रयैर्मिथः । संघर्षात्तैरबाध्यन्त ग्रामा दुष्टैर्ग्रहैरिव ।। १३०
उच्छृङ्खलेषु तेष्वासीदुदासीनो विदूषकः । अल्पभावेषु धीराणामवज्ञैव हि शोभते ।। १५१
एकदा कलहासक्तान्द्वष्ट्वा तानभ्युपाययौ । कश्चिच्चक्रधरो नाम विप्रः प्रकृतिनिष्ठुरः ।। १३२
परार्तन्यायवादेषु काणोऽप्यम्लानदर्शनः । कुब्जोऽपि वाचि सुस्पष्टो विप्रस्तानित्यभाषत ।। १३३
प्राप्ता भिक्षाचरैर्भूत्वा भवद्भिः श्रीरियं शठाः । तन्नाशयथ किं ग्रामानन्योन्यमसहिष्णवः ।। १३४
विदूषकस्य दोषोऽयं येन यूयमुपेक्षिताः । तदसंदिग्धमचिरात्पुनर्भिक्षां भ्रमिष्यथ ।। १३५
वरं हि दैवायत्तैकवृद्धिस्थानमनायकम् । न तु विमुतसर्वार्थं विभिन्नबहुनायकम् ।। १३६
तदेकं नायकं धीरं कुरुध्वं वचसा मम । स्थिरया यदि कृत्यं वो धुर्यरक्षितया श्रिया ।। १३७
तच्छ्रुत्वा नायकत्वं ते सर्वेऽप्यैच्छन्यदात्मनः । तदा विचिन्त्य मूढांस्तान्पुनश्चक्रधरोऽब्रवीत् ।। १३८
संघर्षशालिनां -तर्हि समयं वो ददाम्यहम् । इतः श्मशाने शूलायां त्रयश्चौरा निपूदिताः ।। १३९
नासास्तेषां निशि च्छित्त्वा यः सुसरव इहानयेत् । स युष्माकं प्रधानः स्याद्वीरो हि स्वाम्यमर्हति ।। १४०
इति चक्रधरेणोक्तान्विप्रास्तानन्तिकस्यितः । कुरुध्वमेतत्को दोष इत्युवाच विदूषकः ।। १४१
ततस्तेऽस्यावदन्विप्रा नैतत्कर्तुं क्षमा वयम् । यो वा शक्तः स कुरुतां समये च वयं स्थिताः ।। १४२
ततो विदूषकोऽवादीदहमेतत्करोमि भोः । आनयामि निशि च्छित्त्वा नासास्तेषां श्मशानतः ।। १४३
ततस्तहुष्करं मत्वा तेऽपि मूढास्तमब्रुवन् । एवं कृते त्वमस्माकं स्वामी नियम एष नः ।। १४४
इत्येवाख्याप्य समयं प्राप्तायां रजनौ च तान् । आमलय विप्रान्प्रययौ श्मशानं स विदूषकः ।। १४५
प्रविवेश च तद्वीरो निजं कर्मेव भीषणम् । चिन्तितोपस्थिताग्नेयकृपाणैकपरिग्रहः ।। १४६
64
डाकिनीनादसंवृद्धगृध्रवायसवाशिते । -हे?,,, ।। १४७
ददर्श तत्र मध्ये च स ताञ्श्द्व्याधिरोपितान् । पुरुषान्नासिकाछेदभियेवोर्ध्वीकृताननान् ।। १४८
यावच्च निकटं तेषां प्राप तावत्त्रयोऽपि ते । वेतालाधिष्ठितास्तस्मिन्प्रहरन्ति स्म मुष्टिभिः ।। १४९
निष्कम्प एव खङ्गेन सोऽपि प्रतिजघान तान् । न शिक्षितः प्रयत्नो हि धीराणां हृदये भिया ।। १५०
तेनापगतवेतालविकाराणां स नासिकाः । तेपां चकर्त बद्धा च कृती जग्राह वाससि ।।' १५१
आगच्छश्च ददर्शैक शवस्योपरि संस्थितम् । प्रव्राजकं श्मशानेऽत्र जपन्तं रभ विदूषकः ।। १५२
तच्चेष्टालोकनक्रीडाकौतुकादुपगम्य तम् । प्रच्छन्नः पृष्ठतस्तस्य तस्थौ प्रव्राजकस्य सः ।। १५३
क्षणात्प्रव्राजकस्याधः फुत्कारं मुक्तवाञ्शवः । निरगाच्च मुखात्तस्य ज्वाला नाभेश्च सर्षपाः ।। १५४
गृहीत्वा सर्षपांस्तांश्च स परिव्राजकस्ततः । उत्थाय ताडयामास शवं पाणितलेन तम् ।। १५५
उदतिष्ठत्स चोत्तालवेतालाधिष्ठितः शवः । आरुरोह च तस्यैव. स्कन्धे प्रव्राजकोऽथ सः ।। १५६
तदारूढश्च सहसा गन्तुं प्रववृते ततः । विदूषकोऽपि तं तूष्णीमन्वगच्छदलक्षितः ।। १५७
नातिदूरमतिक्रम्य स ददर्श विदूषकः । शून्य कात्यायनीमूर्तिसनार्थं देवतागृहम् ।। १५८
तत्रावतीर्य वेतालस्कन्धात्प्रव्राजकस्तत । विवेश गर्भभवनं वेतालोऽयप'
। प्तद्ध्वाव ।। १५९
विदूषकश्च तत्रासीद्युत्तया पश्यन्नलक्षितः । प्रव्राजकोऽपि संपूज्य तत्र देवीं व्यजिज्ञपत् ।। १६०
तुष्टासि यदि तद्देवि देहि मे वरमीप्सितम् । अन्यथात्मोपहारेण प्रीणामि भवतीमहम् ।। १६१
इत्युक्तवन्तं तं तीत्रमन्त्रसाधनगर्वितम् । प्रव्राजकं जगादैवं वाणी गर्भगृहोद्गता ।। १६२
आदित्यसेननृपतेः सुतामानीय कन्यकाम् । उपहारीकुरुष्वेह ततः प्राप्स्यसि वाञ्छितम् ।। १६३
एतच्छ्रुत्वा स निर्गत्य करेणाहत्य तं पुनः । प्रव्राडुत्थापयामास वेतालं मुक्तकृऽत्कृतिम् ।। १६४
तस्य च स्कन्धमारुह्य निर्यद्वकानलार्चिषः । आनेतुं राजपुत्रीं तामुत्पत्य नभसा ययौ ।। १६५
