"ऋग्वेदः सूक्तं १०.१६६" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २८:
{{ऋग्वेदः मण्डल १०}}
==सायणभाष्यम् ==
' ऋषभम् ' इति पञ्चर्चं पञ्चदशं सूक्तं वैराजस्य शाक्वरस्य वर्षभाख्यस्यार्षं पञ्चमी षडष्टका महापङ्क्तिः । सपत्ननाशनरूपोऽर्थो देवता । तथा चानुक्रान्तम्-' ऋषभमृषभो वैराजः शाक्वरो वा सपत्नघ्नमानुष्टुभं महापङ्क्त्यन्तम् ' इति; प्रयाणसमये ' ' ' जपेत् । सूत्रितं च--' ऋषभं मा समानानामित्यभिक्रामन् ' ( आश्व. गृ.[https://sa.wikisource.org/s/t6o २.६.१३]) इति ।।
 
१.हे सपत्ननाशनाभिमानिन्निन्द्र मां समानानां सदृशानामस्मत्कुलीनानां मध्ये ऋषभम् ऋषभवत्प्रशस्तं कृधि कुरु । तथा सपत्नानां शत्रूणां विषासहिं विशेषेणाभिभवितारं कुरु । येऽस्मत्कुल एव जाता अस्माकमेवानिष्टमाचरन्ति ते सपत्नाः । अपि च शत्रूणाम् अन्येषामपि शातयितॄणां वैरिणां हन्तारं हिंसितारं कृधि कुरु । तथा विराजं विशेषेण राजमानं गोपतिं गोस्वामिनं च मां कुरु । न केवलमेकस्या एव गोः पतिम् अपि तु सर्वासामित्याह गवाम् इति ।।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६६" इत्यस्माद् प्रतिप्राप्तम्