"वामनपुराणम्/चतुर्विंशतितमोऽध्यायः" इत्यस्य संस्करणे भेदः

वामनपुराणम् using AWB
No edit summary
 
पङ्क्तिः १:
{{वामनपुराणम्}}
<poem><span style="font-size: 14pt; line-height:200%">ऋषय ऊचुः
देवानां ब्रूहि नः कर्म यद्वृत्तास्ते पराजिताः
कथं देवातिदेवोऽसौ विष्णुर्वामनतां गतः १
लोमहर्षण उवाच
बलिसंस्थं च त्रैलोक्यं दृष्ट्वा देवः पुरन्दरः
मेरुप्रस्थं ययौ शक्रः स्वमातुर्निलयं शुभम् २
समीपं प्राप्य मातुश्च कथयामास तां गिरम्
आदित्याश्च यथा युद्धे दानवेन पराजिताः ३
अदितिरुवाच
यद्येवं पुत्र युष्माभिर्न शक्यो हन्तुमाहवे
बलिर्विरोचनसुतः सर्वैश्चैव मरुद्गणैः ४
सहस्रशिरसा शक्यः केवलं हन्तुमाहवे
तेनैकेन सहस्राक्ष न स ह्यन्येन शक्यते ५
तद्वत् पृच्छामि पितरं कश्यपं ब्रह्मवादिनम्
पराजयार्थं दैत्यस्य बलेस्तस्य महात्मनः ६
ततोऽदित्या सह सुराः संप्राप्ताः कश्यपान्तिकम्
तत्रापश्यन्त मारीचं मुनिं दीप्ततपोनिधिम् ७
आद्यं देवगुरुं दिव्यं प्रदीप्तं ब्रह्मवर्चसा
तेजसा भास्कराकारं स्थितमग्निशिखोपमम् ८
न्यस्तदण्डं तपोयुक्तं बद्धकृष्णाजिनाम्बरम्
वल्कलाजिनसंवीतं प्रदीप्तमिव तेजसा ९
हुताशमिव दीप्यन्तमाज्यगन्धपुरस्कृतम्
स्वाध्यायवन्तं पितरं वपुष्मन्तमिवानलम् १०
ब्रह्मवादिसत्यवादिसुरासुरगुरुं प्रभुम्
ब्राह्मण्याप्रतिमं लक्ष्म्या कश्यपं दीप्ततेजसम् ११
यः स्रष्टा सर्वलोकानां प्रजानां पतिरुत्तमः
आत्मभावविशेषेण तृतीयो यः प्रजापतिः १२
अथ प्रणम्य ते वीराः सहादित्या सुरर्षभाः
ऊचुः प्राञ्जलयः सर्वे ब्रह्माणमिव मानसाः १३
अजेयो युधि शक्रेण बलिर्दैत्यो बलाधिकः
तस्माद् विधत्त नः श्रेयो देवानां पुष्टिवर्धनम् १४
श्रुत्वा तु वचनं तेषां पुत्राणां कश्यपः प्रभुः
अकरोद् गमने बुद्धिं ब्रह्मलोकाय लोककृत् १५
कश्यप उवाच
शक्र गच्छाम सदनं ब्रह्मणः परमाद्भुतम्
तथा पराजयं सर्वे ब्रह्मणः ख्यातुमुद्यताः १६
सहादित्या ततो देवायाताः काश्यपमाश्रमम्
प्रस्थिता ब्रह्मसदनं महर्षिगणसेवितम् १७
ते मुहूर्तेन संप्राप्ता ब्रह्मलोकं सुवर्चसः
दिव्यैः कामगमैर्यानैर्यथार्हैस्ते महाबलाः १८
ब्रह्माणं द्र ष्टुमिच्छन्तस्तपोराशिनमव्ययम्
अध्यगच्छन्त विस्तीर्णां ब्रह्मणः परमां सभाम् १९
षट्पदोद्गीतमधुरां सामगैः समुदीरिताम्
श्रेयस्करीममित्रघ्नीं दृष्ट्वा संजहृषुस्तदा २०
ऋचो बह्वृचमुख्यैश्च प्रोक्ताः क्रमपदाक्षराः
शुश्रुवुर्विबुधव्याघ्रा विततेषु च कर्मसु २१
यज्ञविद्यावेदविदः पदक्रमविदस्तथा
स्वरेण परमर्षीणां सा बभूव प्रणादिता २२
यज्ञसंस्तवविद्भिश्च शिक्षाविद्भिस्तथा द्विजैः
छन्दसां चैव चार्थज्ञैः सर्वविद्याविशारदैः २३
लोकायतिकमुख्यैश्च शुश्रुवुः स्वरमीरितम्
तत्र तत्र च विप्रेन्द्रा नियताः शंसितव्रताः २४
जपहोमपरा मुख्या ददृशुः कश्यपात्मजाः
तस्यां सभायामास्ते स ब्रह्मा लोकपितामहः २५
सुरासुरगुरुः श्रीमान् विद्यया वेदमायया
उपासन्त च तत्रैव प्रजानां पतयः प्रभुम् २६
दक्षः प्रचेताः पुलहो मरीचिश्च द्विजोत्तमाः
भृगुरत्रिर्वसिष्ठश्च गौतमो नारदस्तथा २७
विद्यास्तथान्तरिक्षं च वायुस्तेजो जलं महो
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च २८
प्रकृतिश्च विकारश्च यच्चान्यत् कारणं महत्
साङ्गोपाङ्गाश्च चत्वारो वेदा लोकपतिस्तथा २९
नयाश्च क्रतवश्चैव सङ्कल्पः प्राण एव च
एते चान्ये च बहवः स्वयंभुवमुपासते ३०
अर्थो धर्मश्च कामश्च क्रोधो हर्षश्च नित्यशः
शुक्रो बृहस्पतिश्चैव संवर्त्तोऽथ बुधस्तथा ३१
शनैश्चरश्च राहुश्च ग्रहाः सर्वे व्यवस्थिताः
मरुतो विश्वकर्मा च वसवश्च द्विजोत्तमाः ३२
दिवाकरश्च सोमश्च दिवा रात्रिस्तथैव च
अर्द्धमासाश्च मासाश्च ऋतवः षट् च संस्थिताः ३३
तां प्रविश्य सभां दिव्यां ब्रह्मणः सर्वकामिकाम्
कश्यपस्त्रिदशैः सार्द्धं पुत्रैर्धर्मभृतां वरः ३४
सर्वतेजोमयीं दिव्यां ब्रह्मर्षिगणसेविताम्
ब्राह्म्या श्रिया सेव्यमानामचिन्त्यां विगतक्लमाम् ३५
ब्रह्माणं प्रेक्ष्य ते सर्वे परमासनमास्थितम्
शिरोभिः प्रणता देवं देवा ब्रह्मर्षिभिः सह ३६
ततः प्रणम्य चरणौ नियताः परमात्मनः
विमुक्ताः सर्वपापेभ्यः शान्ता विगतकल्मषाः ३७
दृष्ट्वा तु तान् सुरान् सर्वान् कश्यपेन सहागतान्
आह ब्रह्मा महातेजा देवानां प्रभुरीश्वरः ३८
इति श्रीवामनपुराणे पुलस्त्यनारदसंवादे सरोमाहात्म्ये चतुर्विंशोऽध्यायः २४
 
