"पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २२७" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य पद्मपुराणम्/उत्तर खण्ड/अध्यायः २२७ पृष्ठं [[पद्मपुराणम्/खण्ड...
No edit summary
पङ्क्तिः १:
{{header
अपूर्ण
| title = [[../../]]
<poem><span style="font-size: 14pt; line-height: 170%">
| author = वेदव्यासः
| translator =
| section = अध्यायः २२७
| previous = [[../अध्यायः २२६|अध्यायः २२६]]
| next = [[../अध्यायः २२८|अध्यायः २२८]]
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 170200%">पार्वत्युवाच-
विस्तरेण मयाचक्ष्व मंत्रार्थपदगौरवम्
ईश्वरस्य स्वरूपं च तद्विभूतिगुणांस्तथा १
तद्विष्णोः परमं धामव्यूहभेदांस्तथा हरेः
सर्वमाख्याहि तत्त्वेन मम सर्वसुरेश्वर २
ईश्वर उवाच-
शृणु देवि प्रवक्ष्यामि स्वरूपं परमात्मनः
विभूतिगुणसंघातं तदवस्थात्मकं हरेः ३
यः परः पुरुषो विष्णुर्नारायण उदाहृतः
स ईश्वरश्च जगतां परमात्मा सनातनः ४
विश्वतः पाणिपादश्च चक्षुष्मान्विश्वतः प्रभुः
विश्वानि भुवनान्यस्मिन्धामानि परमाणि वै ५
धारयन्सोऽप्यत्यतिष्ठेन्मनांसि च मनीषिणाम्
एवं बहुस्वरूपः सञ्छ्रीपतिः पुरुषोत्तमः
ईश्वरर्य्या सहभोगार्थं दिव्यमंगलरूपवान् ६
बृहच्छरीरोऽग्निसमानरूपो युवा कुमारत्वमुपेयिवान्हरिः
रेमे श्रियासौ जगतां जनन्या स्वज्योत्स्नया चंद्रइवामृतांशुः ७
अयं च जगदीश्वर्य्या कुमारो नित्ययौवनः
कंदर्प्पकोटिलावण्यः स तस्थे परमे पदे ८
भोगार्थं परमं व्योम लीलार्थमखिलं जगत्
भोगेन क्रीडया विष्णोर्विभूतिद्वयसंस्थितिः ९
भोगे नित्यस्थितिस्तस्य लीलां संहरते कदा
भोगो लीला उभौस्तस्य धार्य्येते शक्तिमत्तया १०
त्रिपाद्व्याप्तिः परे धाम्नि पादोस्येहाभवत्पुनः
त्रिपाद्विभूतिर्नित्या स्यादनित्यं पादमैश्वरम् ११
नित्यं तद्रूपमीशस्य परे धाम्नि स्थितं शुभम्
अच्युतं शाश्वतं दिव्यं सदा यौवनमाश्रितम् १२
नित्यं संभोगमीश्वर्या श्रिया भूम्या च संवृतम्
नित्यैवेषा जगन्माता विष्णोः श्रीरनपायिनी १३
यथा सर्वगतो विष्णुस्तथा लक्ष्मीश्शुभानने
ईशाना सर्वजगतो विष्णुपत्नी सदा शिवा १४
सर्वतः पाणिपादांता सर्वतोऽक्षिशिरोमुखी
नारायणी जगन्माता समस्तजगदाश्रया १५
यदपाङ्गाश्रितं सर्वं जगत्स्थावरजङ्गमम्
जगत्स्थितिलयौ यस्या उन्मीलननिमीलनात् १६
सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी
लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता १७
शून्यं तदखिलं विश्वं विलोक्य परमेश्वरी
शून्यं तदखिलं स्वेन पूरयामास तेजसा १८
सा लक्ष्मीर्धरणी चैव नीलादेवीति विश्रुता
आधारभूता जगतः पृथिवीरूपमाश्रिता १९