विदूषकोऽपि तत्सर्वं दृष्ट्वा तत्र व्यचिन्तयत् । कथं राजसुतानेन हन्यते मयि जीवति ।। १६६
इहैव तावत्तिष्ठामि यावदायात्यसौ शठः । इत्यालोच्य स तत्रैव तस्थौ छन्नो विदूषकः ।। १६७
प्रव्राजकश्च गत्वैव वातायनपथेन सः । प्रविश्यान्तःपुरं प्राप सुप्तां निशि नृपात्मजाम् ।। १६८
आययौ च गृहीत्वा तां गगनेन तमोमयः । कान्तिप्रकाशितदिशं राहुः शशिकलामिव ।। १६९
हा तात हाम्बेति च तां क्रन्दन्तीं कन्यकां वहन् । तत्रैव देवीभवने सोऽन्तरिक्षादवातरत् ।। १७०
प्रविवेश च तत्कालं वेतालं प्रविमुच्य स । कन्यारत्नं तदादाय देवीगर्भगृहान्तरम् ।। १७१
तत्र यावन्निहन्तुं तां राजपुत्रीमियेष सः । तावदाकृष्टखङ्गोऽत्र प्रविवेश विदूषकः ।। १५२
आः पाप मालतीपुष्पमश्मना हन्तुमीहसे । यदस्यामाकृतौ शस्त्रं व्यापारयितुमिच्छसि ।। १७३
इत्युक्त्वाकृष्य केशेषु शिरस्तस्य विवेल्लतः । प्रव्राजकस्य चिच्छेद खङ्गेन स विदूषकः ।। १७४
आश्वासयामास च तां राजपुत्रीं भयाकुलाम् । प्रविशन्तीमिवाङ्गानि किंचित्प्रत्यभिजानतीम् ।। १७५
कथमन्तःपुरं राज्ञो राजपुत्रीमिमामितः । नयेयमिति तत्कालमसौ धीरो व्यचिन्तयत् ।। १७६
भो विदूषक शृण्वेतद्योऽयं प्रव्राट् त्वया हतः । महानेतस्य वेतालः सिद्धोऽभूत्सर्षपास्तथा ।। १७७
ततोऽस्य पृथ्वीराज्ये च वाञ्छा राजात्मजासु च । उदपद्यत तेनायमेवं मूढोऽद्य वञ्चितः ।। १७८
तहहाणैतदीयास्त्वं सर्षपान्वीर येन ते । इमामेकां निशामद्य भविष्यत्यम्बरे गतिः ।। १७९
इत्याकाशगता वाणी जातहर्षं जगाद तम् । अनुगृहन्ति हि प्रायो देवता अपि तादृशम् ।। १८०
ततो वस्त्राञ्चलात्तस्य स परिव्राजकस्य तान् । जग्राह सर्षपान्हस्ते तामङ्के च नृपात्मजाम् ।। १८१
यावच्च देवीभवनात्स तस्मान्निर्ययौ बहिः । उच्चचार पुनस्तावदन्या नभसि भारती ।। ९८२
इहैव देवीभवने मासस्यान्ते पुनस्त्वया । आगन्तव्यं महावीर विस्मर्तव्यमिदं न ते ।। १८३
तच्छ्रुत्वा स तथेत्युक्त्वा सद्यो देवीप्रसादतः । उत्पपात नभो विभ्रद्राजपुत्रीं विदूषकः ।। १८४
डाकिनीनादसंवृद्धगृध्रवायसवाशिते । उल्कामुखमुखोल्काग्निविस्फारितचितानले ॥
ददर्श तत्र मध्ये च स ताञ्शूलाधिरोपितान् । पुरूषान्नासिकाछेदभियेवोर्ध्वीकृताननान् ॥
Line ३८ ⟶ २२७:
इहैव देवीभवने मासस्यान्ते पुनस्त्वया । आगन्तव्यं महावीर विस्मर्तव्यमिदं न ते ॥
तच्छ्रुत्वा स तथेत्युक्त्वा सद्यो देवीप्रसादत: । उत्पपात नभो बिभ्रद्राजपुत्रीं विदूषक: ॥
65
गत्वा च गगनेनाशु स तामन्तःपुरान्तरम् । प्रावेशयद्राजसुतां समाश्वस्तामुवाच च ।। १८५
न मे भविष्यति प्रातर्गतिर्व्योम्नि ततश्च माम् । सर्वे द्रक्ष्यन्ति निर्यान्तं तत्संप्रत्येव याम्यहम् ।। १८६
इति तेनोदिता बाला बिभ्यती सा जगाद तम् । गते त्वयि मम प्राणास्त्रासाक्रान्ताः प्रयान्त्यमी ।। १८७
तन्महाभाग मा गास्त्वं देहि मे जीवितं पुनः । प्रतिपन्नार्थनिर्वाहः सहजं हि सतां व्रतम् ।। १८८
तच्छ्रुत्वा चिन्तयामास स सुसत्त्वो विदूषकः । यदस्तु मे न गच्छामि मुञ्चेत्प्राणान्भयादियम् ।। १८९
ततश्च नृपतेर्भक्तिः का मया विहिता भवेत् । इत्यालोच्य स तत्रैव तस्थावन्तःपुरे निशि ।। १९०
व्यायामजागरश्रान्तो ययौ निद्रां शनैश्च सः । राजपुत्री त्वनिद्रैव भीता तामनयन्निशाम् ।। १९१
विश्राम्यतु क्षणं तावदिति प्रेमार्द्रमानसा । सुप्तं प्रबोधयामास सा प्रभातेऽपि नैव तम् ।। १९२
ततः प्रविष्टा ददृशुस्तमन्तःपुरचारिकाः । ससंभ्रमाश्च गत्वैव राजानं तं व्यजिज्ञपन् ।। १९३
राजाप्यवेक्षितुं तत्त्वं प्रतीहारं व्यसर्जयत् । प्रतीहारश्च गत्वान्तस्तत्रापश्यद्विदूषकम् ।। १९४
शुश्राव च यथावृत्तं स तद्राजसुतामुखात् । तथैव गत्वा राज्ञे च स समग्रं न्यवेदयत् ।। १९५
विदूषकस्य सत्त्वज्ञस्तच्छ्रुत्वा स महीपतिः । किमेतत्स्यादिति क्षिप्रं समुद्धान्त इवाभवत् ।। १९६
आनाययच्च दुहितुर्मन्दिरात्तं विदूषकम् । दत्तानुयात्रं मनसा तस्याः स्नेहानुपातिना ।। १९७
