"पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०३४" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य पद्मपुराणम्/उत्तर खण्ड/अध्यायः ३४ पृष्ठं [[पद्मपुराणम्/खण्डः...
No edit summary
पङ्क्तिः १:
{{header
अपूर्ण
| title = [[../../]]
<big><big><big><poem>
| author = वेदव्यासः
| translator =
| section = अध्यायः ०३४
| previous = [[../अध्यायः ०३३|अध्यायः ०३३]]
| next = [[../अध्यायः ०३५|अध्यायः ०३५]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">नारद उवाच-
त्रिस्पृशाख्यं व्रतं ब्रूहि सर्वेश्वर विशेषतः
यच्छ्रुत्वा मुच्यते लोकः कर्मबंधनतः क्षणात् १
महादेव उवाच-
सर्वपापौघशमनं महादुःखविनाशनम्
शृणु कृष्णावतारं त्वं त्रिस्पृशाख्यं महाव्रतम् २
कामदं सस्पृहाणां तु निस्पृहाणां तु मोक्षदम्
त्रिस्पृशाख्यं व्रतं विप्र शृणुष्व गदतो मम ३
प्रत्यक्षमर्चितस्तेन कलिकाले च केशवः
त्रिस्पृशा कीर्तनं नित्यं यः करोति महामुने ४
न पुरश्चरणे चीर्णे सर्वपापक्षयो भवेत्
त्रिस्पृशा नाममात्रेण क्षीयते नात्र संशयः ५
नागमैर्न पुराणाद्यैर्न मखैस्तीर्थकोटिभिः
बहुभिर्व्रतसंघैश्च पूजितैस्त्रिदशैरपि ६
मोक्षो भवति विप्रेन्द्र त्रिस्पृशा न कृता यदि
मोक्षार्थे देवदेवेन दृष्टा वै वैष्णवी तिथिः ७
द्विजानां दुर्विदं सांख्यं कलिकाले विशेषतः
अनिग्रहश्चेंद्रियाणां स्थिरत्वं मनसो नहि ८
विषयैर्विप्रयुक्तानां ध्यानधारणवर्जिनाम्
कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी ९
मह्यं चैव पुरा प्रोक्ता चतुर्वक्त्रस्य सागरे
क्षीरोदे प्रणतानां तु मत्स्यरूपेण चक्रिणा १०
त्रिस्पृशां ये करिष्यंति विषयैरपि संयुताः
तेषामपि मया दत्तो मोक्षः सांख्यविवर्जिनाम् ११
कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी
बहुभिर्मुनिसंघैश्च कृतेयं च महामुने १२
कार्त्तिके शुक्लपक्षे तु त्रिस्पृशा जायते यदि
सोमेन सोमजेनापि पापकोटिविनाशिनी १३
यस्या उपोषणकृतो हत्यायुक्त महेशितुः
हस्ताद्ब्रह्मकपालं तु तत्क्षणात्पतितं भुवि १४
कलिकल्मषकोट्यौघैर्मुक्ता देवी त्रिमार्गगा
उपदेशान्माधवस्य त्रिस्पृशा समुपोषणात् १५
हत्याष्टौ बाहुवीर्यस्य पूर्वजाता महामुने
गता भृगूपदेशेन त्रिस्पृशा समुपोषणात् १६
शतायुधेन विप्रेंद्र निहतो ब्राह्मणो वने
ब्रह्महत्याविनिर्मुक्तः त्रिस्पृशा समुपोषणात् १७
जीवोपदेशाच्छक्रस्य हत्या नमुचिसंभवा
विनष्टा मुनिमुख्येन्द्र त्रिस्पृशा समुपोषणात् १८
ब्रह्महत्यादि पापानि त्रिस्पृशासमुपोषणात्
विलयं यांति विप्रेंद्र पापेष्वन्येषु का कथा १९
न प्रयागे न काश्यां तु गोमत्यां कृष्णसंनिधौ
मोक्षो भवति विप्रेंद्र त्रिस्पृशा यदि नो कृता २०
मरणाच्च प्रयागे तु गोमत्यां कृष्णसन्निधौ
स्नानमात्रेण गोमत्यां मुक्तिर्भवति शाश्वती २१
गृहेपि जायते मुक्तिस्त्रिस्पृशा समुपोषणात्
विषये वर्त्तमानस्य कामभोगान्वितस्य च २२
निवृत्तविषयस्यापि मुक्तिः सांख्येन दुर्ल्लभा
तस्मात्कुरुष्व विप्रेंद्र त्रिस्पृशां मोक्षदायिनीम् २३
नारद उवाच-
कीदृशं तत्सुरश्रेष्ठ त्रिस्पृशाख्यं महाव्रतम्
Line ८६ ⟶ १४१:
पलेन च पलार्धेन तदर्द्धेनापि वापगे
प्रतिमा मम सौवर्णा कार्या विभवसारतः ६०
पात्रं ताम्रमयं कार्यं तिलैस्तु परिपूरितम्
सजलं तु घटं शुभ्रं पंचरत्नसमन्वितम् ६१
वेष्टितं पुष्पमालाभिः कर्पूरागुरुवासितम्
न्यसेद्दामोदरं पश्चात्स्नापयित्वा विलिप्य च ६२
परिधानं ततः कार्यं वस्त्रयुग्मेन चान्वितम्
मंत्रैस्तु पूजनं कार्यं पुराणैः समुदीरितैः
