"ऋग्वेदः सूक्तं ३.१३" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३६:
==सायणभाष्यम् ==
द्वितीयेऽनुवाके सप्तदश सूक्तानि । तत्र ' प्र वो देवाय ' इति सप्तर्चं प्रथमं सूक्तं वैश्वामित्र-ऋषभस्यार्षमग्निदेवताकमानुष्टुभम् । तथा चानुक्रातं - प्र वः सप्त ऋषभस्त्वानुष्टुभम् ' इति । विश्वामित्रपुत्र ऋषभ ऋषिः । मण्डलादिपरिभाषयाग्निर्देवता । अग्निष्टोमे इदं सूक्तमाज्यशस्त्रम् । ' पराङध्वर्यावावृत्ते ' इति खण्डे सूत्रितम्-' प्र वो देवायेत्याज्यमुपसंतनुयात् ' (आश्व. श्रौ. ५.९) इति । इदमेव सूक्तं प्रातरनुवाक आश्विनशस्त्रे च विनियुक्तम् । सूत्रं च-' प्र वो देवायाग्ने कदा त इति पञ्च ' ( आश्व. श्रौ. ४. १३) इति । अभ्युदयेष्टौ ' स यन्ता ' इत्यग्नेः प्रदातुः याज्या । सूत्रितं च-'स यन्ता विप्र एषां दीर्घस्ते अस्त्वंकुशः ' ( आश्व. श्रौ. ३.१३) इति । ।
 
१. यजमानो होत्रादीन्प्रति ब्रूते । हे होत्रादयः वः युष्मत्संबन्धिने देवाय द्योतमानाय अस्मै अस्मिन्कर्मणि स्तुत्याय अग्नये बर्हिष्ठं वृद्धतमं प्रभूतमिदं स्तुतिरूपं स्तोत्रशस्त्रादि वोक्थ्यजातं प्र अर्च उच्चारयत । एवं स्तुतः सः अग्निः देवेभिः यष्टव्यदेवैः सहितः सन् नः अस्मान्प्रति आ गमत् आगच्छतु । आगत्य च यजिष्ठः यष्टृतमः सोऽग्निः बर्हिः अस्माभिर्वेद्यां स्तीर्णे बर्हिषि आ सदत् आसीदतु उपविशतु ।। बर्हिष्ठम् । बर्हितृशब्दात् ' तुश्छन्दसि ' इत्यतिशायने इष्ठन् । अर्च । ' अर्च पूजायाम् ' । भौवादिकः । बहुवचनस्यैकवचनम् । निघातः । गमत् । ' गम्ल गतौ ' । अस्य छन्दसि लुङ्लङ्लिटः ' इति लोडर्थे लुङ् । लृदित्वात् च्लेरङ् । ' नित्यं ङितः ' इतीकारलोपः । पादादित्वान्न निघातः । यजिष्ठः । बहुशब्दात् ' तुश्छन्दसि ' इतीष्ठन् । ' तुरिष्ठेमेयःसु ' इति तृचो लोपः । नित्स्वरः । सदत् । पूर्ववल्लोडर्थे लुङ् । ' षद्लृ विशरणगत्यवसादनेषु ' इत्यस्य लृदित्वादङ् । निघातः ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१३" इत्यस्माद् प्रतिप्राप्तम्