पप्रच्छ च यथावृत्तं स राजा तमुपागतम् । आ मूलतश्च सोऽप्यस्मै विप्रो वृत्तान्तमब्रवीत् ।। १९८
अदर्शयच्च वस्त्रान्ते निबद्धाश्चौरनासिकाः । प्रव्राटसंऽबन्धिनस्तांश्च सर्षपान्भूमिभेदिनः ।। १९९
ततः संभाव्य सत्यं तत्तांश्चानाय्य मठद्विजान् । सर्वांश्चक्रधरोपेतान्पृष्ट्वा तन्मूलकारणम् ।। २००
स्वयं श्मशाने गत्वा च दृष्ट्वा तांश्छिन्ननासिकान् । पुरुषांस्तं च निर्लूनकण्ठ प्रव्राजकाधमम् ।। २०१
उत्पन्नप्रत्ययो राजा स तुतोष महाशयः । विदूषकाय कृतिने सुताप्राणप्रदायिने ।। २०२
ददौ तस्मै च तामेव तदैव तनयां निजाम् । किमदेयमुदाराणामुपकारिपु तुष्यताम् ।। २१7३
श्रीरुवासाम्बुजप्रीत्या नूनं राजसुताकरे । गृहीतपाणिर्येनास्या लेभे लक्ष्मीं विदूषकः ।। २०४
ततो राजोपचारेण स तया कान्तया सह । आदित्यसेननृपतेस्तस्थौ श्लाघ्ययशा गृहे ।। २०५
अथ यातेषु दिवसेष्वेकदा दैवचोदिता । तमुवाच निशायां सा राजपुत्री विदूषकम् ।। २०६
नाथ स्मरसि यत्तत्र तव देवीगृहे निशि । मासान्ते त्वमिहागच्छेरित्युक्तं दिव्यया गिरा ।। २०७
तत्र चाद्य गतो मासो भवतस्तच्च विस्मृतम् । इत्युक्तः प्रियया स्मृत्वा स जहर्प विदूषकः ।। २०८
साधु स्मृतं त्वया तन्वि विस्मृतं तन्मया पुनः । इत्युक्त्वालिङ्गनं चास्यै स ददौ पारितोषकम् ।।२० ९
सुप्तायां च ततस्तस्यां निर्गत्यान्तःपुरान्निशि । आदाय खङ्गं स्वस्य संस्तद्देवीभवनं ययौ ।। २१०
प्राप्तो विदूषकोऽहं भोरिति तत्र वदन्बीहः । प्रविशेत्यशुणोद्वाचमन्तः केनाप्युदीरिताम् ।। २११
प्रविश्य चान्तरे सोऽत्र दिव्यमावासमैक्षत । तदन्तर्दिव्यरूपां च कन्यां दिव्यपरिच्छदाम् ।। २१२
स्वप्रभाभिन्नतिमिरां रजनिज्वलितामिव । हरकोपामिनिर्दग्धस्मरसंजीवनौषधिम् ।। २१३
किमेतदिति साश्चर्यः स तया हृष्टया स्वयम् । सस्नेहबहुमानेन स्वागतेनाभ्यनन्यत ।। २१४
उपविष्टं च संजातविस्रम्भं प्रेमदर्शनात् । तत्स्वरूपपरिज्ञानसोत्सुकं सा तमब्रवीत् ।। २१५
अहं विद्याधरी कन्या भद्रानाम महान्वया । इह कामचरत्वाव त्वामपश्यमहं तदा ।। २१६
त्वद्गुणाकृष्टचित्ता च तत्कालमहमेव ताम् । अदृश्यवाणीमसृजं पुनरागमनाय ते ।। २१७
अद्य विणप्रयोगाश्च संमोह्य प्रेरिता मया । सा ते राजसुतैवास्मिन्कार्ये स्मृतिमजीजनत् ।। २१८
त्वदर्थं च स्थितास्मीह तत्तुभ्यमिदमर्पितम् । शरीरं सुन्दर मया कुरु पाणिग्रहं मम ।। २१९
इत्युक्तो भद्रया भव्यो विद्याधर्या विदूषकः । तथेति परिणिन्ये तां गान्धर्वविधिना तदा ।। २२०
अतिष्ठदथ तत्रैव दिव्यं भोगमवाप्य सः । स्वपौरुषफलर्द्ध्येव प्रियया संगतस्तया ।। २२१
अत्रान्तरे प्रबुद्धा सा राजपुत्री निशाक्षये । भर्तारं तमपश्यन्ती विषादं सहसागमत् ।। २२२
उत्थाय चान्तिकं मातुः प्रस्खलद्भिः पदैर्ययौ । विकला संगलद्वाष्पतरङ्गितविलोपना ।। २२३
66
स पतिर्मे गतः क्वापि रात्राविति च मातरम् । आत्मापराधसभया सानुतापा च साभ्यधात् ।। २२४
ततस्तन्मातरि स्रेहात्सभ्रान्तायां क्रमेण तत् । बुद्ध्वा राजापि तत्रैत्य परमाकुलतामगात् ।। २२५
जाने श्मशानबाह्यं तं गतोऽसौ देवतागृहम् । इत्युक्ते राजसुतया राजा तत्र स्वय ययौ ।। २२६
तत्र विद्याधरीविद्याप्रभावेण तिरोहितम् । विचिन्त्यापि न लेभे तं स क्षितीशो विदूषकम् ।। २२७
ततो राज्ञि परावृत्ते निराशां तां नृपात्मजाम् । देहत्यागोन्मुखीमेत्य ज्ञानी कोऽप्यब्रवीदिदम् ।। २२८
नारिष्टशङ्का कर्तव्या स हि ते वर्तते पतिः । युक्तो दिव्येन भोगेन त्वामुपैष्यति चाचिरात् ।। २२९
तच्छ्रुत्वा राजपुत्री सा धारयामास जीवितम् । हृदि प्रविष्टया रुद्धं तत्प्रत्यागमवाञ्छया ।। २३०
विदूषकस्यापि ततस्तिष्ठतस्तत्र तां प्रियाम् । भद्रां योगेश्वरी नाम सखी काचिदुपाययौ ।। २३१
उपेत्य सा रहस्येनामिदं भद्रामथाब्रवीत् । सखि मानुषसंसर्गात्क्रुद्धा विद्याधरास्त्वयि ।। २३२