पुष्पैः कालोद्भवैः शुभ्रैस्तुलसीपत्रैश्च कोमलैः ६३
छत्रं तु विष्णवे दद्यात्पादुकाभ्यां सुसंयुतम्
निवेद्यानि मनोज्ञानि फलानि सुबहून्यपि ६४
उपवीतं तु दातव्यं सोत्तरीयं नवं दृढम्
वैणवं दापयेद्दंडं सुरूपं सोन्नतं दृढम् ६५
दामोदराय वै पादौ जानुनी माधवाय च
गुह्यं कामप्रदायेति कटिं वामनमूर्तये ६६
पद्मनाभाय नाभिं तु जठरं विश्वयोनये
हृदयं ज्ञानगम्याय कंठं वैकुंठगामिने ६७
सहस्रबाहवे बाहू चक्षुषी योगरूपिणे
संपूज्य विधिवद्भक्त्या दद्यादर्घं विधानतः ६८
शुभ्रेण नालिकेरेण शंखोपरि स्थितेन हि
सूत्रैरावेष्टितेनैव हस्तयोरुभयोरपि ६९
स्मृतो हरसि पापानि यदि नित्यं जनार्दन
दुःस्वप्नं दुर्निमित्तानि मनसा दुर्विचिन्विता ७०
नारकं तु भयं देव भयदुर्गतिसंभवम्
यन्मम स्यान्महादेव ऐहिकं पारलौकिकम् ७१
तेन देवेश मां रक्ष गृहाणार्घं नमोस्तु ते
कृपादृष्टिः सदैवास्तु दामोदर ममोपरि ७२
धूपं दीपं च नैवेद्यं कुर्यान्नीराजनं ततः
शीर्षोपरि सरिच्छ्रेष्ठे भ्रामयेद्वारिजं हरेः ७३
कृत्वा विधानमेतद्धि पूजयेत्स्वगुरुं ततः
दद्यात्सुवर्णं वस्त्राणि सोष्णीषं चैव कंचुकम् ७४
उपानहोऽपि छत्रं च मुद्रिकां च कमंडलुम्
भोजनं चैव तांबूलं सप्तधान्यं च दक्षिणाम् ७५
गुरुं संपूज्य देवेशं कुर्याज्जागरणं हरेः
गीतनृत्यसमायुक्तं तथा शास्त्रसमन्वितम् ७६
निशांते चैव देवाय दत्वा चार्घं विधानतः
स्नानादिकां क्रियां कृत्वा भुंजीयाद्वाडवैः सह ७७
शिव उवाच-
द्विजैतत्त्रिस्पृशाख्यानमद्भुतं रोमहर्षणम्
श्रुत्वा तु लभते पुण्यं गंगां स्नानसमुद्भवम् ७८
अश्वमेधसहस्राणि वाजपेयशतानि च
तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात् ७९
पितृपक्षो मातृपक्षस्तथा चैवात्मपक्षकः
तैः सर्वैः सह संमुक्तो विष्णुलोके महीयते ८०
तीर्थकोटिषु यत्पुण्यं क्षेत्रकोटिषु यत्फलम्
तत्फलं समवाप्नोति त्रिस्पृशा समुपोषणात् ८१
ब्राह्मणा येऽपि कुर्वंति क्षत्रियाः कृष्णमानसाः
वैश्या वा शूद्रजन्मानो ये तथा चान्यजातयः ८२
ते सर्वे मुक्तिमायांति भुवं त्यक्त्वा द्विजोत्तम
मंत्राणां मंत्रराजोऽथ यथा स्याद्द्वादशाक्षरः ८३
व्रतानां च यथा चैषा येन वै त्रिस्पृशा कृता
ब्रह्मणा च कृता पूर्वं पश्चाद्राजर्षिभिः कृता ८४
अन्येषां का कथा वत्स त्रिस्पृशा मुक्तिदायिनी
अनेन विधिना ब्रह्मंस्त्रिस्पृशासंभवं व्रतम् ८५
यः करोति नरो भक्त्या शृणु वक्ष्यामि तत्फलम्
गंगावगाहने ब्रह्मन्वाराणस्यां तु यत्फलम् ८६
मन्वंतरसहस्रैस्तु त्रिस्पृशाकारको हि तत्
प्राची च यमुना स्नाने वर्षैर्यत्कोटिभिः फलम् ८७
तत्फलं समवाप्नोति त्रिस्पृशाव्रतकृन्नरः
तत्फलं तु कुरुक्षेत्रे सूर्यग्रहणकोटिभिः ८८
हेमभारशतैर्दानैस्त्रिस्पृशाकरणेन तत्
पापकोटिसहस्राणि हत्याकोटिशतानि च ८९
एकेनैवोपवासेन क्रियते भस्मसाद्द्रुतम्
त्रिस्पृशाया व्रतं यत्तु अगतीनां गतिप्रदम् ९०
गतिमिच्छंति विप्रर्षे महत्पापशतानि च
स्वयं कृष्णेन कथितं पाराशर्यस्य चाग्रतः ९१
प्रकाशयति यश्चेदं लिखित्वा वैष्णवं द्विजे
पापोघैर्ग्रथितस्यापि तस्य मुक्तिर्भविष्यति ९२
पुण्यैरवाप्यते विद्वन्मन्वंतरशतैरपि
त्रिस्पृशा दुर्लभा लोके प्राप्यते नैव मानवैः ९३
कलौ ये त्रिस्पृशां लब्ध्वा न कुर्वंति नराधमाः
तेषां जन्मफलं चैव जीवितं विफलं भवेत् ९४
प्रेतत्वं तैः समुत्तीर्णं विना श्राद्धैर्विना सुतैः
कृता यैस्त्रिस्पृशा विद्वन्सकृत्प्राप्य कलौ युगे ९५
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे त्रिस्पृशाख्यानंनाम चतुस्त्रिंशोऽध्यायः ३४
 
</poemspan></big></big></bigpoem>