"बृहदारण्यक उपनिषद् 6p" इत्यस्य संस्करणे भेदः

complete sixth section
(add first three ब्राह्मणम्)
 
(complete sixth section)
'''चतुर्थं ब्राह्मणम्'''
 
मन्त्र १[VI.4iv.1]
एषां वै भूतानां पृथिवी रसः
पृथिव्या आपो
ऽपामोषधय
ओषधीनां पुष्पाणि
पुष्पाणां फलानि
फलानां पुरुषः
पुरुषस्य रेतः ॥ १ ॥
 
मन्त्र २[VI.iv.2]
स ह प्रजापतिरीक्षांचक्रे
हन्तास्मै प्रतिष्ठां कल्पयानीति
स स्त्रिय ससृजे ।
ता सृष्ट्वाऽध उपास्त
तस्मात्स्त्रियमध उपासीत
स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत्
तेनैनामभ्यसृजत् ॥ २ ॥
 
मन्त्र ३[VI.iv.3]
तस्या वेदिरुपस्थो
लोमानि बर्हिश्
चर्माधिषवणे
समिद्धो मध्यतस्तौ मुष्कौ ।
स यावान्ह वै वाजपेयेन यजमानस्य लोको भवति
तावानस्य लोको भवति
य एवं विद्वानधोपहासं चरत्य्
आसा स्त्रीणा सुकृतं वृङ्क्ते
ऽथ य इदमविद्वानधोपहासं चरत्य्
आऽस्य स्त्रियः सुकृतं वृञ्जते ॥ ३ ॥
 
मन्त्र ४[VI.iv.4]
एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराहैतद्ध स्म
वै तद्विद्वान्नाको मौद्गल्य आहैतद्ध स्म वै
तद्विद्वान् कुमारहारित आह
बहवो मर्या ब्राह्मणायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति
य इदमविद्वासोऽधोपहासं चरन्तीति ।
बहु वा इद सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ४ ॥
 
मन्त्र ५[VI.iv.5]
तदभिमृशेद्
अनु वा मन्त्रयेत
यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्
यदोषधीरप्यसरद्
यदपः ।
इदमहं तद्रेत आददे
पुनर्मामैत्विन्द्रियम्
पुनस्तेजः
पुनर्भगः ।
पुनरग्निर्धिष्ण्या
यथास्थानं कल्पन्तामित्य्
अनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ५ ॥
 
मन्त्र ६[VI.iv.6]
अथ यद्युदक आत्मानं पश्येत्
तदभिमन्त्रयेत
मयि तेज इन्द्रियं यशो द्रविण सुकृतमिति ।
श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासास्
तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ ६ ॥
 
मन्त्र ७[VI.iv.7]
सा चेदस्मै न दद्यात्
काममेनामवक्रिणीयात्
सा चेदस्मै नैव दद्यात्
काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेद्
इन्द्रियेण ते यशसा यश आदद
इत्य्
अयशा एव भवति ॥ ७ ॥
 
मन्त्र ८[VI.iv.8]
सा चेदस्मै दद्याद्
इन्द्रियेण ते यशसा यश आदधामीति
यशस्विनावेव भवतः ॥ ८ ॥
 
मन्त्र ९[VI.iv.9]
स यामिच्छेत्
कामयेत मेति
तस्यामर्थं निष्ठाय
मुखेन मुख सन्धायोपस्थमस्या अभिमृश्य
जपेद्
अङ्गादङ्गात्सम्भवसि
हृदयादधिजायसे ।
स त्वमङ्गकषायोऽसि
दिग्धविद्धमिव मादय्
एमाममूं मयीति ॥ ९ ॥
 
मन्त्र १०[VI.iv.10]
अथ यामिच्छेन्
न गर्भं दधीतेति
तस्यामर्थं निष्ठाय
मुखेन मुख सन्धायाभिप्राण्यापान्याद्
इन्द्रियेण ते रेतसा रेत आदद
इत्यरेता एव भवति ॥ १० ॥
 
मन्त्र ११[VI.iv.11]
अथ यामिच्छेद्
दधीतेति
तस्यामर्थं निष्ठाय
मुखेन मुख सन्धायापान्याभिप्राण्याद्
इन्द्रियेण ते रेतसा रेत आदधामीति
गर्भिण्येव भवति ॥ ११ ॥
 
