"वामनपुराणम्/एकचत्वारिंशत्तमोऽध्यायः" इत्यस्य संस्करणे भेदः

वामनपुराणम् using AWB
No edit summary
पङ्क्तिः १:
{{वामनपुराणम्}}
<poem><span style="font-size: 14pt; line-height:200%">लोमहर्षण उवाच
समुद्रा स्तत्र चत्वारो दर्विणा आहृताः पुरा
प्रत्येकं तु नरः स्नातो गोसहस्रफलं लभेत् १
यत्किञ्चित् क्रियते तस्मिंस्तपस्तीर्थे द्विजोत्तमाः
परिपूर्णं हि तत्सर्वमपि दुष्कृतकर्मणः २
शतसाहस्रिकं तीर्थं तथैव शतिकं द्विजाः
उभयोर्हि नरः स्नातो गोसहस्रफलं लभेत् ३
सोमतीर्थं च तत्रापि सरस्वत्यास्तटे स्थितम्
यस्मिन् स्नातस्तु पुरुषो राजसूयफलं लभेत् ४
रेणुकाश्रममासाद्य श्रद्दधानो जितेन्द्रि यः
मातृभक्त्या च यत्पुण्यं तत्फलं प्राप्नुयान्नरः ५
ऋणमोचनमासाद्य तीर्थं ब्रह्मनिषेवितम्
ऋणैर्मुक्तो भवेन्नित्यं देवर्षिपितृसंभवैः
कुमारस्याभिषेकं च ओजसं नाम विश्रुतम् ६
तस्मिन् स्नातस्तु पुरुषो यशसा च समन्वितः
कुमारपुरमाप्नोति कृत्वा श्राद्धं तु मानवः ७
चैत्रषष्ठ्यां सिते पक्षे यस्तु श्राद्धं करिष्यति
गयाश्राद्धे च यत्पुण्यं तत्पुण्यं प्राप्नुयान्नरः ८
संनिहित्यां यथा श्राद्धं राहुग्रस्ते दिवाकरे
तथा श्राद्धं तत्र कृतं नात्र कार्या विचारणा ९
ओजसे ह्यक्षयं श्राद्धं वायुना कथितं पुरा
तस्मात् सर्वप्रयत्नेन श्राद्धं तत्र समाचरेत् १०
यस्तु स्नानं श्रद्दधानश्चैत्रषष्ठ्यां करिष्यति
अक्षय्यमुदकं तस्य पितॄणामुपजायते ११
तत्र पञ्चवटं नाम तीर्थं त्रैलोक्यविश्रुतम्
महादेवः स्थितो यत्र योगमूर्तिधरः स्वयम् १२
तत्र स्नात्वाऽर्चयित्वा च देवदेवं महेश्वरम्
गाणपत्यमवाप्नोति दैवतैः सह मोदते १३
कुरुतीर्थं च विख्यातं कुरुणा यत्र वै तपः
तप्तं सुघोरं क्षेत्रस्य कर्षणार्थं द्विजोत्तमाः १४
तस्य घोरेण तपसा तुष्ट इन्द्रो ऽब्रवीद् वचः
राजर्षे परितुष्टोऽस्मि तपसानेन सुव्रत १५
यज्ञं ये च कुरुक्षेत्रे करिष्यन्ति शतक्रतोः
ते गमिष्यन्ति सुकृताँ ल्लोकान् पापविवर्जितान् १६
अवहस्य ततः शक्रो जगाम त्रिदिवं प्रभुः
आगम्यागम्य चैवैनं भूयो भूयोऽवहस्य च १७
शतक्रतुरनिर्विण्णः पृष्ट्वा पृष्ट्वा जगाम ह
यदा तु तपसोग्रेण चकर्ष देहमात्मनः
ततः शक्रोऽब्रवीत् प्रीत्या ब्रूहि यत्ते चिकीर्षितम् १८
कुरुरुवाच
ये श्रद्दधानास्तीर्थेऽस्मिन् मानवा निवसन्ति ह
ते प्राप्नुवन्तु सदनं ब्रह्मणः परमात्मनः १९
अन्यत्र कृतपापा ये पञ्चपातकदूषिताः
अस्मिंस्तीर्थे नराः स्नात्वा मुक्ता यान्तु परां गतिम् २०
कुरुक्षेत्रे पुण्यतमं कुरुतीर्थं द्विजोत्तमाः
ते दृष्ट्वा पापमुक्तस्तु परं पदमवाप्नुयात् २१
कुरुतीर्थे नरः स्नातो मुक्तो भवति किल्बिषैः
कुरुणा समनुज्ञातः प्राप्नोति परमं पदम् २२
स्वर्गद्वारं ततो गच्छेत् शिवद्वारे व्यवस्थितम्
