"पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २४६" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वेदव्यासः | translator = | section = अध्य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ८:
| notes =
}}
<poem><span style="font-size: 14pt; line-height: 200%">श्रीमहेश्वर उवाच-
अथोपनयनं नाम चकारानकदुंदुभिः
पुत्रयोर्वेदविधिना तस्मिन्वै रामकृष्णयोः १
आचार्येण हि गर्गेण संस्कृतौ रामकेशवौ
पंडितैर्वैष्णवैर्दिव्यैः स्नापनैर्विमलैः शुभैः २
कृतसंस्कारकर्माणौ रामकृष्णौ महाबलौ
सांदीपनेर्गृहं गत्वा नमस्कृत्य महात्मनः ३
अधीत्य वेदशास्त्राणि तस्मात्तौ द्विजपुंगवात्
मृतं पुत्रं समानीय ददतुस्तस्य दक्षिणाम् ४
आशिषो वचनं लब्ध्वा गुरोस्तस्मान्महात्मनः
तस्मै प्रणम्य मथुरां जग्मतुर्यदुपुंगवौ ५
अथ कृष्णेन निहतं श्रुत्वा कंसं दुरासदम्
श्वशुरस्तस्य नृपतेर्जरासंधो महाबलः ६
अक्षौहिणीसहस्रैस्तु सेनानीकैर्महाबलैः
कृष्णं हंतुं समागत्य रुरोध मथुरां पुरीम् ७
रामकृष्णौ महावीर्यौ विनिर्गत्य पुरोत्तमात्
गजवाजिसमाकीर्णं तद्बलौघमपश्यताम् ८
सस्मार वासुदेवस्तु पूर्वं रूपं सनातनम्
तस्य स्मरणमात्रेण दारुको विष्णुसारथिः ९
सुग्रीवपुष्पकं नाम समानीय महारथम्
वाजिभिर्दिव्यपुष्पाद्यैरुह्यमानं सनातनम् १०
दिव्यायुधैरुपेतं तं शंखचक्रगदादिभिः
वैनतेयपताकेन शोभितं देवदुर्जयम् ११
अवनीं प्राप्य गोविंदं प्रणम्य हरिसारथिः
प्रददौ स्यंदनं शुभ्रं सायुधाश्वसमन्वितम् १२
दृष्ट्वा हर्षेण कृष्णोऽपि परिणीय महारथम्
आरुरोहाग्रजेनैव स्तूयमानो मरुद्गणैः १३
चतुर्भुजं वपुर्भूत्वा शंखचक्रगदासिभृत्
किरीटी कुंडली स्रग्वी संग्रामाभिमुखं ययौ १४
बलदेवोऽपि मुशलं लांगलं गृह्य वीर्यवान्
तत्सैन्यं हंतुमारेभे महेश्वर इवापरः १५
दारुकश्च रथं शीघ्रं नोदयामास तद्रणे
तृणगुल्मलताक्रांते काननेऽग्निमिवानिलः १६
ततो गदाभिः परिघैः शक्तिभिर्मुद्गरैस्तथा
तद्रथं छादयामासुर्जरासंधस्य सैनिकाः १७
चक्रेणैव हरिस्तूर्णं तानि चिच्छेद लीलया
बहूनि तृणकाष्ठानि महावह्निरिवार्चिषा १८
ततः शार्ङ्गं समादाय सायकैरक्षयैः शितैः
चिच्छेद तानि सैन्यानि न प्राज्ञायत किंचन १९
चक्रच्छिन्नास्यकमलाः केचित्तत्र महाबलाः
गदया चूर्णिताः केचित्केचिदन्यैर्महारणे २०
केचिच्चैवासिनाछिन्नास्तथान्ये शरताडिताः
लांगलाग्रहतग्रीवा मुशलाहतमस्तकाः २१
क्षणेन तद्बलं सर्वं निहत्य मधुसूदनः
शंखं दध्मौ यदुश्रेष्ठो लयाशनि निभस्वनम् २२
