"पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २२६" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य पद्मपुराणम्/उत्तर खण्ड/अध्यायः २२६ पृष्ठं [[पद्मपुराणम्/खण्ड...
No edit summary
पङ्क्तिः १:
{{header
<poem><span style="font-size: 14pt; line-height: 170%">
| title = [[../../]]
| author = वेदव्यासः
| translator =
| section = अध्यायः २२६
| previous = [[../अध्यायः २२५|अध्यायः २२५]]
| next = [[../अध्यायः २२७|अध्यायः २२७]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 170200%">
अपूर्ण
षड्विंशत्यधिकद्विशततमोऽध्यायः 6.226
Line १०९ ⟶ ११८:
गतिरालंबनं तेषांतस्मान्नारयणः स्मृतः
नराज्जातानि तत्वानि नाराणीति विदुर्बुधाः ५३
तान्येव चायनं तस्य तेन नारायणस्स्मृतः
कल्पांतेपि जगत्कृत्स्नं ग्रसित्वा येन धार्यते ५४
पुनः संसृज्यते येन स वै नारायणः स्मृतः
चराचरं जगत्कृत्स्नं नार इत्यभि धीयते ५५
तस्य वासं गतिर्येन तेन नारायणः स्मृतः
नारो नराणां संघातस्तस्यासावयनं गतिः ५६
तेनासौ मुनिभिर्नित्यं नारायण इतीरितः
प्रभवन्ति यतो लोका महाब्धौ पृथुफेनवत् ५७
पुनर्यस्मात्प्रलीयन्ते तस्मान्नारायणः स्मृतः
यो वै नित्यपदे नित्यो नित्यमुक्तैकभोगवान् ५८
ईशः सर्वस्य जगतः स वै नारायणः स्मृतः
नारायणः परंब्रह्म तत्वं नारायणः परम् ५९
यच्च किंचिज्जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा
अंतर्बंहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ६०
अपहतपाप्मा पुरुषः सर्वभूतांतरस्थितः
दिव्यएकस्सदा नित्यो हरिर्नारायणोऽच्युतः ६१
यस्तु द्रष्टा च द्रष्टव्यं श्रोता श्रोतव्यमेव च
स्प्रष्टा च स्पर्शितव्यश्च ध्याता ध्यातव्यमेव च ६२
वक्ता च वाच्यं ज्ञाता च ज्ञातव्यं चिदचिज्जगत्
तच्च सर्वं हरिः श्रीशो नारायण उदाहृतः ६३
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
स लोकान्सर्वतो व्याप्य अत्यतिष्ठद्दशांगुलम् ६४
यद्भूतं यच्च भव्यं तत्सर्वं नारायणो हरिः
उतामृतत्वस्येशानो यदन्नेन विराट्पुमान् ६५
स एव पुरुषो विष्णुर्वासुदेवोऽच्युतो हरिः
हिरण्मयोऽथ भगवान्सोऽमृतः शाश्वतः शिवः ६६
पतिर्विश्वस्य जगतः सर्वलोकेश्वरं प्रभुः
हिरण्यगर्भाः सविता अनंतोऽसौ महेश्वरः ६७
भगवानिति शब्दोऽयं तथा पुरुष इत्यपि
वर्त्तते निरुपाधिश्च वासुदेवोऽखिलात्मनि ६८
ईश्वरो भगवान्विष्णुः परमात्मा जगत्सुहृत्
शास्ता चराचरस्यैको यतीनां परमा गतिः ६९
यो वेदादौ स्वरः प्रोक्तो वेदांते च प्रतिष्ठितः
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ७०
योसावकारो वै विष्णुर्योऽसौ नारायणो हरिः
स एव पुरुषो नित्यः परमात्मा महेश्वरः ७१
यस्मादुद्भूतमैश्वर्यं यस्मिन्कस्मिंश्च वर्तते
तस्मिन्नीश्वरशब्दोऽपि प्रोच्यते मुनिभिस्तथा
निरुपाधीश्वरत्वं हि वासुदेवे प्रतिष्ठितम् ७२
आत्मेश्वर इति प्रोक्तो वेदवादैः सनातनैः
तस्मान्महेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ७३
असौ त्रिपाद्विभूतेस्तु लीलया अपि चेश्वरः
विभूतिद्वयमैश्वर्यं तस्यैव सकलात्मनः ७४
श्रीभूनीलापतिर्योसावीश्वरस्स उदाहृतः
तस्मात्सर्वेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ७५
असौ यज्ञेश्वरो यज्ञो यज्ञभुक्यज्ञकृद्विभुः
यज्ञभुग्यज्ञपुरुषः स एव परमेश्वरः ७६
यज्ञेश्वरो हव्यसमस्तकव्यभोक्ता व्ययात्मा हरिरीश्वरोऽत्र
तत्संनिधानादपयांति सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वे ७७
योऽसौ विराट्त्वमापन्नो हरिर्भूतो जनार्दनः
संतर्पयति लोकांस्त्रीन्स एव परमेश्वरः ७८
येन पूर्णेन हविषा देवा यज्ञमतन्वत
तस्माद्यज्ञात्समुत्पन्ना ये के चोभयादतः ७९
तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे
तस्मादश्वा अजायंत गावश्च पुरुषादयः ८०
पुरुषस्य तनोरस्य सर्वयज्ञमयस्य वै
हरेः सर्वं समुद्भूतं जगत्स्थावरजंगमम् ८१
मुखबाहूरुपादाः स्युस्तस्य वर्णा यथाक्रमम्
पद्भ्यां तु पृथिवी तस्य शिरसा द्यौरजायत ८२
मनसश्चंद्रमा जातश्चक्षुषश्च प्रभाकरः
मुखादग्निः सहस्राक्षो वायुः प्राणात्सदागतिः ८३
नाभेर्विरिंचिर्गगनं जगत्सर्वं चराचरम्
यस्मात्सर्वं समुद्भूतं जगद्विष्णोः सनातनात् ८४
तस्मात्सर्वमयो विष्णुर्नारायण इतीरितः
एवं सृष्ट्वा जगत्सर्वं पुनः संग्रसते हरिः ८५
निजलीलासमुद्भूतं तान्तवं चोर्णनाभिवत्
ब्रह्माणमिंद्रं रुद्रं च यमं वरुणमेव च ८६
निगृह्य हरते यस्मात्तस्माद्धरिरहोच्यते
असावेकार्णवीभूते मायावटतले पुमान् ८७
जगत्स्वजठरे कृत्वा शेते तस्मिन्सनातनः
आसीदेको हि वै चात्र विष्णुर्नारायणोऽच्युतः ८८
न ब्रह्मा न च रुद्रश्च न देवा न महर्षयः
नेमे द्यावापृथिव्यौ च न सोमो न च भास्करः ८९
न नक्षत्राणि लोकाश्च न चांडं महदावृतम्
यस्माज्जगद्वृतं तेन सकलं हरिणा शुभे ९०
सृष्टं पुनस्तथा सर्गे तस्मान्नारायणस्स्मृतः
तस्य दास्यं चतुर्थ्यानु मंत्रे प्रोक्तं तु पार्वति ९१
दासभूतमिदं तस्य ब्रह्माद्यं सकलं जगत्
एवमर्थं विदित्वा वै पश्चान्मंत्रं प्रयोजयेत् ९२
अविदित्वा तु मन्त्रार्थं सिद्धिं नैवाधिगच्छति
न तु भुक्तिं च भक्तिं च न च मुक्तिं वरानने ९३
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे मंत्रार्थोपदेशोनाम षड्विंशत्यधिकद्विशततमोऽध्यायः २२६