तत्र स्नात्वा शिवद्वारे प्राप्नोति परमं पदम् २३
ततो गच्छेदनरकं तीर्थं त्रैलोक्यविश्रुतम्
यत्र पूर्वे स्थितो ब्रह्म दक्षिणे तु महेश्वरः २४
रुद्र पत्नी पश्चिमतः पद्मनाभोत्तरे स्थितः
मध्ये अनरकं तीर्थं त्रैलोक्यस्यापि दुर्लभम् २५
यस्मिन् स्नातस्तु मुच्येत पातकैरुपपातकैः
वैशाखे च यदा षष्ठी मङ्गलस्य दिनं भवेत् २६
तदा स्नानं तत्र कृत्वा मुक्तो भवति पातकैः
यः प्रयच्छेत करकांश्चतुरो भक्ष्यसंयुतान् २७
कलशं च तथा दद्यादपूपैः परिशोभितम्
देवताः प्रीणयेत् पूर्वं करकैरन्नसंयुतैः २८
ततस्तु कलशं दद्यात् सर्वपातकनाशनम्
अनेनैव विधानेन यस्तु स्नानं समाचरेत् २९
स मुक्तः कलुषैः सर्वैः प्रयाति परमं पदम्
अन्यत्रापि यदा षष्ठी मङ्गलेन भविष्यति ३०
तत्रापि मुक्तिफलदा क्रिया तस्मिन् भविष्यति
तीर्थे च सर्वतीर्थानां यस्मिन् स्नातो द्विजोत्तमाः ३१
सर्वदेवैरनुज्ञातः परं पदमवाप्नुयात्
काम्यकं च वनं पुण्यं सर्वपातकनाशनम् ३२
यस्मिन् प्रविष्टमात्रस्तु मुक्तो भवति किल्बिषैः
यमाश्रित्य वनं पुण्यं सविता प्रकटः स्थितः ३३
पूषा नाम द्विजश्रेष्ठा दर्शनान्मुक्तिमाप्नुयात्
आदित्यस्य दिने प्राप्ते तस्मिन् स्नातस्तु मानवः
विशुद्धदेहो भवति मनसा चिन्तितं लभेत् ३४
इति श्रीवामनपुराणे सरोमाहात्म्ये एकचत्वारिंशत्तमोऽध्यायः
 
</span></poem>
पुलस्त्य उवाच।।
हरोऽपि शम्बरे याते समाहूयाथ नन्दिनम्।
प्राहामन्त्रय शैलादे ये स्थितास्तव शासने।। 41.1
ततो महेशवचनान्नन्दी तूर्णतरं गतः।
उपस्पृश्य जलं श्रीमान् सस्मार गणनायकान्।। 41.2
नन्दिना संस्मृताः सर्वे गणनाथाः सहस्रशः।
समुत्पत्य त्वरायुक्ताः प्रणतास्त्रिदसेश्वरम्।। 41.3
आगतांश्च गणान्नन्दी कृताञ्जलिपुटोऽव्ययः।
सर्वान् निवेदयामास शंकराय महात्मने।। 41.4
नन्द्युवाच।।
यानेतान् पश्यसे शंभो त्रिनेत्राञ्जटिलाञ्शुचीन्।
एते रुद्रा इति ख्याताः कोट्य एकादशैव तु ।। 41.5
वानरास्यान् पश्यसे यान् शार्दूलसमविक्रमान्।
एतेषां द्वारपालास्ते मन्नामानो यशोधनाः।। 41.6
षण्मुखान् पश्यसे यांश्च शक्तिपाणीञ्शिखिध्वजान्।
षट् च षष्टिस्तथा कोट्यः स्कन्दनाम्नः कुमारकान्।। 41.7
एतावत्यस्तथा कोट्य शाखा नाम षडाननाः।
विशाखास्तावदेवोक्ता नैगमेयाश्च शंकर।। 41.8
सप्तकोटिशतं शंभो अमी वै प्रमथोत्तमाः।
एकैकं प्रति देवेश तावत्यो ह्यपि मातरः।। 41.9
भस्मारुणितदेहाश्च त्रिनेत्राः शूलपाणयः।
एते शैवा इति प्रोक्तास्तव भक्ता गणेश्वराः।। 41.10
तथा पाशुपताश्चान्ये भस्मप्रहरणा विभो।
एते गणास्त्वसंख्याताः सहायार्थं समागताः।। 41.11
पिनाकधारिणो रौद्रा गणाः कालमुखापरे।
तव भक्ताः समायाता जटामण्डलिनोद्भुताः।। 41.12
खट्वाङ्गयोधिनो वीरा रक्तचर्मसमावृताः।