मन्त्र १२[VI.iv.12]
अथ यस्य जायायै जारः स्यात्
तं चेद् द्विष्याद्
आमपात्रेऽग्निमुपसमाधाय
प्रतिलोम शरबर्हिस्तीर्त्वा
तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाऽक्ता जुहुयान्
मम समिद्धेऽहौषीः
प्राणापानौ त आददे
ऽसाविति ।
मम समिद्धेऽहौषीः
पुत्रपशूस्त आददे
ऽसाविति ।
मम समिद्धेऽहौषीर्
इष्टासुकृते त आददे
ऽसाविति ।
मम समिद्धेऽहौषीर्
आशापराकाशौ त आददे
ऽसाविति ।
स वा एष निरिन्द्रियो विसुकृतोऽस्माल्लोकात्प्रैति
यमेवंविद्ब्राह्मणः शपति ।
तस्मादेवंवित्छ्रोत्रियस्य दारेण नोपहासमिच्छेद्
उत ह्येवंवित्परो भवति ॥ १२ ॥
 
मन्त्र १३[VI.iv.13]
अथ यस्य जायामार्तवं विन्देत्
त्र्यहं कसे न पिबेदहतवासा
नैनां वृषलो
न वृषल्युपहन्यात् अपहन्यात्
त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् ॥ १३ ॥
 
मन्त्र १४[VI.iv.14]
स य इच्छेत्
पुत्रो मे शुक्लो जायेत
वेदमनुब्रुवीत
सर्वमायुरियादिति
क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्
ईश्वरौ जनयितवै ॥ १४ ॥
 
मन्त्र १५[VI.iv.15]
अथ य इच्छेत्
पुत्रो मे कपिलः पिङ्गलो जायेत
द्वौ वेदावनुब्रुवीत
सर्वमायुरियादिति
दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्
ईश्वरौ जनयितवै ॥ १५ ॥
 
मन्त्र १६[VI.iv.16]
अथ य इच्छेत्
पुत्रो मे श्यामो लोहिताक्षो जायेत
त्रीन्वेदाननुब्रुवीत
सर्वमायुरियादित्य्
उदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्
ईश्वरौ जनयितवै ॥ १६ ॥
 
मन्त्र १७[VI.iv.17]
अथ य इच्छेद्
दुहिता मे पण्डिता जायेत
सर्वमायुरियादिति
तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्
ईश्वरौ जनयितवै ॥ १७ ॥
 
मन्त्र १८[VI.iv.18]
अथ य इच्छेत्
पुत्रो मे पण्डितो विगीतः समितिङ्गमः शुश्रूषितां
वाचं भाषिता जायेत
सर्वान्वेदाननुब्रुवीत
सर्वमायुरियादिति
मासौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्
ईश्वरौ जनयितवै ।
औक्षेण वाऽऽर्षभेण वा ॥ १८ ॥
 
मन्त्र १९[VI.iv.19]
अथाभिप्रातरेव स्थालीपाकावृताऽऽज्यं चेष्टित्वा
स्थालीपाकस्योपघातं जुहोत्य्
अग्नये स्वाहा
ऽनुमतये स्वाहा
देवाय सवित्रे सत्यप्रसवाय स्वाहेति
हुत्वोद्धृत्य प्राश्नाति ।
प्राश्येतरस्याः प्रयच्छति ।
प्रक्षाल्य पाणी
उदपात्रं पूरयित्वा
तेनैनां त्रिरभ्युक्षत्य्
उत्तिष्ठातो
विश्वावसो
ऽन्यामिच्छ प्रपूर्व्या
सं जायां पत्या सहेति ॥ १९ ॥
 
मन्त्र २०[VI.iv.20]
अथैनामभिपद्यते
ऽमोऽहमस्मि
सा त्व
सा त्वमस्य्
अमोऽह
सामाहमस्मि
ऋक्त्वम्
द्यौरहम्
पृथिवी त्वम् ।
तावेहि सरभावहै
सह रेतो दधावहै
पुसे पुत्राय वित्तय इति ॥ २० ॥
 