पापं च ते चिकीर्षन्ति तदितो गम्यतां त्वया । अस्ति पूर्वाम्बुधेः पारे पुरं कार्कोटकाभिधम् ।। २३३
तदतिक्रम्य च नदी शीतोदा नाम पावनी । तीर्त्वा तामुदयाख्यश्च सिद्धक्षेत्रं महागिरिः ।। २३४
विद्याधरैरनाक्रम्यस्तत्र त्वं गच्छ सांप्रतम् । प्रियस्य मानुषस्यास्य कृते चिन्तां च मा कृथाः ।। २३ '६
एतद्धि सर्वमेतस्य कथयित्वा गमिष्यसि । येनैष पश्चात्तत्रैव सत्त्ववानागमिष्यति । । २३६
इत्युक्ता सा तया सख्या भद्रा भयवशीकृता । विदूषकानुरक्तापि प्रतिपेदे तथेति तत् ।। २३७
उक्त्वा च तस्य तद्युक्त्या दत्त्वा च स्वाङ्गुलीयकम् । विदूषकस्य रात्र्यन्तसमये सा तिरोदधे ।। २३८
विदूषकस्य पूर्वस्मिञ्शून्ये देवगृहे स्थितम् । क्षणादपश्यदात्मानं न भद्रा न च मन्दिरम् ।। २३९
स्मरन्विद्याप्रपञ्च त पश्यश्चैवाङ्गुलीयकम् । विषादविस्मयावेशवशः सोऽभूद्विदूषकः ।। २४०
अचिन्तयच्च तस्याः स वचः स्वप्नमिव स्मरन् । गता तावन्निवेद्यैव सा ममोदयपर्वतम् ।। २४१
तन्मयाप्याशु तत्रैव गन्तव्यं तदवाप्तये । न चैवं लोकदृष्टं मां लब्ध्वा राजा परित्यजेत् ।। २४२
तस्माद्युक्तिं करोमीह कार्यं सिद्ध्यति मे यथा । इति संचिन्त्य मतिमान्रूपमन्यत्स शिश्रिये ।। २४५
जीर्णवासा रजोलिप्तो भूत्वा देवीगुहात्ततः । निरगादथ हा भद्रे हा भद्रे इति स बुवन् ।। २४४
तत्क्षणं च विलोक्यैन जनास्तद्देशवर्तिनः । सोऽयं विदूपकः प्राप्त इति कोलाहलं व्यधुः ।। २४५
बुद्ध्वा च राज्ञा निर्गत्य स्वय दृष्ट्वा तथाविधः । उन्मत्तचेष्टोऽवष्टभ्य स नीतोऽभूत्समन्दिरम् ।। २४६
तत्र स्नेहाकुलैर्यद्यदुक्तोऽभूद्भृत्यबान्धवैः । तत्र तत्र स हा भद्रे इति प्रत्युत्तरं ददौ ।। २४७
वैद्योपदिष्टैरभ्यङ्गैरभ्यक्तोऽपि स तत्क्षणम् । अङ्गमुद्धलयामास भूरिणा भस्मरेणुना ।। २४८
स्नेहेन राजपुत्र्या च स्वहस्ताभ्यामुपाहृतः । आहारस्तेन सहसा पादेनाहत्य चिक्षिपे ।। २४९
एवं स तस्थौ कतिचिद्दिवसांस्तत्र निःस्पृहः । पाटयन्निजवस्त्राणि कृतोन्मादो विदूषकः ।। २५०
अशक्यप्रतिकारोऽयं तत्किमर्थं कदर्थ्यते । त्यजेत्कदाचन प्राणान्ब्रह्महत्या भवेत्ततः ।। २५१
स्वच्छन्दचारिणस्त्वस्य कालेन कुशलं भवेत् । इत्यालोच्य स चादित्यसेनो राजा मुमोच तम् ।। २५२
ततः स्वच्छन्दचारी सन्नन्येद्युः साङ्गुलीयकः । वीरो भद्रां प्रति स्वैरं स प्रतस्थे विदूषकः ।। २५३
गच्छन्नहरहः प्राच्यां दिशि प्राप स च क्रमात् । मध्ये मार्गवशायातं नगरं पौण्ड्रवर्धनम् ।। २५४
मातरत्र वसाम्येकां रात्रिमित्यभिधाय सः । व्राह्मण्यास्तत्र कस्याश्चिहृद्धायाः प्राविशहहम् ।। २५५
प्रतिपन्नाश्रया सा च कृतातिथ्या क्षणान्तरे । ब्राह्मणी समुपेत्यैवं सान्तर्दुःखा जगाद तम् ।। २५६
तुभ्यमेव मया दत्तं पुत्र सर्वमिदं गृहम । तहहाण यतो नास्ति जीवितं मम सांप्रतम् ।। २५७
कस्मादेवं व्रवीषीति तेनोक्ता विस्मितेन सा । श्रूयतां कथयाम्येतदित्युक्त्वा पुनरब्रवीत् ।। २५८
अस्तीह देवसेनाख्यो नगरे पुत्र भूपतिः । तस्य चैका समुत्पन्ना कन्या भूतलभूषणम् ।। २५९
मया दुःखेन लब्धेयमिति तां दुःखलब्धिकाम् । नाम्ना चकारैप नृपस्तनयामतिवत्सलः ।। २६०
कालेन यौवनारूढामानीताय स्ववेश्मनि । राज्ञे कच्छपनाथाय तां प्रादाच्चैष भूपतिः ।। २६१
स कच्छपेश्वरस्तस्या वध्वा वासगृहं निशि । प्रविष्ट एव प्रथमं तत्कालं पञ्चतां ययौ ।। २६२
67
ततो विमनसा राज्ञा भूयोप्येतेन सा सुता । दत्तान्यस्मै नृपायाभूत्सोऽपि तद्वद्व्यपद्यत ।। २६३
तद्भयाच्च यदान्येऽपि नृपाऽवाञ्छन्ति नैव ताम् । तदा सेनापतिं राजा निजमेव समादिशत् ।। २६४
इतो देशात्त्वयैकैकः क्रमादेकैकतो गृहात् । पुत्रान्प्रत्यहमानेयो ब्राह्मणः क्षत्रियोऽथवा ।। २६५
आनीय च प्रवेश्योऽत्र रात्रौ मत्पुत्रिकागृहे । पश्यामोऽत्र विपद्यन्ते कियन्तोऽत्र कियच्चिरम् ।। २६६
उत्तरिष्यति यश्चात्र सोऽस्या भर्ता भविष्यति । गतिः शक्या परिच्छेत्तुं नह्यद्भुतविधेर्विधेः ।। २६७
