"बृहदारण्यक उपनिषद् 4p" इत्यस्य संस्करणे भेदः

complete
(add 1-4 ब्राह्मणम्, 5th to be added)
 
(complete)
 
मन्त्र १[IV.v.1]
अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च
तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव
स्त्रीप्रज्ञैव तर्हि कात्यायन्य
अथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् ॥ १ ॥
 
मन्त्र २[IV.v.2]
मैत्रेयीति होवाच याज्ञवल्क्यः
प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि ।
हन्त तेऽनया कत्यायान्याऽन्तं करवाणीति ॥ २ ॥
 
मन्त्र ३[IV.v.3]
सा होवाच मैत्रेयी
यन्नु म इयं
भगोः
सर्वा पृथिवी वित्तेन पूर्णा स्यात्
स्यां न्वहं तेनामृताऽऽहो३ नेति
नेति होवाच याज्ञवल्क्यो
यथैवोपकरणवतां जीवितं
तथैव ते जीवित स्याद्
अमृतत्वस्य तु नाऽऽशाऽस्ति वित्तेनेति ॥ ३ ॥
 
मन्त्र ४[IV.v.4]
सा होवाच मैत्रेयी
येनाहं नामृता स्यां
किमहं तेन कुर्याम् ।
यदेव भगवान्वेद
तदेव मे ब्रूहीति ॥ ४ ॥
 
मन्त्र ५[IV.v.5]
स होवाच याज्ञवल्क्यः
प्रिया वै खलु नो भवती सती
प्रियमवृधद्
धन्त तर्हि
भवत्य्
एतद् व्याख्यास्यामि ते
व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ५ ॥
 
मन्त्र ६[IV.v.6]
स होवाच
न वा अरे पत्युः कामाय पतिः प्रियो भवत्य्
आत्मनस्तु कामाय पतिः प्रियो भवति ।
न वा अरे जायायै कामाय जाया प्रिया भवत्य्
आत्मनस्तु कामाय जाया प्रिया भवति ।
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्य्
आत्मनस्तु कामाय पुत्राः प्रिया भवन्ति ।
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्य्
आत्मनस्तु कामाय वित्तं प्रियं भवति ॥
न वा अरे पशूनां कामाय पशवः प्रिया भवन्ति
आत्मनस्तु कामाय पशवः प्रिया भवन्ति ।
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्य्
आत्मनस्तु कामाय ब्रह्म प्रियं भवति ।
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्य्
आत्मनस्तु कामाय क्षत्रं प्रियं भवति ।
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्य्
आत्मनस्तु कामाय लोकाः प्रिया भवन्ति ।
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्य्
आत्मनस्तु कामाय देवाः प्रिया भवन्ति ।
न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्य्
आत्मनस्तु कामाय वेदाः प्रिया भवन्ति ।
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्य्
आत्मनस्तु कामाय भूतानि प्रियाणि भवन्ति ।
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्य्
आत्मनस्तु कामाय सर्वं प्रियं भवत्य्
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो
मैत्रेय्य्
आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इद सर्वं
विदितम् । ॥ ६ ॥
 
मन्त्र ७[IV.v.7]
ब्रह्म तं परादाद्
योऽन्यत्राऽऽत्मनो ब्रह्म वेद
क्षत्रं तं परादाद्
योऽन्यत्राऽऽत्मनः क्षत्रं वेद
लोकास्तं परादुः
योऽन्यत्राऽऽत्मनो लोकान्वेद
देवास्तं परादुः
योऽन्यत्रात्मनो देवान्वेद
वेदास्तं परादुर्
योऽन्यत्रात्मनो वेदान्वेद
भूतानि तं परादुर्
योऽन्यत्राऽऽत्मनो भूतानि वेद
सर्वं तं परादाद्
योऽन्यत्राऽऽत्मनः सर्वं वेद्
एदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि
भूतानीद सर्वं यदयमात्मा ॥ ७ ॥
 
मन्त्र ८[IV.v.8]
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ८ ॥
 
मन्त्र ९[IV.v.9]
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्
ग्रहणाय
शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ९ ॥
 
मन्त्र १०[IV.v.10]
स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय
वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ १० ॥
 
मन्त्र ११[IV.v.11]
स यथाऽऽर्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्य्
एवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो
यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं
विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि
इष्ट हुतमाशितं पायितमयं च लोकः परश्च लोकः
सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि निःश्वसितानि
सामवेदस् अथर्वाङ्गिरसस् इतिहासस् पुराणम् विद्यास्
उपनिषदस् श्लोकास् सूत्राणि अनुव्याख्यानानि व्याख्याननि दत्तम्
इष्टम् हुतम् आशितम् पायितम् अयम् च लोकस् परस् च लोकस्
सर्वाणि च भूतानि अस्य एव एतानि सर्वाणि निश्वसितानि निःश्वसितानि ॥ ११ ॥
 
मन्त्र १२[IV.v.12]
स यथा सर्वासामपा समुद्र एकायनम्
एव सर्वेषा स्पर्शानां त्वगेकायनम्
एव सर्वेषां गन्धानां नासिकैकायनम्
एव सर्वेषा रसानां जिह्वैकायनम्
एव सर्वेषा रूपाणां चक्षुरेकायनम्
एव सर्वेषं शब्दानां श्रोत्रमेकायनम्
एव सर्वेषा सङ्कल्पानां मन एकायनम्
एव सर्वासां विद्याना हृदयमेकायनम्
एव सर्वेषां कर्मणा हस्तावेकायनम्
एव सर्वेषामानन्दानामुपस्थ एकायनम्
एव सर्वेषां विसर्गाणां पायुरेकायनम्
एव सर्वेषामध्वनां पादावेकायनम्
एव सर्वेषां वेदानां वागेकायनम् ॥ १२ ॥
 