इमे प्राप्ता गणा योद्धुं महाव्रतिन उत्तमाः।। 41.13
दिग्वाससो मौनिनश्च घण्टाप्रहरणास्तथा।
निराश्रया नाम गणाः समायाता जगद्गुरो।। 41.14
सार्धद्विनेत्राः पद्माक्षाः श्रीवत्साङ्कितवक्षसः।
समायाताः खगारूढा वृषभध्वजिनोऽव्ययाः।। 41.15
महापाशुपता नाम चक्रशूलधरास्तथा।
भैरवो विष्णुना सार्द्धमभेदेनार्चितो हि यैः।। 41.16
इमे मृगोन्द्रवदनाः शूलबाणधनुर्धराः।
गणास्त्वद्रोमसंभूता वीरभद्रपुरोगमाः।। 41.17
एते चान्ये च बहवः शतशोऽथ सहस्रशः।
सहायार्थं तवायाता यथाप्रीत्यादिशस्व तान्।। 41.18
ततोऽभ्येत्य गणाः सर्वे प्रणेमुर्वृषभध्वजम्।
तान् करेणैव भगवान् समाश्वास्योपवेशयत्।। 41.19
महापाशुपतान् दृष्ट्वा समुत्थाय महेश्वरः।
संपरिष्वजताध्यक्षांस्ते प्रणेमुर्महेश्वरम्।। 41.20
ततस्तदद्भुततमं दृष्ट्वा सर्वे गणेश्वराः
सुचिरं विस्मिताक्षाश्च वैलक्ष्यमगमत् परम्।। 41.21
विस्मिताक्षान् गणान् दृष्ट्वा शैलदिर्योगिनां वरः।
प्राह प्रहस्य देवेशं शूलपाणिं गणाधिपम्।। 41.22
विस्मितामी गणा देव सर्व एव महेश्वर।
महापाशुपतानां हि यत् त्वयालिङ्गनं कृतम्।। 41.23
तदेतेषां महादेव स्फुटं त्रैलोक्यविन्दकम्।
रूपं ज्ञानं विवेकं च वदस्व स्वेच्छया विभो।। 41.24
प्रमथाधिपतेर्वाक्यं विदित्वा भूतभावनः।
बभाषे तान् गणान् सर्वान् भावाभावविचारिणः।। 41.25
रुद्र उवाच।।
भवद्भिर्भक्तिसंयुक्तैर्हरो भावेन पूजितः।
अहंकारविमूढैश्च निन्दद्भिर्वैष्णवं पदम्।। 41.26
तेनाज्ञानेन भवतो नादृत्यानुविरोधिताः।
योऽहं स भगवान् विष्णुर्विष्णुर्यः सोऽहमव्ययः।। 41.27
नावयोर्वै विशेषोऽस्ति एका मूर्तिर्द्विधा स्थिता।
तदमीभिर्नरव्याघ्रैर्भक्तिभावयुतैर्गणैः।। 41.28
यथाहं वै परिज्ञातो न भवद्भिस्तथा ध्रुवम्।
येनाहं निन्दितो नित्यं भवद्भिर्मूढबुद्धिभिः।। 41.29
तेन ज्ञानं हि वै नष्टं नातस्त्वालिङ्गिता मया।
इत्येवमुक्ते वचने गणाः प्रोचुर्महेश्वरम्।। 41.30
कथं भवान् यथैक्येन संस्थितोऽस्ति जनार्दनः।
भवान् हि निर्मलः शुद्धः शान्तः शुक्लो निरञ्जनः।। 41.31
स चाप्यञ्जनसंकाशः कथं तेनेह युज्यते।
तेषां वचनमर्थाढ्यं श्रुत्वा जीमूतवाहनः।। 41.32
विहस्य मेघगम्भीरं गणानिदमुवाच ह।
श्रूयतां सर्वमाख्यास्ये स्वयशोवर्द्धनं वचः।। 41.33
न त्वेव योग्या यूयं हि महाज्ञानस्य कर्हिचित्।
अपवादभयाद् गुह्यं भवतां हि प्रकाशये।। 41.34
प्रियध्वमपि चैतेन यन्मच्चित्तास्तु नित्यशः।
एकरूपात्मकं देहं कुरुध्वं यत्नमास्थिताः।। 41.35
पयसा हविषाद्यैश्च स्नापनेन प्रयत्नतः।
चन्दनादिभिरेकाग्रैर्न मे प्रीतिः प्रजायते।। 41.36
यत्नात् क्रकचमादाय छिन्दध्वं मम विग्रहम्।
नरकार्हा भवद्भक्ता रक्षामि स्वयशोऽर्थतः।। 41.37
माऽयं वदिष्यते लोको महान्तमपवादिनम्।