इति सेनापती राज्ञा समाविष्टो दिने दिने । वारक्रमेण गेहेभ्यो नयत्येव नरानिह ।। २६८
एवं च तत्र यातानि क्षयं नरशतान्यपि । मम चाकृतपुण्याया एकः पुत्रोऽत्र वर्तते ।। २६९
तस्य वारोऽद्य संप्राप्तस्तत्र गन्तुं विपत्तये । तदभावे मया कार्यं प्रातरग्निप्रवेशनम् ।। २७०
तज्जीवन्ती स्वहस्तेन तुभ्यं गुणवते गृहम् । ददामि सर्वं येन स्यां न पुनर्दुःखभागिनी ।। २७१
एवमुक्तवतीं धीरस्तामवोचद्विदूषकः । यद्येवमम्ब तर्हि त्वं मा स्म विक्लवता कृथाः ।। २७२
अहं तत्राद्य गच्छामि जीवत्वेकसुतस्तव । किमेतं घातयामीति कृपा ते मयि मा च भूत् ।। २७३
सिद्धियोगाद्धि नास्त्येव भयं तत्र गतस्य मे । एवं विदूषकेणोक्ता ब्राह्मणी सा जगाद तम् ।। २७४
तर्हि पुण्यैर्मयायातः कोऽपि देवो भवानिह । तत्प्राणान्देहि नः पुत्र कुशलं च तथात्मनि ।। २७५
एवं तया सोऽनुगतः सायं राजसुतागृहम् । सेनापतिनियुक्तेन किंकरेण समं ययौ ।। २७६
तत्रापश्यन्नृपसुता तां यौवनमदोद्धताम् । लतामनुच्चितस्फीतपुष्पभारानतामिव ।। २७७
ततो निशायां शयने राजपुत्र्या तयाश्रिते । ध्यातोपनतमाग्नेयं खङ्गं बिभ्रत्करेण सः ।। २७८
वासवेश्मनि तत्रासीज्जामदेव विदूषकः । पश्यामि तावत्को हन्ति नरानत्रेति चिन्तयन् ।। २७९
प्रसुप्ते च जने क्षिप्रादपावृतकपाटकम् । स द्वारदेशादायान्तं घोरं राक्षसमैक्षत ।। २८०
स च द्वारि स्थितस्तत्र राक्षसो वासकान्तरे । भुजं नरशताकाण्डयमदण्डं न्यवेशयत् ।। २८१
विदूषकश्च चिच्छेद धावित्वा तस्य तं क्रुधा । एकखङ्गप्रहारेण बाहुं सपदि रक्षसः ।। २८२
छिन्नबाहुः पलाय्याशु जगाम स निशाचरः । भूयोऽनागमनायैव तत्सत्त्वोत्कर्षभीतितः ।। २८३
प्रबुद्धा वीक्ष्य पतितं रक्षोबाहुं नृपात्मजा । भीता च जातहर्षा च विस्मिता च बभूव सा ।। २८४
प्रातश्च ददृशे राज्ञा देवसेनेन तत्र सः । स्वसुतान्तःपुरद्वारि स्थितश्छिन्नच्युतो भुजः ।। २८५
इतःप्रभृति नेहान्यैः प्रवेष्टव्यं नरैरिति । दत्तो विदूषकेणेव सुदीर्घः परिघार्गलः ।। २८६
ततो दिव्यप्रभावाय तस्मै प्रीतः स पार्थिवः । विदूषकाय तनयां तां ददौ विभवोत्तरम् ।। २८७
ततस्तया समं तत्र कान्तया स विदूषकः । तस्थौ दिनानि कतिचिद्रूपवत्येव संपदा ।। २८८
एकस्मिंश्च दिने सुप्तां राजपुत्रीं विहाय ताम् । स ततः प्रययौ रात्रौ तां भद्रां प्रति सत्वरः ।। २८९
राजपुत्री च सा प्रातस्तददर्शनदुःखिता । आसीदाश्वासिता पित्रा तत्प्रत्यावर्तनाशया ।। २९०
सोऽपि गच्छन्नहरहः क्रमात्प्राप विदूषकः । पूर्वाम्बुवेरदूरस्थां नगरीं ताम्रलिप्तिकाम् ।। २९१
तत्र चक्रे स केनापि वणिजा सह संगतिम् । स्कन्ददासाभिधानेन पारमब्धेर्यियासता ।। २९२
तेनैव सह सोऽनल्पतदीयधनसंभृतम् । यानपात्रं समारुह्य प्रतस्थेऽम्बुधिवर्त्मना ।। २९३
ततः समुद्रमध्ये तद्यानपात्रमुपागतम् । अकस्मादभवद्रुद्धं व्यासक्तमिब केनचित् ।। २९४
अर्चितेऽप्यर्णवे रत्नैर्यदा न विचचाल तत् । तदा स वणिगार्तः सनकन्ददासोऽब्रवीदिदम् ।। २९५
यो मोचयति संरुद्धमिदं प्रवहणं मम । तस्मै निजधनार्धं च स्वसुतां च ददाम्यहम् ।। २९६
तच्छ्रुत्वैव जगादैवं धीरचेता विदूषकः । अहमत्रावतीर्यान्तर्विचिनोम्यम्बुधेर्जलम् ।। २९७
क्षणाच्च मोचयाम्येतद्वद्धं प्रवहणं तव । यूयं चाप्यवलम्बध्वं बद्ध्वा मां पाशुरज्जुभिः ।। २९८
विमुक्ते च प्रवहणे तत्क्षणं वारिमध्यतः । उद्धर्तव्योऽस्मि युध्माभिरवलम्बनरज्जुभिः ।। २९९
तथेति तेन वणिजा तद्वचस्यभिनन्दिते । बबन्धुः कर्णधारास्तं रज्जुबन्धेन कक्षयोः ।। ३००
तद्बद्धोऽवततारैव वारिधौ स विदूषकः । न जात्वबसरे प्राप्ते सत्त्ववानवसीदति ।। ३०१
68
ध्यातोपस्थितमाग्नेयं खङ्ग कृत्वा च तं करे । वीरः प्रवहणस्याधो मध्येवारि विवेश सः ।। ३०२
तत्र चैकं महाकायं सुप्तं पुरुषमैक्षत । जङ्घायां तस्य रुद्धं च यानपात्रं व्यलोकयत् ।। ३०३
चिच्छेद तां स जङ्घां च तस्य खड्गेन तत्क्षणम् । चचाल च प्रवहणं रोधमुक्तं तदैव तत् ।। ३०४
