"कथासरित्सागरः/लम्बकः १/तरङ्गः ८" इत्यस्य संस्करणे भेदः

(अपरिष्कृतम्) <poem><span style="font-size: 14pt; line-height:200%">एवं गुणाड्यव... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः २:
<poem><span style="font-size: 14pt; line-height:200%">एवं गुणाड्यवचसा साथ सप्तकथामयी । स्वभाषया कथा दिव्या कथिता काणभूतिना ।। १ तथैव च गुणाढ्येन पैशाच्या भाषया तया । निबद्धा सप्तभिर्वर्षैर्ग्रन्थलक्षाणि सप्त सा ।। २ मैतां विद्याधरा हार्षुरिति तामात्मशोणितैः । अटव्यां मष्यभावाच्च लिलेख स महाकविः ।। ३ तथा च श्रोतुमायातैः सिद्धविद्याधरादिभिः । निरन्तरमभूत्तत्र सवितानमिवाम्बरम् ।। ४ गुणाड्येन निबद्धां च तां दृष्ट्वैव महाकथाम् । जगाम मुक्तशापः सन्काणभूतिर्निजां गतिम् ।। ५ पिशाचा येऽपि तत्रासन्नन्ये तत्सहचारिणः । तेऽपि प्रापुर्दिवं सर्वे दिव्यामाकर्ण्य तां कथाम् ।। ६ प्रतिष्ठां प्रापणीयैषा पृथिव्यां मे बृहत्कथा । अयमर्थोऽपि मे देव्या शापान्तोक्तावुदीरितः ।। ७ तत्कथं प्रापयाम्येनां कस्मै तावत्समर्पये । इति चाचिन्तयत्तत्र स गुणाढ्यो महाकविः ।। ८
23
अथैको गुणदेवाख्यो नन्दिदेवाभिधः परः ।
तमूचतुरुपाध्यायं शिष्यावनुगतावुभौ ।।९
तत्काव्यस्यार्पणस्थानमेकः श्रीसातवाहतः ।
रसिको हि वहेत्काव्यं पुष्पामोदमिवानिलः ।।१०
एवमस्त्विति तौ शिष्यावन्तिकं तस्य भूपतेः ।
प्राहिणोत्पुस्तकं दत्त्वा गुणाढ्यो गुणशालिनौ ।।११
स्वयं च गत्वा तत्रैव प्रतिष्ठानपुराद्बहिः ।
कृतसंकेत उद्याने तस्थौ देवीविनिर्मिते ।।१२
तच्छिष्याभ्यां च गत्वा तत्सातवाहनभूपतेः ।
गुणाढ्यकृतिरेषेति दर्शितं काव्यपुस्तकम् ।।१३
पिशाचभाषां तां श्रुत्वा तौ च दृष्ट्वा तदाकृती ।
विद्यामदेन सासूयं स राजैवमभाषत ।।१४
प्रमाणं सप्तलक्षाणि पैशाचं नीरसं वचः ।
शोणितेनाक्षरन्यासो धिक्पिशाचकथामिमाम् ।।१५
ततः पुस्तकमादाय गत्वा ताभ्यां यथागतम् ।
शिष्याभ्यां तद्गुणाढ्याय यथावृत्तमकथ्यत ।।१६
 
गुणाड्योऽपि तदाकर्ण्य सद्यः खेदवशोऽभवत् । तत्त्वलेन कृतावज्ञः क नामान्तन स्त' ।। १७ सशिष्यश्च ततो गत्वा नातिदूरं शिलोच्चयम् । विविक्तरम्यभूभागमग्निकुण्डं व्यधात्पुरः ।। १८ तत्राग्नौ पत्त्रमेकैकं शिष्याभ्यां साश्रु वीक्षितः । वाचयित्वा स चिक्षेप श्रावयन्मृगपक्षिणः ।। १९ नरवाहनदत्तस्य चरितं शिष्ययोः. कृते । ग्रन्थलक्षं कथामेकां वर्जयित्वा तदीप्सिताम् ।। २० तस्मिंश्च तां कथां दिव्यां पठत्यपि दहत्यपि । परित्यक्ततृणाहाराः शृण्वन्तः साश्रुलोचनाः ।। २१ आसन्नभ्येत्य तत्रैव निश्चला बद्धमण्डलाः । निखिलाः खलु सारङ्गवराहमहिषादयः ।। २२ अत्रान्तरे च राजाभूदस्त्रस्थः सातवाहनः । दोषं चास्यावदन्वैद्याः शुष्कमांसोपभोगजम् ।। २३ आक्षिप्तास्तन्निमित्तं च सूपकारा बभाषिरे । अस्माकमीदृशं मांसं ददते लुब्धका इति ।। २४ पृष्टाश्च लुब्धका ऊचुर्नातिदूरे गिरावितः । पठित्वा पत्त्रमेकैकं कोऽप्यग्नौ क्षिपति द्विजः ।। २५ तत्समेत्य निराहाराः शृण्वन्ति प्राणिनोऽखिलाः । नान्यतो यान्ति तेनैषां शुष्कं मांसमिदं क्षुधा ।। २६ इति व्याधवचः श्रुत्वा कृत्वा तानेव चाग्रतः । स्वयं स कौतुकाद्राजा गुणाढ्यस्यान्तिकं ययौ ।। २७ ददर्श तं समाकीर्णं जटाभिर्वनवासतः । प्रशान्तशेषशापाग्निधूमिकाभिरिवाभितः ।। २८ अथैनं प्रत्यभिज्ञाय सबाष्पमृगमध्यगम् । नमस्कृत्य च पप्रच्छ तं वृत्तान्तं महीपतिः ।। २९ सोऽपि स्वं पुष्पदन्तस्य राहो शापादिचेष्टितम् । ज्ञानी कथावतारं तमाचख्यौ भूतभाषया ।। ३० ततो गणावतारं तं मत्वा पादानतो नृपः । ययाचे तां कथां तस्माद्दिव्यां हरमुखोद्गताम् ।। ३१ अथोवाच स तं भूपं गुणाढ्यः सातवाहनम् । राजन्यडग्र्न्थलक्षाणि मया दग्धानि षट् कथाः ।। ३२ लक्षमेकमिदं त्वस्ति कथैका सैव गृह्यताम् । मच्छिष्यौ तव चात्रैतौ व्याख्यातारौ भविष्यतः ।। ३३ इत्युक्त्वा नृपमामडय त्यक्त्वा योगेन तां तनुम् । गुणाढ्यः शापनिर्मुक्तः प्राप दिव्यं निजं पदम् ।। ३४
अथ तां गुणाढ्यदत्तामादाय कथां बृहत्कथा नाम्ना ।