मन्त्र २१[VI.iv.21]
अथास्या ऊरू विहापयति
विजिहीथां द्यावापृथिवी इति ।
तस्यामर्थं निष्ठाय
मुखेन मुख सन्धाय
त्रिरेनामनुलोमामनुमार्ष्टि
विष्णुर्योनिं कल्पयतु
त्वष्टा रूपाणि पिशतु
आसिञ्चतु प्रजापतिर्
धाता गर्भं दधातु ते ।
गर्भं धेहि
सिनीवालि
गर्भं धेहि
पृथुष्टुके ।
गर्भं ते आश्विनौ देवाव्
आधत्तां पुष्करस्रजौ ॥ २१ ॥
 
मन्त्र २२[VI.iv.22]
हिरण्मयी अरणी
याभ्यां निर्मन्थतामाश्विनौ
तं ते गर्भ हवामहे
दशमे मासि सूतये ।
यथाऽग्निगर्भा पृथिवी
यथा द्यौरिन्द्रेण गर्भिणी
वायुर्दिशां यथा गर्भ
एवं गर्भं दधामि ते
ऽसाविति ॥ २२ ॥
 
मन्त्र २३[VI.iv.23]
सोष्यन्तीमद्भिरभ्युक्षति
यथा वायुः पुष्करिणी
समिङ्गयति सर्वतः ।
एवा ते गर्भ एजतु
सहावैतु जरायुणा ।
इन्द्रस्यायं व्रजः कृतः
सार्गलः सपरिश्रयः ।
तम्
ईन्द्र
निर्जहि
गर्भेण सावरा सहेति ॥ २३ ॥
 
मन्त्र २४[VI.iv.24]
जातेऽग्निमुपसमाधायाङ्क आधाय
कसे पृषदाज्य सन्नीय
पृषदाज्यस्योपघातं जुहोत्य्
अस्मिन्सहस्रं पुष्यासम्
एधमानः स्वे गृहे ।
अस्योपसन्द्यां मा च्छैत्सीत्
प्रजया च पशुभिश्च
स्वाहा ।
मयि प्राणास्त्वयि मनसा जुहोमि
स्वाहा ।
यत् कर्मणाऽत्यरीरिचम्
यद्वा न्यूनमिहाकरम् ।
अग्निष्टत्स्विष्टकृद्विद्वान्
स्विष्ट सुहुतं करोतु नः
स्वाहेति ॥ २४ ॥
 
मन्त्र २५[VI.iv.25]
अथास्य दक्षिणं कर्णमभिनिधाय
वाग्वागिति त्रिर्
अथ
दधि मधु घृत सन्नीयानन्तर्हितेन जातरूपेण प्राशयति ।
भूस्ते दधामि
भुवस्ते दधामि
स्वस्ते दधामि
भूर्भुवः स्वः सर्वं त्वयि दधामीति ॥ २५ ॥
 
मन्त्र २६[VI.iv.26]
अथास्य नाम करोति
वेदोऽसीति ।
तदस्यैतद्गुह्यमेव नाम भवति ॥ २६ ॥
 
 
मन्त्र २७[VI.iv.27]
अथैनं मात्रे प्रदाय स्तनं प्रयच्छति
यस्ते स्तनः शशयो यो मयोभूर्
यो रत्नधा वसुविद्यः सुदत्रो
येन विश्वा पुष्यसि वार्याणि
सरस्वति
तमिह धातवे करिति ॥ २७ ॥
 
मन्त्र २८[VI.iv.28]
अथास्य मातरमभिमन्त्रयते ।
इलाऽसि मैत्रावरुणी
वीरे वीरमजीजनत् ।
सा त्वं वीरवती भव
याऽस्मान्वीरवतोऽकरदिति ।
तं वा एतमाहुर्
अतिपिता बताभूर्
अतिपितामहो बताभूः ।
परमां बत काष्ठां प्रापयच्छ्रिया यशसा ब्रह्मवर्चसेन
य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ २८ ॥
 
इति चतुर्थं ब्राह्मणम् ॥
 
'''पञ्चमं ब्राह्मणम्'''
 