तदृष्ट्वैव बणिक्पापश्छेदयामास तस्य तत् । विदूषकस्य स्थूलाः प्रतिपन्नार्थलोभतः ।। ३०५
वृत्तेनैव च मुक्तेन हृतं प्रवहणेन सः । स्वलोभस्येव महतः पारमम्बुनिधेर्ययौ ।। ३०६
विदूषकोऽपि स च्छिन्नरज्जवालम्बोऽम्बुमध्यगः । उन्मज्जय तत्तथा दृष्ट्वा धीरः क्षणमचिन्तयत् ।। ३०७
किमिदं वणिजा तेन कृतं किमथवोच्यते । कृतघ्ना धनलोभान्धा नोपकारेक्षणक्षमाः ।। ३०८
तदेष कालः सुतरामवैकूव्यस्य सांप्रतम् । नहि' सत्त्वावसादेन स्वल्पा व्यापद्विलङ्घयते ।। ३०९
इति संचिन्त्य तत्कालं जङ्घां तामारुरोह सः । या सान्तर्जलसुप्तस्य पुंसस्तस्य न्यकृत्यत ।। ३१०
तया ततार नावेव हस्तव्यस्ताम्बुरम्बुधिम् । दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् ।। ३११
तं मारुतिमिवाम्भोधिपारं रामार्थमागतम् । बलवन्तमुवाचैवमन्तरिक्षात्सरस्वती ।। ३१२
साधु साधु सुसत्त्वोऽस्ति कोऽन्यस्त्वत्तो विदूषक । अनेन तव धैर्येण तुष्टोऽस्मि तदिदं शृणु ।। ३१३
प्राप्तोऽसि नग्नविषयमिमं संप्रत्यतोऽपि च । कार्कोटकाख्यं नगरं दिनैः प्राप्स्यसि सप्तभिः ।। ३१४
ततो लब्धधृतिर्गत्वा शीत्र प्राप्स्यसि चेप्सितम् । अहं चाराधिपः पूर्वं भवता हव्यकव्यभुक् ।। ३१५
मद्वराच्च तवेदानीं क्षुत्तृष्णा च न वर्त्सति । तद्गच्छ सिद्ध्यै विस्रब्धमित्युक्त्वा विरराम वाक् ।। ३१६
विदूषकश्च तच्छ्रुत्वा प्रणयाग्निं प्रहर्षितः । प्रतस्थे सप्तमे चाह्नि प्राप कार्कोटकं पुरम् ।। ३१७
तत्र च प्रविवेशैकं मठमार्यैरधिष्ठितम् । नानादेशोद्भवैस्तैस्तैर्द्विजैरभ्यागतप्रियैः ।। ३१८
श्रीमता निर्मितं राज्ञा तत्रत्येनार्यवर्मणा । ऋद्धं समग्रसौवर्णहृद्यदेवकुलान्वितम् ।। ३१९
तत्र सर्वैः कृतातिथ्यमेकस्तं ब्राह्मणोऽतिथिम् । स्नानेन भोजनैर्वस्त्रैर्नीत्वा गृहमुपाचरत् ।। ३२०
सायं च तन्मठस्थः सन्पुरे शुश्राव तत्र सः । विदूषकः सपटहं घोष्यमाणमिदं वचः ।। ३२१
ब्राह्मणः क्षत्रियो वापि परिणेतुं नृपात्मजाम् । प्रातरिच्छति यः सोऽद्य रात्रौ वसतु तद्गृहे ।। ३२२
तच्छ्रुत्वा सनिमित्तं स तदाशक्त्य च तत्क्षणम् । गन्तुं राजसुतावासमियेष प्रियसाहसः ।। ३२३
ऊचुस्तं मठविप्रास्ते ब्रह्मन्मा साहसं कृथाः । तन्न राजसुतासद्म तन्मृत्योर्विवृतं मुखम् ।। ३२४
यो हि तत्र प्रविशति क्षपायां न स जीवति । गताः सुबहवश्चैवमत्र साहसिकाः क्षयम् ।। ३२५
इत्युक्तोऽपि स तैर्विप्रैरनङ्गीकृततद्वचाः । विदूषको राजगृहं ययौ तत्किंकरैः सह ।। ३२६
तत्रार्यवर्मणा राज्ञा स्वयं दृष्ट्वाभिनन्दितः । विवेश तत्सुतावासं नक्तमर्क इवानलम् ।। ३२७
ददर्श राजकन्यां च तामाकृत्यानुरागिणीम् । नैराश्यदुःखविधुरं पश्यन्तीं सास्रया दृशा ।। ३२८
आसीच्च जाग्रदेवात्र स रात्राववलोकयन् । करे कृपाणमाग्नेयं चिन्तितोपनतं दधत् ।। ३२९
अकस्माच्च महाघोरं ददर्श द्वारि राक्षसम् । छिन्नदक्षिणबाहुत्वात्प्रसारितभुजान्तरम् ।। ३३०
दृष्ट्वा व्यचिन्तयच्चासौ हन्त सोऽयं निशाचरः । यस्य बाहुर्मया छिन्नो नगरे पौण्ड्रवर्धने ।। ३३१
तदद्य न पुनर्बाहौ प्रहरिष्याम्यसौ हि मे । पलाय्य पूर्ववद्गच्छेत्तस्मात्साधु निहन्त्र्यमुम् ।। ३३२
इत्यालोच्य प्रधाव्यैव केशेष्वाकृष्य तस्य सः । राक्षसस्य शिरश्छेत्तुं समारेभे विदूषकः ।। ३३३
तत्क्षणं भीतभीतश्च तमुवाच स राक्षसः । मा मां वधीः सुसत्त्वस्त्वं तत्कुरुष्व कृपामिति ।। ३३४
किंनामा त्वं च केयं च तव चेष्टेति तेन सः । मुक्त्वा पृष्टश्च वीरेण पुनराह स राक्षसः ।। ३३५
यमदंष्ट्राभिधानस्य मभाभूता सुते इमे । इयमेका तथान्या च पौण्ड्रवर्धनवर्तिनी ।। ३३६
अवीरपुरुषासङ्गाद्रक्षणीये नृपात्मजे । शंकराज्ञाप्रसादो हि ममाभूदयमीदृशः ।। ३३७
तत्रादौ बाहुरेकेन छिनो मे पौण्ड्रवर्धने । त्वया चाद्य जितोऽस्मीह तत्समाप्तमिदं मम ।। ३३८
तच्छ्रुत्वा स विहस्वैनं प्रत्युवाच विदूषकः । मयैव स भुजस्तत्र लूनस्ते पौण्ड्रवर्धने ।। ३३९