शंखरावविनिर्भिन्नहृदयास्ते महाबलाः
योधाः साश्वाः सनागाश्च पतितास्त्यक्तजीविताः २३
अक्षौहिणीसहस्रं तु साश्वं सरथकुंजरम्
कृष्णेनैकेन निहतं निःशेषं तदभूद्बलम् २४
निहतं वासुदेवेन प्रहरार्द्धेन शार्ङ्गिणा
ततो देवगणाः सर्वे हर्षनिर्भरचेतसः २५
ववृषुः पुष्पवर्षाणि साधुसाध्विति चाब्रुवन्
सर्वमप्यवनीभारं विमुच्य धरणीधरः २६
संस्तूयमानस्त्रिदशैर्बभौ संग्राममूर्द्धनि
निहतं स्वबलं दृष्ट्वा जरासंधोऽतिवीर्यवान् २७
योद्धुमभ्याययौ तूर्णं बलदेवेन दुर्मतिः
तयोर्युद्धमभूद्धोरं संग्रामेष्वनिवर्तिनोः २८
रामो लांगलमादाय रथं तस्य ससारथिम्
विनिपात्य रणे शूरो गृहीत्वा तं महाबलम् २९
उद्यम्य मुशलं तूर्णं तं हंतुमुपचक्रमे
प्राणसंशयमापन्नं जरासंधं नृपोत्तमम् ३०
कृतं रामेण बलिना सिंहेनेव महागजम्
दृष्ट्वा कृष्णोग्रजं प्राह न हंतव्य इति प्रभुः ३१
मोचयामास धर्मात्मा जरासंधं महामतिः
विमुच्य कृष्णवाक्येन शत्रुं संकर्षणोऽव्ययः ३२
सानुजो रथमारुह्य मथुरां प्रविवेश ह
स कालयवनं प्राप्य महावीर्यं बलान्वितम् ३३
पुत्रयोर्वसुदेवस्य समाचष्ट पराक्रमम्
दानवानां वधं चैव कंसस्य निधनं तथा ३४
अक्षौहिणीनां च वधं तथा स्वस्य पराजयम्
सर्वं निवेदयामास कृष्णस्य चरितं महत् ३५
तच्छ्रुत्वा यवनः क्रुद्धो महाबलपराक्रमैः
म्लेच्छकोटिसहस्रैस्तु संवृतो मदसंयुतैः ३६
मगधाधिपतेस्तस्य सहायार्थं महाबलः
तेनैव सहितस्तूर्णं जगाम मथुरां पुरीम् ३७
बलैराच्छाद्य पृथिवीं नानाजनपदान्विताम्
संनिवेश्य महासैन्यं रुरोध मथुरां पुरीम् ३८
कृष्णोऽपि चिंतयित्वाऽथ पौराणां कुशलं तदा
ययाचे सागरं भूमिं निवासार्थं जनस्य च ३९
त्रिंशद्योजनविस्तीर्णां ददौ कृष्णस्य सागरः
असृजत्पयसां मध्ये तत्र द्वारवतीं पुरीम् ४०
बहुप्रासादसंयुक्तां हेमप्राकारतोरणाम्
नानामणिमयैर्दिव्यैर्गृहपंक्तिभिरावृताम् ४१
उद्यानैश्च तथा रम्यैस्तडागैर्बहुभिर्युताम्
असृजत्पुंडरीकाक्षो यथेंद्रस्यामरावतीम् ४२
सुषुप्तान्मथुरायां तु पौरांस्तत्र जनार्दनः
उद्धृत्य सहसा रात्रौ द्वारावत्यां निवेशयत् ४३
प्रबुद्धास्ते जनाः सर्वे पुत्रदारसमन्विताः
हेमहर्म्यतलेविष्टा विस्मयं परमं ययुः ४४
बहुभिर्धनधान्यैश्च दिव्यवस्त्रविभूषणैः
परिपूर्णैरिवाभोगैर्गृहमुख्यैः समावृताः ४५
तस्मिन्प्रहृष्टाः संतस्थुर्दिवि देवगणा इव
यवनेन तदा योद्धुं रामकृष्णौ महाबलौ ४६
विनिर्ययतुरात्मेशौ मथुराया बहिस्तदा
रामो लांगलमादाय मुशलं च महारथः ४७