मन्त्र १३[IV.v.13]
स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवै
वं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो
भूतेभ्यः समुत्थाय तान्येवानुविनयष्यतिति
प्रज्ञानघनस् एव एतेभ्यस् भूतेभ्यस् समुत्थाय तानि एव अनुविनयति
न प्रेत्य सञ्ज्ञाऽस्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १३ ॥
 
मन्त्र १४[IV.v.14]
सा होवाच मैत्रेय्य्
अत्रैव मा भगवान्मोहान्तमापीपिपन्
न वा अहमिमं विजानामीति
स होवाच
न वा अरेऽहं मोहं ब्रवीम्य्
अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मा ॥ १४ ॥
 
मन्त्र १५[IV.v.15]
यत्र हि द्वैतमिव भवति
तदितर इतरं पश्यति
तदितर इतरं जिघ्रति
तदितर इतर रसयते
तदितर इतरमभिवदति
तदितर इतर शृणोति
तदितर इतरं मनुते
तदितर इतर स्पृशति
तदितर इतरं विजानाति ।
यत्र त्वस्य सर्वमात्मैवाभूत्
तत्केन कं पश्येत्
तत्केन कं जिघ्रेत्
तत्केन क रसयेत्
तत्केन कमभिवदेत्
तत्केन क शृणुयात्
तत्केन कं मन्वीत
तत्केन क स्पृशेत्
तत्केन कं विजानीयाद्येनेद सर्वं विजानाति
तं केन विजानीयात्
स एष नेति नेत्याऽत्मागृह्यो न हि गृह्यते
ऽशीर्यो न हि शीर्यते
ऽसङ्गो न हि सज्यते
ऽसितो न व्यथते न रिष्यति ।
विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि
मैत्रेय्य्
एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो
विजहार ॥ १५ ॥
 
इति पञ्चमं ब्राह्मणम् ॥
 
'''षष्ठं ब्राह्मणम् ।'''
 
मन्त्र १[IV.vi.1]
अथ वशः
पौतिमाष्यो गौपवनाद्
गौपवनः पौतिमाष्यात्
पौतिमाष्यो गौपवनाद्
गौपवनः कौशिकात्
कौशिकः कौण्डिन्यात्
कौण्डिन्यः शाण्डिल्याच्
छाण्डिल्यः कौशिकाच्च गौतमाच्च
गौतमः ॥ १ ॥
 
मन्त्र २[IV.vi.2]
आग्निवेश्याद्
अग्निवेश्यो गार्ग्याद्
गार्ग्यो गार्ग्याद्
गार्ग्यो गौतमाद्
गौतमः सैतवात्
सैतवः पाराशर्यायणात्
पाराशार्यायणो गार्ग्यायणाद्
गार्ग्यायण उद्दालकायनाद्
उद्दालकायनो जाबालायनाज्
जाबालायनो माध्यन्दिनायनान्
माध्यन्दिनायनः सौकरायणात्
सौकरायणः काषायणात्
काषायणः सायकायनात्
सायकायनः कौशिकायनेः
कौशिकायनिः ॥ २ ॥
 
मन्त्र ३[IV.vi.3]
घृतकौशिकाद्
घृतकौशिकः पाराशर्यायणात्
पाराशर्यायणः पाराशर्यात्
पाराशर्यो जातूकर्ण्याज्
जातूकर्ण्य आसुरायणाच्च यास्काच्चा
ऽऽसुरायणस्त्रैवणेस्
त्रैवणिरौपजन्धनेर्
औपजन्धनिरासुरेर्
आसुरिर्भारद्वाजाद्
भारद्वाज आत्रेयाद्
आत्रेयो माण्टेर्
माण्टिर्गौतमाद्
गौतमो गौतमाद्
गौतमो वात्स्याद्
वात्स्यः शाण्डिल्याच्
छाण्डिल्यः कैशोर्यात्काप्यात्
कैशोर्यः काप्यः कुमारहारितात्
कुमारहारितो गालवाद्
गालवो विदर्भीकौण्डिन्याद्
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्
वत्सनपाद्बाभ्रव पथः सौभरात्
पन्थाः सौभरोऽयास्यादाङ्गिरसाद्
अयास्य आङ्गिरस आभूतेस्त्वाष्ट्राद्
आभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्
विश्वरूपस्त्वाष्ट्रोऽव्श्विभ्याम्
अश्विनौ दधीच आथर्वणाद्
दध्यङ्ङाथर्वणोऽथर्वणो दैवाद्
अथर्वा दैवो मृत्योः प्राध्वसनान्
मृत्युः प्राध्वसनः प्रध्वसनात्
प्रध्वसन एकर्षेर्
एकर्षिर्विप्रचित्तेः
विप्रचित्तिर्व्यष्टेर्
व्यष्टिः सनारोः
सनारुः सनातनात्
सनातनः सनगात्
सनगः परमेष्ठिनः
परमेष्ठी ब्रह्मणो
ब्रह्म स्वयम्भु
ब्रह्मणे नमः ॥ ३ ॥
 
इति षष्ठं ब्राह्मणम् ॥
 
॥ इति बृहदारण्यकोपनिषदि चतुर्थोऽध्यायः ॥
४५

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/101709" इत्यस्माद् पुनः प्राप्तिः