राक्षसोऽप्यवदत्तर्हि देवांशस्त्वं न मानुषः । मन्ये त्वदर्थमेवाभूच्छर्वाज्ञानुग्रहः स मे ।। ३४०
69
तदिदानीं सुहृन्मे त्वं यदा मां च स्मरिष्यसि । तदाहं संनिधास्ये ते सिद्धये संकटेष्वपि ।। ३४१
एवं स राक्षसो मैत्र्या वरयित्वा विदूषकम् । तेनाभिनन्दितवचा यमदब्रूस्तिरोदवे ।। ३४२
विदूषकोऽपि सानन्दमभिनन्दितविक्रमः । राजपुत्र्या तया तत्र हृष्टस्तामनयन्निशाम् ।। ३४३
प्रातश्च ज्ञातवृत्तान्तस्तुष्टस्तस्मै ददौ नृपः । विभवैः सह शौयैकपताकामिव तां सुताम् ।। ३४४
स तया सह तत्रासीद्रात्रीः काश्चिद्विदूषकः । पदारपदममुञ्चन्त्या लक्ष्णेव गुणबद्धथा ।। ३४५
एकदा च निशि स्वैरं ततः प्रायात्प्रियोत्सुकः । लब्धदिव्यरसास्वादः को हि रज्येद्रसान्तरे ।। ३४६
नगराच्च विनिर्गत्य स तं सस्मार राक्षसम् । स्मृतमात्रागतं तं च जगाद रचितानतिम् ।। ३४७
सिद्धक्षेत्रे प्रयातव्यमुदयाद्रौ मया सखे । भद्राविद्याधरीहेतोरतस्त्वं तत्र मां नय ।। ३४८
तथेत्युक्तवतस्तस्य स्कन्धमारुह्य रक्षसः । ययौ च स तया रात्र्या दुर्गमां षष्टियोजनीम् ।। ३४९
प्रातश्च तीर्त्वा शीतोदामलष्ट्यां मानुषैर्नदीम् । उदयाद्रेरथ प्रापत्संनिकर्षमयत्नतः ।। ३५०
अयं स पर्वतः श्रीमानुदयाख्यः पुरस्तव । अत्रोपरि च नास्त्येव सिद्धधाम्नि गतिर्मम ।। ३५१
इत्युक्त्वा राक्षसे तस्मिन्प्राप्तानुज्ञे तिरोहिते । दीर्घिकां स ददर्शैकां रम्यां तत्र विदूषकः ।। ३५२
वदन्त्याः स्वागतमिव भ्रमद्धमरगुञ्जितैः । तस्यास्तीरे न्यषीदच्च फुल्लपद्माननश्रियः ।। ३५३
स्रीणामिवात्र चापश्यत्पदपङ्क्तिं सुविस्तराम् । अयं प्रियागमे मार्गस्तवेति मुवतीमिव ।। ३५४
अलङ्ख्योऽयं गिरिर्मर्त्यैस्तदिहैव वरं क्षणम् । स्थितो भवामि पश्यामि कस्येयं पदपद्धतिः ओ। ३५५
इति चिन्तयतस्तस्य तत्र तोयार्थमाययुः । गृहीतकाञ्चनघटा भव्याः सुबहवः स्त्रियः ।। ३५६
वारिपूरितकुम्भाश्च ताः स पप्रच्छ योषितः । कस्येदं नीयते तोयमिति प्रणयपेशलम् ।। ३५७
आस्ते विद्याधरी भद्र भद्रानामात्र पर्वते । इदं स्नानोदकं तस्या इति ताश्च तमवुवन् ।। ३५८
चित्रं धातैव धीराणामारव्धोद्दामकर्मणाम् । परितुष्येव सामग्रीं घटयत्युपयोगिनीम् ।। ३५९
यदेके सहसैव स्त्री तासां मध्यादुवाच तम् । महाभाग मम स्कन्धे कुम्भ उत्क्षिप्यतामिति ।। ३६०
तथेति च घटे तस्याः स्कन्धोत्क्षिप्ते स बुद्धिमान् । निदधे भद्रया पूर्वं दत्तं रत्नाङ्गुलीयकम् ।। ३६१
उपाविशच्च तत्रैव स पुनर्दीर्घिकातटे । ताश्च तज्जलमादाय ययुर्भद्रागृहं स्त्रियः ।। ३६२
तत्र ताभिश्च भद्राया यावत्स्नानाम्बु दीयते । तावत्तस्यास्तदुत्सङ्गे निपपाताङ्गुलीयकम् ।। ३६३
तदृष्ट्वा प्रत्यभिज्ञाय भद्रा पप्रच्छ ताः सखीः । दृष्टः किं कोऽपि युष्माभिरिहापूर्वः पुमानिति ।। ३६४
दृष्ट एको युवास्माभिर्मानुषो वापिकातटे । तेनोत्क्षिप्तो घटश्चायमिति प्रत्यमुवश्च ताः ।। ३६५
ततो भद्राब्रवीच्छीघ्र प्रक्लप्तस्त्रानमण्डनम् । इहानयत गत्या तं स हि भर्ता ममागतः ।। ३६६
इत्युक्ते भद्रया गत्या यथावस्तु निवेद्य च । स्नातश्च तद्वयस्याभिस्तत्रानिन्ये विदूषकः ।। ३६७
प्राप्तश्च स ददर्शात्र भद्रां मार्गोन्मुखीं चिरात् । निजसत्त्वतरोः साक्षात्पकामिव फलश्रियम् ।। ३६८
सापि दृष्ट्वा तमुत्थाय हर्षवाष्पाम्बुसीकरैः । दत्तार्घेव बबन्धास्य कण्ठे भुजलतास्रजम् ।। ३६९
परस्परालिङ्गितयोस्तयोः स्वेदच्छलादिव । अतिपीडनतः स्नेहः सस्यन्दे चिरसंभृतः ।। ३७०
अथोपविष्टावन्योन्यमवितृप्तौ विलोकने । उभौ शतगुणीभूतामिवोत्कण्ठामुदूहतुः ।। ३७१
आगतोऽसि कथं भूमिमिमामिति च भद्रया । परिपृष्टः स तत्कालमुवाचेदं विदूषकः ।। ३७२
समालम्ब्य भवत्सेहमारुह्य प्राणसंशयान् । सुबहूनागतोऽस्मीह किमन्यद्वच्यि सुन्दरि ।। ३७३
तह्नूत्वा तस्य दृष्ट्वा तामनपेक्षितजीविताम् । प्रीतिं काष्ठागतम्नेहा सा भद्रा तमभाषत ।। ३७४