जघान समरे क्रुद्धो यवनानां महद्बलम्
कृष्णस्तु शार्ङ्गमासज्य बाणैरग्निशिखोपमैः ४८
निर्ददाह बलं सर्वं म्लेच्छानां देवकीसुतः
निहतं स्वबलं दृष्ट्वा स कालयवनो बली ४९
युयुधे वासुदेवेन गदया यवनेश्वरः
कृष्णोऽपि कदनं तेन कृत्वा चिरमनामयः ५० 6.246.50
विमुखः प्राद्रवत्तस्मात्संग्रामात्कमलेक्षणः
सोनुयातोऽतिवेगेन तिष्ठतिष्ठेति चाब्रुवन् ५१
वेगात्कृष्णो गिरिगुहां प्रविवेश महामतिः
तत्र प्रसुप्तो राजाऽसौ मुचुकुंदो महामुनिः ५२
अदृश्यस्तस्य नृपतेः संस्थितो भगवान्हरिः
यवनोऽपि महावीरो गदामुद्यम्य पाणिना ५३
कृष्णं हंतु समारब्धो गुहां तां प्रविवेश ह
दृष्ट्वा शयानं राजानं मत्वा कृष्णं जनार्दनम् ५४
पादेन ताडयामास मुचुकुंदं महामुनिम्
ततः प्रबुद्धो भगवान्मुचुकुंदो महामुनिः ५५
क्रोधात्संरक्तनयनो हुंकारं कृतवानसौ
तस्य हुंकारशब्देन तथा क्रोधनिरीक्षणात् ५६
निर्दग्धो भस्मतां प्राप यवनस्त्यक्तजीवितः
ततस्तु कृष्णो ददृशे राजर्षेः पुरतः प्रभुः ५७
नीलोत्पलदलश्यामः पुंडरीकनिभेक्षणः
शंखचक्रगदापाणिः पीतवासा जनार्दनः ५८
दृष्ट्वा तं सहसोत्थाय राजर्षिरमितौजसम्
अहोभाग्यमहोभाग्यमित्युवाच महामुनिः ५९
पुलकांकितसर्वांगः सानंदाश्रुजलाकुलः
स्तुवन्वै जयशब्देन प्रणनाम मुहुर्मुहुः ६०
मुचुकुंद उवाच-
धन्योस्मि कृतकृत्योस्मि दर्शनात्परमेश्वर
अद्य मे सफलं जन्म जीवितं सफलं मम ६१
नमस्ते वासुदेवाय जगन्नाथाय शार्ङ्गिणे
दामोदराय देवाय तेजसां निधये नमः ६२
अधोक्षजाय हरये नृसिंहवपुषे नमः
राघवाय नमस्तुभ्यं पुंडरीकेक्षणाय च ६३
अच्युतायाविकाराय तथानंताय ते नमः
गोविंदाय नमस्तुभ्यं विष्णवे जिष्णवे नमः ६४
नारायणाय श्रीशाय कृष्णाय परमात्मने
मुकुंदाय नमस्तुभ्यं चतुर्व्यूहाय ते नमः ६५
नमः परमकल्याण नमस्ते परमात्मने
वासुदेवाय शांताय यदूनां पतये नमः ६६
महेश्वर उवाच-
एवं स्तुत्वा तु गोविंदं प्रणनाम पुनः पुनः
संतुष्टो भगवान्प्राह मुचुकुंदं महामुनिम् ६७
श्रीभगवानुवाच-
वरं वृणीष्व राजर्षे यत्ते मनसि वर्त्तते
महेश्वर उवाच-
सोऽपि मुक्तिं ययाचाथ पुनरावृत्तिवर्जिताम् ६८
तस्मै ददौ तदा कृष्णो दिव्यं लोकं सनातनम्
राजा तु मानुषं रूपं विहायाथ महामतिः ६९
समानं रूपमास्थाय देवस्य परमात्मनः
वैनतेयं समारुह्य शाश्वतं पदमाविशत् ७०
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमाहेश्वरसंवादे श्रीकृष्णचरिते मुचुकुंदमोक्षोनाम षट्चत्वारिंशदधिकद्विशततमोऽध्यायः २४६
 
</span></poem>