यथा पतन्ति नरके हरभक्तास्तपस्विनः।। 41.38
व्रजन्ति नरकं घोरं इत्येवं परिवादिनः।
अतोऽर्थं न क्षिपाम्यद्य भवतो नरकेऽद्भुते।। 41.39
यन्निन्दध्वं जगन्नाथं पुष्कराक्षं च मन्मयम्।
स चैव भगवान् शर्वः सर्वव्यापी गणेश्वरः।
न तस्य सदृशो लोके विद्यते सचराचरे।
श्वेतमूर्तिः स भगवान् पीतो रक्तोऽञ्जनप्रभः।। 41.40
न तस्य सदृशो लोके विद्यते सचराचरे।
श्वेतमूर्तिः स भगवान् पीतो रक्तोऽञ्जनप्रभः।। 41.41
तस्मात् परतरं लोके नान्यद् धर्म हि विद्यते।
सात्त्विकं राजसं चैव तामसं मिश्रकं तथा।
स एव धत्ते भगवान् सर्वपूज्यः सदाशिवः।। 41.42
शंकरस्य वचः श्रुत्वा शैवाद्या प्रमथोत्तमाः।
प्रत्यूचुर्भगवन् ब्रूहि सदाशिवविशेषणम्।। 41.43
तेषां तद् भाषितं श्रुत्वा प्रमथानामथेश्वरः।
दर्शयामास तद्रूपं सदाशैवं निरञ्जनम्।। 41.44
ततः पश्यन्ति हि गणाः तमीशं वै सहस्रशः।
सहस्रवक्त्रचरणं सहस्त्रभुजमीश्वरम्।। 41.45
दण्डपाणिं सुदुर्दृश्यं लोकैर्व्याप्तं समन्ततः।
दण्डसंस्थाऽस्य दृश्यन्ते देवप्रहरणास्तथा।। 41.46
तत एकमुखं भूयो ददृशुः शंकरं गणाः।
रौद्रैश्च वैष्णवैश्चैव वृतं चिह्नैः सहस्रशः।। 41.47
अर्द्धेन वैष्णववपुरर्द्धेन हरविग्रहः।
खगध्वजं वृषारूढं खगारूढं वृषध्वजम्।। 41.48
यथा यथा त्रिनयनो रूपं धत्ते गुणाग्रणीः।
तथा तथा त्वजायन्त महापाशुपता गणाः।। 41.49
ततोऽभवच्चैकरूपी शंकरो बहुरूपवान्।
द्विरूपश्चाभवद् योगी एकरूपोऽप्यरूपवान्।
क्षणाच्छ्वेतः क्षणाद् रक्तः पीतो नीलः क्षणादपि।। 41.50
मिश्रको वर्णहीनश्च महापाशुपतस्तथा।
क्षणाद् भवति रुद्रेन्द्रः क्षणाच्छंभुः प्रभाकरः।। 41.51
क्षणार्द्धाच्छंकरो विष्णुः क्षणाच्छर्वः पितामहः।
ततस्तदद्भुततमं दृष्ट्वा शैवादयो गणाः।। 41.52
अजानन्त तदैक्येन ब्रह्मविष्ण्वीशभास्करान्।
यदाऽभिन्नममन्यन्त देवेदेवं सदाशिवम्।। 41.53
तदा निर्धूतपापास्ते समजायन्त पार्षदाः।
तेष्वेवं धूतपापेषु अभिन्नेषु हरीश्वरः।। 41.54
प्रीतात्मा विबभौ शंभुः प्रीतियुक्तोऽब्रवीद् वचः।
परितुष्टोऽस्मि वः सर्वे ज्ञानेनानेन सुव्रताः।। 41.55
वृणुध्वं वरमानन्त्यं दास्ये वो मनसेप्सितम्।
ऊचुस्ते देहि भगवन् वरमस्माकमीश्वर।
भिन्नदृष्ट्युद्भवं पापं यत्तद् भ्रंशं प्रयातु नः।। 41.56
पुलस्त्य उवाच।।
बाढमित्यब्रवीच्छर्वश्चक्रे निर्धूतकल्मषान्।
संपरिष्वजताव्यक्तस्तान् सर्वान् गणयूथपान्।। 41.57
इति विभुना प्रणतार्तिहरेण गणपतयो वृषमेघरथेन।
श्रुतिगदितानुगमेनेव मन्दरं गिरिमवतत्य समध्यवसन्तम्।। 41.58
आच्छादितो गिरिवरः प्रमथैर्घनाभै राभाति शुक्लतनुरीश्वरपादजुष्टः।
नीलाजिनातततनुः शरदभ्रवर्णो यद्वद् विभाति बलवान् वृषभो हरस्य।। 41.59
इति श्रीवामनपुराणे एकचत्वारिशोऽध्यायः ।। 41 ।।
</poem>
 
[[वर्गः:वामनपुराणम्]]