श्रायपुत्र न मे काचं सखीभिर्न च सिद्धिभिः । त्वं मे प्राणा गुणक्रीता दासी चाहं तव प्रभो ।। ३७५
विदूवकस्ततोऽवादीत्तर्ह्यागच्छ मया सह । मुक्त्वा दिव्यमिमं भोगं वस्तुमुज्जयिनीं प्रिये ।। ३७६
तथेति प्रतिपेदे सा भद्रा सपदि तद्वचः । तत्संकल्पपरिभ्रष्टा विद्याश्च तृणवज्जहौ ।। ३७७
ततस्तया समं तत्र स विशश्राम तां निशाम् । क्लप्तोपचारस्तत्सख्या योगेश्वर्या विदूषकः ।। ३७८
प्रातश्च भद्रया साकमवतीर्योदयाद्रितः । सस्मार यमहं तं राक्षसं स पुनः कृती ।। ३७७९
कथा० ११
70
स्मृतमात्रागतस्योक्त्वा गन्तव्याध्वक्रमं निजम् । तस्यारुरोह स स्कन्धे भद्रामारोप्य तां पुरः ।। ३८०
सापि सेहे तदत्युग्रराक्षसांसाधिरोहणम् । अनुरागपरायत्ताः कुर्वते किं न योषितः ।। ३८१
रक्षोधिरूढश्च ततः स प्रतस्थे प्रियासखः । विदूषकः पुनः प्राप तच्च कार्कोटकं पुरम् ।। ३८२
रक्षोदर्शनसत्रासं तत्र चालोकितो जनैः । दृष्ट्वार्यवर्मनृपतिं स्वां भार्यां मार्गति स्म सः ।। ३८३
दत्तां तेन गृहीत्वा च तत्सुता तां भुजार्जिताम् । तथैव राक्षसारूढः स प्रतस्थे पुरात्ततः ।। ३८४
गत्वाम्बुधेस्तदे प्राप पापं तं वणिजं च सः । येनास्य वारिधौ पूर्वं छिन्नाः क्षिप्तस्य रज्जवः ।। ३८५
जहार तस्य च सुतां वणिजः स धनैः सह । प्रागम्बुधौ प्रवहणप्रमोचनपणार्जिताम् ।। ३८६
धनापहारमेवास्य वधं मेने च पाप्मनः । कदर्याणां पुरे प्राणाः प्रायेण ह्यर्थसंचयाः ।। ३८७
ततो रक्षोरथारूढस्तामानीय वणिक्सुताम् । स भद्राराजपुत्रीभ्यां सहैवोदपतन्नभः ।। ३८८
दर्शयन्निजकान्तानां द्युमार्गोग्र ततार च । विलसत्सत्त्वसंरम्भं स्वपौरुषमिवाम्बुधिम् ।। ३८९
प्राप तच्च स भूयोऽपि नगरं पौण्ड्रवर्धनम् । दृष्टः सविस्मयं सर्वैर्वाहनीकृतराक्षसः ।। ३९०
तत्र तां देवसेनस्य सुतां राज्ञश्चिरोत्सुकाम् । भार्यां संभावयामास राक्षसावजयार्जिताम् ।। ३९१
रुध्यमानोऽपि तत्पित्रा स स्वदेशसमुत्सुकः । गृहीत्वा तामपि ततः प्रायादुज्जयिनीं प्रति ।। ३९२
अचिरेण च तां प्राप पुरीं राक्षसयोगतः । बहिर्गतामिवात्मीयदेशदर्शननिर्वृतिम् ।। ३९३
अथोपरि स्थितस्तस्य महाकायस्य रक्षसः । असस्थतद्वधूचक्रकान्तिप्रकटितात्मनः ।। ३९४
स जनैर्ददृशे तत्र शिखरे ज्वलितौषधौ । शशाङ्क इव पूर्वाद्रेरुदयस्थो विदूषकः ।। ३९५
ततो विस्मितवित्रस्ते जने बुद्ध्वात्र भूपतिः । आदित्यसेनो निरगाच्छ्वशुरोऽस्य तदा पुरः ।। ३९६
विदूषकस्तु दृष्ट्वा तमवतीर्याशु राक्षसात् । प्रणम्य नृपमभ्यागान्नृपोऽप्यभिननन्द तम् ।। ३९७
अवतार्यैव तत्स्कन्धात्ताः स्वभार्यास्ततोऽखिलाः । मुमोच कामचाराय राक्षसं स विदूषकः ।। ३९८
गते च राक्षसे तस्मिन्स तेन सह भूभुजा । श्वशुरेण सभार्यः सन्प्राविशद्राजमन्दिरम् ।। ३९९
तत्र तां प्रथमां भार्यां तनयां तस्य भूपतेः । आनन्दयदुपागत्य चिरोत्कण्ठावशीकृताम् ।। ४००
कथमेतास्त्वया भार्याः प्राप्ताः कश्चैष राक्षसः । इति पृष्टः स राज्ञात्र सर्वमस्मै शशंस तत् ।। ४०१
ततः प्रभावतुष्टेन तेन तस्य महीभृता । जामातुर्निजराज्यार्धं प्रदत्तं कार्यवेदिना ।। ४०२
तत्क्षणाच्च स राजाभूद्विप्रो भूत्वा विदूपकः । समुच्छ्रितसितच्छत्त्रो विधूतोभयचामरः ।। ४०३
तदा च मङ्गलातोद्यवाद्यनिर्हादनिर्भरा । प्रहर्पमुक्तनादेव रराजोज्जयिनी पुरी ।। ४०४
इत्याप्तराज्यविभवः क्रमशः स कृत्स्नां जित्वा महीमखिलराजकपूजिताङ्गिः ।
ताभिः समं विगतमत्सरनिर्वृताभिर्भद्रासखश्चिरमरंस्त निजप्रियाभिः ।। ४ ' ७
इत्यनुकूले दैवे भजति निजं सत्त्वमेव धीराणाम् ।
लक्ष्मीरभसाकर्षणसिद्धमहामोदमन्त्रत्वम् ।। ४०६
इत्थं श्रुत्वा वत्सराजस्य वक्त्राच्चित्रामेतामद्भुतार्थां कथां ते ।
पार्श्वासीना मन्त्रिणश्चास्य सर्वे देव्यौ चापि प्रीतिमटयामवापुः ।। ४०७
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सप्तारे लावाणकलम्वके चतुर्थस्तरङ्गः ।