"ऋग्वेदः सूक्तं १.१००" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६३:
</pre>
</div>
 
==सायणभाष्यम्==
 
' स यो वृषा ' इति एकोनविंशत्यृचं सप्तमं सूक्तम् । अत्रानुक्रम्यते-' स यो वृषैकोना वार्षागिरा ऋज्राश्वाम्बरीषसहदेवभयमानसुराधसः ' इति । वृषागिरो महाराजस्य पुत्रभूताः ऋज्राश्वादयः पञ्च राजर्षयः सह इदं सूक्तं ददृशुः । अतस्तेऽस्य सूक्तस्य ऋषयः । उक्तं ह्यार्षानुक्रमण्याम्- सूक्तं स यो वृषेत्येतत् पञ्च वार्षागिरा विदुः । नियुक्ता नामधेयैः स्वैरपि चैतत्त्यदित्यृचि ' इति । अनादेशपरिभाषया त्रिष्टुप् । इन्द्रो देवता । दशरात्रस्य षष्ठेऽहनि मरुत्वतीये इदं सूक्तम् । तथा च सूत्रितं-' यं त्वं रथमिन्द स यो वृषेन्द्र मरुत्व इति तिस्र इति मरुत्वतीयम् ' ( आश्व. श्रौ. ८. १) हृति ।।
 
 
 
 
१२.स. इन्द्रः वज्रभृत् अन्यैर्धर्तुमशक्यस्य वज्रस्य भर्ता दस्युहा दस्यूनामुपक्षपयितॄणामसुराणां हन्ता भीमः सर्वेषां भयहेतुः उग्रः उद्गूर्णतेजाः सहस्रचेताः बहुविधज्ञानः सर्वज्ञ इत्यर्थः । शतनीथः बहुस्तुतिर्बहुविधप्रापणो वा ऋभ्वा उरु भासमानो महान् वा चम्रीषो न चम्वा चमसे
रसात्मनावस्थितः सोम इव शवसा बलेन पाञ्चजन्यः । गन्धर्वा अप्सरसो देवा असुरा रक्षांसि पञ्चजनाः । निषादपञ्चमाश्चत्वारो वर्णा वा । तेषु रक्षकत्वेन भवः । एवंभूतः स मरुत्वान् इन्द्रः नः अस्माकं रक्षणाय भवतु । । दस्युहा । ' बहुलं छन्दसि ' इति हन्तेः क्विप् । भीमः । ' ञिभी भये ' । ' भीमादयोऽपादाने ' ( पा. सू. ३. ४. ७४) इति अपादाने ' भियः षुग्वा ' ( उ. सू – १.१४५) इति मक् । शतनीथः । ' णीञ् प्रापणे ' । ' हनिकुषिनीरमिकाशिभ्यः क्थन् ' ( उ सू. २. १५९) इति क्थन्प्रत्ययः । चम्रीषः । ' इष गतौ ' । चम्वामिष्यति गच्छतीति चम्रीषः । इगुपधलक्षणः कप्रत्ययः । वर्णव्यापत्त्या रेफो दीर्घश्च । यद्वा चमेरौणादिक ईषन्प्रत्ययः । पूर्ववत् रेफः । पाञ्चजन्यः । भवार्थे, बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम् ' ( का. ४. ३.५८. १) इति ञ्यप्रत्ययः । ञित्त्वात् आद्युदात्तत्वम् ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१००" इत्यस्माद् प्रतिप्राप्तम्