"ऋग्वेदः सूक्तं १०.१२६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४५:
|}
</poem>
==सायणभाष्यम् ==
' न तम् ' इत्यष्टर्चं चतुर्दशं सूक्तं शिलूषपुत्रस्य कुल्मलबर्हिषस्यार्षं वामदेवपुत्रस्यांहोमुङ्नाम्नो
वा । वैश्वदेवम् । अष्टमी त्रिष्टुप् शिष्टा उपरिष्टाद्बृहत्यः । त्र्यष्टकद्वादशकवत्युपरिष्टाद्बृहती । ' अन्त्य-
श्चेदुपरिष्टाद्बृहती ' ( अनु. ७.४) इति हि तल्लक्षणम् । तथा चानुक्रान्तं- न तं शैलूषः३ कुल्मल-
बर्हिषो३ वामदेव्यो वांहोमुग्वैश्वदेवमुपरिष्टाद्बार्हतमन्त्या त्रिष्टुप् ' इति । गतो विनियोगः ।।
१.हे देवासः देवाः ।। आज्जसेरसुक् ।। तं मर्त्यं मनुष्यम् अंहः पापं दुरितं तत्फलरूपं दुर्गमनं
च न अष्ट न प्राप्नोति ।। अशेश्छान्दसे लुङि 'झलो झलि' इति सिचो लोपः । अडभावश्छान्दसः ।।
अरीन्नियच्छतीति अर्यमा प्रमीतेस्त्रायको देवः अमित्रः पापानां निवारयिता देवः वरुणः । एते त्रयो
देवाः सजोषसः संगताः समानं प्रीयमाणां वा भवन्तः द्विषः द्वेष्ट्रॄन् शत्रूनतिक्रम्य यं स्तोतारं
नयन्ति अभिमतं देशं प्रापयन्ति तं नाष्टेत्यन्वयः ।।
 
२.हिरवधारणे । तद्धि तदेव रक्षणं वयं वृणीमहे प्रार्थयामहे ।। ' सतिशिष्टोऽपि विकरणस्य
स्वरो लसार्वधातुकस्वरं न बाधते ' ( पा. म. ६. १. १५८.११) इति वचनात्तिङ एव स्वरः
शिष्यते । ' हि च ' इति निघातप्रतिषेधः ।। हे वरुण हे मित्र हे अर्यमन् येन रक्षणेन मर्त्यं
स्तोतारम् अंहसः पापात् यूयं निः पाथ निःशेषेण रक्षथ ।। ' पा रक्षणे ' आदादिकः । 'यद्वृत्ता-
न्नित्यम् ' इति निघातप्रतिषेधः ।। येन च रक्षणेन मर्त्यं मनुष्यं स्तोतारं द्विषः अति नेथ अतीत्य
नयथ अभीष्टं प्रापयथ तद्वृणीमह इत्यन्वयः ।। नयतेश्छान्दसः शपो लुक् ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२६" इत्यस्माद् प्रतिप्राप्तम्