</span></poem>
 
देवदेव उवाच।।
एवं पृथूदको देवाः पुण्यः पापभयापहः।
तं गच्छध्वं महातीर्थं यावत् संनिधिबोधितम्।। २४.१
यदा मृगशिरो ऋक्षे शशिसूर्यौ बृहस्पतिः।
तिष्ठन्ति सा तिथिः पुण्या त्वक्षया परिगीयते।। २४.२
तं गच्छध्वं सुरश्रेष्ठा यत्र प्राची सरस्वती।
पितॄनाराधयध्वं हि तत्र श्राद्धेन भक्तितः।। २४.३
ततो मुरारिवचनं श्रुत्वा देवाः सवासवाः।
समाजग्मुः कुरुक्षेत्रे पुण्यतीर्थं पृथूदकम्।। २४.४
तत्र स्नात्वा सुराः सर्वे बृहस्पतिमचोदयन्।
विशस्व भगवन् ऋक्षमिमं मृगशिरं कुरु।
पुण्यां तिथिं पापहरां तव कालोऽयमागतः।। २४.५
प्रवर्तते रविस्तत्र चन्द्रमाऽपि विशत्यसौ।
त्वदायत्तं गुरो कार्यं सुराणां तत् कुरुष्व च।। २४.६
इत्येवमुक्तो देवैस्तु देवाचार्योऽब्रवीदिदम्।
यदि वर्षाधिपोऽहं स्यां ततो यास्यामि देवताः।। २४.७
आषाढे मासि मार्गर्क्षे चन्द्रक्षयतिथिर्हि या।
तस्यां पुरंदरः प्रीतः पिण्डं पितृषु भक्तितः।। २४.८
प्रादात् तिलमधून्मिश्रं हविष्यान्नं कुरुष्वथ।
ततः प्रीतास्तु पितरस्तां प्राहुस्तनयां निजाम्।। २४.९
मेनां देवाश्च शैलाय हिमयुक्ताय वै ददुः।
तां मेनां हिमवाँल्लब्ध्वा प्रसादाद् दैवतेष्वथ।
प्रीतिमानभवच्चासौ रराम च यथेच्छया।। २४.१०
ततो हिमाद्रिः पितृकन्यया समं समर्पयन् वै विषयान् यथैष्टम्।
अजीजनत् सा तनयाश्च तिस्रो रूपातियुक्ताः सुरयोषितोपमाः।। २४.११
इति श्रीवामनपुराणे चतुर्विंशोऽध्यायः ।। २४ ।।
 
</poem>
 
[[वर्गः:वामनपुराणम्]]