"ऋग्वेदः सूक्तं १०.१६६" इत्यस्य संस्करणे भेदः

(लघु) ७ अवतरण: rigveda and other pages
No edit summary
पङ्क्तिः १:
{{Rig Veda2|[[ऋग्वेदः मण्डल १०]]}}
<poem>
 
{|
<div class="verse">
|
<pre>
ऋषभं मा समानानां सपत्नानां विषासहिम् ।
हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥१॥
पङ्क्तिः १३:
योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम् ।
अधस्पदान्म उद्वदत मण्डूका इवोदकान्मण्डूका उदकादिव ॥५॥
|
ऋ॒ष॒भं मा॑ समा॒नानां॑ स॒पत्ना॑नां विषास॒हिम् ।
ह॒न्तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा॑म् ॥
अ॒हम॑स्मि सपत्न॒हेन्द्र॑ इ॒वारि॑ष्टो॒ अक्ष॑तः ।
अ॒धः स॒पत्ना॑ मे प॒दोरि॒मे सर्वे॑ अ॒भिष्ठि॑ताः ॥
अत्रै॒व वोऽपि॑ नह्याम्यु॒भे आर्त्नी॑ इव॒ ज्यया॑ ।
वाच॑स्पते॒ नि षे॑धे॒मान्यथा॒ मदध॑रं॒ वदा॑न् ॥
अ॒भि॒भूर॒हमाग॑मं वि॒श्वक॑र्मेण॒ धाम्ना॑ ।
आ व॑श्चि॒त्तमा वो॑ व्र॒तमा वो॒ऽहं समि॑तिं ददे ॥
यो॒ग॒क्षे॒मं व॑ आ॒दाया॒हं भू॑यासमुत्त॒म आ वो॑ मू॒र्धान॑मक्रमीम् ।
अ॒ध॒स्प॒दान्म॒ उद्व॑दत म॒ण्डूका॑ इवोद॒कान्म॒ण्डूका॑ उद॒कादि॑व ॥
|}
</prepoem>
{{ऋग्वेदः मण्डल १०}}
==सायणभाष्यम् ==
' ऋषभम् ' इति पञ्चर्चं पञ्चदशं सूक्तं वैराजस्य शाक्वरस्य वर्षभाख्यस्यार्षं पञ्चमी षडष्टका महापङ्क्तिः । सपत्ननाशनरूपोऽर्थो देवता । तथा चानुक्रान्तम्-' ऋषभमृषभो वैराजः शाकरो वा सपत्नघ्नमानुष्टुभं महापङ्क्त्यन्तम् ' इति; प्रयाणसमये ' ' ' जपेत् । सूत्रितं च--' ऋषभं मा समानानामित्यभिक्रामन् ' ( आश्व. गृ.२.६.१३) इति ।।
 
१.हे सपत्ननाशनाभिमानिन्निन्द्र मां समानानां सदृशानामस्मत्कुलीनानां मध्ये ऋषभम् ऋषभवत्प्रशस्तं कृधि कुरु । तथा सपत्नानां शत्रूणां विषासहिं विशेषेणाभिभवितारं कुरु । येऽस्मत्कुल एव जाता अस्माकमेवानिष्टमाचरन्ति ते सपत्नाः । अपि च शत्रूणाम् अन्येषामपि शातयितॄणां वैरिणां हन्तारं हिंसितारं कृधि कुरु । तथा विराजं विशेषेण राजमानं गोपतिं गोस्वामिनं च मां कुरु । न केवलमेकस्या एव गोः पतिम् अपि तु सर्वासामित्याह गवाम् इति ।।
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६६" इत्यस्माद् प्रतिप्राप्तम्