मन्त्र १[VI.v.1]
अथ वशः ।
पौतिमाषीपुत्रः कात्यायनीपुत्रात्
कात्यायनीपुत्रो गौतमीपुत्राद्
गौतमीपुत्रो भारद्वाजीपुत्राद्
भारद्वाजीपुत्रः पाराशरीपुत्रात्
पाराशरीपुत्र औपस्वस्तीपुत्राद्
औपस्वस्तीपुत्रः पाराशरीपुत्रात्
पाराशरीपुत्रः कात्यायनीपुत्रात्
कात्यायनीपुत्रः कौशिकीपुत्रात्
कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च
वैयाघ्रपदीपुत्रः काण्वीपुत्राच्च कापीपुत्राच्च
कापीपुत्रः ॥ १ ॥
 
मन्त्र २[VI.v.2]
आत्रेयीपुत्राद्
आत्रेयीपुत्रो गौतमीपुत्राद्
गौतमीपुत्रो भारद्वाजीपुत्राद्
भारद्वाजीपुत्रः पाराशरीपुत्रात्
पाराशरीपुत्रो वात्सीपुत्राद्
वात्सीपुत्रः पाराशरीपुत्रात्
पाराशरीपुत्रो वार्कारुणीपुत्राद्
वार्कारुणीपुत्रो वार्कारुणीपुत्राद्
वार्कारुणीपुत्र आर्तभागीपुत्राद्
आर्तभागीपुत्रः शौङ्गीपुत्राच्
चौङ्गीपुत्रः साङ्कृतीपुत्रात्
साङ्कृतीपुत्र आलम्बायनीपुत्राद्
आलम्बायनीपुत्र आलम्बीपुत्राद्
आलम्बीपुत्रो जायन्तीपुत्राज्
जायन्तीपुत्रो माण्डूकायनीपुत्रान्
माण्डूकायनीपुत्रो माण्डूकीपुत्रान्
माण्डूकीपुत्रः शाण्डिलीपुत्राच्
छाण्डिलीपुत्रो राथीतरीपुत्राद्
राथीतरीपुत्रो भालुकीपुत्राद्
भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्यां
क्रौञ्चिकीपुत्रौ वैदभृतीपुत्राद्
वैदभृतीपुत्रः कार्शकेयीपुत्रात्
कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात्
प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात्
साञ्जीवीपुत्रः प्राश्नीपुत्रादासुरिवासिनः
प्राश्नीपुत्र आसुरायणाद्
आसुरायण आसुरेर्
आसुरिः ॥ २ ॥
 
मन्त्र ३[VI.v.3]
याज्ञवल्क्याद्
याज्ञवल्क्य ऊद्दालकाद्
ऊद्दालकोऽरुणाद्
अरुण उपवेशेर्
उपवेशिः कुश्रेः
कुश्रिर्वाजश्रवसो
वाजश्रवा जीह्वावतो बाध्योगाज्
जीह्वावान्बाध्योगोऽसिताद्वार्षगणाद्
असितो वार्षगणो हरितात्कश्यपाद्द्
हरितः कश्यपः शिल्पात्कश्यपाच्
छिल्पः कश्यपः कश्यपान्नैध्रुवेः
कश्यपो नैध्रुविर्वाचो
वागम्भिण्याः
अम्भिण्यादित्याद्
आदित्यानीमानि शुक्लानि यजूषि वाजसनेयेन
याज्ञवल्क्येनाऽऽख्ययन्ते ॥ ३ ॥
 
मन्त्र ४[VI.v.4]
समानमा साञ्जीवीपुत्रात्
सञ्जिवीपुत्रो माण्डूकायनेर्
माण्डूकायनिर्माण्डव्यान्
माण्डव्यः कौत्सात्
कौत्सो माहित्थेर्
माहित्थिर्वामकक्षायणाद्
वामकक्षायणः शाण्डिल्याच्
छाण्डिल्यो वात्स्याद्
वात्स्यः कुश्रेः
कुश्रिर्यज्ञवचसो राजस्तम्बायनाद्
यज्ञवचा राजस्तम्बायनस्तुरात्कावषेयात्
तुरः कावषेयः प्रजापतेः
प्रजापतिर्ब्रह्मणो
ब्रह्म स्वयम्भु ।
ब्रह्मणे नमः ॥ ४ ॥
 
इति पञ्चमं ब्राह्मणम् ॥
 
इति बृहदारण्यकोपनिषदि षष्ठोऽध्यायः ॥
 
इति वाजसनेयके बृहदारण्यकोपनिषत्समाप्ता ॥
४५

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/101715" इत्यस्माद् प्रतिप्राप्तम्