"ऋग्वेदः सूक्तं १.१५६" इत्यस्य संस्करणे भेदः

(लघु) ७ अवतरण: rigveda and other pages
No edit summary
पङ्क्तिः १:
{{Rig Veda2|[[ऋग्वेदः मण्डल १]]}}
{{ऋग्वेदः मण्डल १}}
 
<div class="verse">
<pre>
भवा मित्रो न शेव्यो घृतासुतिर्विभूतद्युम्न एवया उ सप्रथाः ।
अधा ते विष्णो विदुषा चिदर्ध्य स्तोमो यज्ञश्च राध्यो हविष्मता ॥१॥
 
यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति ।
यो जातमस्य महतो महि ब्रवत्सेदु श्रवोभिर्युज्यं चिदभ्यसत् ॥२॥
 
तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन ।
आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ॥३॥
 
तमस्य राजा वरुणस्तमश्विना क्रतुं सचन्त मारुतस्य वेधसः ।
दाधार दक्षमुत्तममहर्विदं व्रजं च विष्णुः सखिवाँ अपोर्णुते ॥४॥
 
आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः ।
वेधा अजिन्वत्त्रिषधस्थ आर्यमृतस्य भागे यजमानमाभजत् ॥५॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१५६" इत्यस्माद् प्रतिप्राप्तम्