तोयादिरसरूपेण सैव नीलावपुर्भवेत्
लक्ष्मीरूपत्वमापन्ना धनवाग्रूपिणी हि सा २०
एवं देवीस्वरूपा सा जगतः श्रीः श्रीताहरिम्
समस्तविद्याभेदा स्युर्लक्ष्मीरूपा वरानने २१
श्रीरूपमखिलं सर्वं तस्या हि वपुरुच्यते
सौंदर्यं शीलवृत्तं च सौभाग्यं स्त्रीषु संस्थितम्
तस्या रूपं च गिरिजे सर्वासां मूर्ध्नि योषिताम् २२
यस्याः कटाक्षाय तमोग्रदृष्ट्या ब्रह्माशिवस्स्वर्गपतिर्महेंद्रः
चंद्रश्च सूर्यो धनदोपमोग्निः प्रभूतमैश्वर्यमवाप्नुवंति २३
लक्ष्मीः श्रीः कमला विद्या माता विष्णुप्रिया सती
पद्मालया पद्महस्ता पद्माक्षी लोकसुंदरी २४
भूतानामीश्वरी नित्या सह्या सर्वगता शुभा
विष्णुपत्नी महादेवी क्षीरोदतनया रमा २५
अनंता लोकमाता भूर्नीला सर्वसुखप्रदा
रुक्मिणी च तथा सीता सर्ववेदवती शुभा २६
सती सरस्वती गौरी शांतिः स्वाहा स्वधा रतिः
नारायणी वरारोहा विष्णोर्नित्यानपायिनी २७
एतानि पुण्यनामानि प्रातरुत्थाय यः पठेत्
स महाश्रियमाप्नोति धनधान्यमकल्मषम् २८
हिरण्यवर्णां हरिणीं सुवर्णरजतः स्रजाम्
चंद्रां हिरण्मयीं लक्ष्मीं विष्णोरनपगामिनीम् २९
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ३०
एवं ऋक्संहितायां तु स्तूयमाना महेश्वरी
सर्वैश्वर्यसुखं प्रादाच्छिवादीनां दिवौकसाम् ३१
अस्येशाना हि जगतो विष्णुपत्नी सनातनी
यदपाङ्गाश्रितं सर्वं जगत्स्थावरजंगमम् ३२
यस्य वक्षसि सा देवी प्रभाग्नाविव तिष्ठति
स वै सर्वेश्वरः साक्षादक्षरः पुरुषोऽव्ययः ३३
स वै नारायणः श्रीमान्वात्सल्यगुणसागरः
स्वामी सुशीलः सुभगः सर्वज्ञः सर्वशक्तिमान् ३४
नित्यं संपूर्णकामश्च नैसर्गिकसुहृत्सखा
कृपापीयूषजलधिः शरणं सर्वदेहिनाम् ३५
स्वर्गापवर्गसुखदो भक्तानां करुणाकरः
श्रीमते विष्णवे तस्मै दास्यं सर्वं करोम्यहम् ३६
देशकालाद्यवस्था तु सर्वासु कमलापतेः
इति स्वरूपं संसिद्धं सुखं दास्यमवाप्नुयात् ३७
एवं विदित्वा मंत्रार्थं तद्भक्तिं सम्यगाचरेत्
दासभूतमिदं तस्य जगत्स्थावरजंगमम् ३८
श्रीमन्नारायणः स्वामी जगतां प्रभुरीश्वरः
माता पिता सुतो बंधुर्निवासः शरणं गतिः ३९
कल्याणगुणवान्श्रीशः सर्वकामफलप्रदः
योऽसौ निर्गुण इत्युक्तः शास्त्रेषु जगदीश्वरः ४०
प्राकृतैर्हेयसंयुक्तैर्गुणैर्हीनत्वमुच्यते
यत्र मिथ्या प्रपञ्चत्वं वाक्यैर्वेदांतगोचरैः ४१
Line ८३ ⟶ १७४:
पर्य्यायवाचकान्यस्य परधाम्नोच्युतस्य च
तस्य त्रिपाद्विभूतेस्तु रूपं वक्ष्यामि विस्तरात् ८०
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरउमामहेश्वरसंवादे त्रिपाद्विभूतिकथनंनाम सप्तविंशत्यधिकद्विशततमोऽध्यायः २२७
संवादे त्रिपाद्विभूतिकथनंनाम सप्तविंशत्यधिकद्विशततमोऽध्यायः २२७
 
</span></poem>