"तैत्तिरीयारण्यकम्(विस्वर)/प्रपाठकः ३" इत्यस्य संस्करणे भेदः

<span style="font-size: 14pt; line-height: 200%">3.1 अनुवाक १ ॐ चित्तिः स्रुक्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ४८:
3.10 अनुवाक १०
 
देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्यां प्रतिगृह्णामि । राजा त्वा वरुणो नयतु । देवि दक्षिणेऽग्नये हिरण्यम् । तेनामृतत्वमश्याम् । वयो दात्रे । मयो मह्यमस्तु प्रतिग्रहीत्रे । क इदं कस्मा अदात् । कामः कामाय । कामो दाता ( १) । कामः प्रतिग्रहीता । कामꣳ समुद्रमाविश । कामेन त्वा प्रतिगृह्णामि । कामैतत्ते । एषा ते काम दक्षिणा । उत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णातु, इति । सोमाय वासः । रुद्राय गाम् । वरुणायाश्वम् । प्रजापतये पुरुषम् ( २) । मनवे तल्पम् । त्वष्ट्रेऽजाम् । पूष्णेऽ विम् । निर्ऋत्या अश्वतरगर्दभौ । ह्रिमवतोहिमवतो हस्तिनम् । गन्धर्वाप्सराभ्यः स्रगलंकरुणे । विश्वेभ्यो देवेभ्यो धान्यम् । वाचेऽन्नम् । ब्रह्मण ओदनम् । सुमुद्रायापः ( ३) । उत्तानायाऽऽङ्गीरसायानः । वैश्वानराय रथम्, इति । वैश्वानरः प्रत्नथा नाकमारुहत् । दिवः पृष्ठं भन्दमानः समन्मभिः । स पूर्ववज्जनयज्जन्तवे धनम् । समानमज्मा परियाति जागृविः, इति । राजा त्वा वरुणो नयतु देवि दक्षिणे वैश्वानराय रथम् । तेनामृतत्वमश्याम् । वयो दात्रे । मयो मह्यमस्तु प्रतिग्रहीत्रे ( ४) । क इदं कस्मा अदात् । कामः कामाय । कामो दाता । कामः प्रतिग्रहीता । कामꣳ समुद्रमाविश । कामेन त्वा प्रतिगृह्णामि । कामैतत्ते । एषा ते काम दक्षिणा । उत्तानस्त्वाऽऽङ्गीरसः प्रतिगृह्णातु ( ५), इति ।। दाता पुरुषमापः प्रतिग्रहीत्रे नव च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके दशमोऽनुवाकः ।। १० ।।